अन्त्यलीला
भगवतो नित्यधामं प्रवेशन्तथास्थिस्थापनादिः
अथ अन्त्यलीलाया दशमोऽध्यायः
अष्टाधिकेऽष्टादशसंख्यके शते शाके रवौ
चन्द्र गृहं गते रवौ ।
चन्द्राग्निमाने समये निशार्द्धे संहर्तुमैषीदिहलोकलीलाम् ॥३.१०.१॥
श्रीरामकृष्णोगद पीड्यमानः समाधिनिष्ठः सह
शिष्यवर्गैः ।
काशीपुरोद्यान गृहे पवित्रे चकार बासं कतिचिद्दिनानि ॥३.१०.२॥
शय्यापार्श्वे श्रीनरेन्द्रस्तदीयां सेवां
कुर्वंस्तन्मयस्को महात्माम् ।
एवं गुरौञ्चिन्तयामास नाना कोऽयं जनो मानव रूपधारी ॥३.१०.३॥
यं योगिनो नित्यमनन्द्य चेताः स्तुवन्ति
नित्यं परमात्मभूतम् ।
नित्यं विमुक्तं किल शुद्धबुद्धं वरेण्यरूपं परमं पदञ्च ॥३.१०.४॥
किमेष साक्षाद्भगवान परेशो जीवान्
समुद्धर्तुमिहावतीर्णः ।
स्वलोकतश्चामय पीड्यमानः शेतेऽत्र किं प्राकृतवद गुरुर्मे ॥३.१०.५॥
किम्वा मदीयो वत बुद्धि मोहो गिरीश
गङ्गाधर राम दत्तैः ।
उपासितत्वात् परमेश बुद्ध्या जानामि चेमं भगवन्तमाद्यम् ॥३.१०.६॥
को वा परः संशय नाशकारी भवेन्ममात्यन्त
निमूढबुद्धेः ।
यद्यद्य देवो दयया निजोक्त्या छिन्द्यात्ततो यास्यति दुष्टमोहः ॥३.१०.७॥
एवं नरेन्द्रान्तर भावजातं विज्ञाय देवः
सहसा सुनेत्रे ।
उन्मील्य दृष्ट्या समुवाच सद्यो नरेन्द्रनाथं परमं स्वशिष्यम् ॥३.१०.८॥
नाद्यापि जाता मयि ते गभीरा पूर्णावतारे
सुबोधरूपे ।
विश्वास धीर्येण मदीय शेषे प्रवेशकोले मम नित्यधाम्नि ॥३.१०.९॥
सन्दिग्धभावो मम भाषणं प्रति
नितान्तमाकाङ्क्षसि साम्प्रतं त्वम् ।
मत्तः शृणुष्वावहितः प्रियोऽसि यथा गतिर्येन यतोऽत्र जन्म ॥३.१०.१०॥
त्रेतायुगे श्रीहरि रामचन्द्रो
ब्रह्मकुलध्वंससुकृत्य हेतोः ।
सौर्येकुले दाशरथिः स्वयं यो जातः पृथिव्यामहमेव नान्यः ॥३.१०.११॥
अतः परं द्वापर एव कृष्णो माधुर्य लीला
परिपूर्ति हेतोः ।
जातो भुवोभार जिहीर्षया यस्तमेव मां विद्धि विशुद्ध सत्त्वम् ॥३.१०.१२॥
श्रीरामकृष्ण द्वयमेव तत्त्वमेकी भवन् वै
जगतो हितार्थे ।
कलौ मही देवकुले विशुद्धे जातोऽस्मि सन्देह लवोऽत्र नास्ति ॥३.१०.१३॥
एव नरेन्द्र प्रतिभाषमानो देवादिदेबो
भगवांस्तदेव ।
श्रीरामकृष्णैक्यतनु विधृत्य स्वतल्पमध्ये समदर्शयत्तम् ॥३.१०.१४॥
रामं धनुर्वाणधरं द्विहस्तं कृष्णं तथा
वेणुकरं मुखाग्रे ।
स्व सव्यहस्तं विनिवेश्य कुक्षौ तथान्यहस्तः सुरवर्त्मगामी ॥३.१०.१५॥
एवं तथा षड्भुज विग्रह स रूपं स्वयं स्वं
कृपया व्यदर्शयत् ।
यदु योगिभिर्योगवलैर्न दृष्टं कृपैव तद्दर्शनलाभ हेतुः ॥३.१०.१६॥
दृष्ट्वा तदाद्यं पुरुषं पुराणं तत्
पादमूले पतितो विसंज्ञः ।
तन्मस्तकेऽनुग्रहदत्त हस्तो ज्ञानं ददावात्मसमं स तस्मै ॥३.१०.१७॥
तदोत्थितः स प्रतिबुद्ध मूर्त्तिः
सहाश्रुभिर्जानुयुगं निधाय ।
मूमौ तदास्य विनिवेश्य दृष्टिं कृताञ्जलिस्तं पुरुषं समीडे ॥३.१०.१८॥
क्वाहं महामूर्खतमो दुरात्मा शिक्षापि
