मध्यलीला

गदाधरस्य कलिकाता समागमः, राज्ञ्याः रासमण्याः परिचयादिः

मध्यलीलायां प्रथमोऽध्यायः


पितुर्मृत्योः परं रामकुमारेण विपश्चिता ।
नगर्याः कलिकाताया झामापुकुरके पदे ॥२.१.१॥

च्तुष्पाठी कृता नानाधार्मिकानां समीक्षया ।
तत्र स्वनाम प्रख्यातो राजा मित्रो दिगम्बरः ॥२.१.२॥

स प्रातः स्मरणीयात्मा छात्राणां पोषणात्तथा ।
पण्डितानां पालनाञ्च राजर्षिमिव तं विदुः ॥२.१.३॥

अध्यापकस्याध्यापनां श्रीरामकुमारस्य हि ।
अध्ययनञ्च छात्राणां दृष्ट्वा राजातिहर्षितः ॥२.१.४॥

परीक्षान्ते छात्रवर्गे स्व स्वालयगते सति ।
विज्ञातुं गृहवार्ताञ्च पण्डितोऽपि गृहं गतः ॥२.१.५॥

शिक्षाशिथिलतां दृष्ट्वा तत्र गदाधरस्य ताम् ।
क्षुब्धो रामकुमारस्तु दुःखाक्रान्तो ह्यभूत्तदा ॥२.१.६॥

परन्तु निर्जनागार प्रान्तरोद्यानवाटके ।
वयस्वैर्बहुभिः सार्द्धं गीताभिनयकारिणा ॥२.१.७॥

तं तं गृहं समागन्यं स्त्रिय आहुय यत्नतः ।
पुराणादीनि शास्त्राणि गद्यपद्यादिकानि च ॥२.१.८॥

नाना विधानि वाक्यानि श्रावितानि दिवानिशम् ।
शिक्षा विधातकान्येवं करोति स गदाधरः ॥२.१.९॥

निशम्य सकलं रामकुमारो मातृसन्निधौ ।
समालोच्य सुसिद्धान्तमिदं चक्रे महामतिः ॥२.१.१०॥

मदीय कलिकातास्थ विद्यालये गदाधरम् ।
शिक्षयिष्यामि यत्नेन येन मानुपतां व्रजेत् ॥२.१.११॥

तस्य पण्डितवर्यस्य ज्येष्ठभ्रातुः सुकल्पनम् ।
एवं गदाधरेणापि तन्मतमुररीकृतम् ॥२.१.१२॥

ततः शुभे दिने शुद्धलग्ने सर्वग्रहे शुभे ।
शुभे क्षणे तदा शुद्ध वस्त्रोत्तरीय सम्युतः ॥२.१.१३॥

साष्टाङ्गं प्रणिपातञ्च भावावेश पुरःसरम् ।
विधाय रघुवीराग्रे संप्रार्थ्य भक्तिमुत्तमाम् ॥२.१.१४॥

तत्पादयुगले सर्वं समर्प्य श्रीगदाधरः ।
धन्योऽहमितिचाप्युक्तानन्दयुक्तः समुत्थितः ॥२.१.१५॥

ततः पादयुगं मातुर्धृत्वा स्वमस्तकोपरि ।
विधीतमश्रुभिः कृत्वा स क्रन्दनस्वरेण च ॥२.१.१६॥

वीरासनेचोपविश्य कृत्वा चैवाञ्जलिं ततः ।
उवाच देहि मे मातस्त्वत्पादकमले मतिम् ॥२.१.१७॥

यस्यां समोच्चितायां हि सर्वं देवार्चनं भवेत् ।
सर्वदेवस्वरूपायै तस्यै मात्रे नमोनमः ॥२.१.१९॥

एवमग्रजयोः पादधुलिं धृत्वा स्वमस्तके ।
सहरामकुमारेण सुयात्रां कृतवान् सुधीः ॥२.१.२०॥

