वेदमूर्ति-श्रीरामकृष्णः

प्राग्वाणी

जगद्भासको दिवाकरः सूर्यदेवः पूर्वाकाशे समुदेति । क्रमशो निशाया अन्धकारो जड़ता च दूरमपसरति । धरित्रीं समुज्ज्वलप्रकाशोद्भासितां कुर्वन् सूर्यदेवः पश्चिमायां दिशि अस्तमेति । पुनस्तमिस्रा समागत्य घरामन्धकाराच्छन्नां विधत्ते । ईश्वरेच्छासमुद्भूतोऽयमेव प्राकृतिको नियमः ।

अनन्तातीतकालत एव प्राच्यभारताकाशे आध्यात्मिकः सूर्यो ज्योतिष्मद्भास्वरस्वरूपतः समुदयति । पुनः भारतभूमौ ज्ञानमय ईश्वरो महामानवरूपेण जन्म गृह्णाति । तदीयधर्मजीवनोद्भिद्यमान-कान्त्या दशापि दिशः प्रकाशं प्राप्नुवन्ति । अज्ञानान्धकारस्यापगत्या नवीनाध्यात्मिका लोकतो जगदुद्भासते । अत एव प्रागैतिहासिकयुगत एव भारतदेशोऽयं विश्वस्य धर्मगुरुः धर्मालोकस्तम्भस्वरूपोऽविद्यत । संसारस्य यस्मिन् स्थाने धर्मनीतिरश्मिः परिदृश्यते तत्सर्वं स्थानं किल भारतीयानां देवमानवानाम् आर्यमहर्षीणां च जीवनसूर्येण विकीर्णं प्रतिभाति । “यदा यूनानस्यास्तित्वमेव नासीत्, रोमक साम्राज्यं च भविष्यदन्धकारगर्भे तिरोहितमभवत्, आधुनिकयूरोपीय पूर्वपुरुषाः गभीरारण्य मध्येऽसभ्यावस्थायां निवासमकार्षुस्तदानीमपि भारतीयं गगनमण्डलं वैदिकयज्ञधूमेन समाच्छन्नम्, वेदध्वनिभिर्मुखरितं चाभवत् । किंवदन्ती चापि यस्य सुदूरातीतघनान्धकारस्य भेदनेऽसमर्था दृश्यते, तस्मिन् अतिप्राचीने युगेऽपि दिव्यगुणातीन्द्रियज्ञान-सम्पन्नैराप्तकामैरार्यमहर्षिभिर्भारतभूमौ जन्म गृहीत्वा आत्मेश्वरपरलोकादीन्द्रियातीतज्ञानेन स्वानुभवसिद्धेन सांसारिकेभ्यः नरेभ्यः शाश्वतिकशान्तिभूमानन्दप्राप्तिमार्गाः प्रदर्शिता अभूवन् । तदीय विचित्रदर्शनासाधारणशक्तिविकासं प्रत्यक्षीकृत्यैवार्यसन्तानानि तेष्वतीन्द्रियतत्त्वेषु विश्वासं सुदृढमनुरागं चाकार्षुः । फलतो भारतस्य जातीयं जीवनं धर्मस्य सुदृढभित्तौ प्रतिष्ठितमभवत् । प्रत्यक्षधर्मलाभरूपलक्ष्ये स्थिरदृष्टयः सन्त आर्यपुरुषा अभिनवसमाजस्य सामाजिकीनां परिपाटीनां च सृष्टिमकुर्वन् ।

सांसारिक भोगसुखं विश्लिष्य ततो वीतरागैर्भूत्वा महर्षिभिः प्रोक्तम् – “यो वै भूमा तत्सुखं, नाल्पे सुखमस्ति । भूमैव सुखम्, भूमा त्वेव विजिज्ञासितव्य इति । भूमानं भगवो विजिज्ञास इति ।”

तस्मिन् एव युगे महर्षियाज्ञवल्क्यपत्नी ब्रह्मवादिनी मैत्रेयी प्रोवाच – “येनाहं नामृता स्याम्, किमहं तेन कुर्याम्” इति । पुनस्तदानीमेव युगे ऋषिभिरार्यैः सत्यस्य शाश्वतशान्तेः, अविनश्वरसुखकर-प्रियवस्तुनः सन्धानमपि प्रदत्तमभूत् — “तदेतत् प्रेयः पुत्रात्, प्रेयो वित्तात्, प्रेयोऽन्यस्मात् सर्वस्मादन्तरतरं यदयमात्मा ।” क्षणिकसुखजनकानात्मवस्तुभ्य आत्मतत्त्वानुसन्धानाय मानवीयं मनस्तैर्नियोजितमासीत् । जन्ममृत्युप्रहेलिकातश्चिरमुक्तैर्भूत्वाऽमरजीवनलाभस्य सुस्पष्टसङ्केतस्तद्वचनैर्लभ्यते । ऋषीणां दिव्यानुभूतयस्ता मानवीये मनसि नवचेतनामाविरभावयन् ।

मनुष्याः पापिनस्तापिनो दुर्बला वा न सन्ति । सर्वेऽपि मानवाः स्वभावत एव ज्योतिष्पुत्राः, उत्तराधिकारिरूपत एवामृताधिकारिणः सन्ति । सहस्रशो वर्षेभ्यः पूर्व महर्षिकण्ठध्वनितामृतत्वस्य वाणी समयव्यवधानमतिक्रामन्ती साम्प्रतमपि मानवमनस्तु अमृतत्वस्यानुभूतिमातनोति । ऋषयस्तारस्वरेण घोषयाञ्चकुः “शृण्वन्तु विश्वे अमृतस्य पुत्रा आये धामानि दिव्यानि तस्थुः” । “वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय”।

ऋषीणामनुभूतोऽनिर्वाणभावराशिः कालप्रभावान्नष्टो भवितुं नार्हति । अतः साम्प्रतमपि भारते मानवजातीनां सर्वश्रेष्ठ आदर्शसमूहो विद्यते ।

