वेदमूर्ति-श्रीरामकृष्णः

जन्मप्रसङ्गः शैशवम् च

प्राकृतिकनिखिल माधुर्यधुरीणो वसन्त-ऋतुरासीत् । फाल्गुनमासशुक्लद्वितीया तिथिः । समयश्च ब्राह्मो मुहूर्तः । हुगली मण्डलान्तर्गते कामारपुकुरनाम्नि प्रामे निर्धनस्यैकस्य ब्राह्मणस्य पर्णकुटीरे माङ्गलिक-शङ्खध्वनिरश्रूयत । मङ्गलध्वनिना चैतेन समस्तोऽव्यावसथो मुखरितो रोमाञ्चितश्चाभवत् । गृहाधिपतिः खुदिरामचट्टोपाध्यायोऽपि निशम्य तं शङ्खध्वनिं कस्यापि देवस्याविर्भावममन्यत । मातुश्चन्द्रमणिदेव्याः पावनं क्रोडस्थलं स्वरोचिषा प्रकाशयन् एकः शिशुर्जनिमलभत । वङ्गीयस्य १२४२ अब्दस्य फाल्गुनमासीयपष्ठदिवसः, तदनुसारम् १८३६ ईशवीय हायनस्य फरवरीमासस्य सप्तदशी तारिका सौम्यवासरचासीत् ।

❀ ❀ ❀

बालकमिमं केन्द्रीकृत्य लघुतरोऽपि कामारपुकुरो ग्रामो जगद्विख्यातिमवाप । धर्मात्मा खुदिरामचट्टोपाध्याय इतः कतिपय वर्ष पूर्वमेव ग्रामेऽत्र समाजगाम । एतदीयः पूर्वनिवासः कामारपुकुरतः क्रोशमात्रदूरावस्थिते 'देरे'-नाम्नि ग्रामे समभूत् । चट्टोपाध्याय परिवारो मध्यमश्रेणिकः । धान्यक्षेत्रं, गृहादिकं सर्वमपि तस्यासीत् । किन्तु सत्यनिष्ठो ब्राह्मणोऽयं मिथ्याभियोगे साक्ष्यादानात् तद्ग्रामप्रजापीडकभूस्वामिनो रामानन्दस्य क्रोधभाजनतामुपगतः, सर्वस्वग्राहं ग्रामान्निःसारितः । उपवेशनस्यापि नासीत्किञ्चित्स्थानम् । प्रायश्चत्वारिंशद्वर्षदेशीयोऽसौ रामचन्द्रम्य श्रीरघुवीरस्यानन्यसेवकः खुदिरामः सर्वात्मना स्वेष्टदेवं संस्मरन् स्वकीयं पैतृकं सर्वस्वं परित्यज्य तद्ग्रामान् निर्जगाम तथापि नासौ मार्गेऽटाट्यमानतां प्रपेदे । येन भगवता रघुवीरेण रामानन्द रायरूपं विभ्रता तस्मै पीडा प्रदत्ता, तेनैव सुखलालगोस्वामिरूपेण कामारपुकुरे आश्रयोऽपि प्रदत्तः । खुदिरामस्य पारिवारिकी विपत्तिवार्तामाकर्ण्य तद्बालमित्रं गोस्वामी सुखलालः स्त्रीपुत्रकन्यादिसहितायास्मै स्वगेहस्यैकभागे निवस्तुं तत्कालमेवाश्रयमर्पितवान्, स्वीयसुहृदः सांसारिकजीवनयात्रानिर्वाहार्थं “लक्ष्मी जला” – नाम्ना प्रसिद्धक्षेत्रतः एकबीघातोऽपि समधिकमत्युर्वरक्षेत्रं कमपि नियममन्तरैव सदाकालकृते प्रादाच्च । रामभक्त-खुदिरामस्य नेत्राभ्यामानन्दाश्रूणि प्रावहन् । प्रेममयस्य श्रीमतो भगवतो महतीमनुकम्पां मन्यमानस्यास्य हृदयं कृतज्ञतार्द्रमभूत् ।

❀ ❀ ❀

खुदिरामः, तत्कान्ता चन्द्रमणिः, पुत्रो रामकुमारः, कन्या कात्यायनी चेति सर्वे सुखलालसमर्पितसद्मनि ससुखमूषुरेव, किन्तु खुदिरामस्याराध्यकुलदेवतायाः श्रीशीतलादेव्या घटोऽपि तत्राश्रयमलभत । सांसारिकदुःखपरम्परया प्रपीडितोऽप्यसौ निजप्राणोपमां परमाराध्यदेवतां नैव विसस्मार । निराश्रिततरीकर्णधारस्य भगवतः पाणिमापद्ग्रस्तोऽसौ समधिकं जग्राह । अनन्यशरणस्य भक्तस्य योगं क्षेमं च भगवान् स्वयं निर्वहति । उक्त च भगवता – “अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्” इति । खुदिरामस्य सांसारिकं दैन्यमभावश्च शनैः शनैर्व्यपागच्छत् । “लक्ष्मीजला”-स्थिता स्वल्पीयसी भूमिः सुवर्णमफलत् । श्रीरघुवीरनामस्मरणपुरस्सरं खुदिरामो भूमौ तस्यां पूर्व स्वहस्तेनैव धान्यबीजानां विरोपणं कृत्वा तदनन्तरं तत्कार्यार्थं कर्मकरान् नियोजयति स्म । एतत्स्वल्पभूमिभागसमुत्पन्नधान्यानि तदीयपारिवारिकावश्यकत्वादीनि पूरयित्वाऽभ्यागतातिथिसाधुभक्तसेवार्थमपि पर्याप्तान्यभूवन् । खुदिराम एतज्जानाति स्म यत् इदं सर्वमौदार्यं तदीयप्राणप्रियश्रीरघुवीरदयापरिणामस्वरूपमेवेति ।

