श्रीरामकृष्णस्तोत्राणि
श्रीरामकृष्णारार्तिकम्१
भवबन्धन भयखण्डन ! शुभवन्दन ! वन्दे ।
गतरञ्जन ! भवभञ्जन ! निहितनयन ! मन्दे ॥
गुणमयवर ! निर्गुणनर ! नवमानवरूपिन् ।
अघदूषण गणमोचन ! जगभूषणरूपिन् ॥
ज्ञानाञ्जन विमलनयन ! वीक्ष्य मोहनाशिन् ।
भास्वरभाव सागरमग्न शशिसुविशदहासिन् ॥
भक्तार्चितचरणयुगल ! भवसागरतारक ।
जृम्भितयुग ! ईश्वर ! जगदीश्वर ! नयकारक ॥
तव कृपया प्राप्तसमाधानमनाः पश्यन् ।
अस्मि कर्मकाठिन्यं करुणाघन ! हृष्यन् ॥
भवतारण-प्राणार्पण ! भयहर ! कलिकृन्तन ।
अतिनिन्दितकरणराग-वञ्चन कामकाञ्चन ॥
त्यागीश्वर ! हे नरवर ! देह पदामोह ।
निर्भय ! गतसंशय ! दृढनिश्चय गतलोह ॥
निष्कारण भक्तशरण ! त्यक्तजातिमान ।
सम्पन्मम तव चरणं भवगोष्पदमान ॥
प्रेमार्पणसमदर्शन ! दुःखमेतु विलयम् ।
तव गानं गतमानं विलसत्वाविलयम् ॥
नमो नमोऽवाङ्मनसगोचर मतिवचनैकाधार ।
ज्योतिर्ज्योतिषोऽपि हृत्कन्दरतमसो वर संहार ॥
धिक् तान् धिक् तान्वदति मृदङ्गो ये न पदं
ते प्रणताः
गायन्त्येते भक्तजनास्ते ह्यारार्तिकं प्रविनताः ॥
जयतु जयत्वार्तिकमेतत् तव शम्भो ! शिव !
हर ! हर !
आनन्देनानूदितमभवत् गानमिदं ते शङ्कर ॥
❀ ❀ ❀
१ वङ्गभाषायां श्रीस्वामिविवेकानन्दविरचितश्रीरामकृष्णारार्तिकस्य न्यायाचार्येण पण्डित – ‘आनन्दझा’ इत्येनेन कृतः संस्कृतनुवादः ।