अन्त्यलीला
ठाकुरस्य नवद्वीपं तीर्थगमनादिः
अन्त्यलीलायाः द्वितीयोऽध्यायः
कालेऽस्मिन् सहधर्मिण्या सहितो मधुरो
महान् ।
चकारा योजनं नानातीर्थेषु गमनोत्सुकः ॥३.२.१॥
यानवाहन भोज्यादि नानाद्रव्यानि यत्नतः ।
विधिवत् संगृहीतानि तीर्थे देयानि यानि च ॥३.२.२॥
तीर्थ गतिः सुसम्पूर्णा श्रीरामकृष्ण
योगतः ।
अभूत् श्रीमथुरानाथः शुभेकाले शुभे दिने ॥३.२.३॥
सस्त्री ठाकुर हृदयस्तीर्थयात्रां चकार सः
।
गृहाद्बहिर्गताः सर्वे शुद्धभाव पुरःसरम् ॥३.२.४॥
भगवतः श्रीरामकृष्णदेवस्य तीर्थयात्रेयं
सर्वोत्तम
साधना यस्यां खलु योगवलेन जगतोतले ।
सर्वजीवे शिवज्ञानं दरिद्रनारायण सेवा च
ठाकुरेणैव नूतनरूपण प्रकटी कृता
आसीत् ॥३.२.५॥
आदौ श्रीवैद्यनाथधाम गत्वा तत्रस्थ
क्षुधातुर धृतकङ्काल मात्र देह दरिद्रदर्शने दयार्द्रहृदय दरिद्रदेवतां
दरिद्र सेवार्थं सकातरं
मथुरानाथमुक्तवान् । भो मथुर । केवलमेकदिनमेतेषां भक्ष्य दानेनोदरं
परिपूरय ॥३.२.६॥
ददस्व प्रचुरतरं तैलं मस्तकेषु । तथा
प्रत्येकं परिधेय वस्त्रमपि प्रयच्छ ॥३.२.७॥
एवं भगवता मृतायमानवचांसि सूक्तव्यापि तदा
वाराणसी यात्रा समुत्सुको मथुरो वाराणस्यामेव दरिद्रभोजनादि व्यवस्था
विधेयेति साग्रहमुक्तवान् ॥३.२.८॥
श्रुत्वैवं दरिद्रपरमदेवता सरोषमवदत् ।
नाहं यास्यमि वाराणस्याम् । एभिरेवात्रवसामि । दरिद्राणामेषां नास्तिकिं
कोऽपि दाता ? ॥३.२.९॥
ततो मथुरेण दरिद्रान्तर्गतं भगवन्तमवलक्य
सद्यस्तदाज्ञा पूरणे कृते ठाकुर ईषद्धास्य पुरःसर परमानन्दमवाप ॥३.२.१०॥
एवं गयासुर क्षेत्रे भगवान श्रीगदाधरः ।
अपरोक्षी कृतस्तेन साक्षाद्गदाधरेण हि ॥३.२.११॥
ततो वाराणसीक्षेत्रं प्राप्य श्रीभगवान्
स्वयम् ।
ददर्श श्रीविश्वनाथमन्त्रपुर्णाञ्च मातरम् ॥३.२.१२॥
मुक्ति क्षेत्रस्यावनतिं दृष्ट्वा भूपति
दुःखितः ।
उक्तं भगवता तेन परमार्तेन तत्र च ॥३.२.१३॥
कथमत्राहमानीतः स्थानादस्मादपि ध्रुवम् ।
स्थितोऽत्यन्तं सुखी भूत्वा तत्र श्रीदक्षिणेश्वरे ॥३.२.१४॥
किन्तु श्रीमणिकर्णिकामनहरा मुक्तिप्रदा
राजते
गत्वा तत्र महाश्मशान निलयं श्रीशङ्करं
शङ्करम् ।
दृष्ट्वा तं शव सङ्घक पुरहरं प्राप्तः पुराधीशताम्
दृष्ट्वैवं शिवलोक सङ्गत
कृतञ्चानन्दमाप्तो हरिः ॥३.२.१५॥
ततो वृन्दावनं गत्वा गोविन्द मन्दिरे
