अन्त्यलीला
ठाकुरस्य रोगारम्भः चिकित्सार्थं
बागबाजारादिगमनम्
अन्त्यलीलायां षष्ठोऽध्यायः
अथ मातृवियोगात् स पूर्वस्मिन् वत्सरे
प्रभुः ।
मधुमासमध्यमांशे ब्राह्म धर्मावलम्बिना ॥३.६.१॥
नेतारं पण्डितवरं महाभागं सदाशयम् ।
श्री केशवचन्द्रसेनं वरेण्यं लोकविश्रुतम्॥३.६.२॥
द्रष्टुमत्यन्तमुद्विग्नो बभूव भक्तवत्सलः
।
तदा केशवसेनस्तु कलिकाता समीपतः ॥३.६.३॥
जयगोपालसेनस्य बिल्वघरिया ग्रामके ।
उद्यानवाटिका मध्ये स्थितः परम यत्नतः ॥३.६.४॥
ठाकुरोऽपि तदुद्याने जगाम हृदयेनवै ।
एव श्रीरामकृष्णस्य देवस्य शुभ दर्शनम् ॥३.६.५॥
प्राप्तं केशवसेनेन पुण्यपुञ्जप्रभावतः ।
भावभावित वाकैश्च ठाकुरस्य स केशवः ॥३.६.६॥
अभेद ब्रह्मवादी व भक्त्या कृष्टो बभूव ह ।
परस्तु श्रीरामकृणं पूजयामास भक्तितः ॥३.६.७॥
तेन सर्वैः कलिकाता वास्तव्यैर्मानवैस्तदा
।
विदितो रामकृष्णस्तु केशवेन प्रपूजितः ॥३.६.८॥
अपूर्व साधकत्तम उदितो दक्षिणेश्वरे ।
एवं नानादिग्विदिक्षुः प्रभावस्य प्रभोस्तदा ॥३.६.९॥
प्रचारः पूर्णतां प्राप्तः प्राज्ञानां
पूर्णसङ्गमात् ।
एव ब्रह्म समाजस्योपरि श्रीठाकुरस्य च ॥३.६.१०॥
प्रभुत्वस्य प्रकाशोऽभूद्विशिष्टश्च
समादरः ।
प्रकाशकेष्वन्यतमो ब्राह्म धर्मस्य येन सः ॥३.६.११॥
विजयकृष्ण गोस्वामी स्वमतं परिवर्तितम् ।
कृत्वा ब्राह्मसमाजञ्च तत्याज यदनुग्रहात् ॥३.६.१२॥
श्रीदक्षिणेश्वरोद्याने तदारभ्य महात्मनः ।
अश्रुत पूर्वभावस्य महाशक्ति युतस्य च ॥३.६.१३॥
साधकस्य सुप्रभावो व्याप्तो नाना ककुप्सु
हि ।
दक्षिणेश्वर आक्रीडो नाना जन समागमे ॥३.६.१४॥
महातीर्थ स्वरूपोऽभूतीर्थं पाद समाश्रयात्
।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रः शङ्कर जातयः ॥३.६.१५॥
ब्रह्मज्ञानी धनी मानी पण्डितो व्यवसायकः ।
सन्न्यासी ब्रह्ममचारी च वैद्या वैज्ञानिकास्तथा ॥३.६.१६॥
विचारका राजभृत्या अत्युच्च पदधारिणः ।
सर्वेऽप्यत्र समायाताः स्म स्ववृत्तिं प्रगृह्य च ॥३.६.१७॥
कोऽपि वा वित्तदानाय विशेषण समुत्सुकः ।
तथान्ये वित्तलाभार्थमागतो बहुदूरतः ॥३.६.१८॥
रोगनाशार्थं मन्ये वा स्त्रीपुत्र
वश्यतेच्छया ।
राजद्वारे जयार्थं वा पुत्रं प्राप्त्याशयाथवा ॥३.६.१९॥
एवं नाना जना नाना कामना पूर्त्ति हेतवे ।
अगाधं गम्भीरमपि चञ्चलं चक्रुरेव तम् ॥३.६.२०॥
तदैव माया परि
तदैव माया परिमुक्त चेतसः
श्रीरामकृष्णस्य मुखारविन्दतः ।
उदास शब्दः सुमहान् समुत्थितो
ह्यहं सुदग्धो विषयस्य वार्तया ॥३.६.२१॥
देहीति मह्यं सुख भोगरूपे
स्त्रीकाञ्चने वाक्यचयेन सर्वदा ।
दग्धीकृते तैः श्रवणे निरन्तरम्
एतात्र मां पान्तु मदीय किङ्कराः ॥३.६.२२॥
कुत्र स्थितास्ते विशयाद्विरागिणी
मदीय भक्ताः खलु ते सुसत्वरम् ।
आगत्य सर्वे मम कार्य भारम्
संगृह्यरक्षन्तु दुराशयादितः ॥३.६.२३॥
एवं पृथग्भाव विभावितात्मनः
पुण्येच्छयाकृष्ट तदीय पार्श्वदाः।
जगद्धितायैव गृहीत शक्तयः
प्रापुश्चते श्रीगुरुपादसन्निधिम् ॥३.६.२४॥
तेनैव लभ्यं विमलं विशिष्टं
ज्ञानं
सतत्त्वाधिगमं पुराणम् ।
नीत्वाऽञ्जली ते समुपस्थितास्तदा
ये चास्य भक्ता जगतो वरेण्याः ॥३.६.२५॥
