आदिलीला

क्षुदिरामवार्ता तथा गदाधराविर्भावाभासश्च

आदिलीलायां प्रथमोऽध्यायः


सत्यनिष्ठः सदाचारः सत्यवादी सदासुचिः ।
जितक्रोधस्तपस्वी च धार्मिकः प्रियदर्शनः ॥१.१.१॥

भक्तौ साक्षाद्रामदासः श्रीरामचन्द्रसेवकः ।
हरिश्चन्द्रसम्स्त्यागे दाने दैत्यपतिर्यथा ॥१.१.२॥

बुद्ध्या वृहस्पतेस्तुल्य आकाश इव निर्मलः ।
स्वयम्भुसद्दृशः सृष्टौ ज्ञाने देवो महेश्वरः ॥१.१.३॥

श्रीक्षुदिरामनामैको ब्रह्मज्ञो ब्राह्मणोत्तमः ।
स्वभावकुलीनश्चासौच्चट्टोपाध्यायवंशजः ॥१.१.४॥

चन्द्रादेवी तस्य पत्नी सारल्यप्रतिमूर्तिका ।
सहास्यवदना देवी पत्युरेकान्तवल्लभा ॥१.१.५॥

गङ्गायाः पश्चिमे भागे हुगलीप्रदेशसंज्ञके ।
तस्य प्रान्ते देरेग्रामे पितृपैतामहो महान् ॥१.१.६॥

वसतिः क्षुदिरामस्य सम्पत्तिश्चापि विस्तरा ।
आसित्विद्यालयस्तत्र तथा देवालयो महान् ॥१.१.७॥

तत्रत्यभूपत्योऽसौ पापिष्ठो दस्युवृत्तिकः ।
राजद्वाराभियुक्तः स क्षुदिरामं ससम्भ्रमम् ॥१.१.८॥

मिथ्यासाक्ष्यप्रदानार्थं प्रार्थयामास तं स्वयम् ।
प्रत्याख्यातस्तु विप्रेण सत्यनिष्ठाच्युतेर्भयात् ॥१.१.९॥

सर्वस्वान्तः कृतस्तेन क्रोधाग्निदीपितेन सः ।
पत्नीपुत्रयुतस्तस्मातद्गृहादपि बहिष्कृतः ॥१.१.१०॥

केवलं सम्बलं तेषां वस्त्रं परिहितञ्च यत् ।
दिग्भ्रान्तोभग्नहृदयः सर्वस्वान्तो द्विजोत्तमः ॥१.१.११॥

किञ्चिद्दूरं गतश्चासौ मेने शून्यमिदं जगत् ।
दुःखाश्रुधारयाम्याद्रीकृतहृद्वसनो द्विजः ॥१.१.१२॥

हा राम कुत्र यास्यामि स्थास्यामि कुत्र वा वद ।
कुत्र चान्नं गृहं कुत्र प्राप्स्यामि तद्वद प्रभो ॥१.१.१३॥

एवं संक्रन्दतस्तस्य दिव्यज्ञानमभूत्तदा ।
उक्तञ्चात्र हि कस्यापि दोषो नास्ति कथञ्चन ॥१.१.१४॥

न कस्य दुःखदः कोञ्पि सुखदो वा न कञ्चन ?
न तत्र दोषलेषोऽस्ति स्वकर्मफलभुक्त पुमान् ॥१.१.१५॥

अहो ब्रह्मण्यदेवस्य रामस्यानुग्रहो महान् ।
सर्वतो मां परीक्ष्यैव पादपद्मं स दास्यति ॥१.१.१६॥

विषयाविष्टचित्तानां रामचिन्ता सुदुर्लभा ।
तस्माद्मां हतसर्वस्वं कृतवान् भगवान् स्वयम् ॥१.१.१७॥

एवं चिन्तयतस्तस्य भगवान् भक्तभक्तिमान् ।
क्षुदिरामस्य रक्षार्थं वैकुण्ठादपि प्रस्थितः ॥१.१.१८॥

आविर्भुयान्तःकरणे संशुद्धमनसस्तदा ।
दुर्वादलश्यामसमो मा भैरिति तमुक्तवान् ॥१.१.१९॥

