प्रास्ताविकानि पृष्ठानि

श्रीश्रीरामकृष्णभागवतस्य
नरवतार नरेन्द्र स्वामिजी विवेकानन्द महाराजमुद्दिश्य
उत्सर्ग लिपिरियम्


यो देशेऽत्र तथा विदेशनिवहे श्रीरामकृष्णं गुरुम्
चक्रे गौरवितं जनोत्तर गुणैर्गीतो महीमण्डले ।
यो गेहं परिहाय वीरतरुणः सन्न्यासमाशिश्रिये
सोऽसौ भारत भास्करो विजयते स्वामी विवेकाभिधः॥१॥

गत्वा धर्मसभां विदेशे धरणौ लोकोत्तर व्याख्यया
वेदान्ताश्रित धर्ममसमं प्राचारयद् यः स्फुटम् ।
येनाकृष्टमना विदेश जनता जज्ञे महद् भारतम्
सोऽसौ भारत भास्करो विजयते स्वामी विवेकाभिधः॥२॥

प्रत्यावृत्य ततः स्वदेश धरणौ लोकैः समभ्यर्चितः
सेवाधर्म विभूतये बहुमठान् स्थापयद् यः कृतो ।
शिष्या यस्य निवेदिता प्रविदधे साहाय्यमस्यां कृतौ
सोऽसौ भारत भास्करो विजयते योऽसौ नरेन्द्रः पुरा ॥३॥

श्रीरामकृष्ण वरशक्तिमयाय तस्मै
श्रीरामकृष्ण चरितनिगतं निबन्धम् ।
भक्त्या समुत्सृजति तत् कविरादृताय
रामेन्द्रसुन्दर पदाभिध भक्तितीर्थः ॥४॥