सुरेन्द्रनाथः परमार्थ वेदी काली शशी
तारकताथ भक्तः ।
गिरीश गङ्गाधर रामदत्ता राखाल लाटुत्तम भक्तवर्गाः ॥३.६.२६॥
श्रीबाबुरामादय एव सर्वे देहो मनः प्राण
वचांसि वै तदा ।
गुरोः पदाब्जे सकलं समर्प्य जनौघ चाञ्चल्यमशोशमन् गुरोः ॥३.६.२७॥
देवस्य तव सुभक्तगोष्ठयां श्रीरामकृष्णस्य
मुखारविन्दात् ।
यन्निःसृत वेदपुराण सिद्धं कथामृतं तेन तरन्ति भव्याः ॥३.६.२८॥
तदेव विश्वस्य जनस्य मङ्गलं सुमङ्गलं यत्
परमं प्रगीयते ।
तेनैव लभ्यं पुरुषार्थ जातं धर्म्मार्थकामाः परमो हि मोक्षः ॥३.६.२९॥
नव्या युवक वर्गा ये भक्ताः सन्ति प्रभोः
प्रियाः ।
तदीयैः सह सङ्गम्य तत्रागच्छत् स ठाकुरः ॥३.६.३०॥
यत्राच्युतात्मनां जातः सङ्कीर्त्तन
महोत्सवः ।
श्रीदक्षिणेश्वर स्थानाद्गव्युतौ यक्ष राढ दिशि ॥३.६.३१॥
दूरे संशोभते कश्चित् संवसथो महत्तमः ।
पानिहाठीति नाम्नायं तत्रैको वैष्णवोमहान ॥३.६.३२॥
श्रीमच्चैतन्य देवस्य पादार्पण प्रभावतः ।
हरौ जातरतिर्दासः श्रीरघुनाथ नामकः ॥३.६.३३॥
राज्ञःकुमार एवैकस्तस्य भार्यातिसुन्दरी ।
राजकन्या वरारोहा रूपेणाप्रतिमा भुवि ॥३.६.३४॥
लक्षाधिकानां मुद्राणामायो भवति वार्षिकः ।
किन्त्वर्थे निज पत्याञ्च नासक्तिस्तस्य विद्यते ॥३.६.३५॥
दृढ़ वैराग्य योगाच्च हरिभक्ति समाश्रयात्
।
गौराङ्ग कृपया कृष्णभजनैकाभिलासवान् ॥३.६.३६॥
संसार वन्धनञ्चासौ कामिनोकाञ्चनादिकम् ।
परित्यज्य स पिवति हरिनामामृतं सदा ॥३.६.३७॥
रघुनाथं समुद्दिश्य पितृ बन्धुगणैर्यदि ।
नानोपदेश वाक्यानि गदितान्यपि तत् पिता ॥३.६.३८॥
बन्धुवर्गान् वदत्येवं धैर्यमालम्ब्य
बुद्धिमान् ।
अप्सरः सदृशी भार्या कुबेर सदृशं धनम् ॥३.६.३९॥
यं बन्धुं न च शक्तेस्तु
किमुतत्रान्यचेष्टया ।
एवमुक्तं तस्य पित्रा सुदुःखमनसाभृशम् ॥३.६.४०॥
वैराग्यं रघुनाथ दास कृतिनो
गोस्वामिचूडामनेः
भक्तिचापि हरेरलोकिक विधा गौराङ्गदेवो
हरिः ।
श्रुत्वा प्रीतमनाः स्व भक्तममलङ्कर्तुञ्च धन्यं तथा
भक्तान् शिक्षयितुं निजानपि परां भक्तिं स
नीलाचलात् ॥३.६.४१॥
ज्यैष्ठे पक्ष परे त्रयोदश तिथौ
प्रत्यागमे ठाकुरः
तत्र श्रीरघुनाथ दास भवने प्राकट्यमाप
स्वयं ।
दृष्ट्वा तं सुर सुन्दरं भगवतः प्रेमैकमूर्तिं हरिम्
श्रीचैतन्यमहाप्रभोः पदतले संलण्ठितः
प्रेमवान् ॥३.६.४२॥
एवन्तं रघुनाथ दास ममलञ्चोत्थाप्य
तन्मस्तके
दत्वा श्रीकरपल्लवं मधुरयावाचावदत् स
प्रभुः ।
यत्त्वं श्रीपितरौ कलत्रविभवौ हित्वा सुखन्तिष्ठसि
तस्मात्ते करुणां करोमि नितरां दण्डच्छले
नात्र भोः ॥३.६.४३॥
अतो दण्डस्वरूपस्य सभक्तस्य मम त्वया ।
सेवाकार्या तेन तव मङ्गल सम्भविष्यति ॥३.६.४४॥
रघुनाथस्ततस्तस्य कृपा मधुर शासने ।
सम्यगुल्लसितो भूत्वा तात्कालिक सुभोज्यकम् ॥३.६.४५॥
चिपिटक दधि मिष्टफलादिकमनुत्तमम् ।
प्रायश्चित्त स्वरूपन्तत्कृतवानुत्सवं शुभम् ॥३.६.४६॥
स एव वैष्णवैः सर्वैश्चिपिटक महोत्सवः ।
दण्डमहोत्सवी वायं प्रसिद्धो गदितश्च तैः ॥३.६.४७॥
भूतपूर्व कथा सापि तस्य पुण्यस्मृतेः पुनः
।
सम्यगुद्दीपनेच्छायां तस्मिन्नेव दिने शुभे ॥३.६.४८॥