वैदिकयुगे दिव्यानुभूतिसम्पन्नानाम् ऋषीणामाविर्भावफलस्वरूपश्रीभगवद्दर्शनलाभोपरि भारतीयो धर्मः प्रतिष्ठितस्तथा च जातीयसामाजिकजीवनस्य प्रत्येकस्तरे आदर्शोऽयमनुस्यूतः सन् प्रत्येकार्यसन्तानाय सत्यलाभार्थं नवनवां प्रेरणां प्रयच्छति । त्याग- तपस्या-संयम- पवित्रता तीव्रान्तरिकता साहाय्येन प्रत्येकोऽपि मानवः स्व-स्वजीवने जगत्कारणपरमेश्वरं प्रत्यक्षं कृत्वा मानव-जीवनं धन्यं कृत-कृत्यं चानुष्ठातुं शक्नोति । विषयेऽत्र हिन्दवो दृढविश्वासिनो बभूवुः । शतशतवर्षजनितघातप्रतिघातसंघर्षैः, भोगवादिनां वैदेशिकानाम् अमानुषिकैरत्याचारोत्पीडनैः, विजातीयविरुद्धभावलावनैश्वापि विश्वासोऽयं नैव किञ्चित् शैथिल्यमाप, प्रत्युत महती जातिरियं बहुभिर्दुरदृष्टैर्दुःखभारैश्च समाक्रान्ताऽपि न केवलं जीवति, प्रत्युत संसारस्य धार्मिके राज्ये सम्राडासने समुपविष्टा वर्त्तते । स्वामिना विवेकानन्देन दक्षिण-भारतस्यैकस्मिन् व्याख्याने प्रोक्तम् — “इदानीमपि संसारं शिक्षयतुमस्त्यस्माकमधिकारः । अतः कारणादेव शतशतवर्षकृतैरत्याचारैः प्रायः सहस्रवर्षात्मकैवैदेशिकैः शासनैरुत्पीडनैश्वापि जातिरियमिदानीमपि जीवति । अत एवेयं जीवति, यत इयमीश्वररूपमहामहिमरत्नस्य परित्यागं नाकरोत् । “भगवान्मनुरप्युक्तवान् “एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन्पृथिव्यां सर्वमानवाः” इति ।

❀ ❀ ❀

देवा मानवाश्च प्रतियुगमाविर्भूय परमश्रेयः प्राप्तेरादशैँ युगोपयोगिरूपेण मानवानां पुरतः समुपस्थापयन्ति । यदा मनुष्याः —

“यावज्जीवेत् सुखं जीवेत् ऋणं कृत्वा घृतं पिबेत् ।
भस्मीभूतस्य देहस्य पुनरागमनं कुतः” इति ।

मतवादेनानेन प्रभावान्विताः सन्त इहलोकसर्वस्वमिन्द्रियभोगसुखमेव परमपुरुषार्थमवधारयन्ति, तत्र च प्रमत्ता जायन्ते, तदानीमेव वेदमुखेन महर्षय आर्यास्तेषां सावधानतायै नैजं वचनमश्रावयन् —

“अमृतत्वस्य तु नाशास्ति वित्तेन ।
न घनेन, न प्रजया, त्यागेनैके अमृतत्वमानशुः” इति ।

वैदिको धर्मः शिक्षयति — प्रत्येको मनुष्यः शुद्धबुद्धमुक्तस्वभाव आत्मस्वरूपः । प्रत्येकोऽपि “सहस्रशीर्ष” विराट्पुरुषस्य अंशोऽस्ति । किन्तु जागतिकविभिन्नावर्त्तघातप्रतिघातैर्नैव मानवो निरन्तरं स्व-स्वरूपसम्बन्धे सावधानस्तिष्ठति । इयमात्मविस्मृतिरेव मायाशब्दवाच्या । माया — अर्थात् या मा (नास्ति), तस्या एव स्वस्वरूपेणावबोधः क्रियते । मायाच्छन्नो मानवो 'अहं ब्रह्मास्मी'ति परिज्ञातुं न शक्नोति, मोहाच्छन्नस्तत्सम्बन्धे तद्विपरीतमेव, भावर्यात । इयं भ्रान्तभावनैव धर्मग्लानिः । बहूनां मानवानामनात्मवादित्वं प्रवृत्तिमार्गाश्रयत्वमेव मानवसमाजे धर्मग्लानितायाः स्थितिः । वेद-पुराणतन्त्रप्रभृति-शास्त्रग्रन्थानां विद्यमानत्वेऽपि मानवसमाजेऽधर्मः प्रादुर्भवति । इतिहास-प्रसिद्धमिदं सत्यम् । प्रतियुगं धर्मग्लानिर्जायते । तत्प्रतिकारविधानमपि बोभवीति । श्रीमतो भगवतोऽपारकरुणा चिराय मनुष्यान् विनाशपथेऽग्रेसारयितुं न समीहते । सा च भ्रांतविमूढ़विपथगामिनो मानवान् कालोपयोगिनमादर्शं दर्शयित्वा सत्यस्याश्रये समानयति, अमरजीवनमार्गे परिचालयति च । भगवान् श्रीकृष्णो गीतामुखेन प्रतिजानीते —

“यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ॥
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे” इति ।

स च मानवरूपेणावतरति । युगप्रयोजनमनुसृत्य आदर्शजीवनेन स्वीयमहिम्ना सनातनं धर्मं राहुमुक्तं विधत्ते । पथभ्रष्टान् दुर्बलान् मनुष्यान् कराभ्यां गृहीत्वा धर्मपथे प्रतिष्ठापयति । तदीयजीवनपूर्णतां प्रति दृष्टिं पातयन्तोऽवाचो विस्मयान्विता मनुष्यास्तं नरदेहधारिणं भगवद्रूपेण परिपूजयन्ति, जीवनस्यैकमात्रादर्शरूपेण गृह्णन्ति च ।

पौराणिक युगादेव भारतेऽवतारवाद विश्वासो विशेषरूपतः प्राकट्यमवाप । शिशिरविन्दुसम्पातो यथाऽदृश्यभावतः कुसुमकोरकान् सौन्दर्य्य सौरभरूपेण विकासयति, तथैव देवमानवजीवनप्रभावेण मानवसर्वस्तरीया शुभचिन्ता प्रभावान्विता सती मानवजीवनानि विकासयति । मानवसमाजस्य धर्मसंस्कृतिसभ्यता वास्तुललितकला-सङ्गीतादीनि नूतनं स्वरूपं विभ्रति । निराशापरिपीडितानां विपथ- गामिनां मानवानां मनसि आशा सञ्चरति, मनश्च भूमानन्दोपलब्धिपथे परिचलति । भारतीयसङ्कटमयमुहूर्त्ते देवमानवा भारते वर्षे अवतरन्ति । तदीयपुण्यपादस्पर्शत ईश्वरीय विशेष-समीहया भारतभूमिः पुण्यधर्मभूमित्वेन परिणता बमूव ।