दिक्पतिं हृदि सञ्चिन्त्य मन्त्रपाठपुरःसरम् ।
रघुवीरस्य निर्माल्यं धृत्वा शिरसि यत्नतः ॥२.१.२१॥

गृहाद्वहिर्गतश्चासौ गच्छन् पथि गदाधरः ।
स्वग्राम्य देवताः सर्वा नमस्कृत्य यथाविधि ॥२.१.२२॥

खेटवाटी पुरग्रामान् स्फीतान् जनपदान् बहुन् ।
अतीत्य वरदा ग्रामे सायाह्ने चण्डिलकालयम् ॥२.१.२३॥

प्राप्य व्युप्य तदा रात्रिं रात्रिशेषे समुत्थितौ ।
घाटालस्थ नगरीं प्राप्य तत्र पौर्वाह्निकी क्रियाम् ॥२.१.२४॥

कृत्वा शिलावतीनद्यां वास्पीयजलयानतः ।
समारुह्य प्रातरेव गत्वा चाहर्निशं ततः ॥२.१.२५॥

पराह्ने कलिकातास्य गङ्गातीरेऽवतीर्य च ।
प्रातः कृत्यस्नानसंध्या जपपूजादिकानि च ॥२.१.२६॥

कृतानि तेन सर्वानि साग्रजेन यथाविधि ।
ततो गङ्गां नमस्कृत्य प्रार्थनां कृतवांश्च सः ॥२.१.२७॥

क्षमस्व लङ्घनं गङ्गे याम्यहं शान्ति हेतवे ।
तत्तीरे सततं वासम् देहि मातर्नमोस्तु ते ॥२.१.२८॥

एवं पुनः पुनश्चोक्ता प्रणम्य च पुनः पुनः ।
धन्योऽह्मिति चाप्युक्ताग्रजमन्वगमत्तदा ॥२.१.२९॥

चतुष्पाठीं समागम्य छात्राणां सहयोगतः ।
गदाधरो मुदं लेभे शास्त्रचर्चा प्रसङ्गतः ॥२.१.३०॥

गर्गाचार्यो ज्योतिः शास्त्रे स्मृतौ साक्षान्मनुः स्वयम् ।
कालिदासः कवित्वे च बुद्धौ साक्षाद्वृहस्पतिः ॥२.१.३१॥

विस्मृत्य स विश्ववार्तामध्यापनमहर्निशम् ।
कृत्वान्तेवासि पोषणं व्यभार प्रपीडितः ॥२.१.३२॥

देवतानां नित्य सेवां पण्डितप्रवरो महान् ।
श्रीलरामकुमारस्तु वित्तार्थ कृतवान् स्वयम् ॥२.१.३३॥

पत्नी रामकुमारस्य पुत्रप्रसवतः परम् ।
स्वर्गतां शोकयुक्तस्य केवलं शोकमुक्ततये ॥२.१.३४॥

गदाधरः सहायोऽभूदग्रजस्य शिशोरपि ।
सेवाकार्यं देवतानां यजमान गृहेषु च ॥२.१.३५॥

गदाधरे सुविन्यस्त छात्राणां पाठने रतः ।
यतश्छात्राध्यापनञ्च पण्डितानां तपःस्मृतम् ॥२.१.३६॥

गदाधरो देवसेवां समाप्याग्रजसन्निधो ।
पाठाभ्यासविधी यत्नं कृतवान् सुमहामति ॥२.१.३७॥

कालेनाल्पीयसाशेषयजमान प्रियोवऽभवत् ।
कामरपुकुरे पूर्वमाबालवनितादिकम् ॥२.१.३८॥

यया शक्त्या मोहितञ्च शक्तिरत्रापि साभवत् ।
सुनिर्मल चरित्रेणाकायश्च मिष्टभाषया ॥२.१.३९॥