तदानीमेकस्मिन् दिने खुदिरामः कार्यवशात् ग्रामान्तरमगच्छत् । ततः परावर्तमानः कञ्चित्कालं विश्रामाय सुशीतलच्छायायुक्तस्यैकस्य वृक्षस्य तल उपाविशत् । तत्र च शरीर शैथिल्यात् शयानो निद्रामवाप । स्वप्नेऽसावपश्यद् यत् तदीय आराध्यदेवो नवलकिशोरश्यामस्वरूपस्तन्निकटमुपस्थाय स्वकीय कमल कोमलांगुल्या समीपवतधान्यक्षत्रं सङ्केतयन् सकरुणार्द्रभावं व्याहरति — “बहोः कालादहमत्रावहलितदशायां तिष्ठामि । मामितः स्वगृहं नय, तव पूजन सवनादकमधिगन्तुं मम महती समीहा” इति । खुदिरामः स्वप्नोत्थित उपविष्ट्य व्याचन्तयद् यदेष स्वप्नो दैवो वाणी वा? विस्फारितनेत्राभ्यां चतुदिक्षु व्यलाकयत् । निकटवर्तिनि धान्यक्षेत्रे पातितदृष्टिरवागच्छद् यदिदमेव स्वप्नदृष्टं स्थानम् । अग्रे गच्छता तेन निभालितं यदेकस्याः सुन्दरशालिग्रामशिलाया उपरि विषधरः सर्प एको निजां फणां विस्तीर्योपविष्टा वर्तते । स्वप्नभ्रमो दूरीभूतः । किञ्चिदभ्यर्णमुपस्थिते तस्मिन् सर्पोऽदृश्यतां गतः । आवेगपूर्णमनाः खुदिरामो “जय राम” इति शब्दमुच्चारयन् शिलामेतां हस्ताभ्यां जग्राह । लक्षणानि विलोक्य रघुवीरशिलेयमिति निश्चित्य हर्षोत्फुल्ललोचनः शिलां तां स्वहृदा समालिङ्ग्य स्वगृहमागत्य शास्त्रोक्तविधिना पूजागृहे प्रतिष्ठापयामास ।. . .

तदाप्रभृति खुदिरामस्य सर्वाधिकः समयस्तज्जाग्रद्देवतायाः पूजनवन्दनादिकार्येष्वेव व्यत्यगच्छत् । श्रीरघुवीरः समग्रं तच्चैतन्यमधिचकार । दिनानुदिनं तदीया तन्मयता ववृधे । बहुविधानि दिव्यदर्शनानि नानाऽलौकिकानुभूतयश्च खुदिरामं तन्मयमानन्दमयञ्चाकार्षुः । खुदिरामस्य सौम्यसमुज्ज्वलमूर्तिमीक्षमाणा ग्रामीणजनास्तं वरेण्यऋषिवत् श्रद्दधते स्म । ग्रामपथादागच्छन्तं तमवलोक्य तद्ग्रामवास्तव्या अयमागच्छतीति व्याहरन्तो मार्गमुज्झित्वैकतः स्थित्वा च तं ववन्दिरे । प्रतिदिनं प्रातः सायं च श्रीगायत्रीजपकाले ध्यानावस्थितचेतसः खुदिरामस्य आरक्तं वक्षःस्थलं तदीयप्रेमाश्रुस्नपितं समजायत । ब्राह्ममुहूर्ते पुष्पपात्रमादाय पुष्पावचयनप्रवृत्तेन तेन साकं तदीयाऽऽराध्यदेवी शीतलाऽपि धृतरक्तवसना बालिकेव भ्रमन्ती कुसुमचयने तत्साहाय्यं व्यदधात् । एतादृशं दिव्यदर्शनं खुदिरामजीवने सहजलभ्यमिव संवृत्तम् । तदीय आराध्यः रघुवीरस्तस्य समस्तां पार्थिवसम्पदं प्रणाश्य देव्याः सम्पदोऽधिकारिणं तमकार्षीत् । तस्य हृदये न कोप्यभावः, खेदोऽभियोगो वा स्थानमगृहाद् यतोऽसौ देव्याः सम्पदोऽधिकारितां प्रपेदे ।

एकस्मिन् दिवसे खुदिरामो नैजं भागिनेयं रामचन्द्रं द्रष्टुं कामारपुकुरतो मेदिनीपुरं गन्तुं प्रस्थितः । दीर्घकालं यावत् रामचन्द्रस्य कोऽपि वृत्तान्तस्तस्य विदितो नासीत् । विंशतिक्रोशपर्यन्तं पद्भ्यामेव गन्तव्यमित्यतः प्रत्यूष एवासौ प्रस्थितः । तदानीं माघस्यावसानं फाल्गुनस्यारम्भो वा आसीत् । दिनस्य दशवादनकालं यावद् गच्छन्नसौ मार्गसमीपस्थं नूतनपत्रसमन्वितं विल्ववृक्षमेकमपश्यत् । तस्मिन् समये कामाकारपुकुरस्थाः सर्वेऽपि विल्वद्रुमा निष्पत्रा अभूवन् । इमानि कोमलविल्वपत्राणि विलोक्य तन्मन आनन्देन नरीनृत्यते स्म चेतसि शिवपूजाभावना समुदियाय । मेदिनीपुरगमनवृत्तान्तो विस्मृतः । समीपस्थ ग्रामत एकं नवीनं वस्त्रखण्डं वंशनिर्मितपुष्पपात्रं च क्रीत्वा, पात्रं च सुन्दरकोमलविल्वपत्रपरिपूर्णं विधाय, आर्द्रेण वस्त्रखण्डेन पिधाय चापराह्णे त्रिवादनकाले पुनः स्वगृहं पराववृते ।

असामयिकं तत्परावर्तनमवलोक्य तदीया धर्मपत्नी चन्द्रादेवी सविस्मयं तमपृच्छत् – “किं भवान् मेदिनीपुरं न गतवान् ? परावर्तनस्य किं कारणम् ? भवता भोजनमपि न कृतं भवेत् ?”