दीक्षा न च मे कथञ्चित् ।
सत्कर्म सद्भाव सुपुण्य लभ्ये त्वत्पादपद्मे न मतिर्ममास्ति ॥३.१०.१९॥
इत्थं सुदुष्टाशय दुष्टजीवे तवानुकम्पा
विमला विशिष्टा ।
न शोभते देव यथा भुजङ्गे दत्तं पयस्तत् गरलं बहुस्यात् ॥३.१०.२०॥
ज्ञात्वा न ते रूपमरूपमाद्यं सदा
सदानन्दमयं वरेण्यम् ।
अनन्त कल्याण गुणात्मकस्य मन्ये पुरा प्राकृत विग्रहं स्वम् ॥३.१०.२१॥
नमः पुरस्तात् पुरमङ्गलाय पृष्ठ नमस्ते
प्रकृतेर्बधाय ।
पार्श्वे नमस्ते परिपन्थिनो मे नाशाय पादे पदमुक्ति हेतुः ॥३.१०.२२॥
संसार सागर भयङ्कर कालचक्र मध्ये सदा पतित
खण्डित विग्रहस्य ।
दीनस्य देव कृपया पदमागतस्य श्रीरामकृष्ण मम देहि पदावलम्बम् ॥३.१०.२३॥
संसार वृक्षमतुलं बहुकर्मवीजं काण्ड
प्रकाण्डमति भीषण लालसञ्च ।
आरुह्य दुःखफलदं पततं कृपालो श्रीरामकृष्ण मम देहि पदावलम्बम् ॥३.१०.२४॥
संसार कूप पतनादुरुदुःख मूला दुस्तारणे तव
कृपैव गुणस्वरूपी ।
ज्ञात्वापि सा न विधृता कलुष प्रसङ्गात् श्रीरामकृष्ण मम देहि पदावलम्बम्
॥३.१०.२५॥
संसार दुःख दहनातुर मूर्च्छितस्य त्वत्
पादसिन्धु सलिलामृत लोलुपस्य ।
दुर्दैवमीदृशमहो कलि कातरस्य श्रीरामकृष्ण मम देहि पदावलम्बम् ॥३.१०.२६॥
कैवर्तजाल पतितार्त झषोपमस्य संसार जाल
पतितस्य तथा दयालो ।
जालं कृपास्त्र निकरेण कुरुष्व कृतं श्रीरामकृष्ण मम देहि पदावलम्बम्
॥३.१०.२७॥
नात्यद्भूतमहं मन्ये तवेदं रूपदर्शनम् ।
आश्चत्यानां बहूनां हि निधिः परमको भवान् ॥३.१०.२८॥
धन्योऽतिधन्योऽद्य सुधन्य जन्म कृत्यं
सुकृत्यं कृतकृत्यताप्ता ।
दृष्टं सुदृष्टं भवतः स्वरूपं तवाधुना दर्शय पूर्वरूपम् ॥३.१०.२९॥
श्रीरामकृष्णं शिरसा नमामि श्रीरामकृष्णं
वचसा गृणामि ।
श्रीरामकृष्णं मनसा स्मरामि श्रीरामकृष्ण शरणं प्रपद्ये ॥३.१०.३०॥
एवं नरेन्द्रं प्रति
रामकृष्णस्तद्दर्शयित्वा स्वकमेव रूपम् ।
मायामयः पश्यत एव तस्य सद्यः स्वतल्पोपरि संशया नः ॥३.१०.३१॥
उवाच कृच्छ्रेण तदा नरेन्द्रं भोज्यं
सुपेयं किल देहि मह्यम् ।
सन्त्यत्र किं मे प्रिय भक्तवर्गास्तान् दर्शयत्वं त्वरितं सुपुत्र
॥३.१०.३२॥
श्रुत्यैवेदं श्रीगुरोर्वाक्य जातं तत्तत्
कार्य साधयित्वा सुखेन ।
अस्येतस्य स्वां समावेश्य दृष्टिं अश्रुस्रोतः संव्यमुञ्चन् महीयान्
॥३.१०.३३॥
ततः स तं सर्व विजल्प मुक्तं दृष्ट्वा
तदासौस दयितं नरेन्द्रम् ।
अन्ते जनानां स्मरणीयमैकं जगाद मामेति सकातरं सः ॥३.१०.३४॥
यस्यां जनः प्राणवियोग काले क्षणं
समावेश्य मनो विशुद्धम् ।
निर्हृत्य कर्माशयमाशु याति परां गतिं ब्रह्ममयोऽर्कवर्णः ॥३.१०.३५॥
काली काली कालिकेति त्रिवारं जल्पन् देवः
सूच्चकण्ठं सुखं सः ।
निःशब्दन्तद्वेश्म संकम्पयित्वा शिष्यान् पश्यन् श्वासशून्यो वभूव
॥३.१०.३६॥
ततो महात्मा जगदेक नाथो
नरेन्द्रनाथोऽप्यमरेन्द्र तुल्यः ।