प्रभुः ।
श्रीराधया श्रीगोविन्दं दृष्ट्वैव भुवि लुण्ठितः ॥३.२.१६॥
भावाकुलितचित्तः सोऽपूर्व्वं प्रेम
पुरःसरम् ।
सङ्कीर्तयन् कृष्णनाम प्रोवाच कातरं वचः ॥३.२.१७॥
भी कृष्ण सर्वमेवास्ति यमुना तीर सन्निधौ ।
गोवर्द्धनं रासभूश्च वनं वृन्दावनं तव ॥३.२.१८॥
तथा निधुवनञ्चास्ति निकुञ्चवनमेव च ।
किन्त्वत्र त्वां न पश्यामि पश्यामि केवलं रजः ॥३.२.१९॥
काद्रवेयस्य घट्टन्तु भगवान् भक्तरूपधृक् ।
यातो यदा तदा तेन दृष्टः श्रीभगवान् स्वयम् ॥३.२.२०॥
यमुनान्तर्जले महासर्प मूह्नि विराजितः ।
कालीयः सह पत्नीभिस्तीति तं नन्दनन्दनम् ॥३.२.२१॥
जय गोपामुखाम्भोज मधुपान मधुव्रत ।
निराकार निराधार निर्गुणं पाहि कृष्ण माम् ॥३.२.२२॥
ततो महाभाव वशात् वाह्यज्ञान परिक्षयम् ।
प्राप्य तद्धाम माहात्म्यं वर्णयामास ठाकुरः ॥३.२.२३॥
एवं तत्तत्तोर्थमध्ये तत्तद्रपं स
दृष्टवान् ।
ततः श्रीरामकृष्णेन कृष्णाकुलित चेतसा ॥३.२.२४॥
दोर्घकालात् परं वृन्दारण्ये
प्रेमाप्रवाहितः ।
तद्धामवासिनां येन कृष्णः प्रत्यक्षतां गतः ॥३.२.२५॥
तत्तत्तीर्थ पर्यटनात्परं
श्रीदक्षिणेश्वरे ।
पुनः प्रत्यागतो रामकृष्णः स्वसिद्ध धामनि ॥३.२.२६॥
वृन्दावनस्थ श्रीराधाश्याम कुण्डोद्धृतं
रजः ।
यदानीतं भगवता यत्नतः परमं शिवम् ॥३.२.२७॥
गङ्गोदकेन तत् सर्वं कृत्वा सम्मिश्रणं
प्रभुः ।
पञ्चवट्याश्चतुर्दिक्षुरभिषेक पुरःसरः ॥३.२.२८॥
उवाचेयं क्षितिर्भूता वृन्दावन समाद्यतः ।
उवाच च महायोगी महायोगयुतः स्वयं ॥३.२.२९॥
तीर्थयात्रा भगवतीस्तीर्थ मङ्गल हेतवे ।
सर्वतीर्थपदस्यास्य तीर्थ यात्रा विडम्बना ॥३.२.३०॥
कृच्छ्रगम्य भारतीय तीर्थानि विविधानि च ।
वारुण्यां दिशि सिद्धानिमया दृष्टानितानि च ॥३.२.३१॥
नवद्वीपेति गौडानां वैष्णवानां महात्मनाम्
।
तीर्थानां परमंतीर्थं वङ्गदेशे विराजते ॥३.२.३२॥
यत्र श्रीकृष्ण चैतन्य आविर्भूय स्वयं
हरिः ।
हरिनाम महामन्त्रं सर्वेभ्य सम्प्रदत्तवान् ॥३.२.३३॥
कालेर्जीवान् समुद्धर्तुं कृपया
करुणानिधिः ।
अप्राप्तेप्तत्र तीर्थेऽन्यतीर्थ दर्शनजं फलम् ॥३.२.३४॥
भविष्यति न चास्माकं यतो वङ्गोद्भवावयं ।
मत्वेदं श्रीनवद्वीप गमनाय मतिं दधे ॥३.२.३५॥
ठाकुरस्याभिलाषोऽयं ज्ञात्वा
श्रीमथुरोमहान् ।
बहुकोष्ठ समायुक्त वासगेहनिभं शुभम् ॥३.२.३६॥
