वेदमूर्ति-श्रीरामकृष्णः

कलिकाता दक्षिणेश्वरश्च

कलिकातायामागतस्य गदाधरस्य स्वान्तं कानिचिद्दिनानि यावन्मातुः कृते व्याकुलत्वमवाप । परमीषत्कालानन्तरमेव तदीयो भावोऽयं व्यपगतः । कलिकातापत्तनीयचाकचक्यविलोकनेन तस्य चेतो न प्रासीदत्, किन्तु मनोनुकूलकार्यमासाद्य नितरां मुमुदे । रामकुमारो यत्र यत्र वन्दनार्चनादिकमनुतिष्ठति, तत्सर्वमेव क्रमशः गदाधरेण स्वायत्तीकृतम् । एतदतिरिक्तं ज्येष्ठस्य भ्रातुः सपर्यादिकमप्यनुष्ठीयते स्म । अल्पीयसैव कालेन प्रियदर्शनोऽयं किशोरो निजेन मनोहरव्यवहारेण सुमधुर भजनस्तवादिना च यजमानपरिवारेषु परमप्रियो जातः । विशेषतश्च गदाधरस्य भक्तिभावमयी समर्चा, ध्यानस्य तन्मयता च समेषामपि श्रद्धां दृष्टिं चाकृष्टवती । परमध्ययने गदाधरः पूर्ववदुदासीन एवास्ति । अनेकमासपर्यन्तं रामकुमारस्तस्येमं भावं पर्यपश्यत् । एकस्मिन् दिवसे किञ्चित्कठोरस्वरेण रामकुमारो गदाधरमबोचत् – “पठनं लेखनं सर्वथा परित्यक्तं त्वया, किमस्य कारणम् तव दिनानि कथं व्यतिगमिष्यन्ति ?” किञ्चित्कालं मौनमाश्रित्य स्वाभाविकस्वरतो गदाधरः प्रत्युवाच – “कदलीफल-तण्डुलादि-प्रदात्रीं यजमानतोषिणीं विद्यां नाहमधिगन्तुमिच्छामि, यथार्थं ज्ञानदायिनीं विद्यां शिक्षितुमभिलषामि, यया मानवजीवनं सार्थक भवेत् ?” गदाधरस्यैतादृशमुत्तरमाकर्ण्य रामकुमारः स्तम्भितोऽभवत् आश्चर्यं, गदाधरो लेखनमध्ययनं च तण्डुलरम्भाफलदायिनीं विद्यां मन्यते ! समयान्तरे भ्रातरं बोधयिष्यामीत्यालोच्य रामकुमारस्तदानीं न किमप्यवोचत् । तदानीन्तनीयं गदाधरस्य वयः सप्तदशवर्षदेशीयमासीत् ।

अनेन क्रमेण वर्षद्वयं व्यतीतम् । रामकुमारस्यार्थिको दशा दिनानुदिनं ह्रासमयासीत् । बहुविधदुश्चिन्ताभिस्तदीयमन्तःकरणं शरीरं चावसन्नं जर्जरितमप्यभूत् । पाठशालां परित्यज्य कार्यान्तरमनुष्ठेयं नवेति तेन परिचिन्तितम् । इतश्च सांसारिकेषु सर्वेष्वपि विषयेषु गदाधरस्यौदासीन्यं क्रमशो ववृधे । परन्तु तस्य ध्यानगाम्भीर्यं, भावतन्मयत्वं च विलोक्य रामकुमार एकतः प्रसीदति, अपरतः कारणान्तरेण च विषीदति । तदानीन्तनीयया घटनयैकया द्वयोरेव जीवनगतिर्नूतनमार्गे प्रावर्तत ।

❀ ❀ ❀

कलिकातापत्तनस्थजानबाजारस्य प्रसिद्धभूस्वामिनो रामचन्द्रदासस्य पत्नी राणी रासमणिरासीत् । तस्याश्चतस्रः कन्या अभूवन् । अकस्मात् तस्याः पतिः परलोकं प्रतस्थे । रासमणिः प्रचुरधनसम्पदामधिकारिणी जाता । पत्युर्देहावसानेन भूस्वामित्वस्य सर्वोऽपि भारो रासमण्या स्वहस्तयोर्गृहीतः । स्वल्पेनैव कालेन तस्या असाधारण कर्मकुशलतया भूस्वामिताया आयः प्रचुरमवर्धत । पुण्यकार्यकलापेषु बहुधनदानेन, अन्नदानेन विविधजनहितकरकार्यानुष्ठानेन च तस्याः सीमातिक्रान्तया साहसिकतया च तदीया कीर्तिचन्द्रिका चतुर्दिक्षु प्रासरत् । तया स्वीयं राणीनाम सार्थकीकृतम् । महाकाल्यां तस्या असीमभक्तिरभवत् । भूस्वामितायाः सर्वविधेष्वपि पत्रादिषु स्वनामधेयाङ्कितमुद्रायास्तयोपयोगः क्रियते स्म, तस्यां लिखितमेतदभूत् – “कालीपदाभिलाषिणी श्रीमती रासमणिदासी ।” निम्नकुलोत्पन्नाऽपि राणी देवद्विजभक्तिपरायणा बभूव । वस्तुतस्त्वियं देव्यंशसम्भूता भगवत्या अष्टसहचरीष्वेकाऽप्यविद्यत ।