सुविस्मितस्तस्य ददर्श रूपं विशाल नेत्रस्य विशाल नेत्रः ॥३.१०.३७॥
तदा वबुस्तत्र सुगन्ध वाता दिशश्च सर्वा
विमला वभूवुः ।
समागता देव मृदङ्गनादा जाता सुवृष्टिः कुसुमाबलीनां ॥३.१०.३८॥
देहाद्विनिष्क्रम्य गुरोस्तदानीं
शुभ्राभ्रतः पूर्णशशि प्रभावत् ।
तज्जयोतिषां ज्योतिरखण्ड रूप यं वेदमुख्यं प्रणव स्वरूपम् ॥३.१०.३९॥
तदन्तरे तस्य महाविभूतेः श्रीरामकृष्णात्म
गदाधरस्य ।
ददर्श रूपं परम स्वरूपं विष्णोः पदन्तद्ध्रुवमक्षरं यत् ॥३.१०.४०॥
हंसं विमानं शशि कोटिकान्तिमारुह्य सौम्यं
सुरवर्त्म मध्ये ।
गच्छन्तमेवं निजधाम देवं विलीयमानं क्रमशो ददर्श ॥३.१०.४१॥
स्वरूपशक्तिं किल या तदीयां विराजितां
विश्व जन प्रसूतिम् ।
तदीय लीला परिपूर्ति दात्रीमलक्षितस्तां समवाप देवः ॥३.१०.४२॥
तां सारदां सारविशेष दायिनीं
यच्छक्तिमाश्रित्यजनाः ।
सुयोगिनः कुर्वन्ति कार्ये मुनि मानवादयः ॥३.१०.४३॥
प्रभुना श्रोनरेन्द्रस्य यदलौकिक कल्पनम् ।
भूतं वा स्वस्वरूपं यद्दर्शयामास ठाकुरः ॥३.१०.४४॥
नरेन्द्रनैव विज्ञांत नान्य भक्तैः कथञ्चन
।
तदा महानिशा कालात् प्रायेन घटिकाद्वयम् ॥३.१०.४५॥
मोहितास्तत्र ये भक्ता भगवदिच्छया भवन् ।
गते द्विघटिकाकाले भक्तास्ते प्राप्तचेतनाः ॥३.१०.४६॥
एकीभूय समाधिस्थं प्रभुं मत्वा विचक्षणाः ।
ॐ हरिरिति शब्दस्य समाधेर्भङ्गं हेतवे ॥३.१०.४७॥
उच्चारयन्ति ते सूच्चैः समाधेर्भञ्जनेऽसति
।
दिव्यतनोःशेष पूजां मत्वोद्याने प्रविश्यते ॥३.१०.४८॥
नानाविधानि पुष्पानि दिव्यानि विपुलानि च ।
ब्राह्मे मुहुर्ते संगृह्य पादपूजां विधायते ॥३.१०.४९॥
गन्धपुष्पादिभिर्भव्यां शय्यामपि
विभूषितां ।
कृत्वा यदा गले माल्य दानार्थं व्यग्र मानसाः ॥३.१०.५०॥
स्पृष्टमात्रं समुत्तापं विज्ञाय
विग्रहस्य च ।
तथा तदङ्गालोकेन गृहमालोकितञ्च तम् ॥३.१०.५१॥
दृष्ट्वा समाध्यवस्यन्तं मन्यमानाः
सुनिश्चितम् ।
प्रभोः पुनर्बाह्यभावो भविष्यति न संशयः ॥३.१०.५२॥
एवमाशान्विताः सर्वे भक्तास्ते ह्यभवन्
यदा ।
तस्मिन्नेव प्रत्यूषसि महेन्द्रलाल नामकः ॥३.१०.५३॥
भिषकृतमः समायातः श्रीप्रभोर्दर्शनेच्छया ।
आनन्दपूर्ण वदनं रोमाञ्चित कलेवरम् ॥३.१०.५४॥
तदङ्गज्योतिषापूर्ण गृहं
दृष्ट्वातिविस्मितः ।
उवाच दिव्यावस्थाया ह्यस्याः प्रतिकृतेः प्रभोः ॥३.१०.५५॥
उत्तोलनं साधु मन्य पूजादर्शन हेतवे ।
अतोऽहं कलिकातास्थ गेहं गत्वाधुनैवहि ॥३.१०.५६॥
सम्पादयामि तत् कृत्यमित्युक्त्वा प्रययौ
द्रुतम् ।
अत्रान्तरे श्रीनेपालराज प्रतिनिधिर्महान् ॥३.१०.५७॥
उपाध्यायो विश्वनाथ आगतः प्रभु सन्निधौ ।
काप्टेन इति नाम्ना यमवदत् ठाकुरः स्वयम् ॥३.१०.५८॥
यश्च नारायणं ज्ञात्वा ठाकुरं
भक्तिपूर्वकम् ।
पूजयामास सोऽप्यद्य दिव्यरूप प्रदर्शनात् ॥३.१०.५९॥
ठाकुरस्य सम्मोहित उवाचैवं वचस्तदा ।
महासमाधि मग्नोऽभूदद्य योगीश्वरेश्वरः ॥३.१०.६०॥
