अन्त्यलीला
विद्यासागरादिः सम्मेलनम्
अन्त्यलीलायाश्चतुर्थोऽध्यायः
इतः परमतीतेषु त्रिषुवर्षेषु सा तदा ।
पत्नी श्रीरामकृष्णस्य सारदा शारदा यथा ॥३.४.१॥
पित्रासह समायाता शुभे पञ्चवटी गृहे ।
यत्र विराजितो देवीपतिः पूज्यः परोगुरुः ॥३.४.२॥
स्वकक्षे श्रीरामकृष्णः कृत्वा शय्यासने पृथक ।
स्वपत्न्यै स्थानमददात कृपया करुणानिधिः ॥३.४.३॥
पतिव्रता महाभागारामकृष्णैक मानसा ।
स्वामिनं सन्दर्शनात् साध्वी कृतकृत्या बभूव ह ॥३.४.४॥
पति शुश्रूषणपरा नियतं ब्रह्मचारिणी ।
अलौकिक मनोभावापति भावविभाविता ॥३.४.५॥
मम स्वामी जगत् स्वामीनास्थ स्त्रीपुंभिदायतः ।
जगदुद्धारणार्थाय सदातन्मयतां गतः ॥३.४.६॥
त्रेतायां योमया सार्धं रामोराजीवलोचनः ।
रक्षःकुलविनाशार्थमाविर्भूतः स्वयं हरिः ॥३.४.७॥
स एव द्वापरयुगेऽकरोत् क्रीडा मया सह ।
जातो यदुकुलाम्भोधौ कृष्णचन्द्रः कृपानिधिः ॥३.४.८॥
युगेऽधुनाधर्महीने कलौसोऽयं सनातनः ।
सम्मार्गदर्शनार्थाय जातो ब्रह्मकुले हरिः ॥३.४.९॥
अपरित्यज्याम्मामेषः कामारपुकुराम्बुधेः ।
उदितं तत् परं ब्रह्म नराकृति न संशयः ॥३.४.१०॥
एवं श्रीरामकृष्णस्य स्वस्याश्च सारदा तथा ।
स्वरूपं संज्ञातवती स्वमिनः सुप्रसादतः ॥३.४.११॥
गतेचैवं कियत्कालेपत्युः पादतले स्थिता ।
तत् पादयुगलं कोडे न्यस्य संवाहनादिना ॥३.४.१२॥
परितोष्यपतिं साध्वी पप्रच्छ विनयान्विता ।
वेत्सिमां कीदृशी त्वं हि प्रब्रूहि यदि रोचते ॥३.४.१३॥
पृष्टश्चैवं स भगवानुवाचालौकिकं वचः ।
स्त्रीमात्रे मातृबुद्धिर्मे भोगेच्छा भावहेतुतः ॥३.४.१४॥
या माता भवतारिणी सुखयुता श्रीमन्दिरेऽवस्थिता या माता जननी स्वगर्भकुहरे धृत्वा प्रसूयाऽपि माम् ।
कल्याणं मम काङ्क्ष्यति स्वसुखं कृत्वाऽतितुच्छं सदा
निद्रां याति सुखेन या गुरुतमा देवालये साम्प्रतम् ॥३.४.१५॥
सैवासौपद सेवनं कृतवती स्नेहार्द्रचित्ताधुना –
या माता सकलार्थं साधनविधौ संसिद्धिदात्रीमता ।
सारं या जगतो महासुखमयं विज्ञानजं सुस्थिरं
यच्च्छत्येव सदा ततस्तु महतागीतासदा सारदा ॥३.४.१६॥
अतस्त्वंहि जगम्मातू रूपान्तरमवस्थिता ।
मत्पादौ स्वहृदिन्यस्य सेवाकार्यं करोषि हि ॥३.४.१७॥
यद्यपिपत्नीरूपेण कृतः पानिग्रहस्तव ।
तद्रूपाचरणाशक्यस्तत् क्षमस्वाधुना मम ॥३.४.१८॥
ममैव पत्नीत्वं देविशाश्वती वेदसम्मता ।
तेनत्वामिह सम्प्राप्तः साम्प्रतं सुस्थिरा भव ॥३.४.१९॥
