अन्त्यलीला

ठाकुरस्य रोगवृद्धिः, परमान्नग्रहणे शूद्रशिष्यं वर्जनम्, खेचरान्न ग्रहणादिः

अथ अन्त्यलीलायां नवमोऽध्यायः


अतःपरं भक्तवर्गैरन्विष्टः सुचिकित्सकः ।
महेन्द्रलाल सरकारं प्राप्यापि सुचिकित्सकम् ॥३.९.१॥

तस्य तु रोगि सान्निध्यं नास्ति ज्ञात्वा तमत्यजन् ।
नवीनचन्द्र नामास्ति प्रवीनो वैद्यसत्तमः ॥३.९.२॥

सर्वे गत्वा तत् सकाशं प्रभोः पीडामवर्णयन् ।
किन्तु तस्य चिकित्साया अनुपानमुसंग्रहम् ॥३.९.३॥

असाध्यं मन्यमानास्ते तत्यजुस्तं चिकित्सकम् ।
एवं प्रभोर्भक्तवर्गा वैद्यार्थं चिन्तितोभृशम् ॥३.९.४॥

सर्वान्तिमे भगवतः परमस्य पुंसः
    सत्सेवकोऽतुलगुणोऽतुल नाम भक्तः ।
राजेन्द्र दत्त इति नाम चिकित्सकम्
    तमानीय तत्र भगवन्तमदर्शयत्तम् ॥३.९.५॥

आगत्य सोऽपि गुणराशि युतः सुवैद्यो
    दृष्ट्वा परीक्ष्य च गदं सुखचिद्घनस्य ।
प्राप्यापि भीतिबहुलं मनसि प्रवृद्धम्
    बाह्ये सहास्य वदनः समुवाच किन्तु ॥३.९.६॥

नास्त्यस्य रोगविगमे भवतां हि काचित्
    चिन्ताथवा सुमनसां खलु भीति हेतुः ।
येनेव रोगगुरुता प्रकटीतकृता हि
    तेनैव तद्गद विमुक्त्य गदो हि सृष्टः ॥३.९.७॥

उक्तैवं प्रभुभक्तान् स राजेन्द्रः सुचिकित्सकः ।
दैनन्दिनं समागम्य रोगिणं रोग मुक्तिदम् ॥३.९.८॥

सन्ददर्श सदातस्य रोगिणो हर्ष हेतवे ।
सुपुष्प सुफलादीनि द्रव्यानि विविधानि च ॥३.९.९॥

समानीय ददौ तस्मै परस्मै पुरुषाय हि ।
ठाकुरोऽपि महाप्रीतोऽभवत्तस्मिंश्चित्सके ॥३.९.१०॥

एवन्तदुभयोः प्रीतिवर्द्धनादल्पकालतः ।
दुरन्त यातनायुक्तरोगो ह्रासत्वमाप्तवान् ॥३.९.११॥

पादुकाहीन विप्राय यः प्रयच्छत्युपानही ।
न तस्य मनसो दाहः कदाचिदपि जायते ॥३.९.१२॥

इति सञ्चिन्त्य राजेन्द्रः प्रभोरर्थे महामतिः ।
सुकोमलेन वस्त्रेण निर्मितं पादुकाद्वयम् ॥३.९.१३॥

स्वहस्ताभ्यां प्रभोः पादयुगले पर्यधापयत् ।
प्रभोस्तत् पादुकायुगं बेलुडमठ सद्मनि ॥३.९.१४॥

अद्यापि पूजितं भाति तद्भक्तैर्भक्तिपूर्वकम् ।
सयत्नं रचितञ्चापि जगन्मङ्गल हेतवे ॥३.९.१५॥

राजेन्द्रनाथ दत्तस्य भक्तिपूर्ण चिकित्सया ।
पीडाशान्ति प्रभोर्ज्ञात्वा भक्ताश्चानन्द संप्लुताः ॥३.९.१६॥

अभीष्ट देवता सेवां पणीकृत्य स्वजीवनम् ।
कुमार सेवकाश्चक्रुरेकान्त भक्तिसंयुताः ॥३.९.१७॥

सेवार्थं श्रीभगतश्चाङ्गप्रत्यङ्ग स्पर्शने ।
बाह्याभ्यन्तरशुद्धत्वाल्लेभिरे परमां कृपाम् ॥३.९.१८॥