पाश्चात्त्यभूखण्डे सनातन वैदिकधर्मस्य विजय-वैजयन्तीमान्दोलयन् स्वामी विवेकानन्दः कोलम्बोस्थाने पदमर्पयन् स्वीयभाषणे प्रोवाच — “भारतं हि पुण्यभूमिः ।” तेनान्यदपि प्रोक्तम् — “अद्याऽहं सभायामत्र समुपस्थितः सुदृढं वच्मि यत् — यदि धरायामेतादृशः कोऽपि देशोऽस्ति यः पुण्यभूमिनाम्ना समलङ्कृतो भवितुमर्हति यदीदृशं किमपि स्थानम् यत्र जागतिकाः सर्वे प्राणिनः स्वस्वकर्मफलानि भोक्तुं विवशाः समायान्ति, यद्येतादृशः कोपि भूभागः यत्र भगवत्प्राप्तिकामा मनुष्याः स्वजीवनपरिणामे समागमिष्यन्ति, यद्येतादृक कोऽपि प्रदेशः यत्र मनुष्य जातिषु सर्वापेक्षया समधिकः शान्तिदयाशौचार्जवादिसद्गुणानां विकासो बभूव, यद्येतादृशः कोऽपि भुवः खण्डो वर्त्तते यत्राध्यात्मिकताया अन्तर्दृष्टेश्व सर्वाभ्यर्हितः प्रकाशोऽभूत् तदानीमहं निश्चितरूपेण निर्देष्टुं शक्नोमि यदसौ मम मातृभूमिर्भारतदेश एव । अतिप्राचीनकालादेव तत्र विभिन्नधर्मसंस्थापका आविर्भवन्तः सम्पूर्णमेव भूमण्डलं वारम्वारं सनातनधर्मस्य पवित्रैराध्यात्मिकैर्जलप्रवाहैः परिप्लावयामासुः । अस्मादेव स्थानात् उत्तरस्यां, दक्षिणस्यां, पूर्वस्यां, पश्चिमायां सर्वास्वपि दिक्षु दार्शनिकज्ञानप्रबलबीचयः परिव्याप्नुवन् । अत एव हि पुनर्धार्मिकास्तरङ्गा विस्तृतिमासाद्येहलोकसर्वस्व सभ्यतायै आध्यात्मिकं जीवनं प्रदास्यन्ति । अन्यदेशीयानां लक्षशः नराणां नारीणां च हृदयदाहकारिणं जड़वादरूपमनलं समूलं निर्वापयितुं यस्यामृतसलिलस्य प्रयोजनं तत् किल अत्रैव स्थाने विद्यते ।१० सुहृदः! विश्वसन्तु भारतदेश एव भुवनमण्डलमाध्यात्मिकतरङ्गैः परिप्लावयिष्यति ।” स्वामिमहोदयोऽन्यत्रापि प्रोक्तवान् — “इयं महती आर्यजातिरनेकदुर्दैवविलसितानां विपदां, दुःखानां च भारान् वहन्ती अधुनापि जीवति, यतो भारतीयधर्मनिर्झरिण्या अमृतमयं प्रेमसलिलं पाययित्वा भोगवादसर्वस्वस्य पाश्चात्त्यजगतो लक्षशः पिपासार्तान् स्त्रीपुरुषान् निवारिततृष्णान् विधास्यति” ।

जातेरिव धर्मस्याप्युत्थानपतने भवतः । धर्मस्य गतिरपि समुद्रतरङ्गबदास्ते । भारतीयो धर्मभावोऽपि प्रतियुगं ग्लानिप्रस्तोऽभवत् । भारतीयं जीवनमपि मूर्च्छाभावापन्नमजायत, तत्र पतनयुगे धर्म नवीनेन बलेन बलीयांसं विधातुं करुणावरुणालयस्य श्रीभगवतो विशिष्टेच्छया देवमानवा आविरभूवन् । सनातनो वैदिको धर्मो ग्लानिमुक्तो भूत्वा मेघनिर्मुकदिनकर इव समुज्ज्वलतर स्वरूपः प्रकाशितोऽभूत् । प्रत्येक पतनस्यानन्तरमार्थधर्मः समाजश्च परमेश्वरेच्छया विगतामयः पूर्वापेक्षया समधिकतरो यशस्वी वीर्यशाली च समभूदित्यत्रेतिहास एव प्रमाणम् ।

किन्तु विगतसहस्रद्वयवर्षपर्यन्तं भारतभूमौ यस्य पतनस्य युगं समायातं, भारतीये धर्मे जीवने च वारं वारं यादृशः प्रचण्ड आघातोऽभवत्, आर्यजातेरितिहासे तादृशः प्राक् कदापि न बभूव । ईसवीयस्य प्रथमशतकस्यारम्भे विकृत बौद्धधर्मस्य सस्पर्धाभियानफलस्वरूपं सनातनो हिन्दुधर्मः क्रमशः एतावान् बलहीनो विध्वस्तो, विच्छिन्नश्च जातो यद् भारतस्य द्वितृतीयांशमनुष्या अवैदिक-बौद्धधर्मग्रहणे बाध्यतां जग्मुः । एतदेव न हि । अवशिष्टा हिन्दवो मूल-वैदिकधर्मतश्च्युताः, अनेकखण्डविभक्ताः, भ्रष्टसदाचाराः, केवललोकाचारपरायणाः, क्षीणबुद्धयः, परस्परं विवदमानाः, बहुविधसम्प्रदायैर्विभक्ताः, समभूवन् येन एकतारहितानाम्, परस्परं विच्छिद्यमानानां बहूनां लघुरूपराज्यानां समुत्पत्तिरभवत् ।