गौडीय वैष्णवास्तत्र हरिनाम सुकीर्तने ।
एतादृशीमुन्मत्ततां यान्ति येन न तिष्ठति ॥३.६.४९॥
अवकाशो वैषयिक चिन्तायास्तत्र वैध्रुवम् ।
अतस्तदुत्सवः पुण्यष्ठाकुरो वदति स्वयम् ॥३.६.५०॥
हरिनाम क्रयस्थान वैष्णवानां सुनिश्चितम् ।
परन्तु कृष्णचैतन्याचरित भावधारया ॥३.६.५१॥
विद्यते हरिभक्तेश्च स्रोतः प्रवाहितं तथा
।
श्रीकृष्णचैतन्य नित्यानन्दावैत खरूपकः ॥३.६.५२॥
स्वयं त्रिमूर्त्तिको भूत्वा ठाकुरो
लिप्सया नया ।
तत्राविर्भूय भक्तेभ्यः शुद्धप्रेम प्रदत्तवान् ॥३.५.५३॥
ततो युवक सङ्घैः स मिलित्वा भगवान् स्वयम्
।
पूर्ववदधुना तत्र हरिनाम महोत्सवे ॥३.६.५४॥
योगदानं कृतं तेन भक्तानुग्रहकारिणा ।
तवस्था वैष्णवाः सर्वे प्रभोः पुण्यपदार्पनात् ॥३.५.५५॥
प्रोल्लासिताः प्रोक्तवन्तः कृष्णचैतन्य
आगतः ।
एवं ठाकुरमावेष्ट्य महानन्द पुरःसरम् ॥३.६.५६॥
उच्चैः सङ्कीर्तनं कृत्वा नित्यानन्द
परिप्लुतः ।
भक्तानां श्रीभगवति रतिवृद्ध्यर्थमेव सः ॥३.५.५७॥
मग्नोऽभूत् कीर्तनानन्दे प्रायः
सर्वदिनन्तदा ।
मेघवर्षणतस्तत्र तद्दिने सिक्तः ठाकुरः ॥३.६.५८॥
नृत्यात् परमार्द्रभूमौ नग्नपद्भ्यां गतेः
पथि ।
पोतारोहनतश्चापि स्वक्षेत्रे देवमन्दिरे ॥३.५.५९॥
प्रत्यागमनवेलायां शीततामुपलब्धवान् ।
तद्धेतोस्तद्भगवतो वेदनागलगह्वरे ॥३.६.६०॥
पूर्व जलोपलं भुक्ता वेदनासूचिता भवत् ।
अधुना शैत्ययोगेन प्रवला समजायत ॥३.५.६१॥
अमूदत्यन्तरूपेणास्माकं भाग्यविपर्ययात् ।
असाध्य गलरोगोऽयं रोगविद्भिर्निरूपितः ॥३.६.६२॥
यद्यपि भक्तवर्गेषु ये वैद्याः प्रवराः
स्थिताः ।
कलिकाता नगर्यास्ते गत्वा देवालयं प्रभोः ॥३.५.६३॥
कुर्व्वन्तोऽपि सूचिकित्सां नालं शमयितुं
रुजाम्।
तदोवाच स्वभक्तेभ्यष्ठाठाकुरो भक्तवत्सलः ॥३.६.६४॥
निर्दिष्टं कालपर्यन्तं पीडा स्थास्यति
निश्चितम् ।
तद्धेतोः किमसौ रसप्रजालाप पराङ्मुखः ॥३.५.६५॥
भविष्यामीति मत्वा श्रीठाकुरो निज देहजम् ।
रोगारोग्यमुपेक्षैव भक्तामङ्गलहेतवे ॥३.६.६६॥
पूर्ववद्भगवत्तत्वकथनात् ठाकुरस्य हि ।
सहसा वेदना स्थानाद्रक्त निःसरणं वमौ ॥३.६.६७॥
भगवत् साधना सिद्धा योगेन्द्र जननी तदा ।
तद्रूपा गोपालमाता स्त्रीभक्ते प्रवरे च ते ॥३.६.६८॥
मातुः श्रीसारदा देव्या नितान्तं वश्यतां
गते ।
ते द्वे श्रीठाकुरो जया विजयेत्यब्रवीन्मुदा ॥३.६.६९॥
गोपाल जनन्यास्तस्या गृहे गुरु महोत्सवे ।
समायाता भक्तवर्गाः श्रुत्वा रक्तं बहिर्गतम् ॥३.६.७०॥
प्रभोरुद्विग्न चित्तास्त देवालयमुपागमन् ।
सुचिकित्सा भवेदस्य कलिकाता स्थितस्य हि ॥३.६.७१॥
शुश्रूषाप्यस्य सुचारु ठाकुरस्य
भवेदुध्रुवम् ।
एवन्तद् भक्तवर्गाणां प्रार्थना पूरणे सति ॥३.६.७२॥
गङ्गातीरस्य सान्निध्ये बागवाजारपल्लीतः ।
गृहीतं तैश्च वासार्थमेकं द्वितलं गृहम् ॥३.६.७३॥
तत्र गत्वा श्रीठाकुरः प्रोवाच वच उत्तमं ।
जीवानामामयः साक्षात् शिवसृष्टो न संशयः ॥३.६.७४॥
तेनैव सर्वरोगानामौषधं परिकल्पितम् ।
अतो रोग विमुक्त्यर्थमौषधं सेवयेज्जनः ॥३.६.७५॥
तत्र द्वित्रदिनं स्थित्वा दृष्ट्वा
तद्भवनं प्रभुः ।
उवाचेदं गृहं सुष्ठु गङ्गायात्रि जनस्य वै ॥३.६.७६॥