परन्तूरकाले ते तद्धर्म परिवेशने ।
यदि मालिन्य मायान्ति तदर्थं घटवारिभिः ॥३.९.१९॥

सिक्त्वा तानब्रवीद्देवा युष्माकं सुपवित्रता ।
ईदृग् याता यया यूयं दुर्जनैर्मिलिता अपि ॥३.९.२०॥

अथवा तैर्दत्तमन्नं भक्षयिष्यथ यद्यपि ।
न किञ्चिदपि मालिन्यं युष्मद्देहे भविष्यति ॥३.९.२१॥

कस्मषं स्वल्पमात्रञ्च न तेन सम्भविष्यति ।
सर्वदा शुद्धरूपेण यूयं स्थास्यथ निश्चितम् ॥३.९.२२॥

भवितव्य विधानेन विधातुरिच्छयाथवा ।
सेवकानां सुदुर्भाग्यात् शर्मावसानमागतम् ॥३.९.२३॥

तदा शुचौ शैत्यमभूत् पर्यन्य वर्षणाद्भृशम् ।
तेन क्षीणशरीरस्य प्रभोः पीडा व्यवर्द्धत ॥३.९.२४॥

गलाभ्यन्तर देशस्थ क्षतात् क्लेदोविनिर्गतः ।
श्वासकाश प्रावल्याच्च यातना वृद्धिमागताम् ॥३.९.२५॥

जलवत्तरलं पथ्यं क्षुधाधिक्य स्थितावपि ।
भोजने न समर्थोऽभूद यदि वा शक्तिचालनात् ॥३.९.२६॥

स्वल्पं गलाधःकरणे यातना शतधा भवत् ।
यया धैर्यं भवेन्नष्टं साक्षाद् भगवतोरपि ॥३.९.२७॥

परन्तु तत्क्षणात्तस्मात् क्षतस्थानाद्विनिःसृतः ।
पूयरक्तादिसंमिश्र क्लेदोऽत्यन्त व्यवर्द्धत ॥३.९.२८॥

असाध्यन्तद्रोगचिह्नमवलोक्य महामनाः ।
प्रभोस्तत् सेवकाः सर्वे नरेन्द्र प्रमुखादयः ॥३.९.२९॥

सुतरां भयविभ्रान्ता ह्यभवन् प्रभु हेतवे ।
किं कर्तव्यविमूढास्ते प्रायेण लुप्तचेतनाः ॥३.९.३०॥

एकदा मुखनिर्गतं क्लेदसंयुक्तं प्रायसम् ।
प्रभोरमृत तुल्यन्तन्मन्यमानो महत्तरः ॥३.९.३१॥

उवाच स्वहस्ते धृत्वा श्रीनरेन्द्रः सकातरम् ।
प्रभोः सुस्थदशायां यत् प्रसाद ग्रहनेन नः ॥३.९.३२॥

चित्तप्रसादः सञ्जातोऽधुना भाग्य विपर्ययात् ।
तद्रूपस्य प्रसादस्य पुनः प्राप्ति न सम्भवेत् ॥३.९.३३॥

आगच्छन्तु महाभागा येनेदं क्लेदमिश्रणम् ।
प्रभोः सत्तास्वरूपं यत् पायसममृतोपमम् ॥३.९.३४॥

अत्स्यामश्चेतेनास्माकं तदधिष्ठानमुत्तमम् ।
देहास्थिमज्जा नाडीषु भवेदनुभूतं सदा ॥३.९.३५॥

एवमुक्ता श्रीनरेन्द्रः पीत्वाग्रे स्वयमुत्तमम् ।
पायसमपि चास्माकमपाययदनुत्तमम् ॥३.९.३६॥

एवं लीला मनुष्यस्य श्रीनरेन्द्रस्य धीमतः ।
किं विदन्तिजना लीलां शिश्वोदर परायणाः ॥३.९.३७॥

प्रभुनेदं यदा ज्ञातं प्रायो मे काल आगतः ।
अतो मे प्रेमलीलायाः प्राकट्यं नङ्क्ष्यति ध्रुवम् ॥३.९.३८॥

