अन्त्यलीला
गदाधरस्य षोडशीपूजानन्तरं सारदादेव्याः
कामारपुकुरं प्रत्यागमनम्
अन्त्यलीलायाः प्रयमोऽध्यायः
कामारपुकुरे तत्र चैकदा बहवो जनाः ।
प्रायेणार्द्ध शतं यावन्नरनार्यः सुसङ्गताः ॥३.१.१॥
मधुकृष्णा त्रयोदश्यां बारुण्यां
जाह्नवीजले ।
वारुण स्नान सिद्ध्यर्थं गन्तुं कृत धियस्तथा ॥३.१.२॥
एतस्मिन्नन्तरे देवी सारदा सारदांयिनी ।
साक्षात् श्रीरामकृष्णस्य गेहिनी जगदम्बिका ॥३.१.३॥
तेषां समीपमागत्य भावगद्गदचेतसा ।
सार्द्धं भवद्भिर्यास्यामीत्युवाच ललितं वचः ॥३.१.४॥
तत्र भगोरथी तीरे दक्षिणेश्वरमन्दिरे ।
कालिका भवने भाति सर्वस्वं समवल्लभः ॥३.१.५॥
सच्चिदानन्दरूपोऽसौ साधकाभीष्टदायकः ।
दृष्ट्वा सम्पूज्यतं देवं पुनरेष्यामि मद्गृहम् ॥३.१.६॥
अतो मामपि तं देशं प्रापयध्वं महाजनाः ।
एवं श्रीसारदा देव्याः श्रुत्वैकान्तिक भाषणम् ॥३.१.७॥
साग्रहं तां ससम्मानं समानीय गता वहिः ।
दिवसद्वयमध्वानं गत्वा ते तृतीयेऽहनि ॥३.१.८॥
प्रायेणास्तं गते सूर्ये सारदा ज्वरपीडिता
।
अयनातिक्रमेऽशक्ता सारदा ज्वरपीडिता ॥३.१.९॥
प्रान्तरे पतिता देवी संज्ञाहीना वभूवह ।
कियत्कालमपेक्षैव सङ्गिनस्ते दुराशयाः ॥३.१.१०॥
आगच्छागच्छ भो देवी नात्र स्थेय कदाचन ।
प्राणापगमशङ्का च दस्यु दुर्ज्जनतः सदा ॥३.१.११॥
अधुन्नैव वयं सर्वे गच्छामीनात्र संशयः ।
एकस्यार्थे बहून् जीवन्नघातयति बुद्धिमान ॥३.१.१२॥
एवमुक्का ततः सर्वे सारदां निःसहायकाम् ।
शवोपमां परित्यज्य तं देशञ्च भयादगता ॥३.१.१३॥
परित्यक्त्वा पथि भ्रष्टा
वृक्षमूलमुपाश्रिता ।
निशीथे हतचैतन्या पतिता सा शवोपमा ॥३.१.१४॥
स्वप्नवदेकां सुश्यामां सम्मुखे
मुक्तमूर्द्धजां ।
कामपि स्त्रीं सेष्यमानां ददर्श प्रमोदोत्तमाम् ॥३.१.१५॥
तत् कराब्जाल स्पर्शान्मस्तके तत्क्षणादहो
।
सर्वरोग विमुक्ता सा सुस्थतामाप सारदा ॥३.१.१६॥
परन्तु चिदुघनश्यामा सारदामवदत्तदा ।
भो भगिनि यास्यसि त्वं पागलस्वामिदर्शने ॥३.१.१७॥
तत् स्वरूपं न जानन्ति ये तं पागलमब्रुवन्
।
प्रत्यहं तमहं देवि पश्यामि चद्रवेश्मनि ॥३.१.१८॥
तव तुल्यो मम स्वामी महायोगी महेश्वरः ।
तमुन्मत्तं वदन्त्यज्ञाः किन्त्वहं तेन चाट्टता ॥३.१.१९॥