सुबहोः कालात् तस्याः काशीमागत्य विश्वनाथान्नपूर्णादर्शनसङ्कल्पोऽभवत् । परमनेकप्रत्यूहहेतुना नासौ परिपूर्णो बभूव । एतर्हि तस्या जामातरो विधेयविधानदक्षाः सन्ति । विशेषतो मथुरामोहनो निखिलकार्यकलापसम्पादने रासमणिदेव्या दक्षिणो हस्त इव गण्यते ।

श्रीकाशीयात्रामुद्दिश्य प्रचुरो धनराशि संरक्षित आस्ते । १२५५ वङ्गाव्दे ( १८४८ ख्रीष्टाब्दे ) राणी काशीयात्रायै प्रस्तुता । पूजोपकरणानि बहुविधान्यन्यानि वस्तूनि द्रव्यादीनि च तरीषु संस्थापितानि । यात्रायाः सर्वोऽपि प्रबन्धः सुसम्पन्नोऽभवत् । परन्तु यात्रायाः पूर्वस्यां रात्रौ भगवती भवतारिणी धृतज्योतिर्मयविग्रहा स्वप्ने दर्शनं दत्वा तामुवाच – “काशीगमनप्रयोजनं नास्ति, अत्रैव कुत्रापि भागीरथीतीरे रमणीयस्थाने मम मूर्तिं प्रतिष्ठाप्य सपर्यादिव्यवस्थामनुतिष्ठ । तत्रैवाहं तव सेवासमर्चचनादिकं नित्यमङ्गीकरिष्यामि ।”

देव्याः प्रत्यादेशः ! राणी काशीयात्रां परित्यज्य भगवत्या आदेशपरिपालने तत्परा बभूव । कलिकातासन्निधाने वाराणसीक्षेत्रवत् श्रीमन्दिर निर्माणयोग्यं स्थानं भागीरथीपश्चिमरोधसि बहुविधप्रयत्नेनापि नाधिगतम् । अतो गङ्गायाः पूर्वस्मिन् तीरे दक्षिणेश्वरे तया षष्टिबीघात्मिका भूमिः क्रीता । अस्या भूमेः कस्यचिदंशस्य स्वामी हेस्टीसाहबमहोदय आसीत् । अवशिष्टांशे कब्रिस्तानं गाजीपीरस्थानं चाविद्यत । स्थानमेतत् कूर्मपृष्ठवददृश्यत । तन्त्रशास्त्रमतेन तादृशं स्थानमेव शक्तिसाधनानुकूलं सम्मतम् । भगवत्याः अनुकम्पया समीहयैव च तत्स्थानमधिगतम् ।

मनोवाञ्छितस्थानेऽधिगतेऽमितधनराशिं व्ययीकृत्य राणी रमणीयनवरत्नसुशोभितं बृहत्कालीमन्दिरं, नाट्यमन्दिरं द्वादशशिवमन्दिरं राधाकान्तमन्दिरं च निर्माय आच्छादनीं, तत्सम्मुखे शिलाचयनिबद्धं घट्टं, वस्तुवेश्म, भोगगृहम्, अतिथिशालां, वाद्यस्थानम्, मनोरमोद्यानं च निर्ममौ । अन्यान्यपि निर्माणकार्याणि सम्पन्नानि । महतो दूरादेव भागीरथीतटे मन्दिर शिखराणि दृष्टिगोचरतामापद्यन्ते । निर्माणकार्यपरिपूर्त्यै नवलक्षं मुद्राणां व्ययीभूतमास्ते । ततश्च देव्याः सेवासमर्चनादिकृते रासमणिर्दिनाजपुरमण्डलान्तर्गत – ‘ठाकुरगाँव’ – विभागस्य सालबाडीनाम विशालं भूखण्डं लक्षद्वय मुद्राव्य येन क्रीतवती ।