“न पश्यसि, कीदृङ्मनोहराणि विल्वपत्राणि ? विलोकितान्येतानि कथं त्यक्तव्यानि स्यु” रित्युदीर्य द्रुतं स्नात्वा खुदिरामः शिवपूजार्थमुपाविशत् । शिवपूजां विधाय हर्षोत्फुल्लचेतसा तेन प्राणाधिकप्रियतमः श्रीरघुवीरः शीतलादेवी च समलञ्चक्राते । देवतुल्यं स्वामिनं प्रति श्रद्धागर्ववत्याश्चन्द्राया हृदयं हर्षपरिप्लुतं नयने च साश्रुणी सम्वृत्ते ।“

कामारपुकुरेऽत्र खुदिरामस्य नववर्षाणि व्यत्यगुः । ज्येष्ठस्तनयो रामकुमारो युवावस्थामधिगतः । कन्या कात्यायन्यपि विवाहयोग्या संवृत्ता । कामारपुकुरतः प्रायः पश्चिमोत्तरदिक्कोणे क्रोशमात्रं दूरावस्थिते “आनूड़” ग्रामे केनारामवन्द्योपाध्यायेन साकं खुदिरामेण कात्यायनी समुद्वाहिता । केनारामभगिन्या च सार्धं रामकुमारस्य परिणयोऽभूत् ।

रामकुमारः क्रमेण व्याकरण-साहित्य-स्मृतिशास्त्रेषु पारङ्गतो भूत्वा शनैः शनैः पारिवारिकं भारमप्यवहत् । श्रीरघुवीरानुकम्पया खुदिरामस्य पारिवारिकी दशा साधीयसी सञ्जाता । दीर्घकालतस्तन्मनोनिहिततीर्थदर्शनसमीहा जागर्तिमवाप्ता । सम्भवतो वङ्गाब्दस्य १२३० वर्षेऽसौ सेतुबन्धरामेश्वरदर्शनार्थं पदातिश्चचाल । श्रीरामेश्वरदर्शनं कृत्वा दक्षिणदेशस्यानेकतीर्थदर्शनान्तरं सेतुबन्धरामेश्वरतो वाणलिङ्गशिवमादायैकवर्षात्परं स्वगृहं समायातः । श्रीरघुवीरस्य शीतलायाश्च सन्निधावेव वाणेश्वरः शिवोऽपि प्रतिष्ठितोऽभवत् । ततश्च प्रायशः षोडशवर्षानन्तरं १२३२ वङ्गाब्दे चन्द्रमणिदेवी पुत्ररत्नमपरमप्येकं प्रासोष्ट । रामेश्वरतीर्थपरावर्तनात्परं पुत्रजन्मेति खुदिरामेण शिशोर्नाम 'रामेश्वर' इति विहितम् ।

❀ ❀ ❀

कात्यायनी अतीव रोगग्रस्ता । तामवलोकयितुं खुदिरामस्तदीयश्वशुरपुरम् “आनूड़”-ग्राममगच्छत् । रुग्णाया हावभावमालोक्य खुदिरामस्य भूतावेशसन्देहो जातः । स च ध्यानस्थो भूत्वा प्रेतं संबोध्य व्याजहार – “त्वं भूतो वा प्रेतो वा दानवो वा योऽसि सोऽसि, कारणमन्तरेणैव मम तनूजायाः कष्टं कथं ददासि ? एतां विहाय स्थानान्तरं गच्छेति ममादेशः” । कत्यायनीमुखेन प्रेतात्मा प्रत्युवाच – “अहं महत्कष्टमनुभवामि, यदि भवान् गयायां पिण्डं दत्वा मां समुद्धरेत्, तदानीमिमां विहाय स्थानान्तरं गन्तुं शक्नोमि ।“

प्रेतात्मनः कातरोक्तिमाकर्ण्य दुःखितः खुदिरामः प्रत्यवादीत् – “मम पिण्डदानेन यदि तवोद्धारो भवेत् तर्हि नूनमहं तुभ्यं पिण्डं दास्यामि, परन्तु तेन तवोद्धारो भविष्यतीत्यत्र किं प्रमाणम् ?” श्रुत्वैतत् प्रेतो रुदन् प्रोवाच – “भवतैतत्प्रमाणमवश्यं प्राप्स्यते, एतत्समीपस्थनिम्बवृक्षस्यैकां गुरुशाखां भङ्त्वाऽहं प्रस्थास्ये” इति ।

खुदिरामद्वारा गयापिण्डदानानन्तरं एकस्मिन्दिने मध्याह्ने निम्बवृक्षशाखैकाऽकस्मात् चटपटाशब्दं कुर्वाणा समत्रुट्यत् । कात्यायनी च पूर्णरूपेण स्वस्थाऽभवत् । प्रेतदुःखमोचनभावनैव खुदिरामाय गयागमनप्रेरणामदात् । परन्तु तत्सम्बद्धं दैवमिङ्गितमस्तीति को जानाति स्म ?