परन्तु मत्स्वरूपं ते सत्वरं दर्शयाम्यहम् ।
एवं भगवतोवाक्यं श्रुत्वानन्दाश्रुसंप्लुतः ॥१.१.२०॥

गच्छन् पथि तदापश्यत् पूर्ववन्धुं दयापरम् ।
कामारपुकुरावास श्रीसुखलालसंज्ञकम् ॥१.१.२१॥

गोस्वामिप्रवरं वर्धमानराजगुरुं द्विजे ।
किमिदमित्युक्तवति गोस्वामी विस्मितोऽभवत् ॥१.१.२२॥

परस्परं समालिङ्ग्य कुशलं परिपृच्छ्य च ।
गतसर्वस्वबन्धञ्च ज्ञात्वा गोस्वामी दुःखितः ॥१.१.२३॥

बन्धुकृत्यावकाशोऽयमिति सञ्चिन्त्य धार्मिकः ।
स्त्रीकन्यापुत्रसंयुक्तं क्षुदिरामं ससम्भ्रमम् ॥१.१.२४॥

ससम्मानं गृहं नीत्वा गुरुवत्तमपूजयत् ।
वासगेहादियुक्तञ्च धान्यक्षेत्रं ददौ सुदा ॥१.१.२५॥

कामारपुकुरे ग्रामे तञ्च वासमकारयत् ।
तत्र क्षेत्र श्रीरामामनुग्रहेण च ॥१.१.२६॥

सुसम्पन्ना जीविका च चिन्ताशून्योऽभवत्तथा ।
ततःकर्मानुरोधेन ग्रामान्तरगतो द्विजः ॥१.१.२७॥

प्रत्यागमनवेलायां वृक्षमूलमुपाश्रितः ।
विश्रामसमये वृक्षच्छायायाः शैत्ययोगतः ॥१.१.२८॥

मलयानिलसम्पर्कादिन्द्रियोपरमात्तया ।
तत्क्षणान्निद्रितो भूत्वा ददर्श स्वप्नमुत्तमम् ॥१.१.२९॥

नवदूर्वादलश्यामः श्रीरामो भगवान् स्वयम् ।
धृत्वा बालकवेशन्तु सम्मुखे समुपस्थितः ॥१.१.३०॥

उवाचाहं बहोः कालादनाहारप्रपीडितः ।
स्थानादस्माद् गृहीत्वा मां स्वगृहं भक्तितः ॥१.१.३१॥

त्वत्सेवाग्रहणार्थं मे व्यग्राशा वर्द्धते सदा ।
अद्भूतस्वप्न संदृष्टेः परं निद्रा गता च सः ॥१.१.३२॥

जागरेऽपि तदादेशः कर्णयोः प्रतिनादितः ।
चक्षूपोमार्जनं कृत्वा धान्यक्षेत्रं ददर्श सः ॥१.१.३३॥

स्वप्ने धान्यक्षेत्रमध्ये बालकं दृष्टवान् द्विजः ।
स्वेष्टदेवानुसन्धितृ सः क्षेत्रमध्यं गतस्तदा ॥१.१.३४॥

ददर्श भीषणं सर्पं शालग्रामशिलोपरि ।
स्वफनं विस्तृतं कृत्वा तापहानिं करोति हि ॥१.१.३५॥

शिलादर्शनतः साधुर्भुजङ्गदंशभीतिहत् ।
रामनाम समुच्चार्य द्रुतं तत्र जगाम सः ॥१.१.३६॥

श्रुत्वा सर्पो रामनाम विशेष गर्तमध्यतः ।
विवरप्रान्तदेशस्यां शालग्रामशिलां ततः ॥१.१.३७॥

आनीय लक्षणै ज्ञात्वा रघुवीरशिलेति ताम् ।
रघुवीर जयेत्युक्ता ब्रह्मानन्दपरिप्लुतः ॥१.१.३८॥

शिलां स्वदगेहे संस्थाप्याभिषेकं यत्नतोव्यधात् ।
तदारभ्य ब्राह्मण्स्यालयः सर्वसमृद्धिमान् ॥१.१.३९॥