सरल व्यवहारेण माधुर्य भाव निष्ठया ।
आदृतो यजमानाद्यैर्गदाधरसमो गुणी ॥२.१.४०॥

सुसभ्या शिक्षिता साध्वी कुमारी तरुणी तथा ।
वृद्धा प्रौढा धनवतः पत्नी राजमहिष्यपि ॥२.१.४१॥

धनाढ्यो मध्यवित्तश्च गृहस्थो बालको युवा ।
वधिरः खञ्जः वृद्धो च ये चान्ये पशुपक्षिणः ॥२.१.४२॥

नवागत सुकुमार तरुण ब्राह्मणस्य च ।
दर्शनार्थ जनाः सर्वे ह्यासन्नुत्कण्ठिता भृशम् ॥२.१.४३॥

सर्वेशां स्नेहकमलं हृत्सरोवर संस्थितम् ।
आलोडित यथा नद्यां वर्षधारा प्रपातने ॥२.१.४४॥

न विश्वासो न सन्देहो न सङ्कोचो मनागपि ।
यद्गुह्यं परमं यस्य तत्तस्मै विनिवेदितम् ॥२.१.४५॥

युवकेन युवत्या वा बालेनापक्कबुद्धिना ।
वृद्धेन वृद्धया वापि यथादिष्टस्तथाकरोत् ॥२.१.४६॥

तथाकालेवऽप्यकाले वा यत्रतत्र यदा तदा ।
माधुर्यामृतकण्ठस्य कीर्तनं शुश्रूषु जनाः ॥२.१.४७॥

मातृपितृपुत्रपत्नी देहगेहादिकेषु च ।
न तथा जायते प्रीतिर्यथाप्रीतिर्गदाधरे ॥२.१.४८॥

एवं दृष्ट्वा अग्रजो रामकुमारः खेदसंयुतः ।
हा कष्टमितिचोक्ता च किमिदं दैवकारणं ॥२.१.४९॥

अथवा मेऽनुजस्यास्य शुद्धानसङ्गिका मतिः ।
ययाशेषं पुमान् स्त्रीं च वचसा वश्यताङ्गतौ ॥२.१.५०॥

विमृश्यैवं सुविदुषा रहस्युक्तो गदाधरः ।
अध्ययनं छात्रतपो विज्ञैरेवं विनिश्चितम् ॥२.१.५१॥

अन्येषामुपकारेण मनसो रञ्जनेन वा ।
स्व स्वाध्यातयं परित्यज्य वृथाकालक्षयः कृतः ॥२.१.५२॥

वृथामोदं परित्यज्य स्वाध्याये सुमतिं कुरु ।
तेनाशेषजनानाञ्च स्वस्यापि मङ्गलं भवेत् ॥२.१.५३॥

श्रुत्वाग्रजस्य तद्वाक्यमवधान पुरःसरम् ।
तत्पादकमले नत्वा प्रत्युवाच गदाधरः ॥२.१.५४॥

कर्ममयीति या विद्या भवद्भिरनुशीलिता ।
सांसारिकी त्वियं विद्या त्रिवर्गस्योपपादिका ॥२.१.५५॥

सत्यंज्ञानमनन्तं यद् ब्रह्मात्मेकत्वदर्शनम् ।
एवं शुद्धात्मविज्ञानं स्वाध्यायो वेदसम्मतः ॥२.१.५६॥

श्रुतिरप्याह तद्वस्तु सच्चिदानन्दमद्वयम् ।
त्यागेनैव तदाप्नोति कर्मणा न कदाचन ॥२.१.५७॥

नाहं स्पृशामि पश्यामि कामिनीकाञ्चनादिकम् ।
त्यजामि दुरतः सर्वमेतन्मे व्रतमाहितम् ॥२.१.५८॥

क्षमस्व चापराधं मे यदुक्तं तव सन्निधौ ।
शास्त्रज्ञानी सदाचारः सम पित्राग्रजो मम ॥२.१.५९॥

श्रुत्वानुजस्य तद्वाक्यं साधुभिः पर्युपासितम् ।
गदाधरस्य शिक्षायां मच्चेष्टा व्यर्थतां गता ॥२.१.६०॥