१२४१ वङ्गाब्दस्य शीतकालान्ते खुदिरामेण गयायात्रा कृता । तदानीं सम्पूर्णोऽपि पन्थाः पद्भ्यामेव गम्यते स्म । चैत्रमासस्य प्रारम्भेऽसौ गयाधामं प्रापत् । गयागमनात् प्राक् काशीविश्वनाथदर्शनमप्यन्वतिष्ठत् । मधुमास एव गयाधाम्नि पिण्डदानस्य प्रशस्तः समयः ।

प्रायो मासं यावत् पुण्यधाम्नि स्थित्वा तेन शास्त्रविधिमनुसृत्य पितृकार्यं सम्पादितम् । पितृमातृपूर्वजानां पूर्णतया ऋणान्यवाकृत्य खुदिरामस्यान्तरात्मा नितरां प्रासीदत् । ऋणभारावतरणेन प्रसन्नमनसो भगवतोऽपारकरुणां संस्मरतश्च तस्यानन्देन शरीरं पुलकितं संवृत्तम्, निश्चिन्तो रात्रौ निद्रितोऽसौ स्वप्नमपश्यत् – “श्रीमन्दिरे विष्णुपादपद्मोपरि पिण्डदानं कुर्वतस्तस्य पितरो ज्योतिर्मयदेहधारिणः पिण्डान् गृह्णन्ति” इति । स्वप्नदृश्यमिदमवलोक्य तेन सीमातिक्रान्त आनन्दोऽनुभूतः ।

क्षणानन्तरं पुनरप्यपश्यत् – मन्दिरं स्निग्धज्योतिषा समुद्भासितमस्ति । तत्र च समुज्ज्वलस्वर्णमय सिंहासने दिव्य कान्तिर्ज्योतिमेयविग्रहधारी आनन्दघनः परमपुरुषो विराजते, परितश्च सूक्ष्मदेहधारिणो बद्धहस्तास्तं स्तुवन्ति; वरेण्यदेवोऽयं स्निग्धप्रसन्ननयनः सर्वानवलोकयति । नितरामानन्दितचेतसा तेन सङ्केतद्वारा खुदिरामो निजाभ्यर्णमाकारितः । आनन्दविह्वलं खुदिरामं प्ररुदन्तमालोक्य दिव्यपुरुषोऽसौ सुमधुरवचसा खुदिराममुवाच – “खुदिराम ! तव भक्त्यातीव प्रसन्नोऽस्मि । सेवाग्रहणार्थमहं तव पुत्ररूपेणावतरिष्यामि” ।

सकरुणं खुदिरामः प्रत्युवाच – “प्रभो ! दीनोऽहं भवत्सेवां कथमिव कर्तुं शक्नोमि ?” परमदेवेन स्नेहार्द्रकण्ठेन प्रत्युक्तम् – “विभेषि कथं विप्र् ! यथाशक्त्यनुष्ठितया तव सपर्यया परितुष्टो भविष्यामि” । स्तब्धीभूतस्य खुदिरामस्य निद्रा भग्ना, आनन्दविस्मयान्वितः पर्यालोचयत् – “देवस्वप्नो न मिथ्या भवति, किं भगवान् मम पुत्ररूपेणावतरिष्यति ?” एतद्द्व्यतिरिक्तं न तेन किञ्चिदन्यदालोचितम्, आनन्दोल्लासविह्वलेन मनसि विचारितम् – “अकिञ्चनस्य मम भाग्ये किमेतत्सम्भवति ?” कियद्दिनानन्तरं स्वगृहमागतोऽपि स्वप्नवृत्तान्तं स्वहृदयमणिमज्जूषायामेवागोपायत् ।

खुदिरामस्य गयाधाम्नि स्थितावेव माता चन्द्रमणिरेकस्मिन् दिने स्वगृहनिकटस्थयोगिशिवमन्दिरसन्निधौ वर्तमाना स्वीयान्तरङ्गभूतया ‘धनी’- नाम्न्या कयाचन स्त्रिया सह वार्तां कुर्वाणा अकस्मादपश्यत् यन्महादेवाङ्गसमुद्भूतं दिव्यं ज्योतिर्मन्दिरमुद्भासयत् क्रमशः तरङ्गाकारेण घनीभूतं तदुदरे प्रविष्टमिति । तदानीं सा मूर्च्छामवाप । दिनेषु गच्छत्सु चन्द्रादेव्येदमनुभूतं यत् ज्योतिषस्तस्योदरे प्रविष्टत्वाद् गर्भवती संवृत्ताऽस्मीति ।

भगवान् विष्णुः पुत्ररूपेण मम गृहे समागमिष्यतीति वृत्तान्तः खुदिरामेण गयाधामन्येव विदितोऽभवत् । इतश्च ज्योतिःस्वरूपः शिवश्चन्द्रमणेरुदरं प्रविष्टः । स्वरूपतः शिवो विष्णुर्वा एक एव । केवलं नाममात्रे भेदः । उक्तं च केनापि —

“उभयोरेका प्रकृतिः प्रत्ययभेदेन भिद्यते भेदः ।
कलयति कश्चन मूढो हरिहरभेदं विनाशास्त्रम् ॥” इति

परमपितुः परमेश्वरस्य ब्रह्मा, विष्णु, शिवश्च तिस्रोऽपीमे विशिष्टामूर्तयः परस्परमभिन्नाश्चात एव नानारूपैर्जगति प्राकट्यमापद्यन्ते ।