विज्ञायैवं श्रीभगवान् गभीर निशि चैकदा ।
स्व स्वरूप श्रीनरेन्द्रनाथमाहूय यत्नतः ॥३.९.३९॥

तद्गतं जीवनमपि शशिभूषण सेवकम् ।
स्व स्थानाद्द्वितलात्तं वै प्रेरयित्वाप्यधोगृहम् ॥३.९.४०॥

प्रोवाच श्रीनरेन्द्रन्तं सुष्पष्टं पश्य भोः प्रिय ।
यद्यत्रास्तिजनः कोऽपि सर्वं मे निष्फलं भवेत् ॥३.९.४१॥

यथा कैलासाधिपतिः शङ्करो भगवान् स्वयम् ।
निशार्द्धे प्राणिशून्यन्तं कृत्वा स्वयोग पीठकम् ॥३.९.४२॥

अर्द्धाङ्गिनीं शङ्करीं स सावधानतया भृशम् ।
ज्ञानतत्त्वमद्वयं यद्विशुद्धं समुपादिशत् ॥३.९.४३॥

तथा स्व प्राणतुल्यन्तं नरेन्द्रं प्रेममूर्तिमान् ।
विगृह्य बाहुयुग्मेन सुखचुम्बन पूर्वकम् ॥३.९.४४॥

तदद्वयं ज्ञानतत्वं विष्णोर्यत् परमं पदम् ।
यद्विज्ञानादिदं सर्वं विज्ञातः भवति ध्रुवम् ॥३.९.४५॥

असङ्ख्य बुद्बुदोपम ब्रह्माण्डं ब्रह्मसागरम् ।
समुद्भूतं पुनस्तस्मिन् ब्रह्मण्येव प्रलीयते ॥३.९.४६॥

योऽसौरूपविहीनोऽपि सर्वरूप स्वरूपकः ।
निर्गुणोऽपि सदा योऽसौ गुणानामाकरो महान् ॥३.९.४७॥

सर्वत्रानुगतो वापि सङ्गहीनो भवत्यसौ ।
सर्वाचित्तान्तरस्थोऽपि बुद्धिवृत्तेरगोचरः ॥३.९.४८॥

चक्षुर्म्यान्तु न दृष्टोऽसावचलोऽपि चलत्यसौ ।
ईदृक् सर्वाश्चर्यमथः सच्चिदानन्द ईश्वरः ॥३.९.४९॥

प्राणदेहादिभृद्देही पूर्वं पुण्यबलेन हि ।
श्रीगुरोः कृपया वापि वेत्ति चेत् परमेश्वरम् ॥३.५.५०॥

सूक्ष्मानुसूक्ष्मरूपोऽपि जोवो याति विमुक्ततां ।
तद्रूपोऽसौ भवेद्वापि यथा स परमेश्वरः ॥३.५.५१॥

बहुना वा किमुक्तेन वत्स जानीहि तं सदा ।
सर्वेषामात्मजो ह्यात्मा पितामाता स ईश्वरः ॥३.९.५२॥

अतः परं स्वस्य समीपसंस्थ नरेन्द्रनाथस्य नरोत्तमस्य ।
नीत्वापसव्य श्रुतिमूलरन्ध्रे मुखारविन्दं भगवानुवाच ॥३.९.५३॥

यद्ब्रह्म तत्त्वं जगतो हिताय सृष्टेः पुरा पङ्कजनाभ देवः ।
तस्मै ददौ पङ्कज यो नयेत नरेन्द्रनाथाय सुगोपनीयम् ॥३.९.५४॥

परन्तु कारुण्य कटाक्ष दृष्ट्या नरेन्द्रनाथ पुनराह देवः ।
सार्द्धं त्वया यद्यपि नास्ति भेदस्तथापि मे बाह्य पृथक्त्वमस्ति ॥३.९.५५॥

किन्त्वद्य तुभ्यं सकलं ममेदं बैराग्य बिज्ञान तपो बलादि ।
समर्प्य निःस्वः खलु नाममात्रं श्रीरामकृष्णेति भवामि चाद्य ॥३.९.५६॥

श्रीराजराजेश्वर तामवाप्य मदीय शक्त्या जगतामधीघम् ।
कृत्वा विदूरं नवरामकृष्णो भूत्वा गुरुर्मे भव सेवकानां ॥३.९.५७॥