एतादृश्यामवस्थायां विधिरस्ति महत्तरः ।
योगशास्त्रे महाभागाः शृणुध्वं सुविशेषतः ॥३.१०.६१॥
ये चात्र ब्राह्मणात्मानः शिष्याः सन्ति
प्रभोः प्रियाः ।
सर्वैस्तैः श्रीभगवतो ग्रोवायामपि वक्षसि ॥३.१०.६२॥
गव्याज्येन गुल्फयोश्च मर्द्दितेषु
कियत्क्षणम् ।
समाधिभङ्ग सम्भवस्याशास्तीति मतं मम ॥३.१०.६३॥
भवद्भिरधुनैवास्यानुष्ठानं क्रियतां तथा ।
तस्याश्वासितवाक्यन्तच्छ्रुत्वा तत्क्षणमेव हि ॥३.१०.६४॥
अहं श्रीवैकुण्ठशर्मा
गुल्फयोर्यत्नपूर्वकम् ।
वक्षसि श्रीशरच्चन्द्रो ग्रीवायां शशिभूषणः ॥३.१०.६५॥
प्रायस्त्रिघटिका कालं कृतवन्तस्तथा
क्रियाम् ।
हा कष्टं व्यर्थतामापतत् कृत्यं भाग्य भङ्गतः ॥३.१०.६६॥
एकालये वहुदिनमास्थितापि महेश्वरी ।
सहास्माभिर्भगवती श्रीमाता सारदेश्वरी ॥३.१०.६७॥
अलौकिकी ह्री सम्पन्ना लोकादृश्या महीयसी ।
प्रभोरर्द्धाङ्गिनी सापि जगदम्बास्वरूपिणी ॥३.१०.६८॥
या देवी सर्वदा सर्वस्वामिनः स्वामिनः
शुभा ।
चकार परिचर्यां सा चिन्मयी चिन्मयस्य च ॥३.१०.६९॥
कुलस्त्रीनां धनं लज्जा विज्ञायेदं महासती
।
कृत्य प्रविदधे सर्वं सर्व्वदा रहसि स्थिता ॥३.१०.७०॥
स्वस्याः कण्ठस्वरश्चापि न श्रुतः केन
कुत्रचित् ।
साद्योत् कण्ठायुता माता निष्पन्दाप्यचलोपमा ॥३.१०.७१॥
समग्रां शर्वरीं स्थित्वा प्रभाते
यावदग्रहीत् ।
समाधिर्निर्दयस्तस्य न च भङ्गो भविष्यति ॥३.१०.७२॥
आशाशून्या तथा भूत्वा यथा वेगवती नदी ।
जलोच्छ्वासैः पूर्यमाना सेतुं भङक्ता प्रसर्पति ॥३.१०.७३॥
तथा सर्वां परित्यज्य व्रीडां सा खलु
लौकिकीम् ।
उवाच कालिके मातः सर्वमङ्गलकारिणि ॥३.१०.७४॥
दृष्ट्वा ममापराधं का दुःख शोक विनाशिनि ।
मां परित्यजा यासि त्वं कथं वद पति प्रिये ॥३.१०.७५॥
एवमश्रुमुखी माताऽत्युच्चक्रन्दनकारिणी ।
बाहुद्वयं समुत्तोल्य कुत्र त्वमिति लापिनी ॥३.१०.७६॥
पतिता मूर्छिता ह्यासीद्वरण्यां धरणी समा ।
भ्रातुष्पुत्री ठाकुरस्य पूज्यास्माकं स्वसा च या ॥३.१०.७७॥
तथा गोपाल माता या तयोः शुश्रूषया तदा ।
चैतन्यापादिता सापि निश्चैतन्येव लक्षिता ॥३.१०.७८॥
हरिणी दावदग्धेव विललापाति दुःखिता ।
सुखसौन्दर्यमायाति यदि वृक्षाश्रिता लता ॥३.१०.७९॥
भग्ने तरौ न लता त्वं तस्यास्तिष्ठति
किञ्चन ।
रमण्या रमणीयत्वं सतिभर्त्तरि जीविते ॥३.१०.८०॥
ना पतिः शोभते नारी चन्द्रशून्या निशा यथा
।
प्राप्य तु पश्चिमावस्थां मृतेव भाति सर्वदा ॥३.१०.८१॥
पत्र पुष्प फलश्छाया मूल वल्कल दारुभिः ।
छेत्तारमपि सम्प्राप्तं यो वृक्षः सम्यगर्चति ॥३.१०.८२॥
सर्वानन्दप्रदः सोऽयं शाखी मेऽद्य
विनश्यति ।
शाखिनो न विनाशोऽयं लताया मम निश्चितम् ॥३.१०.८३॥
यतः शाखी दारुमूर्तिर्जनैः संपूजितो भवेत्
।
मूर्त्यन्तरेण सततं गृहस्थानां गृहे गृहे ॥३.१०.८४॥
अतोऽस्य निधनं नास्ति परोपकारिणो ध्रुवम् ।