कामारपुकुरशिवमन्दिरघटितघटनासमनन्तरमनेकेषां देवानां देवीनां च स्वप्ने जागरणे च दर्शनं चन्द्राया जीवनस्य नित्यघटना समभवत् । देवाश्च ते गृहजना इव संबभूवुः । तया सहाऽशरीरिणस्ते भ्राम्यन्ति स्म । तस्याः शरीरतः सुगन्धो दिक्षु प्रासरत् । कदाकदाचिदियं नूपुरध्वनिमशरीरिणीं वाचमाकर्ण्य च स्तम्भिताऽजायत । दयादाक्षिण्यसपर्य्यादिभावनायाः प्रत्यक्षमूर्त्याश्चन्द्रादेव्या वात्सल्यभावो देवमानवनिर्विशेषं दिनानुदिनमवर्धत । कस्यचन दीनताम्लानमुखमवलोक्य तदन्तःकरणं दयार्द्रं जातं मातृभावश्च प्रबलायते स्म ।

गयाधामतः परावर्तमानस्य खुदिरामस्य दृष्टिः सर्वतः प्रथमं स्वीयसहधर्मिण्यामपतत् । स च तस्या देहे मनसि च परिवर्तनमपश्यत् । सरलचित्तया चन्द्रया स्वपतये साधारणीं वार्तामपि अश्रावयित्वा नानुभूयते स्म सन्तोषः । पत्युरनुपस्थितिकाले घटितामखिलघटनां सा पतिं श्रावितवती । पत्नीमुखात् वृत्तांतमिममाकर्ण्य गयाघामस्वप्नवास्तविकत्वे खुदिरामसंशयः समूलं निराकृतः । स भीतां चिन्तितां च स्वपत्नीमाश्वासयन् व्याजहार यत् – गयाधामनि श्रीभगवानलौकिकोपायेन मामवाबोधयद् यदसौ मम पुत्ररूपेण समवतरिष्यतीति । एतदाकर्ण्य आनन्दमग्नया चन्द्रया विचारितं – किमेतसम्भवम् ?

ज्योतिर्मयपरमपुरुषगर्भधारणानन्तरं चन्द्राशरीरकान्तिः सर्वेषां दृष्टिमाचकर्ष । समवयस्काः सहचर्यः पारस्परिकवार्तायामिदमूचुः – “प्रौढावस्थायामीदृशं सौन्दर्य्यम् ? ब्राह्मणीयमस्मिन्नवसरे जीविष्यति न वेति सन्देहः ।”

चन्द्रादेव्या गर्भदिवसवृद्ध्या साकमलौकिकदेवदर्शनेष्वपि वृद्धिः समजायत । एकस्मिन् दिवसे तया हंसारुढैका देवमूर्तिरवलोकिता । भानोः प्रखर सन्तापेन तद्देवस्य करुणामयमाननं रक्ताभमदृश्यत । विलोक्य चैतच्चन्द्रादेव्या हृदयं स्नेहार्द्रमभूत्, उक्तवती च – “अये पुत्र हंसारूढदेव ! सन्तापेन तव वदनं शुष्कतामगच्छत्, मम गृहे जलार्द्रं पर्युषितमोदनमस्ति, तत् भुक्त्वा स्वकीयहृदयं किञ्चित् शीतलं कुरु ।” एतत्स्नेहमयं भाषणमाकर्ण्य मधुरं विहस्य च मूर्तिरसावन्तर्धानमवाप । एतादृशं देवदर्शनं चन्द्राया अनायासलभ्यमबोभूयत ।

खुदिरामः सविस्मयं स्वसहधर्मिणीमुखेनोदन्तमिमं निशम्य नितरामानन्दमग्नोऽजायत । पुलकितमनसा च तेन तस्य शुभवासरस्य भास्वरज्योतिषोऽरुणिमरूपदिव्यशिशुदर्शनस्य च प्रतीक्षा समक्रियत ।

❀ ❀ ❀

वङ्गीयफाल्गुनषष्ठदिवसे सौम्यवासरेऽर्धघटिकामात्ररात्र्यवशेषे प्रसववेदनामनुभवन्ती चन्द्रा धनी-धात्री-साहाय्येन धान्यकुट्टस्थानमाश्रयन्ती पुत्ररत्नमेकं प्रसुषुवे । प्रसूतायाः समयोचितपरिचर्यानन्तरं धन्या धात्र्या विलोकितं यत् नवजातः शिशुरदृश्योऽस्ति । अत्यन्तव्यस्ततयाऽन्वेषणेन दृष्टं यत् शिशुरयं धान्यपाकचुह्निकाया भस्मनि तिष्ठतीति । शान्तं विभूतिभूषितं बालकमेनं क्रोडीकृत्य धन्याऽपूर्वोऽयं बालः षण्मासदेशीय इवावलोकितः । यः श्रीरामकृष्णस्त्यागिसाम्राज्यचक्रवर्तिन आदर्शजीवनं दर्शितवान् स जातमात्र एव त्यागिराजश्रीशङ्कर इवात्मानं विभूतिभूषितांङ्गं कृतवान् ।