विस्मृत्य पत्नीरूपां त्वां जानामि मातृरूपिणीम् ।
युगेऽस्मिंस्त्वां न पश्यामि पत्नीरूपेण निश्चितम् ॥३.४.२०॥
एवं स्वतत्त्वं सुज्ञाय सारदा स्वामि सन्निधौ ।
ज्ञान विज्ञान सम्पन्ना बभूव पारमार्थिकी ॥३.४.२१॥
अतः परं तत्र समागतास्ते ये पण्डिता भारतवासिमुख्याः ।
श्रीरामकृष्णस्य कृपाप्तये च तथावतारत्व परीक्षणाय ॥३.४.२२॥
रत्नानि यः सुविपुलानि समुझ्झितानि
रत्नानि यैः सुलिखितानि सुभाष्यजानि ।
रत्नैस्तु यैस्त्रिजगतां द्रुरितानि यान्ति
रत्नानि तानि विधृतानि हि तर्करत्नैः ॥३.४.२३॥
दृष्ट्वा महारत्नद रामकृष्णं परीक्ष्य रत्नं समुवाच रत्नः ।
यद्यस्तिलिप्सा परमार्थ रत्ने तदा सुतूर्णं धर रत्न रत्नम् ॥३.४.२४॥
दृष्टानि तीर्थानिवहुनि भूम्नि स्थिताः सदा तत्र सुसाधुवर्गाः ।
ईदृग्विधः किन्तु सुसाधुमध्ये साधुर्नदृष्टो भगवत् स्वरूपः ॥३.४.२५॥
श्रीदक्षिणेश्वर गुरोर्गुरुतां विलोक्य तत् पादपद्म मकरन्दजुषोसमायम् ।
लाभो महानिति यतः शरणागतोऽस्मि
भो दक्षिणेश्वर विभूषण देहिभक्तिम् ॥३.४.२६॥
स्तुत्वेवं श्रीरामकृष्णं तर्करत्नोगतस्तदा ।
यद्भाष्यं भारतीयानां विदुषां चक्षुरादिशत् ॥३.४.२७॥
पूज्योयोजगतां स्वयं शशधरः स्निग्धांशुदानाद्दिवि
तद्वदयोवचसा प्रयोगविषये सिग्धो महापण्डितः ।
नाम्नासौ विदितः सुधी शशधरस्तर्केषु चुड़ामणिस्तत् भाषाश्रवणाय तत् सुनिकटं गत्वा तदा ठाकुरः ॥३.४.२८॥
तत्र तेन कृतालापः पृष्टवान् पण्डित प्रभुः ।
भवता किं कृपामय्याः कृपालाभादिदङ्कृतम् ॥३.४.२९॥
यल्लोकरङ्जनं कार्यं शास्त्र व्याख्या पुरः सरम् ।
तेन त्वं ख्यातिमाप्नेति बहव: शिक्षिता जनाः ॥३.४.३०॥
प्रशं सन्ति विशेषेण भवन्तं बहु पण्डिताः ।
जगदम्बा कृपाविन्दुमलब्धा चेद्वदिष्यति ॥३.४.३१॥
न तेन कस्यापि भवेदत्यल्पमुपकारकम् ।
वक्तृता च भवेद्व्यर्था सूच्च चीत्काररूपिका ॥३.४.३२॥
इत्युक्त्वा श्रोशशधरतर्कचूडामणि प्रभुः ।
गतः स्वमालयं तस्य तत्त्वज्ञानमभूत्ततः ॥३.४.३३॥
आसीद्वाराणसी धाम्नि विजयो पण्डितो महान् ।
श्रीविशुद्धानन्दनामा वेदान्ते परिनिष्ठितः ॥३.४.३४॥
वेदान्ताध्यापनकारी वहु छात्र समन्वितः ।
सन्न्यासौ ब्रह्मानुभवी शास्त्रामोदो सुनैष्ठिकः ॥३.४.३५॥
वेदान्त वागीशोपाधिधारी तस्य सुबुद्धिमान् ।
छात्रो वङ्गोद्भवो ब्रह्मकुलेजातः सुपण्डितः ॥३.४.३६॥