जलयानं समानीय ठाकुरं भक्ति पूर्वकम् ।
तत्रोत्थाप्य ठाकुरेण गतवान् मथुरोऽपि च ॥३.२.३७॥
पथिमध्ये च जाह्नव्याह्यासीत्तद्वारुणी
तटे ।
अम्बिका कालना नाम्ना ग्रामः सज्जन वेष्टितः ॥३.२.३८॥
वर्द्धमान नरपतेरस्ति देवालयो महान् ।
समाज भवनञ्चातविद्यते तेन सुन्दरम् ॥३.२.३९॥
तव श्रीभगवान् दास नाम्ना प्राचीन वैष्णवः
।
सिद्ध भक्तः सदाचारी गौडीयो गौर सेवकः ॥३.२.४०॥
वदत्ययं हरेर्नाम नाम ब्रह्मेति बोधतः ।
नाम ब्रह्म जपेनैव सिद्धिलाभं चकार सः ॥३.२.४१॥
भक्तः प्राक्तन वैष्णवः कुलपति
गौड़ीयचूड़ामणिः
तस्माद्वैष्णव सम्प्रदाय सदसः
सर्वाधिपत्यमं गतः ।
एवञ्चास्य समीप एव सदसद यद्यद्यदानुष्ठितम्
भक्तैस्तत् सकलं विचार विषये
भक्तोऽयमेकागतिः ॥३.२.४२॥
अनेन यत् सदित्युक्तं प्रशंसनीयमेवतत् ।
मच्चासत् कथितं तद्वै वैष्णवैर्निन्दितं भवेत् ॥३.२.४३॥
ठाकुरो गतवाँस्तत्र बाबाजी वैष्णवाश्रमम् ।
सहृदयो दर्शनार्थं सर्वाङ्ग वसनावृतः
॥३.२.४४॥
द्वारदेशं गतो देवो वैष्णवस्य गृहादन्तरे ।
हृदयं प्रेरयामास वद त्वमहमागतः ॥३.२.४५॥
दर्शनार्थं भगवतो दासस्य सुमहात्मनः ।
प्राप्यानुज्ञां तस्य देवस्तत् समोप सुपागतः ॥३.२.४६॥
तदा श्रीभगवान् दासो वैष्णवानों कृतागसाम्
।
विचारकार्ये निरतः कस्यापि वैष्णवस्य वै ॥३.२.४७॥
अर्थदण्डं विधत्ते स कण्ठीं जग्राह वै
रुषा ।
एवं विचारक प्रख्य आदेशं प्रददाति च ॥३.२.४८॥
कलिकाता कलुटोलास्थितस्य स्वर्णवनिजः ।
तदीय भवने चास्ति हरिभक्ति प्रदा सभा ॥३.२.४९॥
तस्यां सभायां श्रीकृष्ण चेतन्यस्य
महाप्रभोः ।
कल्पितं वैष्णर्वेरेकमधिष्ठानार्थमासनम् ॥३.२.५०॥
मत्वा महाप्रभोरेवासनं तदति पूजितम् ।
कश्चित्तदासन स्पर्शंकर्तुं न वैष्णवः क्षमः ॥३.२.५१॥
कतिभक्ताष्ठाकुरस्य ठाकुरं
श्रीमहाप्रभुम् ।
साक्षाद्रूपेण जानन्ति तैस्तत्रसभा गृहे ॥३.२.५२॥
सङ्गानीतः स भगवान् रामकृष्णस्तदालये ।
भक्तास्यान्निर्गतं शुद्धं हरिनाम यदाशृणोत् ॥३.२.५३॥
भावाविष्टः स ठाकुरः श्रीचैतन्य वरासने ।
कृतोपवेशस्तद्भक्ताः साक्षाच्चैतन्य विग्रहम् ॥३.२.५४॥
मत्वा तं पूजयामासुःस्थिता ये
भागावर्जिता: ।
अज्ञात्वाठाकुर भावमन्य साधारणा जनाः ॥३.२.५५॥
असन्तुष्टा बभूवूस्ते सदाचार विलङ्घनात् ।
श्रुत्वेदं रामकृष्णस्य व्यापारं वैष्णवास्यतः ॥३.२.५६॥
