आदिलीला
गदाधरस्य बाल्यलीलावर्णनम्
आदिलीलायां द्वितीयोऽध्यायः
ऋतोर्हिमा स्वस्य यदाहि पूर्णता
माधुर्ययुक्ता मधुना सुसिक्ता ।
आम्रादि वृक्षा मुकुलान्विताश्च
प्रपान मत्ता इव मत्तभृङ्गाः ॥१.२.१॥
सदा सदानन्दमया महोत्सवाः
पतत्रि संधा मधुरं रुवन्तः ।
ये केचन स्थावरजङ्गमाय
प्रोल्लासितास्ते मधुभावमाप्ता ॥१.२.२॥
मधुर मधुर मूर्तिः सर्वदुःखापहारी
भवजलधिसुपोतो भानुकोटिप्रकाशः ।
जलधिशर स्मुद्रे चन्द्र पूर्वे शकाब्दे
रसमित बुधवारे शुक्लपक्षे तपस्ये ॥१.२.३॥
द्वितीयायां सिद्धियोगे चाविर्भूत स्वयं
हरि ।
क्षुदिराम गृहे साक्षाद् भगवान् धर्मगुप् विभुः ॥१.२.४॥
चन्द्रादेवी निशा शेषे प्रसूयास्चर्य
बालकम् ।
पतिमाहूय सा साध्वी पुत्रं तं समदर्शयत् ॥१.२.५॥
पुष्कलेन्दुर्यथा भाति प्राच्या राकातिथौ
निशि ।
आविरासित्तथा देवो भगवान् भक्त वत्सलम् ॥१.२.६॥
तमद्भूत पद्मदलायते क्षनम्
हास्याननं चारु विशाल वक्षस् ।
श्रीवत्स चिन्ह गल कौस्तुभान्वित
पीताम्बर सान्द्र पयोद सौभगम् ॥१.२.७॥
महामनि व्यूह किरीट कुण्डल
त्विषा परिव्याप्त सहस्र कुण्डलम् ।
भुजैश्चतुर्भिः सुविराजितं प्रभुम्
धृताब्ज शङ्खादि लसन्निजायुधम् ॥१.२.८॥
दृष्ट्वा तदा तं सहसा हरिं सुतं
नमाम विप्रः प्रणतः कृताञ्जलिः ।
तद्रोचिषा तत्र निशापतिर्यथा
सहस्र्कान्त्येव विराजितः स्वयम् ॥१.२.९॥
स वै द्विजस्तस्य हि रूप दर्शनात्
विज्ञानजानन्दमावाप् तत्क्षणात् ।
मायामयाहङ्करणादि बन्धनात्
सद्योविमुक्तो भगवत् समोक्षणात् ॥१.२.१०॥
सर्वेग्रहास्तत्र सुदक्षिणाय
कालश्च लग्नश्च सुदक्षिणस्तथा ।
नक्षत्रवारौ तिथि शुभ पक्षौ
तथानुकूलौ शुभ योग युक्तौ ॥१.२.११॥
दृष्ट्वा श्रीभगवानाह विस्मितं पितरं तथा ।
भवन्तौ पितरावास्तां द्वापरे मम जन्मनि ॥१.२.१२॥
नाम्नानक दुन्दुभिस्त्वं देवकी गर्भधारिणी
।
युवाभ्यान्तु पुनर्जातः प्राग्जन्म स्मरणादहम् ॥१.२.१३॥
पूर्णब्रह्म स्वरूपेण भवद्भ्यां ब्रह्म
जन्मना ।
कलेर्जीवान् परित्रातुं धर्मसरक्षनाय च ॥१.२.१४॥
इत्यमुक्त्वा स भगवांस्तुष्णीमासीत्
स्वमायया ।
पश्यतोस्तत्क्षणात् पित्रो वभूव शिशुः ॥१.२.१५॥
किन्तु दृग्गोचरत्वागाच्छिशोस्तौ पितरौ
तदा ।
हाहेति संरुवन्तौ तौ हतचित्तौ बवभूवतु ॥१.२.१६॥
निखिलजन शरण्यो लोकदुखापहारी
न भवति खलु वासो लोकवन्मेऽत्र सत्यम् ।
निजभवन विशून्यं कारयित्वा विरास
इति गिरिश शरीरालङ्घति स्वीचकार ॥१.२.१७॥