न मे समुपयुक्तन्तु भक्तवर्गैः सहस्थितेः ।
तच्छ्रुत्वा भक्तवर्गा यत् प्रभोरत्यधिकं प्रियम् ॥३.६.७७॥
मन्दिरं बलरामस्य वसोस्तदानयन् प्रभुम् ।
बलरामवसुश्चापि प्राप्यतं ठाकुरं तथा ॥३.६.७८॥
अप्रार्थित प्रकारेण भक्तवर्गेण वेष्टितं ।
भगवन्तं समासाद्य परमानन्दमाप्तवान् ॥३.६.७९॥
रोगोपशम लिप्सातु तिष्ठतु वा न तिष्ठतु ।
नवागत पिपासूनां दाने कथामृतस्य च ॥३.६.८०॥
भूरितृप्तिमदात्तेभ्यो विस्मृत्य स्वामयं
प्रभुः ।
तत् कथामृत पानाद्धि सर्वे मानुषतां गताः ॥३.६.८१॥
अत्रैका घटना काचिदुल्लेख्यानन्ददायिनी ।
यस्य संस्मरणात् पुंसां सद्यः कुण्ठो विनश्यति ॥३.६.८२॥
प्रभोः सन्दनार्थाय बलरामस्य मन्दिरे ।
कर्मयोगाभाववशाद्रविवासर योगतः ॥३.६.८३॥
समागता भक्तवर्गास्तत्रैकः पण्डितो महान् ।
ढाका महाविद्यालयाध्यापक प्रवरो गुणी ॥३.६.८४॥
नित्यगोपाल गोस्वामी कृपालु ठाकुरस्य हि ।
मुखाम्भोजाद्विनिर्यातां वाचं श्रुत्वा तदन्तरे ॥३.६.८५॥
उवाच ठाकुरं भक्त्या स्वसन्देह क्षयाय हि ।
हार केयूर कुण्डल किरीट वलयादिभिः ॥३.६.८६॥
भूषणैर्भूषितभाति भाति भगवान् भक्तवत्सलः ।
कथमेवम्विधो वेशः स्वयं भगवतस्तव ॥३.६.८७॥
नास्त्येकमपि तर्जण्यां तुच्छ
रौप्याङ्गुरीयकम् ।
किं वीजमन्त्रमेव ब्रूहि कृपया करुणानिधे ॥३.६.८८॥
नाङ्गीकृतं भवद्भिस्तु भूषणञ्चातिशोभनम् ।
भवद्धेतोर्मयानीतं भूषणं प्रतिगृह्यताम् ॥३.६.८९॥
गुर्वीचेयं वासना मे त्वद्देहे तद्धि
शोभताम् ।
भूषणै मूषितं त्वां हि दृष्ट्वा यामि कृतार्थताम् ॥३.६.९०॥
श्रुत्वैवं गोस्वामि मुखाट्ठाकुरः
प्रत्युवाच तम् ।
भो गोस्वामिन्निदं सत्यं यदुक्तं भवता वचः ॥३.६.९१॥
भगवांस्त्रिषु कालेषु भूषणं स्वीचकार ह ।
युगादौ भगवान् साक्षाद्धरिर्नारायणः प्रभुः ॥३.६.९२॥
पद्मासने चोपविष्टः किरीटादिभिरन्वितः ।
तं तदामनुजाः सर्वे ध्यायन्ति भक्तिभावतः ॥३.६.९३॥
नारायण परावेदा नारायण पराक्षरा ।
नारायण परामुक्ति नारायण परागतिः ॥३.६.९४॥
कृते चैवं भगवता खनाम प्रकटी कृतः ।
त्रेतायाञ्च तथा साक्षात् श्रीरामो भगवान् स्वयं ॥३.६.९५॥
अयोध्यायामभूद्राजा मुकुटाङ्गद भूषितः ।
त्रिलोक वासिनः सर्वे देवाश्च वासवादयः ॥३.६.९६॥
तारक ब्रह्मरूपेण ध्यायन्ति सततञ्च तम् ।
रामनारायणानन्त मुकुन्द मधुसूदन ॥३.६.९७॥
कृष्ण केशव कंसारे हरे वैकुण्ठ वामन ।
लीला श्रीरामचन्द्रेण कृता त्रेतायुगे स्वयम् ॥३.६.९८॥
द्वापरे भगवान् श्यामः पीतवासादि संवृतः ।
शङ्खचक्रगदापद्म कौस्तुभादि विभूषितः ॥३.६.९९॥
स्वभक्त प्रमदानाय भूभार हरणाय च ।
जातो यदुकुलाम्भोधौ कृष्णचन्द्रः कृपानिधिः ॥३.६.१००॥
अस्यैव तारकब्रह्म नाम जल्पन्ति ये जनाः ।
तत्क्षणात्ते प्रगच्छन्ति तद्विष्णोः परम पदम् ॥३.६.१०१॥
हरे मुरारे मधुकैटभारे गोपाल गोविन्द
मुकुन्द शौरे।
यज्ञेशनारायण कृष्ण विष्णो निराश्रयं मां जगदीश रक्ष ॥३.६.१०२॥
स्वयमेव श्रीकृष्णेन तृतीये युगपर्यये ।
प्रेमलीला कृता तेन बहुपत्नीयुतेन वै ॥३.६.१०३॥
तद्वत् कलौ सम्प्रवृत्ते चतुर्थे
युगपर्यये ।
हरिभक्ति विहीना ये नराः पुण्य विवर्जिताः ॥३.६.१०४॥
दुराचार रताः सर्वे सत्यवार्त्ता