शास्त्रमर्मज्ञः खुदिरामो बालकस्यास्यैतादृशं शुभजन्म लग्नमालोक्य स्वयं निर्णिनाय यत् स्वप्रतिज्ञानुसारं श्रीगदाधर एवायमाविरस्त्यतोऽस्य गदाधर इति नाम निर्दिदेश । तदनन्तरं प्रख्यातज्योतिर्विद्भिः समागत्य नवजातकजन्मकालीनग्रहगणनया निश्चितमिदं यद् बालकोऽयं भविष्यति परमो धर्मवेत्ता, पूज्यः, अहर्निशं पुण्यकार्यानुष्ठानपरायणः, सङ्ख्यातीतशिष्यवर्गसेवितः, कुत्रापि देवमन्दिरे निवसन् नवीनं धर्ममार्ग प्रवर्तयिष्यति; नारायणांशसम्भूतमहापुरुषरूपेण विख्यातो मानवसमाजस्य परिपूजनीयो भविष्यतीति । प्रतिदिनं शिशुरयं चन्द्रकलेव प्रावर्धत । स्वल्पवयस्कोऽप्ययं बालको निर्लिप्तगृहस्थ खुदिराममपि स्वीयेना लौकिकेनाकर्षणेन स्नेहपाशे बबन्ध | अपूर्वशोभाशालिनं शिशुमेनं स निजनयनागोचरं नैव कर्तुं प्रभवति स्म । मातुश्चद्रमणिदेव्यास्तु बालकोऽसौ प्राणेभ्योऽप्यधिकः प्रेयानासीत् । बालकदिव्याकर्षणवशीभूतौ केवलं तत्पितरावेव नास्ताम्, प्रत्युत सर्वेऽपि ग्रामवासिनः पुरुषाः स्त्रियश्च शिशुसौन्दर्येण प्रभाविता आकृष्टाश्च समभूवन् ।

भगवता श्रीकृष्णेन स्वजन्मत एवालौकिक्यो लीलाः प्रदर्शिताः, किन्तु तत्पित्रोर्हृदयं तदुपरि वात्सल्यरसाप्लुतमेवासीत् । तौ किल भगवन्तं श्रीकृष्णं स्वकीय स्नेहघनगोपालातिरिक्तं न कमप्यन्यममन्येताम् । गदाधर जन्मतः प्रागेव ब्राह्मणो ब्राह्मणी च बहुविधामलौकिकीं लीलामपश्यताम् । तथापि वात्सल्यभावातिरिक्तं दिव्यानां श्रवणदर्शनादीनां न कोऽपि प्रभावस्तयोरुपर्यपतत् ।

बालकस्यावस्था प्रायोऽष्टमासदेशीयाऽस्ति । माता चन्द्रमणिदुग्धं पाययित्वा मशकहरीनिम्नभागे शिशुमशाययत् । बालकं प्रगाढनिद्रावशीभूतमालोक्य सा गृहकार्येषु व्यापृताऽभवत् । मध्ये मध्ये गत्वा शिशुमपश्यदपि । एकदा समागत्यासौ बालकं मशकहरीतले न विलोकयन्ती. तत्स्थाने परिपूर्णकायमेकं पुरुषं निरीक्ष्य भयाकुला चीत्कारमकरोत् । तस्याश्चीत्कृतिं निशम्य खुदिरामो व्याकुलमना धावन्नुपातिष्ठत् । गृहिण्या सह गृहाभ्यन्तरे प्रविष्टेन तेन बालोऽसौ पुनरपि मशकहनिम्नभागे शयानो निभालितः । श्रीरामकृष्णस्य जन्मत एव तस्य देहं मनोऽवलम्ब्यैदृश्योऽनेकविधा लौकिक घटना घटिताः । एतत् वयमग्रे द्रक्ष्यामः ।

“जानुभ्यां प्रसर्पणं समाप्य गदाधरः पद्भ्यां गन्तुं प्रारभत । मातुः स्नेहचुम्बनाभिलाषेण तदचलमाश्रित्योत्तिष्ठति । माता च सस्नेहं परिष्वज्य चुम्बति । खुदिरामस्य चन्द्रमणेश्व नेत्रमणिर्गदाधरः शनैः शनैः प्रवधमानः अतीव चञ्चलोऽभवत् । माता बालकं धौतोत्तरीय- परिवेष्टितं कारं कारं प्रासीदत् । वेशेनामुना बालः सातिशयं शोभमानो बालगौराङ्ग इवादृश्यत । किञ्चित्कालानन्तरं गदाधरस्य क्रीड़ासह चरीवैका सोदरा समजायत ।

गदाधरेणेदानीं किमपि किमप्यस्पष्टशब्दोच्चारणं शिक्षितम् । खुदिरामस्तं क्रोडीकृत्य स्वपूर्वपुरुषाणां नामानि देव-देवीनां च प्रणामस्तवादिसम्बद्धानि लघुरूपाणि पद्यानि च श्रावयन् पाठयति । रामायणमहाभारतयोर्विचित्रमुपाख्यानं वारमेकमाकर्णैव गदाधरः श्रावयति । बालकस्य तादृशं श्रुतिधरत्वमवलोक्य खुदिरामो नितरां प्रसीदन् आश्चर्यचकितोऽभूत् । एवं किल पित्रा बालकं बहुप्रकारेण शिक्षयितुं प्रववृते । परन्तु बालकस्याङ्कावर्तनशिक्षणे रुचिर्नासीत् । बालकमवगत्य खुदिरामेण प्रसह्यकारिता नाश्रिता । पिता केवलं श्रावयति स्म स्तवमात्रमेव । अल्पीयसैव कालेन गदाधरेण बहुशिक्षितम् ।

पञ्चमेऽब्दे खुदीरामेण यथाविधि विद्यारम्भं कारयित्वा बालकः पाठशालायां प्रवेशितः । गृहसन्निधाने ग्राम एव ग्रामभूपतिलाहा महोदयस्य विशालमण्डपे पाठशाला आसीत्, यत्र द्विसन्ध्यमेव शिक्षा दीयते स्म । समवयस्क बालकसङ्गेन गदाधरो नितरां प्रासीदत् । पाठशालायां लेखनपाठनातिरिक्तं क्रीडाया अपि सुन्दरसौविध्यमभवत् । पाठशालावकाशकाले सहचरैः साकं स क्रीडामारभत ।