येन ब्रह्म सुत्रभाष्यं व्याख्यातं वङ्गभाषया ।
स दक्षिणेश्वरं आगत्य स्वयं भगवता सह ॥३.४.३७॥
शास्त्रालापात् परञ्चोक्तं वेदान्तवागीशेन हि ।
बहुपुण्यवलेनाद्य श्रीरामकृष्ण दर्शनम् ॥३.४.३८॥
जातं येन सुजटिल शास्त्र सिद्धान्तजालकम् ।
धर्म तत्त्व समाधानञ्चास्य प्राकृत भाषया ॥३.४.३९॥
कर्तुं शक्नोमि कृपया वेदमूर्तेर्महात्मनः ।
धन्योऽस्मि कृतकृत्योऽस्मि सफलं जोवनं मम ॥३.४.४०॥
एवमुक्त्वा भगवतः पादरेणुन प्रगृह्य सः ।
गतो वेदान्त वागीशो दृष्ट्वास्य योग वैभवम् ॥३.४.४१॥
विद्यासागर संज्ञको गुणवतां श्रेष्ठो महापण्डितस्तं
द्रष्टुं गतवानसौ सुखतनुः श्रीरामकृष्णो हरिः ।
दृष्ट्वा तं समुवाच सागरमहो कालोगतः खुल्लके खातेऽस्मिन्रधुना ह्यगाधसलिले सम्मिश्रितः सागरे ॥३.४.४२॥
श्रुत्त्वोवाच स सागरः स लवनं पीत्वाजलं वारिधेः
लब्धाशान्तिमितः स्वधामपरमं गच्छाधुनासत्तम ।
श्रीविद्याम्बुधिभाषणं स भगवांच्छ्रुत्वावदत्तं तदा नाविद्याजलधिर्भवांस्त्वयि कथं क्षारं जलं सम्भवेत् ॥३.४.४३॥
पीयुष सागरनिभं पश्यामि दिव्यचक्षुषा ।
भवन्तं वसुधादेव्याः पूर्णानन्दकरं सुतं ॥३.४.४४॥
दन्तिनां वाह्य दन्तौ तु शोभार्थमेव केवलम् ।
दन्तान्तराणि खादार्थं विद्यन्ते मुख गहवरे ॥३.४.४५॥
तद्वल्लोक हितार्थाय बहिर्विद्योद्यमस्तव ।
किन्तु त्वदन्तरे भाति भगवद्भक्ति सागरः ॥३.४.४६॥
तदर्थमेव जगति सुप्रतिष्ठा मतां तव ।
ततो विद्या सागरेणाप्युक्तस्तत् सम्भवेत् कथम् ॥३.४.४७॥
तमुवाच ठाकुरस्तु ईषद्धास्य पुरः सरम् ।
पटोलमालुकं वापि सिद्धं कोमलतां व्रजेत् ॥३.४.४८॥
अतीव कोमलं त्वान्तु पश्यामि ज्ञान सागर ।
ततस्तस्माद्विनिष्क्रम्य ठाकुरः शिष्यमुक्तवान् ॥३.४.४९॥
पुरुषोऽयं महात्यागी विद्यासागर नामकः ।
दर्शयित्वा निजं देहमुवाच परमार्थवित् ॥३.४.५०॥
कर्म संयोगाद्विद्यादानस्य कर्मणः ।
नष्ट सम्भावनायैवानेन मुक्तिरुपेक्षिता ॥३.४.५१॥
बहूनां जन्मनामन्ते सागरो मुक्तिमेष्यति ।
एवमुक्ता सशिष्यः स प्राप्तवान्निजमन्दिरम् ॥३.४.५२॥
अन्यैकः सिद्धपुरुषोवर्द्धमानाधिपस्य हि ।
सभापण्डितरूपेण विख्यातः पण्डितो महान् ॥३.४.५३॥
श्रीपद्मलोचनः शुद्धस्वभावोऽप्यतिसुन्दरः ।
नोग्रभावः कदापऽयं शास्त्रानन्देन नन्दितः ॥३.४.५४॥
अनेनैवमिष्टदेव वरप्राप्तो महात्मना ।
पूर्वं शास्त्र विचारस्य स्वमुखं क्षालितं यदि ॥३.४.५५॥