ततश्च भारतभूमौ भोगवादप्रधानानां सेमिटिकजातीयानां तथा जडवादप्रधानपाश्चात्त्यसभ्यतायाः सबलं, सदर्पं चाभियानम् एकोपर्येकमागम्यमानमभूत्, एकतश्च क्रमशो हिन्दुजाते राष्ट्रिया स्वतन्त्रता विलुलोप, द्वितीयतश्च धर्मस्यापि विलोपः समपद्यत । इहकालभोगप्रधाना इस्लाम सभ्यता भारतीयायां राजशक्तौ, धर्मशक्तौ, संस्कृतौ, सभ्यतायां च ‘वह्निकरवाल’-बलेन प्रचण्डमाघातमकार्षीत् । तद्बलेनैव इस्लाम मतानुयायिनः स्वमतप्रचारमकार्षुः । ‘हिन्दुनिवहनिधनयागः’ प्रारब्धः विहतपराक्रमहीनबलं हिन्दूनां केवलमात्मसंरक्षणमेवैकमात्रचेष्टाऽभवत् । एतदप्यसम्भवं संवृत्तम् । परधर्मविद्वेषिणां मुस्लिमदानवानामत्याचारैः शतशो मन्दिराणि ध्वस्तस्तूपरूपे परिणतानि, सहस्रशो देवदेवीविग्रहा भग्नाः कलुषीकृताश्च सम्पादिताः । तेषु च स्थानेषु मोहम्मदानां विशाला मज्जित्ताः निरमीयन्त । माहम्मदीयदिग्विजयवाहिनी सदर्पाभियानेन समस्तामपि भारतभूमिं पददलितां मथितां चाकरोत् । आर्यसन्तानशोणितैर्भारतभूमिरियं कर्दमाक्ता बभूव । तेषां पाशविकैरत्याचारैर्भारतीयाः स्त्रीपुरुषा जातिकुलशीलमानमर्यादाहीनाः क्षद्रप्राणिसमतां भेजिरे । भारतस्य पञ्चमांशहिन्दु-मानवा मुसलमानधर्मग्रहणे बाध्या अभूवन् । स्वामिना विवेकानन्देन एकस्याम् उत्तरभारतीयवक्तृतायां मुस्लिमयुगे भारतीयावस्था वर्णनप्रसङ्गेन प्रोक्तम् — “. . . वर्वरजातीयाक्रमणतरङ्गा वारं वारमस्माकमार्यजातेर्मस्तकेभ्यः प्रावहन्। शतशतवर्षाणि यावत् “अल्लाहहोअकबर” इति ध्वनिना भारतीय आकाशो मुखरितो बभूव । एतादृशो भारतीयो हिन्दुः कोऽपि नासीत् यः प्रतिक्षणमेव स्वजीवनस्याशङ्कां नाकरोत् । जागतिके इतिहासे प्रख्यात समस्त देशापेक्षया सर्वाधिकमत्याचार निग्रहं च भारतदेश एवासहत” इति ।

ततश्च भारतोपरि जडवादप्रधानपाश्चात्त्यधर्मराजशक्त्योर्विपुलवेगशाली झंझावातः प्रावहत्, सर्वमप्यस्तव्यस्तमकार्षीश्च । हिन्दुधर्मभित्तिः शैथिल्यमापत् । सन्देहनास्तिकवादः प्राचरत् । हैन्दवसन्त नाः सनातने धर्मे भारतीयैतिह्ये च विश्वासहीनतां प्रपेदिरे । श्रुतिस्मृतिपुराणादयो धर्मग्रंथा उपेक्षिताः । हैन्दवीयं सर्वमपि निन्दनीयं सङ्जातम् | हिन्दव आत्मनो हिन्दुनामपरिचय प्रदानेऽपि कुण्ठितत्वं भेजिरे । विशेषतस्तथाकथितशिक्षितम्मन्यसामाजिका आहारविहारवेशभूषाचिन्तनादौ सर्वांशरूपेण पाश्चात्त्यभावापन्ना अभवन्, प्राकाश्येऽपि निषिद्धद्रव्यभक्षणे गर्वमन्वभवन् ।

छलबलकौशलादिना असहायजना धर्मान्तरिता अक्रियन्त, एककोटितोऽपि समधिका व्यक्तय ईसामसीहमतग्रहणे बाध्यतां प्रापुः । ख्रैस्तधर्ममंदिराणि समस्तेऽपि भारते निरमीयन्त । इतश्चेन्द्रियप्रत्यक्षमित्तौ प्रतिष्ठितराजशक्तेः प्रबलप्रतापशोषणनीतिफलस्वरूपेण हिन्दुजातिः धर्मविश्वासहीना, शिक्षारहिता, अन्नवस्त्रसमीहासूच्चाकाङ्क्षा वरहिता, सततमेव परस्परविवदमाना, दासजातिसुलभहिंसेर्ष्याद्वेषपूर्णा, वैदेशिकघृणास्पदमानवमात्रपर्यवसिताऽभूत् । एतत्पतनयुगसम्बन्धे स्वामी विवेकानन्दः प्रोवाच – “वर्त्तमानगभीर-विषादरजनीवत् काप्यमानिशा इतः पूर्वमिमां पुण्यभूमिं नैव समाच्छन्नामकरोत् । एतत्पतनगभीरताया अग्रे सर्वमपि प्राक्कालीनं पतनं गोष्पदीभूतमेवास्ते” । धर्माश्रयिणो मनुष्या भीतभीताश्चकितचकिताः सन्तः केनापि प्रकारेण स्वधर्मरक्षापूर्वकधर्मग्लानिनिवारणायार्त्तस्वरैः कातरहृदयेन परमकारुणिकपरमेश्वरसन्निधौ तदीयशुभागमनाय प्रार्थनामकार्षुः ।

विगतद्विसहस्रवर्षाभ्यन्तरेऽनेके महापुरुषा आविरभवन् । आचार्य-शङ्कर-रामानुज-माध्व-निम्बार्क-नानक-दादूप्रभृतयः, परवर्तिनि काले च श्रीचैतन्यादय उत्तरमध्यदक्षिणभारतस्यानेके आचार्याः सिद्धाः साधका महात्मानः स्वकीय दिव्यालौकिकजीवनप्रभावं हिन्दुधर्मोपरि यथेष्टमपातयन् । आचार्यशङ्करः वैदिकधर्मभित्तौ प्रचुरं बलाधानमकरोत् । विभिन्ना आचार्याश्चापि हिन्दुधर्मस्थानेका दिशो विदिशश्च समुज्ज्वला अकुर्वन् । किन्तु प्रतिकूलपरिवेशहेतुना तदीयजीवनवाणी-प्रभावः प्रान्ते, प्रदेशे, सम्प्रदाये, मतवादे च विशेषमात्रायां सीमाबद्धो बभूव । अतो ‘युगयुगान्तरव्यापिनो विखण्डितस्य, देशकालयोगत इतस्ततो विक्षिप्तस्य, धर्मखण्डस्य समूहे’ एकतास्थापनं, सनातनधर्मस्य च सार्वजनीन-सार्वदेशिक-रूपतः परिस्फुटत्वसुयोगो नाभूत् ।

गतसार्धं द्विसहस्रवर्षाभ्यन्तरे संसारेऽनेकधर्माणामभ्युदयोऽभवत् । विभिन्नदेशजातीनां कोटिशो नरा नार्यश्च तांस्तान् धर्मानगृह्वन् । अथ च स्वधर्मप्राधान्यप्रचेष्टाभिः राजनैतिक कारणकलापेन च धर्मक्षेत्रेऽपि विभिन्नधर्मावलम्बिषु द्वन्द्वविषमय सङ्घर्षोत्पत्तिर्भूत्वा विविधधर्मावलम्बिनो मानवान् युद्धलिप्सुजातौ परिणतानकार्षीत् । फलतो जगदिदं दानवलीलाभूमिरभूत् । संसारप्रादुर्भूताः सर्वेऽपि धर्माः सनातन वैदिकधर्मस्य शाखास्वरूपाः सन्ति । ते च सत्यरूपाः परमतत्त्वलाभपथे भूमानन्दे च मानवान् प्रतिष्ठाप्य जन्ममृत्युप्रहेलिकातश्चिरमुक्तान् विधातुमुपायभूताः सन्ति । शिवमहिम्नः स्तोत्रे प्रतिपादितम् —