पाठशालायां गदाधरस्य समीचीनतया शिक्षणं प्राचलत् । अल्पीयसा समयेनैव तेन साधारणं लेखनपठनादिकं शिक्षितम् । अङ्कगणिते तस्य मनो नारमत । बालकस्य प्रतिभाया विकासो नित्य नवीनोद्भावनशक्तौ, अनुकरणप्रियत्व-देवदेवीमूर्तिनिर्माण-चित्राङ्कनेषु च पर्युदृश्यत । एकवारं श्रुतं दृष्टं वा गदाधरो न विस्मरति । तस्य ग्रामे कथा प्रवचनानि नाटकानि यात्रामण्डलीगानानि च प्रायशः अभूवन् । भजननाटकयात्राभिनयशास्त्रोपाख्यानादीनि समाकर्ण्य निरीक्ष्य च सर्वमिदमनायासेनैव गदाधरेण सुशिक्षितम् । खुदिरामेण ध्यानप्रदानपूर्वकं दृष्ट्वा बालकस्य निर्भीकत्वमकपटत्वं च बहुवारमनुभूतम् । गदाधरः स्वापराधं न गोपायति, प्राणभयेनापि नैव कदाप्य सत्यमुदीरयति । विशेषतो बालकस्य सहजस्वाभाविकसरलदेवभक्तिस्तदीयजन्मसम्बन्धीयगयाधामस्वनवृत्तान्तं सदैव खुदिराममस्मारयत् ।

कुसुमकलिकायां सचितसौरभप्रमाणं तद्विकासत एव समुपलभ्यते, सुगन्धपरिपूरितोच्छ्वास इव गदाधरस्येश्वरीयस्वरूपप्रकाशः कदाऽजायतेत्यस्य निर्णयो नितरां काठिन्यमभजत् । रामकृष्णस्य जीवने दिव्यभावावेश प्रथमविकासस्तदीयातिशैशवदशायामेव परिलक्षितः । तस्य षड्वर्षावस्थायामेव, प्रथम ईश्वरावेशः समदृश्यत । अवस्थायामत्र प्रायशोऽन्यबालकाः क्रीडास्वेव संरता भवन्ति ।

स्वकीये परवर्तिनि जीवने घटितायाः स्वसम्बन्धिन्या घटनायाः दक्षिणेश्वरे स्वयमेव तेन समुल्लेखः कृतो विद्यते, तथा हि — “स हि ज्येष्ठस्याषाढस्य वा मासोऽस्ति । षड्वर्षदेशीयोऽहमेकदा प्रातःकाले एकस्मिन् लघीयसि पात्रे तण्डुलभर्जनं खादन् कृषिबन्धोपरि गच्छन्नासम् । आकाशे सजलो मेघखण्ड एकः समदृश्यत । अश्नतैव मयाऽसौ दृष्टः । वर्धमानेन तेन मेघखण्डेन सम्पूर्णोऽप्याकाशः समाच्छादितोऽभूत् । तदानीमेव दुग्धधवला बलाकापङ्क्तयस्तत्तले उड्डीयमानाः कुत्रापि गच्छन्त्योऽभूषन् । दृश्यमिदमद्भुतमवलोक्य तन्मयोऽहमाविष्ट इव ज्ञानशून्यो भवन्नपतम् । तण्डुलभर्जनानि परितो बन्धं विकीर्णानि । भावावेशदशायामस्यां कियत्कालं यावदहमासमिति न निश्चेतुं शक्यते । लोकैस्तत्र संज्ञाशून्यः पतितोऽहम् इति निरीक्ष्य गृहं प्रापितः । अयमेव मे प्रथमो भावावेशः ।” प्राकृतिकसौन्दर्ये सौन्दर्यनिधानस्य भगवतो दर्शनानन्दमनुभूय गदाधरस्यान्तःकरणं भावावेशपरिपूर्णमभूत् । उच्यते च “परब्रह्मस्वरूपायाः प्रकृतेरपि दर्शनात् । प्राप्नोति महतां स्वान्तं भावावेशनिमग्नताम् ॥”

वृत्तान्तेनानेन नितरामुद्विग्नः खुदिरामश्चन्द्रादेवी च । ताभ्यामवधारितं यदयं कस्याश्चनोपदेवताया आवेशोऽपस्माररोगो वा भवेदिति । यद्यपि गदाधरो मातापितरावुवाच – “नाहं चेतनाशून्योऽभवम्, तदानीं मदीयं मन एकस्मिन्नपूर्वानन्दे निमग्नमासीत्, एतादृशाभिनवभावलीनतापरिणामेन ममेयं दशा जाता” इति । तथापि मातापितृभ्यां शान्तिस्वस्त्ययनौषधिसेवनव्यवस्था सम्पादिता ।