किङ्करोमीतिसञ्चिन्त्य रघुवीरः स्मृतसदा ।
उक्तञ्च रघुवीरं त्वं विद्यां देहि गदाधरे ॥२.१.६१॥

त्वत् प्रसादादिदं सर्वं जगत्स्थावर जङ्गमम् ।
दृग्गोचरं भवत्येव त्वं हि नः परमा गतिः ॥२.१.६२॥

समर्पितोऽनुजः श्रीमान् भवतः पादपद्मयोः ।
विज्ञमज्ञं न जानामि यथेच्छिसि तथा कुरु ॥२.१.६३॥

दुरदृष्टवशादस्य पण्डितस्यार्थकृच्छ्रता ।
न याताध्यापनाकार्यमपि सन्तुष्टचेतसा ॥२.१.६४॥

चकारमतिमान्नित्यमार्यभावपुरःसर ।
एवं झामापुष्करिण्या गतमब्दत्रयं यदा ॥२.१.६५॥

तदैव रघुवीरस्य दृष्टिर्दुःख विनाशिनी ।
पतिता कुलदेवस्य श्रीरामकुमारोपरि ॥२.१.६६॥

एतस्मिन्नेव कालेतु विधिपत्र प्रसङ्गतः ।
भ्रातृद्वय कर्मक्षेत्रं रुपान्तरमशिश्रियत् ॥२.१.६७॥

कलिकाता नगर्यास्तु जानबाजार मध्यतः ।
वृहदट्टालिकायां या कृतबासा मनस्विनी ॥२.१.६८॥

राज्ञी रासमणिः ख्याता वङ्गदेश विभूषणा ।
नारी कूलोत्तमा राज्ञी विपुलैश्वर्यशालिनी ॥२.१.६९॥

कर्णेन सदृशी दाने पातिव्रात्येऽप्यरुन्धती ।
मातृतुल्या पूजनीया सर्वतो महिमान्विता ॥२.१.७०॥

प्रजावत्सलतायान्तु श्रीरामसदृशीमता ।
कालाग्निसदृशी क्रोधे क्षमायां पृथिवी समा ॥२.१.७१॥

सर्वभूते तुल्य दृष्टिः सहास्या प्रियदर्शना ।
ब्रह्मण्यधर्मरक्षायै बहु वेदज्ञ पालिका ॥२.१.७२॥

दरिद्रविधवादीनां साक्षान्मातृसमा च सा ।
स्मरणीया भिश्चाप्रातर्देव सेवापरायना ॥२.१.७३॥

जनानां हितकार्याय मुक्तहस्ता सदाभवत् ।
सन्तान् प्रतिमास्तस्या एकदा धीवरप्रजाः ॥२.१.७४॥

क्रन्दनेन समायुक्ता ऊचुस्ते दुःखकारणम् ।
मातस्तुभ्यं नमोस्माकं रक्षां कुरु सुतास्तव ॥२.१.७५॥

इंराज राजानुचरैर्वयं सर्वे प्रपीडिताः ।
तैरुक्तं राजनद्यान्तु गङ्गायां मत्स्यमारणम् ॥२.१.७६॥

मत्स्यजीविगणैर्नित्यमविधेय सुनिश्चितम् ।
राज्ञे करमचदत्वाचेन्मत्स्यान्धर्तुमिहेच्छथ ॥२.१.७७॥

भविष्यथ विशेषण दण्डनीया न संशयः ।
श्रुत्वैवं धीवराणां तां वाणीं राज्ञी सुदुःखिता ॥२.१.७८॥

अपूर्व कौशलं किञ्चित्चकार प्रतिभाबलात् ।
कलिकातास्थ गङ्गाया जलाधिकारयोग्यता ॥२.१.७९॥

राज्ञे बहुतरामुद्रा दत्वा राज्ञया क्रीता तदा ।
गङ्गागर्भे लौहयन्त्रे बङ्वाचायसशृङ्खलान् ॥२.१.८०॥