यतः सज्जन भाषेयं कीर्तिर्यस्य स जीवति ॥३.१०.८५॥
इति शोक परायणा तदा विललापाति विमोहिता
सती ।
खलु देव ममापराधतस्तव चित्तेऽति कठोर वेदनाम् ॥३.१०.८६॥
अनुभूय गतोऽसि मुह्यतां वचसां नावसरो
यतोऽस्ति ते ।
कुरु मामपराधिनीं प्रभो तव दासी शत नीच दासिकाम् ॥३.१०.८७॥
अथवाऽमरराजधामतस्तव सेवाविधि संविधायिनः ।
इह चागत देव सेवकानुपदेशं कुरु मां विहाय भोः ॥३.१०.८८॥
नहि देव कदापि मे भवेत्ततव सङ्गः
सुविचालितः शुभा ।
इति वाक् समुदीरिता त्वया ह्यघुना किं वितथाकृताद्य सा ॥३.१०.८९॥
तव वेद कथा हि नानृतं मम दुर्भाग्यवशादियं
तथा ।
उत मानसमेव दुर्बलं भवतो भाषित संग्रहेऽक्षमम् ॥३.१०.९०॥
भवतः शुभदृष्टिरेव मे
सुखशान्तिश्चिरकालिकी भवेत् ।
वद मामनयाधुना कथं पतिहीनामकरोद्भवानिमाम् ॥३.१०.९१॥
रससङ्ख्यक हायनामिमां परियन्तुस्तव
पानिधारणे ।
गतवान् मम देह विभ्रमं चलति त्वद्य न शोकसागरम् ॥३.१०.९२॥
निजधाम गतस्य पादयोः पुनरेवापतदस्य कालरा ।
लतिका हि तरौ विखण्डिते पादमूले पतति श्रिता यथा ॥३.१०.९३॥
मदनेऽमरलोकसङ्गते रतिरार्तेव रुरोद सारदा ।
न तु सा रतिभाव भावना जनसौभाग्य वेग्दर्शनात् ॥३.१०.९४॥
कृपयादिश पूर्ववद्वपुः प्रतिपद्याद्य
महत्तरं वचः ।
जगतः सुखशान्तिदं परं गतिरस्याः सुखदापि तद्भवेत् ॥३.१०.९५॥
ततः स्वभर्तुश्चरणाम्बुजासवं विचिन्तयन्ती
च गुरोर्न चापरम् ।
पतिव्रतानां प्रतिलोक संग्रहे व्रतं हि पत्यु विदधाति नायरम् ॥३.१०.९६॥
तदीय लक्ष्म्यादय एव भक्ता दृष्ट्वा तदा
शोकपरायणान्ताम् ।
पादाब्ज युग्मं शिरशा धृतां तामालिङ्या देवीमपरत्र जग्मुः ॥३.१०.९७॥
श्रुत्वा प्रभोः शाश्वतीं शेषलीलां नाना
गताः किङ्करा दर्शनार्थम् ।
भक्तैः पराह्नेऽस्य शून्यं शरीरम् उच्चैर्गेहात् प्रापितं तैरधस्तात्
॥३.१०.९८॥
पर्यङ्क मध्यस्थितविग्रहस्य प्रसून
माल्यादिभिर्रञ्जितस्य ।
प्रतिच्छविं प्राणगतस्य तस्य गृहीतवन्तो हि शुभालयस्य ॥३.१०.९९॥
अपार कारुण्यगुणैक सिन्धुर्यः
शिष्यवर्गस्य सुखे वन्धुः ।
निशातमोघ्नो मगवान् यथेन्दुर्विमुक्तिदीयङ्भजनस्य विन्दुः ॥३.१०.१००॥
यः सेवकानां बहु दुःखदायिनं भारं
स्वयञ्चात्र परत्र सङ्गिनम् ।
उवाह लोला परिपुष्टिकारिणं तमद्य खट्टोपरि शेषशायिनम् ॥३.१०.१०१॥
दृष्ट्वा तदा शोकपरायणा भृशं
भक्तास्तदायाः परमं सुविग्रहम् ।
स्कन्धे समादाय गताः सुदुःखिता भागीरथी तीर महोऽति पावनम् ॥३.१०.१०२॥
संस्थाप्य तत्राखिल लोकमङ्गलं प्रगीयते
यत् परमं सुमङ्गलम् ।
सत्यं चिदानन्दमयं सुविग्रहं संवेष्ट्य सर्वे समुपाविशन् गुरुम् ॥३.१०.१०३॥
उक्तञ्च तैस्तत्र विभोर्वाचांसि
श्मशानमालम्ब्य यथोदितानि ।
पूर्वं स्वभक्तान् कृपया जगाद तान्यब्रुवन् दाह सरोवरे ते ॥३.१०.१०४॥
श्मशब्देन शवः प्रोक्तः शानं शयनमुच्यते ।
निर्ब्रुवन्ति श्मशानार्थं मुने शब्दार्थकोविदाः ॥३.१०.१०५॥