पराङ्मुखाः ।
परदारापहर्तारो हिंसा द्वेष समन्विताः ॥३.६.१०५॥
माता पितृ कृत द्वेषाः स्त्री देवाः काम
किङ्कराः ।
महापातकिनामेषां पावनाय स्वयं हरिः ॥३.६.१०६॥
जातो शची गर्भसिन्धौ श्रीनवद्वीपधामनि ।
श्रीचैतन्य कृपासिन्धुर्भगवान् भक्तरूपकः ॥३.६.१०७॥
कलिकल्मष नाशाय जोवेभ्यः सम्प्रदत्तवान् ।
हरिनाम महामन्त्रं द्वात्रिंशदक्षरात्मकम् ॥३.६.१०८॥
तारकब्रह्म नामैतत् कलियुगे विमुक्तिदम् ।
यवामतो ध्रुवामुक्तिः कृष्णभक्तिञ्च लभ्यते ॥३.६.१०९॥
हरे कृष्ण हरे कृष्ण कृष्ण कृष्णा हरे हरे
।
हरे राम हरे राम राम राम हरे हरे ॥३.६.११०॥
स्वर्ण रौप्य वज्र मुक्ता रत्नानि
विविधानि च ।
पुष्प चन्दन माल्यानि वर्जितानि महात्मना ॥३.६.१११॥
तेन स्वीकृत सन्न्यास्त्याग सन्दर्शनाय वै
।
त्याग लीलां कलौ देवश्चैतन्यः समदर्शयत् ॥३.६.११२॥
तन्मत मुररी कृत्य कामिनी काञ्चनादिकम् ।
वर्जयित्वा महानन्द सुखाब्धौ मज्जितोह्यहम् ॥३.६.११३॥
अतः पित्तल लौहादेः स्पर्शनं यदि जायते ।
देहो मे तेन दग्धःस्यादुत्तप्त लौहपृष्ठवत् ॥३.६.११४॥
एवं नाना सत् प्रसङ्गात् परं कविवरोमहान् ।
श्रीगिरीशचन्द्र घोषः कालीपदः सुबुद्धिमान् ॥३.६.११५॥
गौतमेकं सुमधुरं श्रीगौर प्रेमसूचकम् ।
प्रगायतां भावयुक्तावुभौ गायकसत्तमौ ॥३.६.११६॥
भावप्रवण गीतन्तु श्रुत्वा भावमयो हरिः ।
संगृह्य गान तात्पर्यं तत्रैवं समचिन्तयत् ॥३.६.११७॥
जीवानां परम श्रेयो दानार्थमत्र भूतले ।
आविर्भूय जीव ऋणं शोधितुं न क्षमो ह्यहम् ॥३.६.११८॥
परन्तु तेन ऋणेन भवामि विक्रीतः क्षितौ ।
अथवा प्राण पातञ्च कृत्वापि सुफलं यया ॥३.६.११९॥
न लब्धं येन जीवास्ते भगवत् प्रेम सागरे ।
मज्जिता न भवन् सर्वे दारवित्तैषणातुराः ॥३.६.१२०॥
एवं वाह्यज्ञानशून्यो महाभाबेन संयुतः ।
नित्यगोपाल गोस्वामि क्रोडे खं दक्षिणं पदम् ॥३.६.१२१॥
ददौ यदा स गोस्वामी तत्क्षणात्तत्पदं हृदि
।
सुविन्यस्याश्रुतोयेनाभिषेकं कृतवांस्तदा ॥३.६.१२२॥
प्रभोर्मावावसाने तं नित्यगोपाल पण्डितम् ।
तत्रस्थानन्यभक्तांश्च सर्वानप्यवदत् प्रभुः ॥३.६.१२३॥
उच्यतामुच्यतामुच्चे भवद्भिः सर्वसत्तमैः ।
मिष्टमिष्टमिदं गानं हरेर्नामैव केवलम् ॥३.६.१२४॥
तथा श्रीकृष्णचैतन्य नामोच्चारयतामलम् ।
प्रभो श्रीकृष्णचैतन्य कृष्णचैतत्य हे प्रभो ॥३.६.१२५॥
निरन्तरं वदन्तूच्चैस्तेन
शान्तिर्भवेद्ध्रुवा ।
तत्र कोऽप्येवमवद त्रिवारोच्चारणङ्कथम् ॥३.६.१२६॥
एकेनैवोच्चारणेन सर्व सम्पद्यते यतः ।
नैतत् सुसङ्गतं वाक्यं शिष्याणां सद्गुरोर्भवेत् ॥३.६.१२७॥
दाढ्यार्थं देह मनसां जाग्रदादि प्रभेदतः ।
त्र्यवस्थानां वा शुद्ध्यर्थं त्रिवारं हरिकीर्त्तनम् ॥३.६.१२८॥
शास्त्रीयं विधिमाश्रित्य कर्त्तव्यं
सज्जनैः सदा ।
अत्रेदं ठाकुरेणोक्तं यूयं किं तन्त्र पश्यत ॥३.६.१२९॥
नौचालकैः यदा नौका बन्धनार्थं घृतं मुदा ।
प्रोथनार्थं वंशदण्डं नद्यास्तीरे विशेषतः ॥३.६.१३०॥
बारम्बारं सर्वशक्त्या प्रोथितं निश्चलं
कृतम् ।
येन नद्या जलोच्छ्वासे वर्द्धिते न चलत्यसौ ॥३.६.१३१॥
पत्रं संसार जलधेः सन्ततं निज विग्रहान् ।