त्रयी साङ्ख्यं योगः पशुपतिमतं वैष्णवमिति
    प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्याद् ऋजुकुटिलनानापथजुषां
    नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥

सिद्धान्तमिमं जगद्वासिनां पुरतः संस्थाप्य विश्व-धर्मक्षेत्रे मैत्र्या एकतायाश्च संस्थापनावसरः समायातोऽस्ति । इतश्च पाश्चात्यविज्ञानोन्नतिपरिणामस्वरूपतः संसारस्य विभिन्नप्रदेशावस्थितराज्यजातिषु योगायोगौ गमागमौ चैतावत्सुलभौ स्वल्पसमयसाध्यौ संवृत्तौ, यतोऽतीतं भौगोलिकं दूरत्वम् व्यवधानं च सदातनकालायैव व्यलुम्पत् । सर्वाण्यपि राष्ट्राणि परस्परं प्रतिवेशितां सुखदुःखसहभागितां च प्रपद्यन्ते । इतः प्राक् संसारेऽत्र कदाप्येतादृशं नाभवत् । एवद्धि श्रीभगवतो विशेष कृपा परिणामस्वरूपमेव । विश्वस्य सर्वानपि ज्ञानवान् एकतासूत्रसन्नद्धान् विधाय एकस्यां महत्यां जातौ परिणमयितुमियं मङ्गलसूचना विद्यते । विभिन्नधर्मराष्ट्रजाति मानवेषु पारस्परिकभावानामादानप्रदानमाध्यमेन सांस्कृतिकविनिमयेन च मनुष्यजातेः सामूहिककल्याणाय, एकस्या अखण्डमानवसभ्यतायाः सङ्घटनाय, विश्वैकत्वपटभूमौ बहुविधभाषाभाषिणां मानवानामभ्यन्तरे चैकतास्थापनाय शुभोऽवसरः समायातोऽस्ति । इयमेकता न केवलं भौतिक्या, भौगोलिक्या वा दृष्ट्या, प्रत्युताध्यात्मिक्याऽपि सम्भवति, साम्यमैत्रीभ्रातृत्वावबोध एव तस्या मानवसभ्यताया मूलमन्त्रो भविष्यति । निखिलधर्मसंस्कृतिसमन्वय एव तन्नवीन सभ्यताया मूलभित्तिः ।

अतो वर्तमाने युगे जगदीश्वरस्य विशिष्टया समीहया भारतस्य समस्तभूमण्डलस्य च सनातनमङ्गलविधानाय सार्वलौकिक-सार्व-भौतिक-सार्वकालिक-धर्मसंस्कृतीनां जीवितदृष्टान्तस्वरूपतो जगद्धितसाधनार्थं सर्वेषां पुरतो निजजीवनादर्शप्रकाशसदुद्देश्यसिद्धये वेदमूर्तेभगवतो देवमानवस्य श्रीरामकृष्णदेवस्याविर्भावोऽभवत् । इदानीं षडैश्वर्यपरित्यागपूर्वकसात्त्विकैश्वर्यपूर्णरूपविकासायासौ समायातः । तदीयेयमैश्वर्यविहीना लीला नितरामनुपमा । निरक्षरोऽपि स पराविद्या प्रतिष्ठितो बभूव ।

स्वीयपञ्चाशद्वर्षदेशीयजीवनेऽसौ इतस्ततो विच्छिन्नस्य सनातनधर्मस्य याथातथ्यैकतारहस्यं कुत्र तिष्ठतीति गम्भीरसाधनद्वारा प्रतिपाद्य, विभिन्नधर्माणामनुष्ठानेन, तत्तद्धर्माभ्यन्तरस्थैकत्वभूमिमासाद्य प्राचारयत् – “यावन्ति मतानि तावन्तः पन्थानः” इति अर्थात् प्रत्येकोऽपि धर्मः परमतत्त्वाधिगमाय राजमागः शास्त्रानुकूलसाधनानुष्ठानेनासौ शास्त्रमर्यादायाः पुनरुद्धारं, पुनःस्थापनम्, पुनः प्रचारं चाकरोत् ।

स्वामिना विवेकानन्देन पाश्चात्त्य देश तः स्वकीयं गुरुभ्रातरमेकमुद्दिश्य लिखितम् – “रामकृष्णावतारे ज्ञानं भक्तिः प्रेम च, अर्थात् अनन्तं ज्ञानम्, अनन्तं प्रेम, अनन्तं कर्म, अनन्ता जीवदयाप्यासीत् । युष्माभिरिदानीमपि नावधारितम् ‘श्रुत्वाप्येनं वेद न चैव कश्चित्’ । What the whole Hindu race has thought in ages, he lived in one life. His life is a living commentary to the Vedas of all nations. . .

“समस्ताऽपि हिन्दुजातिर्युगसहस्रैर्यां यां चिन्तामकार्षीत् तेनैकस्मिन्नेव जीवने तत्र तत्र स्थितानां सर्वेषां भावानामुपलब्धिः कृताऽऽस्ते । तदीयं जीवनं सर्वजातीय वेदानां जीवितं टीकास्वरूपम् ।“ अन्यत्रापि तेन प्रोक्तम् – “सर्वभावानामेतादृशः समन्वयः संसारस्येतिहासे कुत्रचिदन्वेषणेनापि न लभ्यते । एतेनाप्यवधार्यतां यदसौ को देहं धृत्वा समागमत् । अवतारकथनं तदीयं लघुत्वसम्पादनमस्ति ।”

श्रीरामकृष्णो व्यक्तिविशेषः श्रीभगवता प्रेरितो दूत-विशेषो वा नासीत्, स हि सर्वभावसमष्टिमिलनभूमिस्वरूपः सम्बभूव । अत एवेदमुच्यते — शिवः शक्तिः, रामः कृष्णः, सीता राधा, ईसा मुहम्मदादयो विभिन्ना देवदेव्यः सशक्तिकावतारपुरुषाश्च रामकृष्णशरीरेऽनु प्रविविशुः । अत एव कारणात् नवयुगस्यास्य प्रभाते सनातनशास्त्रनिहित सर्वधर्मभावानां समन्वयरूपं सत्यं पुनरप्याविष्कृतं दिव्याऽऽभासंवलितं सद् विश्वस्य पुरतो विकसितमभूत् । नवयुगधर्मप्रवर्त्तकोऽयं श्रीरामकृष्णः पूर्वतनीयानां धर्मसंस्थापकानामवतारिपुरुषाणां संस्कृतं प्रकाशमात्रं विद्यते । श्रीरामकृष्णदेवो भावाविष्ट इदमुवाच – "यो हि रामः कृष्णश्च तौ द्वौ मिलित्वा (निजशरीरं लक्ष्यीकृत्य) देहेऽत्र समायातौ ।”. . . परन्तु साम्प्रतं छद्मवेशेनागमनम् । यथा राजा गुप्तरूपेण कदाचिद् राज्यदर्शनार्थं गच्छति, तथैव ।