महान्त्यपि च भूतानि प्रलये समुपस्थिते ।
शेरतेऽत्र शवोभूत्वा श्मशानन्तु ततो भवेत् ॥३.१०.१०६॥
नाना मृत सुहृन्नादरौद्र कोलाहलैर्युतम् ।
हा पुत्र मित्र हा बन्धो भ्रातर्वत्स प्रियाद्य मे ॥३.१०.१०७॥
हा पते भगिनि मातर्हा मातुल पितामह ।
मातामह पितः पौत्र क्व गतोऽस्येहि बान्धवः ॥३.१०.१०८॥
इत्येवं वदतां यत्र ध्वनिः संश्रूयते
महान् ।
ज्वलन् मांसवसामेद शमच्छमित सङ्कुलम् ॥३.१०.१०९॥
अर्द्धदग्धाः शवाः श्यामा
विहसद्दन्तपङ्क्तयः ।
हसन्तीवाग्नि मध्यस्था: कायस्येयं दशा त्विति ॥३.१०.११०॥
वैराग्याधाररूपं हि श्मशानं स्वर्गदं
विदुः ।
एवं स्वशिष्यवर्गान् यः प्रेष्ठान् पूर्वमुवाच ह ॥३.१०.१११॥
तस्याद्य छाया देहस्य कर्तुं श्मशानिकीं
क्रियाम् ।
चन्दनं काष्ठमादाय गन्धर्वं दैवतं बहु ॥३.१०.११२॥
चितां सम्पाद्य विधिवत् स्रानं
पिण्डक्रियामपि ।
कारयित्वा दक्षशीर्षं चिता मध्ये न्यवेशयत् ॥३.१०.११३॥
पूताग्नि दानतस्तस्मै तस्य नित्य शरीरिणः ।
क्षित्यादि पञ्चभूतानि सर्वान्यध्यक्षतां दधुः ॥३.१०.११४॥
एकैकशो दग्धभूतं पञ्चपञ्चीकृतस्य तम् ।
व्याप्तन्तत्र चतुर्द्दिक्षुस्तद् गात्रधूम सौरभम् ॥३.१०.११५॥
मकरन्द प्रलब्धास्तेऽगमन् कोटि मधुव्रताः ।
पुञ्चीभूताग्नि मध्ये तं श्रीरामकृष्णविग्रहम् ॥३.१०.११६॥
शिव ब्रह्मेन्द्र चन्द्रादि दैवतैरपि
संयुतम् ।
दृष्ट्वा गुरुगत प्राण शशिभूषण सेवकः ॥३.१०.११७॥
आनन्दसंप्लवे लीनः साश्रुनेत्रः समाधिमान्
।
तुच्छीकृताग्नि तापन्तं दुर्द्धर्षम् सर्वभक्षकम् ॥३.१०.११८॥
चकार व्यजनं प्रेम्ना पूर्ववदग्नि मध्यगः
।
न दग्धो नापि चाञ्चल्यमाप भूषण भूषणः ॥३.१०.११९॥
एकान्तिकी गुरोर्भक्तिः सर्वशक्ति
प्रदायिनी ।
वाय्वग्नि जलशक्तीनां शक्तिर्भक्ते न विद्यते ॥३.१०.१२०॥
प्रभोः शेष महायज्ञावसानेऽस्थि निमज्जनम् ।
गङ्गाम्भसि कारयित्वा श्रीनरेन्द्रो महामतिः ॥३.१०.१२१॥
सुसंगृह्या परिञ्चास्थि रक्षितं स्वस्य
सन्निधौ ।
आदिष्टवान् तथा चान्यान् गुरुभ्रातृन् विशेषतः ॥३.१०.१२२॥
भस्मास्थि किञ्चित् किञ्चिच्च प्रत्येकं
नय भक्तितः ।
स्व स्व गेहे सुसंस्थाप्य नित्यं सम्पूजयिष्यथ ॥३.१०.१२३॥
तथा ते सेवकाः सर्वे पूतास्थि भस्मसंयुतम्
।
गृहीत्वा परमानन्दमाश्रितास्तत्क्षणादहो ॥३.१०.१२४॥
श्रीरामकृष्ण देवस्य शेषयज्ञं समाप्यते ।
समवगाह्य गङ्गायां शोकसंभिन्न चेतसः ॥३.१०.१२५॥
प्रत्यावृत्य भक्तवर्गास्तदुद्यानस्थ
वाटिकां ।
शिरोधृतं पवित्रास्थियुत पात्रं सुमङ्गलं ॥३.१०.१२६॥
शय्योपरि भगवतो ररक्ष भक्तिपूर्वकम् ।
यानि कतिपयाहानि दिव्यास्थि तव संस्थितम् ॥३.१०.१२७॥
सान्निध्य मे निरे साक्षाद्भक्त
वत्सलरूपिनः ।
श्रीरामकृष्ण देवस्य तथा तदद्भाषणं श्रुतम् ॥३.१०.१२८॥
भक्तैरेवं यथा साक्षादाविर्भूय दयानिधिः ।
सुप्रीत मनसा पूजां तदीयां प्रतिगृह्य सः ॥३.१०.१२९॥