शोक मोह जरा मृत्यु क्षुत्पिपासा षडूर्मितः ॥३.६.१३२॥
रक्षां कुर्वन्ति भक्तास्ते वदन्तस्तत्
पुनः पुनः ।
श्रीहरे मङ्गलं नाम न निमज्जन्ति सागरे ॥३.६.१३३॥
एवन्तत्र शिष्यगणान् कृतार्थान करोत्
प्रभुः ।
उषित्वा बलरामस्य वसोः शिष्यस्य सद्मनि ॥३.६.१३४॥
समर्प्यस्वष्ट देवस्य सेवायां सर्ववैभवान्
।
धन्योऽहं वै भविष्यामि सञ्चिन्त्यैवं महामतिः ॥३.६.१३५॥
बलरामवसु स्तस्य सेवां चक्रे दृढव्रतः ।
शिष्टाचार सुरक्षार्थं चिन्तितं ठाकुरेण तु ॥३.६.१३६॥
यद्यपि मम भक्तोऽयं बलराम वसु महान् ।
सुखस्वाच्छन्द्य रक्षार्थमानन्द मनसा सदा ॥३.६.१३७॥
सर्वदा सहते सर्वं प्रतिकुल तथाप्यहम् ।
सर्वदास्य शुभाकांङ्क्षी सुखशान्ति प्रियस्य च ॥३.६.१३८॥
सुतस्य धनिनः स्निग्ध देहस्य व्यग्रतां
सदा ।
बहुकार्यवशादत्र न करिष्यामि मे मतिः ॥३.६.१३९॥
ततोऽन्यस्मिंश्चि कस्मिंश्चित् चित्
स्थास्यामि भवने सुखम् ।
ठाकुरेच्छामिमां ज्ञात्वा कालीपदः सुबुद्धिमान् ॥३.६.१४०॥
श्यामपुष्करिनी मध्ये स्वगृहस्य समीपतः ।
श्रीगोकुल भट्टाचार्य गृहं तेन प्रकल्पितम् ॥३.६.१४१॥
श्रीप्रताप मजुन्दारो होमियोरीति वैद्यकः ।
ठाकुरस्य चिकित्सार्थं ठाकुरेण नियोजितः ॥३.६.१४२॥
सोऽपि तं ठाकुरं मत्वा सच्चिदानन्द
विग्रहम् ।
चिकित्सामकरोत्तस्य विशुद्ध मनसा महान् ॥३.६.१४३॥
भक्ता युवक वर्गास्ते पर्याय क्रमतः
प्रभोः ।
सेवा कार्यं यथान्यायमकुर्वन्नति यत्नतः ॥३.६.१४४॥
मातापि सारदादेवी दक्षिणेश्वरपत्तनात् ।
आगत्यात्र पथ्यभारं ठाकुरस्य समग्रहीत् ॥३.६.१४५॥
अनौरसाः प्रजास्तस्य ठाकुरस्य परं प्रियाः
।
राखालराज पूर्वास्ते भक्तवर्गाः सहस्रशः ॥३.६.१४६॥
यथाकाले यथारीतिश्चक्रुः सेवां महत्तराम् ।
प्रियभक्त गिरोशेन विख्यातः सुचिकित्सकः ॥३.६.१४७॥
महेन्द्रलाल सरकार आनीतो रोगमुक्तये ।
औषधस्य सुपथ्यस्य संग्रहार्थं समुत्सुकः ॥३.६.१४८॥
अपरे भक्तवर्गा ये स्नानाहार विवर्जिताः ।
कुत्र लभ्यं सुपथ्यन्तु कुत्र तदौषधोत्तमं ॥३.६.१४९॥
धावन्तो हि दिशः सर्वानाविन्दन् वै
जलस्थलम् ।
भक्तोऽन्योमनसस्तुष्ट्यै रोगनिर्णय हेतवे ॥३.६.१५०॥
पाश्चात्यभिषजं तत्रानीतवान् सुविचक्षणम् ।
होमिओ मतमाश्रित्य चिकित्सा सम्बभूव ह ॥३.६.१५१॥
कृते युगे यथा दक्षप्रजापति कनिष्ठका ।
सती दाक्षायणी कन्या पितृयज्ञ महोत्सवे ॥३.६.१५२॥
तत्र गत्वा पितृ मुखात् पतिनिन्दां निशम्य
सा ।
कलेवरं परित्यज्य सतीधर्मं महत्तरम् ॥३.६.१५३॥
पृथिव्यां दर्शयामास तथा श्रीसारदाधुना ।
साक्षाद्भगवती सेयं करुणामूर्त्तिधारिणी ॥३.६.१५४॥
आविर्भूता पूर्वं सती श्रीरामचन्द्र
कन्यका ।
विश्वमाता जगद्धात्री स्वकीयानवधानतः ॥३.६.१५५॥
स्वामिनो गुरु गौरवहानिमाशङ्का भामिनी ।
दक्षिणेश्वर संवासे कठोर व्रतचारिणौ ॥३.६.१५६॥
यथास्थिता निर्विकारा तथात्रापि महीयसी ।
कठोराचरणं देवी सर्वदासौ समाचरत् ॥३.६.१५७॥
अतः स्वयं भगवतः सेवार्थं स्वामिनः सती ।
प्राणपातं स्वीचकार नेदमाश्चर्यं कारणं ॥३.६.१५८॥
परन्त्वत्र बहुजनैः परिपूर्णे गृहान्तरे ।
विद्यमानापि सा देवी शौचस्नानादिकाः क्रियाः ॥३.६.१५९॥
कदा केन प्रकारेण समाप्ता जगदम्बिका ।