तवापि मादृशः स्वामी योगारूढः सदा शिवः ।
तव सम्भोग पुष्ट्यार्थ योगमार्गरतः सदा ॥३.१.२०॥
मृदु गत्यागच्छ देवि तव स्वामिनमीश्वरम् ।
क्षिप्रं सन्देशदानार्थं गच्छामि दक्षिणेश्वरे ॥३.१.२१॥
एवमुक्त्वा तदा देवी तत्रैवान्तरधीयत ।
कृपया जगदम्बाया रोगमुक्ता मनस्विनी ॥३.१.२२॥
आनन्द संप्लवे लीना दृष्ट्वा तां
भवसुन्दरीम् ।
चिन्तयामास केयं स्त्री कथमत्र समागताम् ॥३.१.२३॥
अहोज्ञाता मयी सातु काली कैवल्यदायिनी ।
कृपयात्र गता मातामम रक्षण हेत्वे ॥३.१.२४॥
ततो महानिशायां सा चैतन्योपगता सती ।
सुस्थतामुपलभ्यै वा लोक्य भीमाश्चतुर्द्दिशः ॥३.१.२५॥
दूरे दृष्टिं प्रसार्यैकं ददर्श सा
जलाशयम् ।
स्व गात्रकान्त्या तं देशं वभौ वितिमिरं तदा ॥३.१.२६॥
विर्घुणिता देहतापात् शुष्ककण्ठा पिपासया ।
प्रतिक्षणं शङ्कमाना प्राणेषु भयसिक्तवला ॥३.१.२७॥
अध्वातिक्रमणेऽशक्ता प्राप्ता किं
यमवाटिकाम् ।
एवं विचिन्त्य सा देवी सम्मुखेऽति भयानकम् ॥३.१.२८॥
ददर्श दस्यु प्रवरं यमदण्डमिवा परम् ।
धृत दण्डं महाबाहुं लालाटे रक्तवस्त्रकम् ॥३.१.२९॥
दीर्घश्मश्रू समायुक्त भीषणास्य वनश्ववत् ।
विक्षिप्त मूर्द्धजान् मूर्द्ध्रि रक्ताभं नयनद्वयम् ॥३.१.३०॥
सुदृढ रौप्यवलययुत हस्तद्दयं तथा ।
सुदीर्घ भीषणाकार कालान्तकं यमोपमम् ॥३.१.३१॥
पितेत्युक्त्वा मूर्च्छिताभूत् पतिता
धरणीतले ।
दस्युरेवविधां देवीं जगदम्बा स्वरूपिनीम् ॥३.१.३२॥
कालिकां पतितां दृष्ट्वा
स्तम्भितस्तत्क्षणादहो ।
मा मेत्युक्त्वा तदा देव्याः पतितश्चरणान्तिके ॥३.१.३३॥
रक्ष रक्ष महादेवि रक्ष मां त्रिदशेश्वरि ।
पुत्रं दस्युं जगन्मातः प्रोवाचाय कृताञ्जलिः ॥३.१.३४॥
एवं सा जाग्रती देवी पादालङ्कार मोचनम् ।
कृत्वादस्यु करे दत्वा प्रोवाच विनयान्विता ॥३.१.३५॥
भो पितस्तव कन्याहं यामि जामातुरन्तिके ।
किन्तु मार्गपरि भ्रष्टा भ्रमामि तिमिरे निशि ॥३.१.३६॥
मार्गं दर्शय भो मह्यं येन मे
दक्षिणेश्वरे ।
राज्ञया रासमनेः कालीमन्दिरे सुगतिर्भवेत् ॥३.१.३७॥
एतस्मिनन्तरे कापि स्त्रीमूर्तिदस्यु
सन्निधौ ।
आगता सङ्गिनी तस्य मन्यमाना तदन्तिकम् ॥३.१.३८॥
गत्वा तस्यास्तदा देवी घृत्वा द्वौ
करपल्लवौ ।
सारदा तव कन्याहमवदत् करुण स्वरम् ॥३.१.३९॥