चुल्लिकाभ्यन्तरात्धन्या धात्र्या स
सुवहिष्कृतः ।
विभूत्या लिप्तसर्वाङ्गं बालकं हृदिसंस्थितम् ॥१.२.१८॥
कृत्वा तौ दर्शयामास धनी धात्री महाधनम् ।
एवं स्वाभिर्भावकाले न्यासिनां परमागतिः ॥१.२.१९॥
लीलातनुः स भगवांस्त्यागलीलामदर्शयत् ।
ततः शिशोर्जातकर्म चकार कर्मवित् पिता ॥१.२.१०॥
गयायाः स्वप्नवृतान्तं क्षुदिरामोऽपि
संस्मरन् ।
गदाधरेति तन्नामकृतवान् बालकस्य हि ॥१.२.२१॥
यदा गदाधरो जातस्तद्दिनावधि नो गृहम् ।
धनधान्येन सम्पूर्णं लक्षितं सुविशेषतः ॥१.२.२२॥
मन्ये गदाधरः साक्षात् कृपयास्मद् गृहागतः
।
इत्यं पितुः सकाशे सोऽवद्राम कुमारकः ॥१.२.२३॥
श्रुत्वैवं क्षुदिरामस्तु पुत्रं प्रोवाच
तत्क्षणात् ।
नैतत् परस्ना आख्येयं तेनाभद्रं भविष्यति ॥१.२.२४॥
बालस्य तल्पगमेकं सुदीर्घपुरुषं क्वचित् ।
दृष्ट्वा तारस्वरैर्युक्ता चन्द्रा भीति समाकुला ॥१.२.२५॥
गृहाद्वहिर्षिनिष्क्रान्ता स्वामिनमवदत्
सती ।
पत्न्यासह गृहं गत्वा शय्यायां केवलं सुतम् ॥१.२.२६॥
निद्रितं वीक्ष्य तामाह भयं किञ्चिन्न
विद्यते ।
एवमद्भूत दृश्यं हि नित्यञ्चात्र न नूतनम् ॥१.२.२७॥
अप्रकाश्यमिदं देवि देवगुह्यं सुसंवृतम् ।
भयं मा कुरु देवि त्वं बह्वेवं दृश्यते मया ॥१.२.२८॥
तथापि माता पुत्रस्य प्रेतागमन शङ्कया ।
शीघ्रमानय भो स्वामिन् गुनिनं भूतघातकम् ॥१.२.२९॥
इति गिरा मधुर्यो वाच देवीं द्विजोत्तमः ।
उक्तञ्चात्र कथं देवि भूत शङ्का प्रवर्तते ॥१.२.३०॥
यन्नाम स्मरणात् सर्वे भूतप्रेत पिशचकाः ।
विद्रवन्ति भयार्ता वै विष्णुपक्षैरिवासुराः ॥१.२.३१॥
मृत्योरप्यन्तकोयत्र साक्षाद्रघुवरः
प्रभुः ।
तदङ्घ्रि कमलं देवि सर्वापद्विनिवारकम् ॥१.२.३२॥
रघुवीरस्य सेवैव सर्वशान्ति फलप्रसूः ।
अन्यस्मै न समाख्येयं भ्रमाद्वापि कथञ्चन ॥१.२.३३॥
इत्युवाच पतिः पत्नीं सान्तयित्वा
द्विजोत्तमः ।
ततः कालो गतस्तत्र पञ्चमासात्मकं शुभम् ॥१.२.३४॥
षान्मासिकस्य बालस्य रिङ्गनमत्यलौकिकम् ।
अकस्मादुदितश्चासीद् यस्य तस्य गृहाङ्गने ॥१.२.३५॥
कलभाषण पूर्वन्तहस्तमुत्तोल्य संस्थितः ।
अद्भूतागमनं तस्य दृष्ट्वा नारी सुविस्मिता ॥१.२.३६॥
पादमित क्रोशवाटं लङ्धयित्वा गतः कथम् ।
बालकं क्रोडमारोप्य चुम्बनादि सुतोषितम् ॥१.२.३७॥
सुमिष्ट लड्डुकं दत्वा चन्द्राया गृहमागता
।
कर्मान्तरे नियुक्ता सा बालस्य दृक्विधां गतिम् ॥१.२.३८॥
ज्ञातुं न शक्ता श्रुत्वैवाश्चर्य युक्ता