अवस्था बहवो भक्ता न जानन्तीति निश्चितम् ॥३.६.१६०॥
तथा मातुः स्थितेर्वार्त्ता न जाता
बहुभिर्जनैः ।
स्थितापि तत्र सा देवी जनदृष्टेरगोचरा ॥३.६.१६१॥
महेन्द्रलाल सरकार चिकित्सक शिरोमनिः ।
चिकित्सार्थं समागम्य प्रत्यहं ठाकुरस्य सः ॥३.६.१६२॥
समीपे समुपाविश्य प्रायेण घटिका त्रयम् ।
ऐश्वरीय प्रसङ्गेन तत्कालस्तेन यापितः ॥३.६.१६३॥
उक्तञ्च न ज्ञातमेतद्भवदुपरि मे तथा ।
अनुरागोऽभवद्ये न दृष्ट्वा त्वां गतवानपि ॥३.६.१६४॥
स्वगेहे सुस्थभावेन स्थातुं न पारयाम्यहम्
।
केवलं भवतोभावं भावयामि पुनः पुनः ॥३.६.१६५॥
नेदृगन्यं वित्तवन्तं कदाचिदपि रोगिनम् ।
प्रभूत वित्तदातारं न चिन्तयामि निश्चितम् ॥३.६.१६६॥
मन्येऽहं मोहितश्चास्मि भवद्भिर्भगवत्
परैः ।
अथवा त्वयि मे भक्तिर्जाता सद्गुण दर्शनात् ॥३.६.१६७॥
पश्याधुना दिनस्यास्य कालो भूयान् गतो
लयम् ।
त्यक्त्वा त्वां स्वगृहे गन्तुं नेच्छामि च तथाप्यहम् ॥३.६.१६८॥
पीत्वा कथामृतं तेऽहं सम्प्रविष्टः
सुधार्णवे ।
मन्ये त्वां देवदेवानामीश्वरं जगतां गुरुम् ॥३.६.१६९॥
आशङ्कया रोगवृद्धेर्बहुभि: सह भाषणम् ।
कर्तव्यं भवद्भिस्तु सुनिर्द्दिष्टमिदं मया ॥३.६.१७०॥
किन्त्वस्माभिः कथालापे
रोगवृद्धिर्नसम्भवेत् ।
स्वल्प वाक्येन वाक्यानां तात्पर्यार्थं सुगृह्यते ॥३.६.१७१॥
यतःश्चिकित्सकोऽहं बै विचिन्त्य कथयामि ते
।
अयं महेन्द्रलालस्तु मथुरस्योत्तमः सुहृत् ॥३.६.१७२॥
ठाकुरेणापि विदितः सरकारः पूर्वतस्तथा ।
अतस्त्वमिति संवोध्य ठाकुरं संवदत्यसौ ॥३.६.१७३॥
ठाकुरोऽपि बन्धतुल्यं सरकारं समुदीक्षते ।
तथान्यस्मिन्दिने सोऽयं ठाकुरमब्रवीत् स्वयं ॥३.६.१७४॥
भवान् भगवतो वार्तां यामवदत् सुखेन तां ।
अवगन्तुं समर्थोऽस्मि प्राप्नोम्यानन्दमुत्तमम् ॥३.६.१७५॥
किन्तु ते नन्दन भक्ताः सर्वधर्म
विघट्टिताः ।
वदन्ति केचन जनाः शचीनन्दनमाश्रय ॥३.६.१७६॥
कौशल्यानन्दनं केऽपि यशोदानन्दनं तथा ।
मेरीनन्दनमित्यन्ये ते सन्देह सागरे ॥३.६.१७७॥
जनान्निमज्जितान् कृत्वा श्वासरोधान्
कुर्वत ।
किन्त्वहं स्वविशुद्धार्थमीश्वरानुभवाय च ॥३.६.१७८॥
विज्ञानालोचनेनैव प्राप्स्यामि भगवत्
कृपाम् ।
भवत् कथामृतेनैव मया धर्म विनिश्वितः ॥३.६.१७६॥
वाक्यव्ययमकृत्वैव प्रभुर्मास्टरमब्रवीत् ।
कृतार्थीकरणार्थाय केवलं कृपया तदा ॥३.६.१७८॥
तस्य शान्त
स्वभावत्वादुच्चैर्गानादुपप्लवम् ।
मत्वा स शिक्षकस्तत्र गानं नकृतवान् सुधीः ॥३.६.१८१॥
दौर्बल्यं तस्य तदृष्ट्वाप्यादरेण तदा
प्रभुः ।
आहूय युवकञ्चकं भक्तं प्रोवाच गीतवित् ॥३.६.१८२॥
त्वमेवोच्चैः स्वरयुक्तो गानं कुरु
सुपुत्रक ।
भगवदाज्ञया भक्तश्चकार गीतमुत्तमम् ॥३.६.१८३॥
को जानाति किदृक् काली षडदर्शनैरदर्शनम् ।
ब्रह्माण्डभाण्डमुदरं तस्याः कीट्टक् प्रकाण्डता ॥३.६.१८४॥
पादाधःपतितो यस्तु श्रीमहेश्वर संज्ञकः ।
भगवान् शङ्करः किञ्चिज्जानात्यन्ये न केचन ॥३.६.१८५॥
लोकहास्यकरञ्चेदं रामप्रसादभाषणम् ।
वाहुचालनशक्त्यैव समुद्रतरणं यथा ॥३.६.१८६॥
अथवा वामनेनापिधार्यते किं निशाकरः ।
मनः शक्नोति तां बोद्धुं प्राणा नेति कथञ्चन ॥३.६.१८७॥