प्राप्याद्याहं मातरं त्वां पितरञ्च
महामतिम् ।
भयादस्मात् समुत्तार्णा निशायां प्राणसङ्कटात् ॥३.१.४०॥
रोगक्लान्ति पथ भ्रान्ति भोज्याप्राप्ति
वशाम्मम ।
नाघुना भाषणे शक्तिर्नान्यत्रगमनेऽपि वा ॥३.१.४१॥
निद्रा मां वाधतेऽत्यर्थं क्षन्तव्या
पितरावहं ।
एवमुक्त्वा दस्यु पत्नी क्रोडे संस्थाप्यमस्तकम् ॥३.१.४२॥
निद्रिता सारदादेवी निर्भयेनान्तरात्मना ।
ऐहिकामुष्मिकात् पापान्नमे पुष्पस्य सम्भवः ॥३.१.४३॥
दुर्भगायाः कथं सौख्यं फलदर्शनजं भवेत् ।
अथवा मे किञ्चिदस्ति सौभाग्यं पूर्व पुण्यजम् ॥३.१.४४॥
येनेयं देवकन्या मां मामेत्युक्त्वा
ममोरसि ।
सुखं स्वपिति निःशङ्कं यथा कन्या स्वगर्भजा ॥३.१.४५॥
एवं चिन्तयती साध्यी दस्युपत्नी पति तदा ।
निष्पन्द शङ्कु सदृशं विलोक्योवाच सत्त्वरम् ॥३.१.४६॥
सुस्वादु भोजनोयं यत् पानीयमपि वा तथा ।
शीघ्रमानय भो स्वामिन् कन्या भोजन हेतवे ॥३.१.४७॥
श्रुत्वैव तत्क्षणाद् गत्वा ग्रामं मोदक
बाटिकाम् ।
प्रविश्य विपुलं भोज्यं समादायागतोऽपि सः ॥३.१.४८॥
उक्तञ्च पत्न्यै त्वत् कन्यां भोजय त्वं
सयत्नतः ।
आनयामि जलं स्वच्छं शोघ्रमेवं सुनिश्चितम् ॥३.१.४९॥
एवं सा सारदादेवी सुस्थतामुपलभ्य च ।
तं दस्युं सुजनं दृष्ट्वा परमानन्द निर्वृता ॥३.१.५०॥
ततः स दस्युप्रवरो महामतिः संस्थाप्य
देवीं शिविकान्तरे मुदा ।
तद् भृत्य भृत्यानुचर स्वरूपकस्तस्याः प्रियस्थानमदर्शयच्च ताम् ॥३.१.५१॥
तस्मिन्ददर्शाखिल लोकनाथं त्रिलोकनाथानत
पादपीठं ।
कन्या कृपा प्राप्ति वशात् सकन्यो दस्युस्तदा पञ्चवटी गृहस्थम् ॥३.१.५२॥
भयेन भक्ता विनयेन वाचा समर्प्य कन्यां
महतः समीपे ।
प्रसन्नतां तस्य प्रलब्धु कामः सवेपथुः पादतले पपात ॥३.१.५३॥
ज्ञात्वास्य सत्कर्म दयार्द्र चेतसः
श्रीसारदा भीति विमुक्ति हेतुकम् ।
स्वयं तमुत्तोल्य गदाधरो महान् सादर दस्योः सुकृपाञ्चकार ॥३.१.५४॥
प्रकाशितेयं जगतो जनन्या लीला ययाप्ता
बहवः सुविज्ञाः ।
मातुः स्वरूपाधिगमे विमोहं वदन्ति चाचिन्त्य महाप्रभावा ॥३.१.५५॥
एवं सा सारदादेवी साधनस्य सुसिद्धये ।
श्रीरामकृष्ण लीलायाः परिपूर्ति प्रदायिनी ॥३.१.५६॥
कियत्कालं स्थिता तत्र स्वामिनः सन्निधौ