इत्येवमुक्त्वा निज दिव्यशक्त्या नरेन्द्र मध्ये समनुप्रविश्य ।
तं दिव्यभावेन विभाबितञ्च चकार देवः सुविशुद्ध रूपम् ॥३.९.५८॥

धाराच्छलेनाद्य स सागरेयं शोकाश्रु संप्लावित सर्वभूमिः ।
साध्वी यथा स्वामी वियोगकाले वभौ धरित्री नभसोऽवसाने ॥३.९.५९॥

सौभाग्यसूर्यस्य विभोस्तथाद्य प्रायोऽस्तभाव परिपश्यतां ।
अश्रु प्रपातस्य सुकिङ्कराणामारम्भ कालः समुपागतो नः ॥३.९.६०॥

दैनन्दिनं सेवक सङ्ग वार्ता यादृक् कृता तेन तथोद्य नास्ति
भावान्तरस्तन्मनसोऽप्य चिन्तयः प्रतिक्षणञ्चास्ति समाधि भावः ॥३.९.६१॥

भुक्तं न किञ्चिद्गदवेदनातो देयं सुखाद्यमुदरस्य मध्ये ।
देहस्व पुष्ट्यै सुविभोज्यरूपं यदौषधं पथ्य विदो वदन्ति ॥३.९.६२॥

तत् सेवकैरित्थमवेक्ष्यमानैर्द्रव्यं तदर्थं सकलं गृहीतम् ।
दिवावसाने सुखशान्तमूर्त्तिरुवाच शिष्यान् भगवांस्तदैवम् ॥३.९.६३॥

इन्द्रादि देवागमनान्ममाद्य क्षेत्रे तदीयैः सह वाक् प्रयोगात् ।
सर्वन्दिनं व्यस्त तथा गतत्वात् सार्द्धं भवद्भिर्विरतः कथायाम् ॥३.९.६४॥

भोक्ष्ये हि पुत्राः परमान्नमद्य प्रभोस्तदित्थं वचनं निशम्य ।
मातुः समीपे विनिवेदिते तैः सम्पाद्य माताप्यददात्तदग्रे ॥३.९.६५॥

दृष्ट्वा प्रभुः पायसमब्रवीद् भोः पास्यामि पद्मासन सन्निविष्टः ।
श्रुत्वा च ते तत्क्षणमेव तस्य क्षीणं क्षयेनैव कलेवरन्तत् ॥३.९.६६॥

उत्तोल्यतल्पादतियत्नपूर्वकं प्रायेण तद्रूप धृतस्तदा गुरोः ।
शान्तिं न लेभे श्रमवृद्धि दर्शनादाप्राणतो वै व्यजनं प्रचक्रुः ॥३.९.६७॥

एवं यदा भोजनलुब्धे भावः प्रभुस्तदा द्वौ निज शूद्रशिष्यौ ।
पृष्ट्वा स्वतल्पं समवस्थितौ तौ प्रोवाच दृष्ट्वा क्षुभितस्तदानीम् ॥३.९.६८॥

भोस्त्वं नरश्रेष्ठ नरेन्द्रनाथ त्यजास्ततल्पं वद शूद्रशिष्यौ ।
वाक्यान्तु श्रुत्वाप्यतदर्थं वेदी प्रोवाच देव कथमेतदेवम् ॥३.९.६९॥

जातेर्विचारस्य भवत् सकाशे यतो भवानीश्वर एव नान्यः ।
एवं कथं तन्न विदाम देव भ्रान्ताः स्थिता तेन वयं वदामः ॥३.९.७०॥

श्रुत्वा नरेन्द्रस्य सुयुक्तिपूर्णं वाक्यन्तदा वाक्य विदामधीशः ।
उवाच वेदस्य य एव कर्ता तद्वाक्यं रक्षापि च तेन कार्यम् ॥३.९.७१॥

उक्तन्तदा देववरेण चैवं भक्तन्त्विदं भक्तमतस्त्विदं भो ।
वर्ज्यं हि तद्ब्राह्मण विग्रहेन भबेद्ध्रुवं शास्त्र निषेधवाक्यात् ॥३.९.७२॥