रघुवीरस्य सान्निध्याद्रमाक्रीदडो ह्यभूत्तदा ।
दरिद्राणामतिथोनामाशयः सुमहानभूत् ॥१.१.४०॥

भोक्ष्यभोज्यप्रदानाञ्च रघुवीरप्रसादृतः ।
गोधूमचूर्णपिष्टादि सूपान्नं पायसान्तिकम् ॥१.१.४१॥

गन्धपुष्पादि द्रव्यञ्च भोग्यद्रव्यं विशेषतः ।
रघुवीरस्य सेवायां चन्द्रादेवी सुसंयुता ॥१.१.४२॥

कृत्वा सर्वं सुसम्पन्नं रघुवीरस्य सम्मुखे ।
प्रददौ तत् समादार्यमेकान्तमनसा सदा ॥१.१.४३॥

कर्मान्तरं परित्यज्य सेवायां केवला रतिः ।
कामारपुकुरे विप्रः सर्वेषां भक्तिभाजनम् ॥१.१.४४॥

तपोबलसमायुक्तो महर्षिरिव पूजितः ।
बभूव तद्गेहकृत्यसाधिका सहधर्मिणी ॥१.१.४५॥

देवी चन्द्रमुखी चन्द्रा सर्वेषां मातृरूपिणी ।
प्रसादीयं स्वकीयान्नं दत्वा चातिथये मुदा ॥१.१.४६॥

उपवासं स्वयं कृत्वा परमानन्दमा सा ।
अत्रागमनवेलायां ज्येष्ठो रामकुमारकः ॥१.१.४७॥

दशवर्षवयाः पुत्रः कन्या कात्यायनी तथा ।
द्विवर्षसम्मिता सा तु कात्यायनीव सुन्दरी ॥१.१.४८॥

एवं पुत्रपत्नीकन्यायुतस्तत्रावसद्द्विजः ।
दिग्वर्षे तु गते तत्र पुनः पुत्रो व्यजायत ॥१.१.४९॥

श्रीरामेश्वर इत्येव तन्नाम व्यदधादसौ ।
प्राप्तद्वादशवर्षायाः कन्याया व्याधिकारणात् ॥१.१.५०॥

भावान्तरप्रकाशाच्च क्षुदिरामो व्यचिन्तयत् ।
रोगलक्षनविद्भिस्तु नान्यरोगो विलक्षितः ॥१.१.५१॥

कन्याया हृत्पद्ममध्ये प्रेतावासः सुनिश्चितः ।
वैद्यासाध्यं सुविज्ञाय रघुवीरं समाश्रितः ॥१.१.५२॥

रघुवीरस्य पादाब्जं ध्यात्वैकमनसा द्विजः ।
उवाच प्रेतमुद्दिश्य याहि त्वमविलम्बतः ॥१.१.५३॥

कन्यादेहं परित्यज्य रघुवीरस्य शासनात् ।
कन्यामुखेन प्रेतात्मा वाष्प गद्गदया गिरा ॥१.१.५४॥

उवाच क्षुदिरामन्तु यास्याम्येव न संशयः ।
किन्तु मत्प्रार्थनामेकां पूरय त्वं द्विजोत्तम ॥१.१.५५॥

नारकीं मां नरश्रेष्ठ नरकादुद्धर प्रभो ।
गयापिण्डप्रदानेन प्रेतत्वं मम मोचय ॥१.१.५६॥

भवतः पादमूले मे भिक्षेयं ब्राह्मणोत्तम ।
प्रेतस्य प्रार्थनां श्रुत्वा क्षुदिरामस्तु सम्मतः ॥१.१.५७॥

प्रेतमाह सत्वरं ते गयापिण्डं ददाम्यहम् ।
क्षुदिरामस्य तद्वाक्यं श्रुत्वा प्रेतोऽतिहर्षितः ॥१.१.५८॥

कन्याञ्च संपरित्यज्य स्वस्थानमगमत्तदा ।
तदा तीर्थगतेः क्लेशसाध्यत्वेऽपि हि स द्विजः ॥१.१.५९॥