तथा भजनं सङ्गीतं श्रुत्वोवाच समादरम् ।
पुत्रा भो लोक दृष्ट्याहमन्तर्द्धानं गतो ध्रुवम् ॥३.१०.१३०॥
न त्यजामि किन्तु युष्मान् मम ध्यान
विवृद्धये ।
वो बाह्य चक्षुषोः पुत्रा गोचरो न भवाम्यहम् ॥३.१०.१३१॥
अन्तरालमधिष्ठाय कृपादृष्टिं करोमि हि ।
अनुभूता भवद्वाणी तत्रैव सेवकैः प्रभोः ॥३.१०.१३२॥
यावज्जीवं प्रभुः प्रायो गङ्गातीरेऽति
निर्मले ।
स्थित्वा जीवानुद्दिधीर्षुरकरोत्तप उत्तमम् ॥३.१०.१३३॥
अतः प्रभोरस्थिखण्डमत्र भागीरथी तटे ।
समाहितं करिष्यामि गुर्वीयं वासना मम ॥३.१०.१३४॥
एवमाग्रहयुक्तः स नरेन्द्रो मुख्य सेवकः ।
तदुपयुक्त भूखण्ड लाभाय चिन्तितोऽभवत् ॥३.१०.१३५॥
किन्तु श्रीलनरेन्द्रस्य तदिच्छा परिपूरणे
।
शिष्यस्यहमिकैवात्र प्रत्युहः समजीजनत् ॥३.१०.१३६॥
श्रीकृष्णस्य भगवतः पूर्वं जन्माष्टमो
तिथेः ।
हठाद्दिनद्दयादत्रोद्याने घोरे निशाक्षणे ॥३.१०.१३७॥
अक्रूर सदृशः क्रूरो दुष्टानुचरवेष्टितः ।
नित्यगोपालको रामदत्त मातृस्वसुः सुतः ॥३.१०.१३८॥
आगत्य श्रीनरेन्द्रादि प्रमुखान्
प्रभुमन्दिरे ।
स्थितान् सर्वान् समाहूयोवाचाति गर्वया गिरा ॥३.१०.१७९॥
अस्ति दिव्यास्थि यत्तावत् प्रभोः
शय्योपरि धृवम् ।
वाक्यव्ययमकृत्वैव मह्यमर्पय सत्त्वरम् ॥३.१०.१४०॥
काँकुडगाछिनामके ग्रामे योगोद्याने वयम् ।
जन्माष्टमी दिने पुण्ये करिष्यामः समाहितम् ॥३.१०.१४१॥
श्रुत्वैवं श्रीनरेन्द्रस्तु
नित्यगोपालमुक्तवान् ।
नित्यं भगवतो यस्य गङ्गायामेव संस्थितिः ॥३.१०.१४२॥
तस्य किमस्थि समाधिः शोभते यत्र तत्र च ।
नाहं सुसङ्गतं मन्ये भागीरथ्यास्तटाद्बहिः ॥३.१०.१४३॥
एवं सुयुक्तिपूर्णन्तं वाक्यं श्रुत्वापि
भिन्नदृक् ।
तर्कस्योपरितर्कोऽस्तीत्युक्त्वास्थि दम्भपूर्वकम् ॥३.१०.१४४॥
नीत्वा गच्छद् योगोद्यानं गोपालो राम
सन्निधौ ।
श्रीरामभ्रातुरिच्छेयं महोत्सव पुरःसरम् ॥३.१०.१४५॥
प्रभोर्देहावशेषं तं पवित्रं परमं शुभम् ।
अस्थि समाहितं कार्यं योगोद्याने सुनिश्चितम् ॥३.१०.१४६॥
किन्त्वेकेन कार्य्यसिद्धि विज्ञायासम्भवं
सुधीः ।
गृहस्थाश्रमिनो भक्ताननुरुध्य यथाविधिः ॥३.१०.१४७॥
अर्थ दानार्थमत्यन्तं कार्यारम्भं चकार सः
।
किन्तु प्रभोः प्राणनिभः सुरेन्द्रनाथ सेवकः ॥३.१०.१४८॥
शोकाश्रुपूर्ण नयनः प्रोक्तवानति धार्मिकः
।
वयमर्थान् प्रभोरर्थे दास्यामो विपुलान् ध्रुवम् ॥३.१०.१४९॥
किन्त्वत्र ये महाभागा भक्ता युवकसत्तमाः ।
बहुकाल भगवतः सेवायामति दारुणम् ॥३.१०.१५०॥
चक्रुः स्वात्मार्पणं सर्वे
निद्राऽहारविवर्जिताः ।
विशुद्धा भ्रातरस्ते वै सर्वे प्राणाधिका मम ॥३.१०.१५१॥
तैः सर्वैरत्न सङ्गत्य यथा भगवतो वयम् ।
चरितामृतमालोच्य कर्तुं कालातिपातनम् ॥३.१०.१५२॥
समर्था: सम्भविष्यामस्त्वदनुष्ठान कर्मणि ।
आत्मपातं करिष्यामो यावज्जीवमितिस्पृहा ॥३.१०.१५३॥
सर्वाश्चर्यमयस्यास्य लीलाश्चर्यमयी भवेत्