यदिदं गानमभवट्ठाकुरस्य च सन्निधौ ।
श्रीमुणीन्द्र गुप्त नामा तत्पार्श्ववर्तिवेश्मनि ॥३.६.१८८॥
तद्गानमुत्तमं श्रुत्वा समाधिं स तदा
विशत् ।
तद्वद्दण्डायमानस्य लाटु भक्तस्य वै तदा ॥३.६.१८९॥
आशङ्क्य पतनं तस्य भावावेशाद्गत स्मृतेः ।
वाहुभ्यां तं विधृत्यैव श्रीनिरञ्जन नामकः ॥३.६.१९०॥
भक्तानां प्रवरः सोऽपि तटवस्था मुपागमत् ।
अभूतपूर्व दृश्योऽयं न प्रायेनाक्षिगोचरः ॥३.६.१९१॥
यतो भगवतो नाम गान श्रवणमात्रतः ।
समाधेः सम्भवो हीदृक् भक्तानामभवद्द्रुतम् ॥३.६.१९२॥
ततः श्रीठाकुरः प्राह सरकारं देहं संविदम्
।
त्वन्तु चिकित्सकश्रेष्ठः पश्यैतेषां हठात् कथं ॥३.६.१९३॥
लुप्तासंज्ञा मुनि पुनः परीक्ष्य सत्त्वरं
वद ।
ठाकुरेनैवमुक्तः स सरकारश्चाञ्जसा तदा ॥३.६.१९४॥
परीक्ष्य प्राक् प्राणनाडीं पादनाडीं ततः
परम् ।
यन्त्रयोगेन हृत्पिण्डं चक्षुषी च कराङ्गुलीन् ॥३.६.१९५॥
दत्वा तेषां सर्वविधां परीक्षां सुसमाप्य
सः ।
ठाकुरन्तिकमागम्य विस्मितस्तमुवाच ह ॥३.६.१९६॥
विज्ञान शास्त्रविदुषामस्माकमिति निश्चय ।
लुप्तज्ञाना भवद्भक्ता मृताह्यते न संशयः ॥३.६.१९७॥
ठाकुरस्य जन्मभूमे निकटस्थालये क्वचित् ।
कीर्त्तनानन्द मग्नस्य चेतना लुप्ततां गता ॥३.६.१९८॥
कदापि चेतनायुक्तो ननत्त हरिकीर्तने ।
दृष्ट्रैव तत्र त्यजना अत्रदन् विस्मिता स्तदा ॥३.६.१९९॥
ईदृगाश्चर्य पुरुषः समायातो महोत्सवे ।
मरणं जीवितञ्चास्य भवेदेव क्षण क्षण ॥३.६.२००॥
अतस्तवेच्छयै वै ते कृपाप्राप्ताः सेवका
जनाः ।
ईदृशा ये भविष्यन्ति नै तदांश्चर्य कारणम् ॥३.६.२०१॥
ततः समाधियुक्तास्त ठाकुरस्य पदाम्बुजे ।
प्रणामार्थं यदायातास्तदासौ सुचिकित्सकः ॥३.६.२०२॥
विज्ञानविदतिशयं विस्मितस्तमुवाच ह ।
पश्यामि सर्वमेवैतत् क्रीडनं तव निश्चितम् ॥३.६.२०३॥
सकाशे भवताऽद्याहं निःशेषेण पराजितः ।
अहङ्कारो बलं विद्या चिकित्साभिज्ञता मम ॥३.६.२०४॥
यत्किञ्चिदस्ति दर्पश्च सर्व सम्पूर्णतां
गतम् ।
भवान् यदि बदेन्मह्य' ये चात्र तव दर्शने ॥३.६.२०५॥
समायातास्तत् पादुकामाल्यं धृत्वा
स्वमस्तके ।
स्वच्छन्दं राजमार्गेऽहं सञ्चरामि सगौरवम् ॥३.६.२०६॥
श्रुत्वेदं ठाकुरः प्राह स्वल्पहास्य
पुरःसरम् ।
त्वमतीव महोदय जनो विद्वान् विचक्षणः ॥३.६.२०७॥
भिषक् श्रेष्ठतमत्वात्त
प्रतिष्ठाभूद्गरीयसी ।
वागेव ते कार्यसमा यतस्त्वं सज्जनो महान् ॥३.६.२०८॥
कृतार्थी कृत एवासौ ठाकुरेण चिकित्सकः ।
मत्वा श्रीभगवन्तं तं न नामदण्डवद्भुवि ॥३.६.२०९॥
स्वरूपं दर्शयामास भगवानपि तं तदा ।
पुनरागमनन्तस्य किं भविष्यति भूतले ॥३.६.२१०॥
यैस्तदा श्रीभगवतः सान्निध्यं
वाक्षिगोचरम् ।
कृतन्तैस्तस्य कृपया स्वरूपमवलोकितम् ॥३.६.२११॥
इति श्रीरामेन्द्रसुन्दर भक्तितीर्थं विरचिते श्रीश्रीरामकृष्ण भागवते पारमहंस्यां संहितायां श्रीरामकृष्ण देवस्य केशव सेन समागमस्तथा पानिहाटीग्रामं गमने रोगारम्भात् परं बागबाजार बलराममन्दिरं श्यामपुष्करिणीं स्थानं क्रमादगते श्रेष्ठं चिकित्सकं महेन्द्रलालसरकारं प्रति स्वरूप दर्शनादिना कृतार्थी करण रूपोऽन्त्यलीलायाः पष्ठोष्यायः ॥६॥