❀ ❀ ❀

ततः प्रायशः सार्धहायनानन्तरं कामारपुकुरपुरे चट्टोपाध्यायपरिवारे महती शोकघटनैका घटिता । तया च सर्वैरेव किङ्कर्त्तव्यविमूढ़ता समासादिता । खुदिरामस्याकस्मिको मृत्युरभवत् । ६८ वर्षदेशीयोऽयम् अस्वस्थशरीरोऽपि स्वीयभागिनेयराम चन्द्रस्य सेलामपुरीयावासगृहे शारदीय दुर्गापूजावसरे प्रत्यब्दमिव गतोऽभवत् । तेन साकमास्ते ज्येष्ठोपुत्रो रामकुमारः । तत्र गमनानन्तरम् अस्वस्थमपि तदीयं शरीरमसाध्यसङ्ग्रहणीरोगसमाक्रान्तमभूत् । रोगः प्रावर्धत । पूजादिवसाः कथञ्चिद् व्यतीताः । विजयदशमीदिने प्रतिमाविसर्जनतः प्रागेव तस्य वाणी निरुद्धा चैतन्यं च तिरोहितम् । प्रतिमां विसर्ज्य समायातो रामचन्द्रोऽवालोकयद् यन्मातुलस्यांतिमसमयः समुपस्थितो वर्त्तत इति । रामचन्द्रो रुदन् प्रोवाच – “मातुल ! त्वया सदैव श्रीरघुवीरः स्मर्यते स्म, साम्प्रतं कथं न स्मर्यते?” रघुवीरनाम समाकर्णनसमकालमेव खुदिरामः सचेतनो जातः । कम्पितस्वरेणासौ प्रतिजगाद – “कोऽसि रामचन्द्र ! प्रतिमां विसर्ज्य समागतः । मामुत्थाप्योपवेशय । अहमुपविश्य देहं त्यक्ष्यामि ?” इति । उपवेशितश्च परिपूतगम्भीरस्वरेण वारत्रयं श्रीरघुवीरनाम समुच्चारयन् समाहितचेताः खुदिरामः प्राणान् विससर्ज । चिराय च श्रीरामचन्द्रचरणसरसीरुहेषु चञ्चरीकतामापन्नो मुक्तिमवाप ।

❀ ❀ ❀


श्रीरघुवीरः खुदिरामस्य कुलदेवता । किन्तु तस्य गृहे श्रीरघुवीरस्य काचित् प्रतिमा प्रतिष्ठिता आसीत् न वा इत्यस्य किमपि प्रमाणं न लभ्यते । प्रत्येकस्यापि नैष्ठिकब्राह्मणस्य गृहे शालिग्रामः नित्यं समर्च्यते । भक्तस्य खुदिरामस्य गृहेऽपि शालिग्रामस्य प्रतिष्ठा स्वाभाविकी । एतदनुमीयते यत् पैत्रिकगृहपरित्यागकालेऽसां सर्वा अपि गृहदेवताः शीतलादेव्या घटेन सह समानयत् । ततश्च देवादेथेन या रघुवीरशिला प्राप्ता तामपि समानीय निजगृहे स्थापितवान् । एकस्य ततोऽधिकस्य वा शालिग्रामस्य समर्चनं ब्राह्मण हे बोभूयते स्म ।
श्रीमद्भगवद्गीता ९.२२
चरित्रनायकस्य रामकृष्णनामनि विद्यते महान् मतभेदः । स्वामी सारदानन्दो लीलाप्रसङ्गे निर्दिशति – “अस्मासु केषाञ्चनायं विमर्शो यत् संन्यासदीक्षावसरे श्रीमता तोतापुरीगोस्वामिना ‘रामकृष्ण’ इति नाम निर्दिष्टम् । अपरे मन्यन्ते यत् परमहंसदेवपरमभक्तः सेवकश्च श्रीमान् मथुरामोहनो ‘रामकृष्ण’ इति नामधेयं चक्रे ।”
तोतापुरीमहाशयो १२७१ वङ्गाब्दे दक्षिणेश्वरमागतः । परं दक्षिणेश्वरमन्दिरकार्यालयसाहाय्यदानपुस्तिकायां १२६५ वङ्गाब्दे तद्नुसारं १८५८ खृष्टाब्दे रामकृष्णभट्टाचार्यरूपेण परमहंसदेवस्य नामनिर्देशो निभाल्यते । वृत्तान्तोऽयं कथामृतस्य द्वितीयभागे सप्तमसंस्करणे लभ्यते । तदानीं श्रीरामकृष्णो भट्टाचार्यः श्रीराधाकान्तमन्दिरस्य पूजकः, पञ्चमुद्रात्मकं मासिकं वेतनं च लभते स्म । सुतरां तोतापुरीमहाशयस्य दक्षिणेश्वरसमागमात् प्रायशः सप्तहायनतः प्रागेव रामकृष्णनामसमुल्लखो दरीदृश्यते । अतः ‘रामकृष्ण’ इति नाम तोतापुरी गोस्वामिना न दत्तमिति निश्चीयते ।
परवर्तिनि समये परमहंसदेवमुखादेव बहुधा समाकर्णितं यत् तदीयसपर्याविधिमवलोक्य मुग्धो भवन् परमहंसपितृव्यदेवज्येष्ठपुत्रो हलधारी बहुवारमिदमुक्तवान् यत् – “रामकृष्ण, मया, त्वं सम्यक् ज्ञात” इति । (लीला प्र०) । घटनेयं तोतापुरीमहोदयस्य दक्षिणेश्वरागमनात् पूर्वकालीना, परमहंसदेवदिव्योन्माददशासामयिकी च ।
मथुरामोहनेन रामकृष्णेति नाम निर्दिष्टमित्यत्र नास्ति किमपि प्रमाणम् ।
माणिकरामः, खुदिरामः, रामशीला, निधिरामः, रामकनाई, रामकुमारः, रामेश्वरः . . . । रामाचयः, रामलालः, शिवरामश्चेति परमहंसदेव वंशतालिका वेद्या ।
अत एवोपर्युक्तनामसूचीविलोकनेनेदमवगम्यते यत् तदीयं रामकृष्णेति नाम वंशानुक्रमिकमस्ति । ग्रन्येऽत्र बाल्यकालत एव परमहंसदेवस्य नाम गदाधरो रामकृष्णश्चेति निर्देक्ष्येते ।