प्रेतप्रतिश्रुतिंस्मृत्वा गयायात्रां, चहकार ह ।
यथाकालं गयाधाम्नि प्रेतमुद्दिश्य यत्रतः ॥१.१.६०॥

पिण्डदानं कृतं तेन गदाधरपदाब्ज्योः ।
ततः स्वपितृकृत्यन्तु कृतवान् सुमहामतिः ॥१.१.६१॥

पिण्डान् पितृमातृवन्धुस्वजनेभ्योऽपिदत्तवान् ।
यस्मिन्नहनि क्षेत्रस्य कृत्यं सम्पूर्णताङ्गतम् ॥१.१.६२॥

तन्निशयां गयाधाम्नि दृष्टवान् स्वप्नमुत्तमम् ।
दिव्यमूर्तिधराः सर्वे स्वपूर्वपुरुषाश्च ये ॥१.१.६३॥

दिव्यज्योतिः समाच्छन्नाः श्रीगदाधरमन्दिरे ।
तज्ज्योतिर्मध्य आसीनो नवदूर्वादलद्युतिः ॥१.१.६४॥

सिंहासने समारूढः सुप्रसन्नोऽवदच्च सः ।
प्रियभक्त गृहं गत्वा तत्र मां संविभावय ॥१.१.६५॥

तवैवपुत्ररुपेणावररिष्यामि सत्त्वरम् ।
गतनिद्रोऽपि स स्वप्नो नेत्रयोरग्रतः स्थितः ॥१.१.६६॥

तदाबहुक्षण यावन्नेयत्रयोरश्रु विन्दवः ।
पतितास्तस्य रोमाञ्च स्वेदाद्यैः स परिप्लुतः ॥१.१.६७॥

आनन्दमाप्लवे लीनो गयातो गृहमागत्ः ।
सुस्वप्नस्तत्र यो दृष्टो न कस्यापि प्रकाशितः ॥१.१.६८॥

चन्द्रादेव्यापि तत्काले दिव्यदर्शनविस्मिता ।
पञ्चचत्वारिंशद्वर्षे पत्न्या गर्भोऽभवत् पुनः ॥१.१.६९॥

ज्ञातवान् क्षुदिरामस्तु बाह्यलक्षणतस्तया ।
स्मृत्वा स्मृत्वा पुनः स्मृत्वा पुराण पुरुषस्य च ॥१.१.७०॥

आविर्भाव सुनिश्चित्य परमानन्द संप्लुतः ।
काहं मन्दमतिः क्षुद्रः क तवेयं दया प्रभो ॥१.१.७१॥

मामुद्दिश्यावतारोऽयं सशैलवनपादपा ।
पवित्रयति भगवान् समग्रावसुन्धराम् ॥१.१.७२॥

नमस्तुभ्यं नमस्तुभ्यं पुनस्तुभ्यं नमो नमः ।
तदेवापूर्वलीलेयं रघुवीर दयानीधे ॥१.१.७३॥

वभूवात्यद्भुतं दृश्यं ज्योत्स्नायुक्ताप्यमा तदा ।
तत्र् गन्धर्वनागाश्च सिद्धाय पारमपर्यः ॥१.१.७४॥

यातायातं प्रकुर्वन्ति ब्रह्मपञ्चाननादयः ।
निशागमनतस्तेषां गात्रकान्त्या गृहं मम ॥१.१.७५॥

भवत्यालोकितं सर्व कोटिचन्द्रकरैरिव ।
एवं चिन्तयति पत्नी क्षुधिरामस्य धीमतः ॥१.१.७६॥

अपूर्वरूपलावण्या चन्द्रा चन्द्रसमाभवत् ।
सर्वास्तुनार्यः यां दृष्ट्वा चमत्कारर्युताभवन् ॥१.१.७७॥

चन्द्रादेव्यपि ताः प्राह कथं मेऽप्ञ्र्वगोचराः ।
नानामूर्तिधरा देवा गृहमायान्ति यान्ति च ॥१.१.७८॥

मूर्तिमतां देवतानां स्वरूपं वा कदाचन ।
न प्रत्यक्षोकृतञ्चैवं बहुगर्भाधृता मया ॥१.१.७९॥