एतद्देवीमन्दिरनिर्माणकालमारभ्य मूर्तिप्रतिष्ठान्तं यावत् राणी रासमणिः कठोरतमकार्षीत् । त्रिसन्ध्यस्नानं हविष्यान्नभोजनम्, भूशयनं कुर्वाणया राण्या सर्वविधव्यावहारिककार्यकलापतो विरतयाऽनन्यमनसा स्वीयाराध्यदेवीध्यानचिन्तनेष्वेव न्यमज्ज्यत ।

सर्वसुलक्षणसंयुक्ता देवीप्रतिमानिर्माणानन्तरं पेटिकायां संस्थापिता, मृण्मयी मूर्तिः रासमणेरान्तरिकभक्त्या जीवन्तीव संवृत्ता । सा देवी पेटिकायां तिरोहिता स्थातुं न समीहते, सेवा सपर्यां च स्वीकर्तुमुद्यताऽभूत् । राणी स्वप्ने आदेशं प्राप्तवती – “कियन्तं कालं यावत् मां पेटिकापिहितां स्थापयिष्यसि, एतदवस्थायां मया महत्कष्टमनुभूयते; यथाशीघ्रं मां संस्थापय ।” निद्राभङ्गे जाते विमनायमानया तया पेटिकामनावृतामनुष्ठाय विलोकितं यत् देवीप्रतिमा स्वेदसमाक्रान्तेति । तद्दर्शनेन राणी अतीव खिन्ना अस्वस्थमानसा च संवृत्ता । आसन्ने शुभेऽहनि देवी प्रतिष्ठाप्येति राणी निश्चयमकरोत् । आगामिनी स्नानयात्रा-पूर्णिमा देवोप्रतिष्ठार्थं निर्णीता, यतस्तत्पूर्वं न किमपि प्रशस्तदिनमविद्यत ।

मातुर्देव्या आदेशमनुसृत्य राणी भगवत्या मूर्तेः प्रतिष्ठापूजादिव्यवस्थाविधानाय उद्यता । परं तत्समीहासिद्धिकाले ब्राह्मणाः प्रबलविरोधमाचेरुः । वङ्गदेशीयाः प्रसिद्धा विद्वांसो भूदेवा एकस्वरतो व्याजहुः – ब्राह्मणेतरवर्णप्रतिष्ठापितदेवीमूर्तेरन्नभोगदानाधिकारः शास्त्रविहितो नास्ति । तदानीमत्यन्तव्याकुलमानसा राणी समस्त भारतवर्षविद्वत्सन्निधाने व्यवस्था ग्रहणाय स्वीयजनान् प्रेषयामास । किन्तु  शूद्राणीप्रतिष्ठितदेवविग्रहस्यान्नभोगदानव्यवस्था नाधिगता । अन्नभोगादिपूजनव्यवस्था तु दूरे वर्तते, कश्चिदपि कुलीनो ब्राह्मणस्तादृशदेवविप्रहाय प्रणामादिसम्मानदानमपि कर्तुं नाचेष्टत । ब्राह्मणानामेतादृशव्यवहारेण राणीमानसे सुमहानाघातो जातः ।

भगवत्या भोगः समीह्यते, परन्तु तस्यै अन्नभोगं दातुं न शक्यत इत्यालोच्य राणी मर्मण्यताड्यत । प्रतिष्ठादिने सन्निहिते सति झामापुकूरस्थचतुष्पाठिपाठशालात एतादृशी व्यवस्था लब्धा यत् “प्रतिष्ठातः पूर्वं यदि मन्दिरदेवसम्पत्तिः कस्मैचन ब्राह्मणाय प्रदीयेत, स च ब्राह्मणो मन्दिरे देवीं प्रतिष्ठाप्यान्नभोगव्यवस्थां कुर्यात् तर्हि शास्त्रीयं विधानं पालितं भवेत् । तदानीं ब्राह्मणादिभिः सर्वैरपि वर्णैरन्नप्रसादं ग्रहीतुं शक्यते ।”

रामकुमारभट्टाचार्यंतो लब्धया व्यवस्थया राणी निविडान्धतममि किञ्चिज्ज्योतिराशाया अध्यगच्छत् । सा निजकुलगुरुनाम्ना मन्दिरप्रतिष्ठाया निश्चयमकार्षीत् । किन्तु गुरुवंशेषु कोऽपि पूजनक्रियाविज्ञाता नासीत् | देवीसमर्चायाः कृते कस्यचिद्योग्यपूजकस्यावश्यकताऽविद्यत । कश्चिदपि सुयोग्यो ब्राह्मणः शूद्राणीप्रतिष्ठितदेवी मन्दिरे पूजको भवितुं नैच्छत् । राणी निरुपाया भूत्वा रामकुमार भट्टाचार्यमेव पूजकपदग्रहणपूर्वकं स्वीयमन्दिर प्रतिष्ठाकार्यं सम्पादयितुमनुरुन्धाना पत्रमेकं प्रहितवती । राण्या आन्तरिकानुरोधाद् रामकुमारस्तदर्थं स्वीयां स्वीकृतिं प्रादात् ।