श्रीरामकृष्णस्याविर्भावसम्बन्धे स्वामी विवेकानन्दः लिखितवान् —

आचण्डालप्रतिहतरयो यस्य प्रेमप्रवाहो
लोकातीतोऽप्यहह न जहौ लोककल्याणमार्गम् ।
त्रैलोक्येऽप्यप्रतिममहिमा जानकी प्राणबन्धुः
भक्त्या ज्ञानं वृतवरवपुः सीतया यो हि रामः ॥

स्वीकृत्य प्रलयकलितं वाडवोत्थं महान्तं
हित्वा दूरं प्रकृतिसहजामन्धतामिस्र मिश्राम् ।
गीतं शान्तं मधुरमपि यः सिंहनादं जगर्ज
सोऽयं जातः प्रथितपुरुषो रामकृष्णस्त्विदानीम् ॥

श्रीरामकृष्णो मर्यादापुरुषोत्तमस्य श्रीरामचन्द्रस्य लीलापुरुषोत्तमस्य श्रीकृष्णचन्द्रस्य चाधुनातनोपयोगी विकास एव ।

श्रीरामकृष्ण उवाच – “सर्वे धर्माः सत्यरूपाः । यावन्ति मतानि तावन्तः पन्थानः ।” नैषा वाणी विचारेण बुद्ध्या वा परिकल्पिता, प्रत्युत तदीयसाधनायाः फलस्वरूपैव । तस्य समस्तमपि जीवनमेतत्सत्यस्य जीवितो मूर्त्तविग्रहः । तत्रैव युगधर्मस्य सुस्पष्टमिङ्गितं निहितमास्ते ।

वर्तमानकाले पृथिव्यां बौद्ध-ख्रैस्त-माहम्मदजरथुस्त्रादयो बहुविधा धर्माः समुद्भूवन्, किन्तु तैः सत्यताधिगममार्गः सुगमो नाभूत्, प्रत्युत समस्तमपि विश्वं तमसाच्छन्नं जातम् । सत्यलाभप्रचेष्टां विहाय प्रत्येकोऽपि धर्मावलम्बी केवलं स्वधर्मस्यैव श्रेष्ठत्वसत्यत्वप्रतिष्ठापनाय स्वकीयां समस्तामपि शक्तिं प्रयुङ्क्ते । फलतः साम्प्रदायिकत्वस्य, संकीर्णत्वस्य, धर्मोन्मत्तताया अनुदारतायाश्च दानवीयं नृत्यं सुन्दरमप्येतद् घरामण्डलं नरकायितं चकार । कियद्वारं च घरामिमां नरशोणितैः परिप्लावितामकरोदित्येतस्य सीमा सङ्ख्या वा न विद्यते । बलप्रयोगतोऽन्यधर्माणां विलोपसाधके सङ्ग्रामे यावान् रक्तपातो बभूव, तदेकांशोऽपि राष्ट्रप्रतिष्ठायै नाभवत् । एतद्धर्मोन्मत्ततायाः परिणामः कीदृश इत्येव धर्माश्रयिणामेकमात्र चिन्ताविषयः । सांसारिके धर्मक्षेत्रे यदेयमवस्थाऽऽसीत्, तदैव श्रीरामकृष्ण आविर्भवत् । तस्य विभिन्नधर्माणां साधना केवलं प्रत्येकधर्मसत्यतां प्रमाणयितुमेव नासीत्, प्रत्युत सर्वधर्माबलम्बिषु पारस्परिक सौहार्दस्थापनमपि तदीयोऽन्यतमो हेतुः ।

अतिप्राचीने काले विविधदेवोपासकार्य जातिविभिन्नशाखासु स्वस्वदेवता प्राधान्यप्रतिष्ठायै पारस्परिकः सङ्ग्रामोऽपि नैव न्यूनः । युद्धद्वारैव देवताप्राधान्यं निर्णीयते स्म । एवंविधान्यनेकानि युद्धानि बहुवारं रक्तपाताश्च समभूवन् । मानवेष्वन्योन्यं निर्ममो हत्याकाण्डः प्रचचार । युद्धमेतादृशं धर्मयुद्धनाम्ना परिगणितमासीत् । अनन्तस्वर्गसुखभोग एव तादृशयुद्धमृत्युफलश्रुतिः । परन्तु युद्धमिदमार्यजातिविभिन्नशाखास्वेव सीमबद्धमभवत् ।

तदुष्कृतिदमनाय विभिन्नोपास्यदेवानां स्वरूपनिर्णयाय ऋग्वेदत्यैको महर्षिरघोषयत् — “एकं सद् विप्रा बहुधा वदन्ति ।”११ अर्थात् परमसत्यस्वरूपा एकमात्रसत्तैव विद्यमानाऽऽस्ते, विप्राः साधवस्तामेव विविधभावैर्वर्णयन्ति । एक एव परमदेवो विभिन्ननामरूपैः परिपूज्यते । महर्षेर्वाण्यामस्यां महत्सत्यं निहितमस्ति । एतत्परिणामोऽपि विपुलोऽभवत् । क्रमशो हिन्दूनां विभिन्नधर्म सम्प्रदायेषु द्वन्द्वमवसानं प्रापत् । हिन्दवः परधर्ममतसहिष्णवो विद्वेषशून्याः सन्तः शान्त्या स्वस्वधर्मानुष्ठानतत्पराः समभूवन् । किन्तु कालस्याचिन्त्यप्रभावतो भारतभूमावपि धर्मग्लानिः परिव्याप्नोत् ।