भगवान् दास वावाजी सरोषमवदत्तदा ।
तत्रयद्यहमस्थास्य धार्ष्ट्यं येन कृतं हि तत् ॥३.२.५७॥
तस्मैदण्डं विशेषेण प्रादास्यमिति
निश्चितम् ।
भक्त मङ्गलदानाय यस्य भगवती हरेः ॥३.२.५८॥
आविर्भावस्तदर्थं तं प्राचीन भक्त वैष्णव ।
मोहमुक्तं सञ्चिकीर्षुरद्धबाह्य शरीरकः ॥३.२.५९॥
ठाकुरो दण्डवत्स्थित्वा बाबाजीमिदमब्रवीत्
।
जानाम्यहं जगत्कर्ता भगवानिति निश्चितम् ॥३.२.६०॥
तदन्यः कोऽपिनोकर्ता संसारेऽस्मिन्नसंशयः ।
अहङ्कारस्तवेदृग् वै कर्ताहमेव केवलम् ॥३.२.६१॥
तेनाहं सर्वं लोकानां कर्ताहं
दण्डमुण्डयोः ।
तदासौ वृद्ध बाबाजी ठाकुरस्य सुभर्त्सनात् ॥३.२.६२॥
लब्धा ज्ञानं दण्डवतं प्रणम्य भक्ति भावतः
।
पादधूलि प्रगृह्यास्य कृताञ्जलिपुरःसरम् ॥३.२.६३॥
भवतः कृपयाद्याहं पश्यामि दिव्य चक्षुषाः ।
श्रीकृष्णचैतन्य प्रभुर्भवानेव न चापरः ॥३.२.६४॥
अतस्तं तस्य पीठं वै यत् पूर्वं
समधिष्ठितः ।
नकिञ्चिच्चित्रमस्त्यत्र स्वासने स्वयमास्थितः ॥३.२.६५॥
दिव्यसौरभमाघ्राय भवतः पादपद्मयोः ।
भक्तानामवदं मां हि कृपांकर्तुमिहागतः ॥३.२.६६॥
कोऽपिदेवोपमः साक्षादीश्वरो वा भवेदयम् ।
अतोहमति धन्योऽस्मि रामकृष्णस्यदर्शनात् ॥३.२.६७॥
अथाप्तौतौ नवद्वीप भगवद्धाम भक्तिदम् ।
ठाकुरेनैवमुक्तन्तु तत्र गत्वाहं सुक्षमम् ॥३.२.६८॥
दारुविग्रहमाश्रित्य श्रीगौराङ्ग
महाप्रभुम् ।
दण्डायमानमपश्यं केवलं तस्य मन्दिरे ॥३.२.६९॥
विज्ञाप्यैवं मातरं मे खमनो वेदनामपि ।
गङ्गागर्भे स्वनौकायां यदाहं पुनरागतः ॥३.२.७०॥
तदैवदेवमार्गे स भक्त वेष्टित विग्रह: ।
जाम्बूनदज्योतिर्मयोभावभावित विग्रहः ॥३.२.७१॥
सङ्कीर्तन परीदेव आगछन् सम सन्निधौ ।
असावेति असावेति ब्रुवन् मम कलेवरे ॥३.२.७२॥
साङ्गोपाङ्गादिभिः सार्द्धं गौराङ्ग
सम्प्रविष्टवान् ।
अनेनेदं मयाज्ञातं गौराङ्गो भगवान् स्वयं ॥३.२.७३॥
श्रीगौराङ्ग नित्यानन्दाद्वैतरूपाः
सुविग्रहा ।
साम्प्रतं ममदेहेते त्रयः सन्तीतिनिश्चितम् ॥३.२.७४॥
पुनरस्य भगवतः श्रीरामकृष्णयोगिनः ।
प्रत्यागतिः सुसम्भाव्याभवेत् किं दक्षिणेश्वरे ॥३.२.७५॥
इति श्रीरामेन्द्र सुन्दर भक्तितीर्थ विरचिते श्रीश्रीरामकृष्णभागवते पारमहंस्यां संहितायां ठाकुरस्य नवद्वीपगमनादि रूप शेष लीलायां द्वितीयोऽध्यायः ॥२॥