भवेत्तर्हि सभायां वैजयीभवति निश्चितः ।
सर्वसभाजयी चासौ तद्रूपेणाभवद्द्विजः ॥३.४.५६॥
मदगेहा गमनञ्चास्य विज्ञाय ठाकुरस्तदा ।
पात्राणि जलशून्यानि कृत्वा तिष्ठन् मुदायुतः ॥३.४.५७॥
प्रविश्य पण्डितस्ततो रामकृष्णस्य सद्मनि ।
निर्जलं सकलं पात्रं दृष्ट्वातिविस्मितोऽभवत् ॥३.४.५८॥
ममेष्ट देवता वरोऽज्ञातो मद् भार्यायापि च ।
यतोऽनेन सुविज्ञातः स्वेष्टदेवस्ततो मम ॥
३.४.५९॥
ततो विधायभक्त्यास्य स्तवं स पण्डितो महान ।
कृपांलब्धा गतोधीमान् रामकृष्णस्य सद्मनः ॥३.४.६०॥
राढे इन्दास इत्याख्ये ग्रामे गौरीति पण्डितः ।
मन्त्र चैतन्य पुरुषोविख्यातो देव शक्तितः ॥३.४.६१॥
श्रीदुर्गाऽभ्यर्चनकाले स्वपत्नीं भव सुन्दरीम् ।
मत्वा तां पूजयामास भक्ति पूर्वं दिनत्रयम् ॥३.४.६२॥
कृपया जगदम्बाया अथवा योगशक्तितः ।
हेतुना येन केनापि वामेकरतले स्वयम् ॥३.४.६३॥
प्रज्वाल्य काष्ठराशिञ्च धृत्वा होम चकार सः ।
किन्तु तदग्निना तस्य करोदग्धो नचाभवत् ॥३.४.६४॥
पण्डित पर्षदि तथा ज्ञान गणेशमूर्त्ति धृक ।
पण्डितोऽयं हारे रे रे वदन्नुच्चैर्भयावहम् ॥
३.४.६५॥
ध्वनिं कृत्वा सभायां वै स यदा समुपाविशत् ।
तदा पण्डितवर्गानां हृत्कम्पः समजायत ॥३.४.६६॥
अतोऽस्यैव जयस्तव सभायां भवति ध्रुवम् ।
एवं सर्वं समायां स श्रेष्ठ सम्मानमाप्तवान् ॥३.४.६७॥
सोऽयं श्रीरामकृष्णस्य तद्रूपेण यदा विशत् ।
गृहं तस्मादपि स्वोच्चरव' कृत्वा यतीश्वरः ॥३.४.६८॥
पण्डितस्कन्धमारुह्य सुक्कृपां कृतवानति ।
एवं भगवतं स्पर्शादिष्टदेव स्वरूपकम् ॥३.४.६९॥
मत्वा स्तौषीद्रामकृष्णं विज्ञायतं गजाननम् ।
गललग्नी भवद्वासा साष्ठङ्गं प्रणिपत्यतम् ॥३.४.७०॥
नमो विघ्नविनाशाय नमो मङ्गलं हेतवे ।
नमो भगवते तुभ्यं गणाधिपतये नमः ॥३.४.७१॥
पाशाङ्क, शौकल्पलताविषानं दधत् समुण्डाहित बीज पुरः ।
रक्तस्त्रिणेत्रस्तरुणेन्दु मौलि हारोज्वलोहस्ति मुखोऽवतान्नः ॥३.४.७२॥
नमो भगवते तुभ्य वेद वेद्याय वेधसे ।
जीवानामनुकम्पार्थं जातोऽसि पृथिवोतले ॥३.४.७३॥
स्तुत्वैवं श्रीरामकृष्णं भक्त्या गदगदया गिरा ।
जगाम स्वशिष्यगणैः श्रीगौरी पण्डितोगृहम् ॥३.४.७४॥
पण्डितानां गुणवतां साधूनां समचेतसाम् ।
सर्वेषामेव सविधे रामकृष्णः स्वयं हरिः ॥३.४.७५॥
यातितेषां दर्शनार्थं तत्तद्गेहे महामतिः ।
यदिकश्चिन्निज जन ठाकुरं परिपृच्छति ॥३.४.७६॥