तदाभवत ।
तयोक्तं बन्धनं कृत्वा सुतं रक्ष गृहे तव ॥१.२.३९॥
तद्गतिर्नाथरुडाच बन्धनेऽपि कृते शिशो ।
न चान्तर्नबहिर्यस्य तस्य किं बन्धनं भवेत् ॥१.२.४०॥
प्रागाविर्भावतस्तस्य सर्वालौकिक भावतः ।
पुत्रं प्रति सदा पित्रोर्भगवद्भाव दर्शनात् ॥१.२.४१॥
गदाधरस्यातिशिशोर्घनानन्द स्वरूपतः ।
तद् ग्रामवासि लोकानामसौ प्रियतरोऽभवत् ॥१.२.४२॥
अपराह्ने ग्रामवासि नरनारी समागमात् ।
तीर्थतुल्यं गृहञ्चाभूद्रघुवीर प्रसादतः ॥१.२.४३॥
पुत्रस्यान्नप्राशनार्थं क्षुदिरामस्य
धीमतः ।
चिन्ता सुमहती जाता ग्रामस्यामन्त्रणाय वै ॥१.२.४४॥
ग्राम्यानां भोज्यदानार्थं तादृगर्थो न
विद्यते ।
प्रार्थनापुरणं तेषां रघुवीर कुरुष्व भो ॥१.२.४५॥
एवं चिन्तयतस्तस्य बन्धु प्रवर आगतः ।
प्रेरितो रघुवीरेण भक्ताभिष्ट प्रपूरणात् ॥१.२.४६॥
लाहावंशावत्सः स धर्मदासाभिधो महान् ।
सर्वत्र सदनुष्ठाने सहाय चातिधार्मिकः ॥१.२.४७॥
राजतुल्यः सुविख्यातो देवब्राह्मणसेवकः ।
गुणग्राही गुणी मानी धनी सर्वजनादृतः ॥१.२.४८॥
श्रुत्वा बन्धु सुतस्यान्नप्राशनं
सत्त्वरं भवेत् ।
भोज्यायं ग्राम वास्तव्य जनानां प्रार्थनामपि ॥१.२.४९॥
ज्ञात्वा पुनर्गृहं गत्वा द्रव्य सम्भारकं
बहु ।
गृहीत्वैव गृहे बन्धोशरणेषु समार्पयत् ॥१.२.५०॥
अयाचिता दत्तं ग्राह्यं द्रव्यं
शास्त्रप्रमाणतः ।
अतस्तद्रव्य सम्भारो गृहीतस्तेन सादरम् ॥१.२.५१॥
कुलाचारवसात् पित्रा तद्दिने बालकस्य च ।
श्रीमद्गदाधर इति प्रदत्तं पूर्व नाम च ॥१.२.५२॥
अधिवासादिकं कृत्वा पितृदेवार्चनादिकम् ।
समाप्य विधिवद् विप्रो रघुवीरं समार्चयत् ॥१.२.५३॥
तद्दिने रघुवीरस्य पूजाद्रव्यं विशेषतः ।
नाना व्यञ्जन संयुक्तं सुपान्नं पायसान्तिकम् ॥१.२.५४॥
निवेद्य रघुवीराय तत् प्रसादेन स द्विजः ।
पुत्रस्यान्नाशनं दत्वा मोदमानः स्वबन्धुभिः ॥१.२.५५॥
दत्वा बन्धोर्धन्यवादं पुत्रपत्नी युतञ्च
तं ।
प्रसादं प्रापयामास स्वकुटुम्बं तथा द्विजः ॥१.२.५६॥
अहर्निशं भोजनञ्च स्वपरग्रामवासिनां ।
समाप्य कृत कृत्योऽभूद्ब्राह्मणः सह भार्यकः ॥१.२.५७॥
सरस्वत्युदिता ह्यासीदन्न प्राशनतः परम् ।
कृतं वाक्योच्चारणन्तु मात्रक्रोडस्थितेन वै ॥१.२.५८॥
देवदेवोस्तव ध्यान नमस्कारादिकञ्च यत् ।
पठितं मातृदेव्या तत् पठितं बालकेन तु ॥१.२.५९॥
द्वित्रवर्षाभ्यन्तरे तु
पुराणाख्यानमुत्तमम् ।
श्रुतिमात्रेण चाभ्यस्तमाग्रहातिशयेन च ॥१.२.६०॥