दिवसे वा निशायां वा सर्वदा भयशङ्किता ।
ततः स्वामी सकाशे सा देववार्ता व्यचीकशत् ॥१.१.८०॥

प्रोक्तञ्च किमिदं स्वामिन् भूतैरेव कृतमनः ।
न केवलं प्रपश्यामि वार्तामपि शृणोम्यहम् ॥१.१.८१॥

तेषां दिव्यसुगन्धेन पूर्णक्षुद्रगृहं मम ।
किं ममेदं रोगचिह्नमथवा प्रेतदर्शनात् ॥१.१.८२॥

विकारो जायते नित्यं वद त्वं भीतिनाशकम् ।
श्रुत्वैवं पत्नीवाक्यन्तु मनसैवं प्रजल्पितम् ॥१.१.८३॥

स्वीयां वाचमृतां कर्तुमवतीर्णोऽसि मे गृहे ।
जनार्दनः स्वयं रूपः श्रीहरिस्तवं गदाधरः ॥१.१.८४॥

यान्येव स्वामिरूपाणि रुपाणि भगवास्तव ।
तानि तानि दधास्येव स्वभक्तानामरुपिणः ॥१.१.८५॥

त्वां ज्ञानिभिस्तत्त्वविबोधनार्थे सदाभिवादार्हणपादपद्यम् ।
ऐश्वर्य वैराग्य यशोञ्वबोध वीर्यादिभिः पूर्णमहं प्रपद्ये ॥१.१.८६॥

एवं गोप्तुं न शक्नोऽभूद्र्घुवीरं स्मरन् द्विजः ।
उवाच स्वप्नवृत्तान्तगयायां दृष्टवान् यया ॥१.१.८७॥

प्राणेभ्योऽपि प्रियतरां भक्ति गद्गदयागिरा ।
त्वं देवि परमा धन्या साध्वी त्वं पतिवल्लभा ॥१.१.८८॥

कृतानि यानि पुण्यानि कोटि जन्मसु वै त्वया ।
तत् पुण्यफल दानार्थं त्वत् कुक्षिमध्यगोहरिः ॥१.१.८९॥

रघुवीरो हि यः साक्षात् यश साक्षाद् गदाधरः ।
कृपया त्वद् गर्भमध्ये तावुभावेकताङ्गती ॥१.१.९०॥

अतो देवाः सगन्धर्वा भक्ता राजर्षयस्तथा ।
यातायातं प्रकुर्वन्ति वैकुण्ठपति दृष्टये ॥१.१.९१॥

अतस्त्वमवधानेन गर्भरक्षां कुरुष्व वै ।
न चिन्ता नापि शङ्का च रघुवीर प्रसादतः ॥१.१.९२॥

चन्द्रादेवी पतिप्राणा पतिवाक्येन यन्त्रिता ।
भावावेश वशाद्देवो स्वात्मानं विस्मरत्यसौ ॥१.१.९३॥

सर्वानन्द प्रदं देयं स्वामिनं कुलदैवतम् ।
रघुवीरं समुद्दिश्य पुतां वाणीमुवाच ह ॥१.१.९४॥

किमेष वद भो स्वामिन् जगन्मङ्गल हेतवे ।
पुराण पुरुषः साक्षात् प्रादुर्भूय ममोदरे ॥१.१.९५॥

त्वाञ्च माञ्च जगत् मञ्चं स्थावरं जङ्गमं तथा ।
पवित्रयति देवेशो भगवान् पुरुषोत्तमः ॥१.१.९६॥

क्षुद्रेऽस्मिन्नुटजे मे स कृपयावतरिष्यति ।
धन्यः श्रीरघुवीरत्वमपारकरुणा तव ॥१.१.६७॥

कश्यपादितिरूपौ ता वभुवावप्यच्युत प्रियौ ।
प्रतीक्ष्य भगवज्जन्म दम्पतौ मुदमापतुः ॥१.१.९८॥

इति श्रीरामेन्द्रसुन्दर भक्तितीर्थविरचिते श्रीश्रीरामकृष्ण भागवते पारमहंस्यां संहितायां गदाधरस्याविभार्वाभासरूपः प्रथमोऽध्यायः ॥१॥