सती ।
श्री माता सारदादेवी पतिभक्तिपरायणा ॥३.१.५७॥
चकार परया भक्त्या पतिसेवां मनस्विनी ।
शून्याष्ट पक्षचन्द्राब्दे नाम्ना या फलहारिणी ॥३.१.५८॥
तत् पूजा दिवसे रात्रौ स्वपत्नीं सारदां
शिवाम् ।
षोडशीं षोडशसमां सर्वानन्दः प्रदः शिवः ॥३.१.५९॥
पूजयामास तां देवीं पूर्वयुगानुसारतः ।
बालार्कमण्डलाभासां चतुर्वर्ग फलप्रदाम् ॥३.१.६०॥
एकान्ते तां समाहूय षोडशीं सहधर्मनीम् ।
उवाच परया प्रीत्या योगेश्वर महागुरुः ॥३.१.६१॥
अहं सम्पूजयाम्यद्य रात्र्यर्द्धे
तिथिक्षये ।
स्नान सन्ध्या वन्दनादि समाप्य कुलकामिनि ॥३.१.६२॥
तिष्ठ पञ्चवटी गेहे सोपवासा सुसंयता ।
एवमुक्त्वा स्वशक्तिं तां भगवान् भक्तभक्तिमान् ॥३.१.६३॥
पूजाया द्रव्यसम्भार संग्रहार्थ समुत्सुकः
।
भाण्डागारं सम्प्रविश्य सिन्दूराम्बरभूषणम् ॥३.१.६४॥
सङ्गृह्य फलपुष्पादीन् पञ्चवट्यामुपागतः ।
सायाह्णे स्नान सन्ध्यादिं समाप्य विधिवत्तदा ॥३.१.६५॥
श्रीसारदां स्वहस्तेन वस्त्रालङ्कार
भूषितां ।
कृत्वोच्च पीठके न्यस्य पादपीठे पदद्वयम् ॥३.१.६६॥
अलक्तरञ्जित कृत्वा विनिवेश्य सयत्नतः ।
अमाया अर्द्धरात्रौ तां षोड़शीं जगदम्बिका ॥३.१.६७॥
तेन पाद्यादिभिः पूजा तन्त्रोक्त विधिना
कृता ।
प्रार्थना च कृता तत्व विश्वनाथेन यादृशी ॥३.१.६८॥
अन्न भिक्षा कृता सर्व जीवानामन्न हेतवे ।
व्रजेन्द्रनन्दनः कृष्णो यथा वृन्दावने वने ॥३.१.६९॥
स्वयं सम्पूजयामास श्रीराधा पादपल्लवम् ।
तथा श्रीरामकृष्णस्तु विधृत्य करपद्मयोः ॥३.१.७०॥
पादद्वयं सारदाया मस्तके न्यस्य भक्तितः ।
कृत्वाऽश्रुभिः प्लावितं तां पूर्वरूपमदर्शयत् ॥३.१.७१॥
तान्त्रिकी वैदिकी चैवं नानाविधा स्वयम् ।
कृता श्रीरामकृष्णेन यां न जानन्ति योगिनः ॥३.१.७२॥
श्रीसारदा जगन्माता पति वाक्येन यन्त्रिता
।
सान्निध्यं स्वामिनस्त्यक्त्वा स्वधाम प्रत्यपद्यत ॥३.१.७३॥
इति श्रीरामेन्द्र सुन्दर भक्तितीर्थ विरचिते श्रीश्रीरामकृष्ण भागवते पारमहंस्यां संहितायां मातुः श्रीसारदादेव्या गङ्गास्नान गमन पथि रात्रौ दस्यु कृता पूजा दक्षिणेश्वर गमनं तत्र ठाकुरेण षोडशी पूजानन्तरं पुनद्देव्याः कामारपुकुरे प्रत्यागमनरूपान्त्यलीलायाः प्रथमोऽध्यायः ॥१॥