अङ्कसङ्ख्यादि शास्त्रादेरभ्यासं
विषवज्जहौ
।
कदापि न श्रुणोत्येव ग्राम्यवार्तां गदाधरः ॥१.२.६१॥
चतुःपञ्चवर्षमित् गदाधर सुखात्त्दा ।
देवभाषायुतं स्तोत्रं श्रुत्वा सर्वे सुविस्मिताः ॥१.२.६२॥
ततः पञ्चम वर्षे च बालस्य विधिवद्द्विजः ।
विद्यारम्भं कार्यित्वा पाठागारे तमार्पयत् ॥१.२.६३॥
तत्र तुल्यवयोपेतान् बालकान् प्राप्य
बालकः ।
विद्यार्थिनः शिक्षका य माधुर्य गुण तोषितः ॥१.२.६४॥
लीला प्रेमा सत्यनिष्ठा दयातुर जनेषु च ।
समता सर्वभूतेषु गुणाः पञ्च गदाधरे ॥१.२.६५॥
अस्ति भाति प्रियाणामञ्च स्वरूपं
श्रीगदाधरः ।
निर्भीकः साहसी सत्यवादी धर्मरतः शुचिः ॥१.२.६६॥
न विभातुं गुणास्तस्य शक्या ब्रह्मशिवादयः
।
परेषामुपकारार्थं स्वप्राणानपि यच्छति ॥१.२.६७॥
भावाविष्टः सुकुमार एवं वदति सन्ततम् ।
नाहं कुमारः पौगण्डो न किशोरो युवापि वा ॥१.२.६८॥
सर्वथा सुसमर्थोऽस्मि सर्वं कर्तुमसंशयम् ।
दुःख इर्षभौअक्रोध लोभ मोहमदादयः ॥१.२.६९॥
अज्ञानलिङ्गान्येतानि कुतः सन्ति
चिदात्मनि ।
ज्ञानानन्दस्वरूपोऽहं सर्वं जानामि सन्ततम् ॥१.२.७०॥
तद्ग्राम सन्निधावस्ति काचिदुद्यान वाटिका
।
तत्र् प्रेतनिवासाद्धि नैकलः कोऽपि गच्छति ॥१.२.७१॥
तत्र गदाधरः क्रीडां करोति बन्धुभिः सह ।
रात्रावप्येकलो याति भूतदर्शन हेतवे ॥१.२.७२॥
पितृस्वसृरमादेव्या शीतलावेशतस्तदा ।
दृष्ट्वा तद्विकृतावस्थां प्रार्थनामकरोच्च सः ॥१.२.७३॥
मम मूर्द्ध्नि हि सा माता शीतला प्रविशेद्
यदि ।
तदा पूर्णसुखी भूत्वा नृत्यामि च पुनः पुनः ॥१.२.७४॥
एवं बहुविधं तस्य साहसं परिलक्षितम् ।
ग्रामवासिभिरत्यन्तं तथा स्वजनबान्धवैः ॥१.२.७५॥
वृहद्विद्यालयस्तत्र भूस्वामिनो
गृहान्तिके ।
पाठार्थमासीद्बालानां बह्वासन विभूषितः ॥१.२.७६॥
एकदा पाठशालायामागतो राजपुरुषः ।
छात्रानां सुपरीक्षार्थं दातुञ्च पारितोषिकम् ॥१.२.७७॥
गुरुशिष्यादयस्तत्र लोकसङ्ख्याः सहस्रशः ।
नानाग्रामगताश्छात्राः परीक्षादान हेतवे ॥१.२.७८॥
क्रम पर्यायतस्तेषं परीक्षा ग्रहणे कृते ।
पर्यायेनागतस्तत्र बालकः श्रीगदाधरः ॥१.२.७९॥
सराजपुरुषस्तन्तु दृष्ट्वा स्नेहपरिप्लुतः
।
सुस्निग्धं बालकं रम्यमाकृत्या विनयेन च ॥१.२.८०॥
पप्रच्छ कथ्यतां तद्धि यदधीनं गुरोस्त्वया
।
विद्याभास विधी यत्नं कूरुष्व भो गदाधर ॥१.२.८१॥
त्वत् पिता पण्डितो मानी सोदर्याचापि
पण्डिता ।