भारतवहिर्भूतदेशेषु बेबिलोनियानां यहूदीयानां च धर्मेतिहासे दरीदृश्यते यत् तासु जातिष्वपि लघुरूपा विविधाः शाखाः, विभिन्नो पास्यदेवाश्च बभूवुः । स्वस्वदेवताश्रेष्ठताप्रतिष्ठायै पारस्परिकयुद्धानां नासीन्न्यूनता । अयमेव जागतिकोऽतीतो धर्मेतिहासः । परन्तु गतसार्धद्विसहस्रवर्षाणां विभिन्नधर्मोद्भूतपारस्परिक संघर्षः संसारे चैकां विशेष सङ्कटपरिपूर्णां स्थितिं समुदपादयत् । अथ च विभिन्नजातीयानां कोटिशो नरनारीणां भाग्यं, सुखं, शान्तिः, जीवनं, मरणं, धार्मिकं जीवनं च सङ्ग्रथितमास्ते किन्तु विज्ञानस्योद्भाविन्याः शक्तेः फलस्वरूपम्, एकतो यथा विभिन्नशक्तिशालिनां मारणास्त्राणां सर्जनं, तथैव द्वितीयतः सांसारिक विभिन्नप्रान्तीयमानवानां पारस्परिकमन्तरङ्गरूपेणाविच्छेद्यं मिलनमपि संवृत्तम् । प्राक्कदाप्येतन्नाभूत्, एतादृशद्विविधसमस्यासमीचीनसमाधानं केवलं धर्मस्य नूतन विकासेनाध्यात्मिकेन ज्ञानेनैव सम्भवति ।

“धर्म यो बाधते धर्मो न स धर्मः कुधर्म तत् ।
अविरोधी तु यो धर्मः स धर्मो मुनिपुङ्गव” ॥ इति१२

महाभारतीयं वचनमनुसृत्य प्रत्येकोऽपि धर्मः अविरोधी परस्परपरिपोषकश्च । सर्वोऽपि परमशान्तिनिकेतनं प्रापयितुं विभिन्नो मार्गविशेषः । सर्वेऽपि मानवा अन्योन्यं भ्रातरः, ते च सर्वे परमपितुः परमेश्वरस्य सन्तानस्वरूपाः ।

संसारेऽत्र बहुकोटीनामुद्भ्रान्तमानवानां ध्वंसमुखात्परिरक्षणाय यथार्थशान्तिपथे परिचालनाय च अपारकरुणामयश्रीभगवतो विशेषशक्तेर्वर्तमानयुगे श्रीरामकृष्णरूपत आविर्भावोऽभवत् । अतस्तस्य जीवने सांसारिकाः सर्वेऽपि धर्माः सामूहिकरूपतः परस्परं मिलित्वा एकीभूयैकधर्मस्वरूपं विभ्राणा विकासमाप्ताः । एतादृशैकीभूतस्य धर्मस्य चन्द्रातपसुशीतलां छायामुपाश्रिता विविधभाषाभाषिणो विश्ववासिनः समवेता भवितुमर्हन्ति, तस्य धर्मस्य वेदीमूले वेदाः, पुराणानि, त्रिपिटको, बाइबिलः, कुरानश्च समीपस्थानमधिगन्तुं शक्नुवन्ति ।

अस्यैव विश्वधर्मस्य प्रतीकस्वरूपो वर्तमाने युगे श्रीरामकृष्णः प्रादुर्बभूव । विश्वधर्मोऽयं श्रीरामकृष्णजीवनमाध्यमेन मूर्त्तोऽभवत् । श्रीरामकृष्णजीवनं तस्य धर्मस्यादर्शः ।

“ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥”१३

इति गीताकर्तुः श्रीकृष्णस्य वाणी श्रीरामकृष्णजीवनेऽर्थतः प्रकाशित उपलभ्यते ।

“रुचीनां वैचित्र्याद् ऋजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव”१४

इति श्रीपुष्पदन्तमुखपङ्कजनिर्गतस्तोत्रमर्मवाणी श्रीरामकृष्णजीवनमाध्यमेन जगद्वासिनां सन्निधौ पुनर्ध्वनिताऽभवत् ।

विश्वधर्मस्यैतस्य नवप्रकाशनार्थमेव भगवतः श्रीरामकृष्णस्य प्रादुर्भावः । कस्यचन विशिष्टस्य धर्मस्य, सम्प्रदायस्य, देशस्य, जातिसमाजस्य वा कृते श्रीरामकृष्णदेवो न समागतः । तस्यागमनं समस्तविश्ववासिनां गृहस्थानां, संन्यासिनां स्त्रीपुरुषाणां, बालकबालिकानां, सबलदुर्बलानां, खञ्जान्धमूकबधिराणां, सर्वस्तरीयविभिन्नरुचीनां मानवानां हितार्थमभूत् ।

एकदा श्रीरामकृष्णदेवेन भावाविष्टेन सता समवेतान् भक्तान् लक्ष्यीकृत्य प्रतिपादितम् — “ . .अत्रत्यं (मदीयम् ) साधनं भजनं सर्वं युष्मदर्थमेव । उदाहरणरूपमस्ति च । अहं सर्वाशमनुतिष्ठामि, यूयमेकांशं तु कुरुत ।”

एकदा श्रीरामकृष्णदेवेन भावाविष्टेन सता समवेतान् भक्तान् लक्ष्यीकृत्य प्रतिपादितम् — “ . .अत्रत्यं (मदीयम् ) साधनं भजनं सर्वं युष्मदर्थमेव । उदाहरणरूपमस्ति च । अहं सर्वाशमनुतिष्ठामि, यूयमेकांशं तु कुरुत ।“ श्रीरामकृष्णस्य साधनं भजनं च स्वीयमुक्तिसाधकं नास्ति, प्रत्युत जगद्वासिनो धर्ममार्गेऽनुप्राणितान् विधातुमादर्शमुपस्थापयितुं च समभवत् । तेन पूर्णाङ्गसाधनस्य यो ह्यादर्शः समुपस्थापितस्तेन प्रेरणामासाद्य लोकाः स्तोकमधिकं वा साधनं करिष्यन्त्येव । तस्य सम्पूर्णमपि जीवनमाध्यात्मिकालोकस्तम्भस्वरूपं, सर्वधर्मावलम्बिनां कृते दिगदर्शनस्येङ्गितेन परिपूर्णमासीत् । केवलं हिन्दव एव न हि, प्रत्युत बौद्धाः ख्रैस्ताः, माहम्मदाः, संन्यासिनो, गृहस्थाः, स्त्रियः, पुमांस, आस्तिक-नास्तिकाः, सर्वदेशीयसर्वस्तरीयमानवाश्च तदीयपरिपूर्णजीवनेनानुप्रेरणां प्राप्स्यन्ति । अत एव तस्य विभिन्नधर्माणां साधना बमूव, तस्य च जीवने प्रतिमापूजामारभ्य निर्गुणब्रह्मात्मविज्ञानं यावत् सार्थकं रूपायणं लभ्यते ।