जलयान गते रोधं चक्रुस्ता धीवरप्रजाः ।
विदेशीया वणिग्वर्गाः क्रोधाग्नि दीपितास्ततः ॥२.१.८१॥

राजद्वारं गताः सर्वे राज्ञ्या दण्डार्थमुद्यताः ।
उक्तञ्च कथमस्माभिः कृता राज्ञ्या विरोधिता ॥२.१.८२॥

एवन्तैरभियुक्ता सा राज्ञी रासमणिस्तदा ।
ततः सा विदुषो राज्ञो राजनीत्यनुसारतः ॥२.१.८३॥

विचारकान् समाहूय स्वगेहे विनयन्विता ।
उवाच तान् कथञ्चैवं वणिग्वर्गैः सुकोपितेः ॥२.१.८४॥

नानाविधा दुष्ट चर्चाः कृता मे तै निरर्थकाः ।
धर्माधिकरणे ते मामदोषा दोषशालिनीम् ॥२.१.८५॥

कर्तुं समुद्यताः सर्वे दण्डनीया मतिर्मम ।
तेषान्तु जलयानानि यातुं शक्तानि वा न वा ॥२.१.८६॥

न क्षतिः काचिदस्माक्कं नीत्वा तानि व्रजन्तु ते ।
वित्तक्रीतं गङ्गाजलं मया तु विधिपूर्वकम् ॥२.१.८७॥

समुद्रगामिनी गङ्गासागरे यत्र मिश्रिता ।
तत आरभ्य गङ्गायास्त्रिवेण्यवधिकं जलम् ॥२.१.८८॥

ममाधिकारः सम्पूर्णस्तज्जले नात्र संशयः ।
अत्र यज्जलयानादि वर्तते वणिजां प्रियम् ॥२.१.८९॥

चूर्णयाम्यधुनैवाहं मज्जलस्यावरोधतः ।
सत्यं सत्यं मयोक्तं यत्तत्करिष्यामि सत्त्वरम् ॥२.१.९०॥

मत्स्यग्रहे धीवराणां यतो बिघ्नः प्रजायते ।
एवं राज्ञ्याः सदर्पोक्तिं श्रुत्वा तत्र विचारकाः ॥२.१.९१॥

स्तवादि मिष्टवाक्येन राज्ञीं सन्तोष्य यत्नतः ।
राज्ञ्याः प्रदत्त वित्तनि प्रत्यर्पितानि तानि तैः ॥२.१.९२॥

विना करैर्धीवराणां गङ्गायां मत्स्य संग्रहः ।
एवं सोमा सया राज्ञी त्वदीयैर्धीवरैस्तदा ॥२.१.९३॥

वक्षसो भागीरथ्यास्तु कृतं बन्ध विमोक्षणम् ।
धन्या राज्ञी रासमणिर्धन्या तद्बुद्धिचातुरी ॥२.१.९४॥

धन्या प्रजावत्सलता धन्या दारिद्र्य साह्यता ।
एवं राज्ञ्याश्चतुर्दिक्षु विख्याता ख्याति विस्तृतिः ॥२.१.९५॥

यया शेष नरा नार्यो विस्मयाब्धौ निमज्जिताः ।
हट्टे गोष्ठे सभायाञ्च राजद्वारे विशेषतः ॥२.१.९६॥

सर्वत्र वङ्गदेशे च ध्वनिर्धन्येत्यभूत्तदा ।
प्रजा सङ्कट शङ्का च सम्पूर्णं विनिवर्तिता ॥२.१.९७॥

इति श्रीरामेन्द्र सुन्दर भक्तितीर्थ विरचिते रामकृष्णभागवते पारमहंस्यां संहितायां मध्यलीलाया गदाधरस्य कलिकातायामागत राज्ञ्या रासमणेश्चपरिचयरूपः प्रथमोऽध्यायः ॥१॥