सुखं नास्ति धनं नास्ति विद्याहीनजनस्य हि ॥१.२.८२॥
गदाधरेण सोऽप्युक्तो निर्भयेनान्तरात्मना ।
तां शिक्षां साधु नो मन्ये भवद्भिः शिक्षिता च या ॥१.२.८३॥
विषय विषलिप्ताभिर्विद्याभिः किं
प्रयोजनम् ।
परवञ्चन हेतुर्या विद्या सर्वत्र गर्हिता ॥१.२.८४॥
तां शिक्षां न करिष्यामि यत्फलं कदलीफलम् ।
इह चात्मोपतापाय प्रेत्य वै नरकाय च ॥१.२.८५॥
ययैव विद्यया जीवोऽमृतमश्नाति नित्यशः ।
सैव विद्या स धर्मञ्च सा शान्तिः सा परा गतिः ॥१.२.८६॥
वेदैरप्येवमुक्तन्तु त्यागेनामृतमश्नुते ।
धनेनाधमतां याति स्नेहबान् दह्यतेऽनिशम् ॥१.२.८७॥
अतः स्नेहं परित्यज्य पुत्रद्वारगृहादिषु ।
तत्त्यागे मतिमाधत्त यदि कल्याणमिच्छथ ॥१.२.८८॥
भवद्भिर्लिख्यतां द्वारि जाम्बुनदरसेन वै ।
इयमष्टाक्षरी भाषा सा विद्या तन्मतिर्यया ॥१.२.८९॥
किमनेन बहूक्तेन सुष्ठु जानीत पण्डिताः ।
विद्यालाभस्य मूलं हि भगवच्चरणार्चनम् ॥१.२.९०॥
श्रुत्वा वेदान्तवेद्यन्ताद्वचो
वाचामगोचरम् ।
बाल सुखाद्विनिष्क्रान्तं किमेतन्नावबुध्यते ॥१.२.९१॥
किमसौ भगवान् बिष्णु रुद्रोवा ज्ञानिनां
वरः ।
किम्वा चतुर्म्मुखः साक्षाद्वेदस्मर्ता पितामहः ॥१.२.९२॥
एवं संवदतां तेषां मध्ये साक्षाद् गदाधरः ।
स्वरूपं दर्शयमास नवदुर्वादल द्युति ॥१.२.९३॥
शङ्खचक्र गदापद्म हेमाम्बर विभूषितः ।
पादाङ्गुष्ठाद्विनिष्क्रान्ता गङ्गा हिमवतः सुता ॥१.२.९४॥
नुपुरौ विमलौ भान्तौ सशब्दौ चरणाब्धयोः ।
चन्दन तुलसीगन्धं कोटि चन्द्र नखद्युतिम् ॥१.२.९५॥
दृष्टैव भगवद्रूपं परमानन्द निवृताः ।
प्रणम्य भक्तिभावेन तुष्टुवुस्तं जना मुदा ॥१.२.९६॥
देव देव जगन्नाथ पुराण पुरुषोत्तम ।
त्रातुं घोरान् कलेर्जीवानवतीर्णोऽसि मायया ॥१.२.९७॥
मादृशैर्ज्ञानभक्तिभ्यां विहिनैः
पुरुषाधमैः ।
यत् प्रत्यक्षौ कृतं रूपं त्वत् कृपैव हि केवलम् ॥१.२.९८॥
एवं स्तुवद्भिस्तत्रस्थैः प्राग् दृष्टो
यो गदाधरः ।
स एव पुरतो भाति परीक्षार्थी क्षणेन हि ॥१.२.९९॥
अपूर्वेयं हरेर्माया यां न जानन्ति योगिनः
।
एवमुक्ता ततः सर्वे स्वं स्वं धाम ययुर्मुदा ॥१.२.१००॥
रीतिरासीत्तदानीं वै बालकानामियं ध्रूवा ।
तृण निर्मित पात्रेषु केचिद्वस्त्राञ्चलेषु च ॥१.२.१०१॥
नीत्वा भृष्ट तण्डुलांश्च बालाश्चानन्द
संप्लुताः ।
ग्रामाद् ग्रामान्तरं यान्ति खादन्तः पथिमध्यतः ॥१.२.१०२॥
एकदा बामहस्तेन धृत्वा टोकीं मुदा युतः ।
दक्षेण पाणिना खादन् समिष्ट भृष्ट तण्डुलान् ॥१.२.१०३॥