प्रागेव तौ तस्य गुरोः सुतल्पं त्यक्त्वा सुविज्ञाय मनोऽभिलाषम् ।
प्रजग्मतुर्दूरत एव तस्मात्ततः सुभुक्तं महतादरेण ॥३.९.७३॥

मुखशुद्धिं विधायाथ सुस्थतामुपलभ्य च ।
उवाच शास्त्रीयवचः श्रीनरेन्द्रं विशेषतः ॥३.९.७४॥

शूद्रान्नेन तु मुक्तेन स्वोदरस्थेन योमृतः ।
स वै खरत्वमुष्ट्रत्वं शूद्रत्वञ्चाधिगच्छति ॥३.९.७५॥

एवमुक्तं ठाकुरेण गोधूमचूर्ण पिष्टकम् ।
भोक्तव्यं शूद्रदत्तञ्चैदभोक्तव्यमनापदि ॥३.९.७६॥

कलावन्नगतं पापं महापापं बिदुर्बुधाः ।
तस्मात् शूद्रस्पृष्टमन्नमस्पृश्यमग्रजन्मनः ॥३.९.७७॥

पुनर्यदाशनार्थन्तत् पायसान्नं समग्रहीत् ।
तदायातः समाधिः स वाह्यज्ञान विघातकः ॥३.९.७८॥

गते किञ्चित् क्षणे तत्र पायसान्नं कुतोगतम् ।
तदन्नं कोऽभुञ्जीत कस्य वा तत्प्रयोजनम् ॥३.९.७९॥

पुनर्व्युत्थान समयेऽसह्य वेदनार्दिते ।
गलाधिःकरणङ्कर्तुं तदन्नं नैव पारितम् ॥३.९.८०॥

तथापि तत्सेवकानामाग्रहातिशयात् प्रभुः ।
गृहीत्वा खल्पमात्रन्तदुवाचात्यन्त दुःखितः ॥३.९.८१॥

पुत्रा एतादृशी क्षुधा दिद्यते हि ममोदरे ।
खेचरान्न सुसम्पूर्णां बहुस्थालीं ययाधुना ॥३.९.८२॥

भोक्षेऽहं किन्तु मे माता महामाया महेश्वरी ।
नकिञ्चिदपि मह्यं सा भोक्तुं पुत्राय यच्छति ॥३.९.८३॥

एवमत्र सुविज्ञेयं गतावतार सञ्चये ।
प्रत्येकस्य प्रियं खाद्यं नूतनं भवेत् ॥३.९.८४॥

सुमिष्टान्न राजभोगः प्रियो दाशरथे रति ।
श्रीवृन्दावनचन्द्रस्य गोरसोत्पन्नमुत्तमम् ॥३.९.८५॥

श्रीमन्महाप्रभोः प्रीतिर्भोगे चिपिट संङ्गके ।
किन्त्वस्माकं रामकृष्णदेवस्य प्रीतिदायकम् ॥३.९.८६॥

सुखाद्यं खेचरान्नं हि भवेद् युगानुसारतः ।
कलावन्नगताः प्राणा जीवानां भवति ध्रुवम् ॥३.९.८७॥

सर्वे केवलमन्नानां तृप्तिमेष्यन्ति भोजनात् ।
अतो व्रीह्यादि मिश्रानं सघृतं मिष्टसंयुतम् ॥३.९.८८॥

अमृतास्वाद सम्पन्नं देवभोग्यं भवेत् किल ।
मत्वैवं ठाकुरेणेदं गृहीतं खेचरान्नकम् ॥३.९.८९॥

अद्यापि तद भक्तवर्गा रामकृष्ण महोत्सवे ।
खेचरान्नेन तद्भोगं तत् प्रीत्यै ददतेमुदा ॥३.९.९०॥

इति श्रीरामेन्द्रसुन्दर भक्तितीर्थ विरचिते श्रीश्रीरामकृष्ण भागवते पारमहंस्यां संहितायां श्रीभगवतो रोगवृद्धि:, राजेन्द्र दत्त नामक चिकित्सक नियोगः । तेन प्रदत्त सुकोमल वस्त्राच्छादित पादुका परिधापनम् । पारमान्न ग्रहणे शूद्रशिष्यवर्जनम् । खेचरान्न ग्रहणादि रूपोऽन्त्यालीलायां नवमोऽध्यायः ॥९॥