महात्मना गान्धिना चैकत्र लिखितम् – “रामकृष्ण परमहंसदेवजीवनं धर्मानुष्ठानस्यैकः परिपूर्ण इतिहासः । तस्य जीवनदर्पणे वयं प्रत्यक्ष प्रतिफलितमिव श्रीभगवन्तं द्रष्टुं सुयोगं प्राप्नुमः । अस्य देवमानवस्य जीवनवेदाध्ययनेनेदमेव सुस्पष्टं प्रतीयते यदीश्वर एवैको नित्यः सत्यश्च तद्भिन्नं सर्वमनित्यम् ।”

“वर्तमानेऽविश्वाससन्देहयुगे रामकृष्णस्येश्वरपरायणता ज्वलन्विश्वासश्च सङ्ख्यातीतनरनारीणामन्तःकरणे सान्त्वनाऽऽशामृतानि सिक्तवन्तौ । अन्यथा तच्चेतांसि आध्यात्मिकालोकसम्पाततो वञ्चितानि स्युः । तस्येश्वरप्रेम्णि भौगोलिकी प्रकारान्तरीया वा सीमारेखा न विद्यते । श्रीरामकृष्णस्यापार्थिवं प्रेम विश्ववासिनां हृदये दिव्यां प्रेरणां सङ्चारयति ।”

श्रीरामकृष्णदेवेन नैष्ठिकार्यब्राह्मणेन सताऽपि खैस्तस्य इस्लामी - यस्य धर्मस्य च साधनाऽनुष्ठिता । एतेनैकतः सर्वधर्माणां सत्यता स्थिरीकृता, द्वितीयतश्च संसारस्य सर्वेऽपि धर्माः सनातन वैदिकधर्मस्यांशभूताः शाखारूपाश्च प्रमाणिताः । तथा श्रीमद्भगवद्गीतायां “यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्” (Gita 10.41) इति श्रीकृष्णस्य वचनमपि सार्थकमभूत् । यतः जीससमोहम्मदप्रभृतयो महात्मानो भगवतः श्रीरामकृष्णस्य तेजोंऽशसम्भवा एव ।

श्रीरामकृष्णेन सर्वत्र सार्वभौमवेदान्त-धर्म एवानुष्ठितः । स्वामिना विवेकानन्देन तद्वेदान्तधर्मसंक्षिप्त परिचयं ददतैकत्र स्थाने प्रोक्तम् – “द्वैतम्, विशिष्टाद्वैतम्, अद्वैतं चेति त्रयमेव वेदान्तधर्मस्य स्वररूपं विभिन्न भूमिकास्वरूपं वा । सांसारिकाः सर्वेऽपि धर्मा वेदान्तधर्मस्य तत्त्रितयस्तरान्तर्गताः सन्ति । अर्थात् सर्वेऽपि ते वेदान्तधर्मस्य विशिष्टाः शाखाः भवन्ति । यथा सर्वा अपि शाखाः एकस्मात् मूलवृक्षादेव समुत्पन्नास्तथैव जागतिका निखिला अपि धर्मा वेदान्तमूलका एव । द्वैतवाद एव यूरोपीय सेमिटिकजातीनां भाव अभ्यन्तरिकः ख्रैस्तेस्लामधर्मस्वरूपेण परिणतः । वेदान्तस्याद्वैतवादो योगानुभूतिरूपेण बौद्धधर्मनामतोऽभिहितः । पुनश्चैते त्रयो मतवादा आर्यजातीयाभ्यान्तरिकप्रयोजनमनुसृत्य विभिन्नसाधनानुष्ठानपद्धत्या हिन्दुधर्मनामतः परिणता अभूवन् । अतः संसारस्य सर्वेऽपि धर्माः सामूहिकरूपेण वेदान्तधर्मान्तर्गता एव ।

द्वैतम्, विशिष्टाद्वैतम्, अद्वैतम् इति वेदान्तभूमिका त्रयमतिक्रम्य न कोऽपि नवीनो धर्म उद्भवितुं शक्नोति । श्रीरामकृष्णदेवेन विभिन्नधर्मसाधनायाः, सर्वधर्मसमन्वयस्य, “यावन्ति मतानि तावन्तो मार्गा” इति सत्यस्य च प्रतिष्ठया विविधधर्माणामेकाऽध्यात्मिकी भित्तिः संस्थापिता ।

“स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे ।
अवतारवरिष्ठाय रामकृष्णाय ते नमः ॥”

इति प्रणाममन्त्राभ्यन्तरे श्रीविवेकानन्देन स्वामिना श्रीरामकृष्णदेवस्य समस्तमपि जीवनं सूत्ररूपेण प्रकाशितमास्ते । एतस्य प्रणाममन्त्रस्य सार्थकोच्चारणं कुर्वन्तो वयं वर्तमानग्रन्थे वेदान्तमूर्तेः सशक्तिकस्य भगवतः श्रीरामकृष्णस्यातिसंक्षिप्तजीवनमालोचयिष्यामहे ।


छान्दोग्योपनिषद् ७.२३.१
बृहदारण्यकोपनिषद् २.४.३
बृहदारण्यकोपनिषद् १.४.८
श्वेताश्वतरोपनिषद् २.५
श्वेताश्वतरोपनिषद् ३.८
चार्वकः दर्शनम्
बृहदारण्यकोपनिषद् ४.५.३
अवधूतोपनिषद् ६
श्रीमद्भगवद्गीता ४.७-८
१० ऊनविंशशतकस्य प्रारम्भे विख्यातो जर्मनदार्शनिकः शोपेनहावरो वेदस्यैकमस्पष्टं लाटिनानुवादमधीत्य जगाद — “उपनिषद्व्यतिरिक्तः संसारे चित्तसमुन्नतिसाधको नान्यः कोऽपि ग्रंथः । जीवितकाले मह्यमुपनिषदैव शान्तिः प्रदत्ता, मृत्युकालेऽपि तयैव मह्यं शान्तिः प्रदास्यते ।”
अन्यत्रापि तेन जर्मनविदुषा भविष्यद्वाणी कृता विद्यते – “ग्रीकसाहित्यस्य पुनरभ्युदये जागतिकचिन्तापद्धत्यां यादृशं गुरुतरपरिवर्त्तनमभूत्, शीघ्रमेव तदपेक्षयाऽधिकः शक्तिशाली, बहुस्थानव्यापी भावविपर्ययो भविष्यति”. . . सम्पूर्णमपि विश्वं भारतीयभावधारया प्रभावान्वितं बोभूयते । श्रीविवेकानन्दस्तन्मार्गरचनायां स्वजीवनमेवोत्सर्गीकृतवान् ।
११ ऋग्वेदः १.१६४.४६
१२ महाभारतः ३.१३१.१०
१३ श्रीमद्भगवद्गीता ४.११
१४ शिवनहिम्नास्तोत्रम् ७