ग्रामाद्वहिः क्षेत्रमध्ये याति तत्र
गदाधरः ।
प्रतीच्यामुदितो मेघ शब्दस्तुरण शब्दवत् ॥१.२.१०४॥
छादयित्वा महाकाशं मेघो यथा चमूपतिः ।
सौदामन्यम्बुद क्रोडे सैन्यास्त्र ज्योतिषा समा ॥१.२.१०५॥
द्रष्ट्वासौ दूर्ड्घदृष्टिः स भावावेशाद्
गतस्मृतिः ।
वाह्यसंज्ञा विहीनोऽयं न्यपतत् क्षेत्र मध्यभागे ॥१.२.१०६॥
भोज्यद्रवं सपात्रञ्च विच्छिन्नं
भुविलुण्ठितम् ।
बहुक्षणा गताञ्चास्थ बाह्य् ज्ञानास्थितस्य च ॥१.२.१०७॥
भावावेशोऽयमाद्यो वै सप्तवर्ष वयःक्रमे ।
जातोमहात्मनस्तस्य व्योमसौन्दर्य दर्शनात् ॥१.२.१०८॥
तत्रस्थकर्षकैः सर्वैः
समुत्तोल्यातियत्नत्ः ।
तद्गृहं प्रापितः क्षिप्रं पितृभ्याञ्च समर्पितः ॥१.२.१०९॥
बालकस्य स्मृतेः शक्तिरकलौकिकीमता तथा ।
श्रीरामकृष्ण गीतिश्च श्रीकाली कीर्तनादिकम् ॥१.२.११०॥
उत पौराणिकी वार्ता चाभ्यस्तं श्रुति
मात्रतः ।
नाभ्यस्तं केवलं तन्तुसुरताल लयादिकम् ॥१.२.१११॥
युक्तं सुमधुरं गीतं श्रुत्वा सुरधा
जनास्तदा ।
प्रशशं सुविशेषेण बालस्य भावदर्शनात् ॥१.२.११२॥
नागा नामक भिक्षुणामाविर्भावो ह्यभूत्तदा ।
दीर्घजटा भस्मलिप्त दीर्घकृष्ण वपूंषि च ॥१.२.११३॥
दृष्ट्वा बालाः स्त्रियो भीताः
प्रोचुरन्तर्गृहङ्गताः ।
स्त्रीबाल खादकाश्चैते राक्षसा नात्र संशयः ॥१.२.११४॥
अजातभय बालस्तु तन्मध्ये श्रीगदाधरः ।
मिलित्वा स्तोत्रगीतादि तान् विश्राव्य सुहास्ययुक् ॥१.२.११५॥
सन्न्यासिभिर्भोगद्रव्यं भगवत्यर्पितञ्च
यत् ।
भुक्तं तद् भक्तियुक्तेन गदाधरेण तत्क्षणम् ॥१.२.११६॥
एकदा नववस्त्रञ्च छित्वा सन्न्यासिसन्निधौ
।
कौपिनबन्धनं कट्यां बहिर्वासो धृतं मुदा ॥१.२.११७॥
भस्मना लिप्त सर्वाङ्गं ललाटे
दीर्घपुण्ड्रकम् ।
वक्षोऽक्षमालया युक्तं धृतदण्डकमण्डलुम् ॥१.२.११८॥
दृष्ट्वा सुविस्मिताः सर्वे गच्छन्तं
हर्षगदगदम् ।
वयस्यादिजनोपेतं स्वगृहं तं गदाधरम् ॥१.२.११९॥
दृष्ट्वा मातार्तनादेन बालकं समपृच्छत ।
कथमेवम्विधो वेशः केन वा वेशितोऽधुना ॥१.२.१२०॥
तेन चोक्तं मुदा मातः साधुभिः सज्जितो
ह्यहम् ।
वेशोयं साधुभक्तानां सन्मार्गस्य प्रदर्शकः ॥१.२.१२१॥
तेन लीलातनुर्बाल्ये लीलार्थे प्रकटीकृता ।
वभूवु विविधा लीला बहुनां दृष्टिगोचराः ॥१.२.१२२॥
इति श्रीरामेन्द्रसुन्दर भक्तितीर्थ विरचित श्रीश्रीरामकृष्ण भागवते पारमहंस्यां संहितायां गदाधरस्य बाल्यलीला वर्णनरूपे द्वितीयोऽध्यायः ॥२॥