।
देहलीलावसानेऽपि प्रभोर्यदस्थि सञ्चितम् ॥३.१०.१५४॥
तन्मया स्थापितं गेहे पूजाञ्चास्य
करोम्यहम् ।
देहलीलाविलासानेऽपि समये तदङ्गसौरभेन हि ॥३.१०.१५५॥
गृहं गृहाङ्गनं सर्वं सुवासितमभूत्तदा ।
तथा तदङ्गसम्पर्काद् गन्ध चन्दन सौरभम् ॥३.१०.१५६॥
मदोयेऽपि गृहे चास्य विक्षिप्तं भवति
ध्रुवम् ।
आयान्ति मद् गृहे येऽपि तदा तदुगन्ध मोहिताः ॥३.१०.१५७॥
पृच्छन्ति विस्मितास्ते मां
कथमेतद्भवेदिति ।
श्रुत्वा तेषामिदं वाक्यमब्रुवं तोषहेतवे ॥३.१०.१५८॥
साक्षाद युगावतारस्य किञ्चिदस्थिकणं मम ।
श्रीरामकृष्ण देवस्य मद् गेहे भाति पूजितम् ॥३.१०.१५९॥
दिव्यगन्धेन तस्येव ग्टहमापूरितं मम ।
भवद्भिरनुभूतन्तद् गन्धेन्द्रिय समाश्रयात् ॥३.१०.१६०॥
शृणुध्वं परमात्मीयाः किञ्चिदत्र
वदाम्यहम् ।
लीलां युगावतारस्य ह्यस्थि पात्रानुसारिणीम् ॥३.१०.१६१॥
सन्ति शास्त्रगिरश्चैवमन्तः
शुद्धिस्तपस्यया ।
बाह्य शुद्धिर्भवेदेव मृज्जलाभ्यां न संशयः ॥३.१०.१६२॥
बाह्य शुद्धि विहीनस्य देव विग्रह पूजने ।
नाधिकारो भवेत्तस्य ऋषिभिर्भाषितन्त्विदम् ॥३.१०.१६३॥
बेलुडमठ संस्थानं स्वामीजी कृतरुवान् यदा ।
अलिबुलेति नाम्न्येका मार्किन देश सम्भवा ॥३.१०.१६४॥
रमणी लोकविख्याता रामकृष्णानुरागिनी ।
विपुलार्थ प्रदानेन स्वामीजीं पर्यतोषयत् ॥३.१०.१६५॥
गङ्गायाः पश्विमेभागे तीरे बेलुड संज्ञके ।
बभूव येन वित्तेन श्रीरामकृष्णमन्दिरम् ॥३.१०.१६६॥
अत्युच्च गगनस्पर्शी सुन्दरः सुमहान मठः ।
तस्याः श्रीस्वामिजीं प्रतिवात्सल्यमावमुत्तमम् ॥३.१०.१६७॥
दृष्ट्वाति सारल्य मतिः सारदानन्द आदरात् ।
श्रीरामकृष्णदेवस्य भक्ताया मस्तकोपरि ॥३.१०.१६८॥
प्रभोः पवित्रास्थि पात्रं स्पर्शयामास
मुक्तिदम् ।
येन तस्या वर्द्धिताभूद गुरोर्भक्तिर्गरीयसी ॥३.१०.१६९॥
पाश्चात्य नरनारीणां बाह्य शौचं न विद्यते
।
भक्तिमत्यामपि ह्यस्यां नास्ति शोचं मनागपि ॥३.१०.१७०॥
यथास्ति भारतीयानां शुचित्वमस्त्यलौकिकम् ।
अतस्तस्यां निशायां श्रीठाकुरः स्वामिजीं प्रति ॥३.१०.१७१॥
स्वप्नादेशं चकारेवं माकुरु त्वं यदा तदा ।
यस्मै तस्मै न देयं मे विग्रहं स्पर्शनं क्वचित् ॥३.१०.१७२॥
तदवधि तत् पूतास्थिपात्रं परम मङ्गलम् ।
कृपापूतैः प्रभोर्भक्तैरक्षितं वेदिकान्तरे ॥३.१०.१७३॥
नित्यमद्यापि तत् पात्रमुद्दिश्य वेदिकोपरि ।
तत् स्वरूपं मन्यमानैस्तद्भक्तैः पूजितं भवेत् ॥३.१०.१७४॥
बहिराणीय तत् पात्रं पूजितं प्रतिवत्सरम् ।
भवेत् सम्प्रीतये तस्य तज्जन्म तिथि वासरे ॥३.१०.१७५॥
यस्य दर्शनमात्रेण जनाः सन्ति निरामयाः ।
संसारसागरोत्तीर्णास्तद्भक्ता नात्र संशयः ॥३.१०.१७६॥
इति श्रीरामेन्द्र सुन्दर विरचिते श्रीश्रीरामकृष्णभागवते पारमहंस्यां संहितायां भगवत: श्रीरामकृष्ण देवस्य स्वधामप्रवेशः तदस्थि स्थापनादिरूपोऽन्तालीलायां दशमोऽध्यायः ॥१०॥