भवद्विध जनस्ये दृगयाचित गतिः कथम् ।
श्रुत्वेदं भोषणन्तस्य ठाकुरस्तमुवाच ह ॥३.४.७७॥
भो वत्स यस्यास्ति गुणो विपुलः स गुणी मतः ।
अतस्त्वं शास्त्रवाक्यन्तु शृणु पुत्र यथोदितम् ॥३.४.७८॥
मुक्ता हि जवया रक्ता जवा शुभ्रा न मुक्तया ।
भवेत् परगुणग्राहो महीयानेव नेतरः ॥३.४.७९॥
अतोऽहं सज्जनगुणान् ग्रहीतुं व्यग्रतां गतः ।
तस्मान्महर्षि देवेन्द्र केशव सागरादयः ॥३.४.८०॥
एतेषां कीदृशञ्चास्ति गुणरत्नं तदाश्रितुम् ।
तत्तत् सकाशं गच्छामि रत्नलाभाय निञ्चितम् ॥३.४.८१॥
अतः सत्सङ्गलाभाय मानवैर्यत्यतां सदा ।
सत्सङ्गेन विना कोऽपि मानुष्यं नाभि विन्दति ॥३.४.८२॥
अत्रोक्तं श्रीभगवता भक्तमुद्दिश्यचोद्धवम् ।
सत्सङ्गेन हि दैतेया यातुधानाः खगामृगाः ॥३.४.८३॥
गन्धर्वाप्सरसो नागाः सिद्धाश्चरण गुह्यकाः ।
विद्याधरामनुष्येषु वैश्याः शूद्राः स्त्रियोऽन्त्यजाः ॥३.४.८४॥
रजस्तमः प्रकृतयस्तस्मिंस्तस्मिन् युगे युगे ।
वहवो मत्पदं प्राप्तास्त्वाष्ट्र कायाधवादयः ॥३.४.८५॥
वृषपर्वा बलिर्बाणो मयश्चाथ विभीषणः ।
सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिक्पथः ॥३.४.८६॥
व्याधः कुब्जा व्रजे गोप्यो यज्ञ पन्त्यस्तथापरे ।
ते नाधीताः श्रुतिगणा नोपासीत महत्तमाः ॥३.४.८७॥
अव्रतास्तप्ततपसो मत्सङ्गान्मामुपागताः ।
एवं सत्सङ्गमहिमार्थं शास्त्रे निरूपितः ॥३.४.८८॥
अतःपरं लक्षणञ्च साधोः शृणुवदामि भोः ।
यच्छ्रुत्वामुच्यते जन्तुर्जगद्व्यापार यातनात् ॥३.४.८९॥
न प्रहृष्यति सम्माने नावमानेन कुप्यति ।
न क्रुद्धः परुषं ब्रुते ह्येतत् साधोस्तु लक्षणम् ॥३.४.९०॥
आत्मानं पीडयित्वापि साधुः सुखयते परं ।
ह्लादयन्नाश्रितान् वृक्षो दुःखञ्च सहते स्वयम् ॥३.४.९१॥
यत् पूजायां भवेत् पूज्योदृष्टान् यमदर्शनम् ।
पापसङ्घः स्पर्शनाच्च किमहो साधुसखम् ॥३.४.९२॥
साधूनां हृदयो धर्मो वाचो वोनः सनातनाः ।
कर्मक्षयानि कर्माणि कानि यतः साधुर्हरिः स्वयम् ॥३.४.९३॥
अतो दुःसङ्गमुत्सृज्य सत्सुसज्जेत बुद्धिमान् ।
सन्त एवास्य छिन्दन्ति मनोव्याथामसङ्गमुक्तिभि: ॥३.४.९४॥
इति श्रीरामेन्द्रसुन्दर भक्तितीर्थ विरचिते श्रीश्रीरामकृष्ण भागवते पारमहंस्यां संहितायां अन्त्यलीलायांश्वतुर्थोऽध्याये श्रीसारदा देव्या, स्वामि सानिध्यलाभस्तथा विद्यासागरादि वार्ता सत्सङ्गोपदेशश्व वर्णितः ॥४॥