१२६२ वङ्गाब्दस्य ज्येष्ठमासीयाष्टादशतारिकायां (३१ मई, १८५५ ई०) गुरुवासरे जगन्नाथदेवस्नानयात्रादिवसे महता समारोहेण भगवत्या भवतारिण्या नूतनमन्दिरे प्रतिष्ठा समभूत् । श्रीराधाकान्तस्य द्वादशशिवलिङ्गागानां च विभिन्नमन्दिरेषु प्रतिष्ठा जाता । सर्वविधभावानां भाविनि केन्द्रस्वरूपे दक्षिणेश्वरे श्यामा, श्यामो, महेश्वरश्वान्योन्यसन्निधाने व्यराजन्त । दिवसे तस्मिन् पूजासपर्या-हवनादि-पाठ-भजन-कीर्तन-नाट्यमण्डलीगानादिभिः “दीयतां भुज्यताम्” इति जनरवैश्च हरितो मुखरिता बभूवुः । अभूतपूर्वोऽयं महोत्सवः, सुदूरेभ्यः कान्यकुब्जवाराणसीश्रीहट्टनवद्वीपचट्टग्रामोत्कलादिस्थानेभ्यो विशिष्टा निमन्त्रितब्राह्मणाः समवेता अभूवन् । तत्र आशातीतदक्षिणादि ते समधिगत्य सुतृप्ता धन्यं धन्यमिति वदन्तो यथेच्छमाशिषो ववृषुः । बहूनि दिनानि महोत्सवानन्दः प्राचरत् । अत्रानन्दोत्सवे सम्मिलितुं श्रीरामकृष्णोऽपि दक्षिणेश्वरमायासीत् । परवर्तिनि समये तन्मन्दिरप्रतिष्ठामहोत्सवविषये तेनेत्थमुक्तमासीत् – “एतादृगनुभूयते यद् भगवती कैलासं परित्यज्य मन्दिरेऽत्र समागता, रासमणिदेव्या च सम्पूर्णोऽपि रजतगिरिरुत्थाप्य दक्षिणेश्वरमानीत” इति ।

श्रीरामकृष्णः सानन्दमितस्ततो बम्भ्रम्यमाणः सम्पूर्णमपि दृश्यं विलोकयन् दिनं यावन्न किमप्यश्नन् सन्ध्याकाले तण्डुलभर्जनं लाजामोदकांश्च क्रीत्वा भुक्त्वा च झामापुकुरस्थानं परावर्तत । द्वितीयदिनेऽपि प्रातःकालेऽसौ महोत्सवं द्रष्टुं दक्षिणेश्वरमायातो ज्येष्ठभ्रात्रा च स्थातुमादिष्टः, किन्तु भोजनकाले झामापुकुरमेव प्रत्याववृते । पञ्चसप्त दिनानि पुनर्दक्षिणेश्वरं नायातः । प्रतिदिनं व्यचारयंत् — “अग्रजोऽद्य समागमिष्यति” । परमेतावद्दिनानन्तरमपि परावर्तमानं तं नावलोक्योद्विग्नचेताः स ज्यायसो भ्रातुर्वृत्तान्तं परिज्ञातुं पुनर्दक्षिणेश्वरमाजगाम । तत्राकर्णितवांश्च यदग्रजन्मा राण्या विशेषानुरोधेन जगन्मातुः पूजको भवितुं सहमतोऽभवदिति ।

प्रथमं तु वृत्तान्तेऽत्र श्रीरामकृष्णो न विश्वासमकरोत् । पुनश्चाग्रजन्मानं पप्रच्छ – “मया श्रूयते यदत्रभवान् अत्र पूजको बुभूषुः किमेतत् सम्भवति ? अशूद्रयाजिनः पितुः पुत्रो भूत्वा भवान् कथमेतादृशं कार्य स्वीकृतवान् ?” रामकुमारः शास्त्रेण युक्त्या च श्रीरामकृष्णं बोधयितुमचेष्टत, परमसौ स्वनिष्ठायां निश्चलस्तस्थौ । ततश्चैतत्सिद्धान्तनिर्णयार्थं धर्मपत्र निःसारणं निश्चितम् । धर्मपत्रेऽत्र रामकुमारस्य पूजकत्वसम्मतिर्लब्धा । श्रीरामकृष्णोऽपि धर्मपत्र-निर्णयमीश्वरेच्छामवधार्य स्वीचकार ।

झामापुकुरपाठालयो निरुद्धः, इति रामकुमारो गदाधरं दक्षिणेश्वरे स्थातुमनुरुरोध । स्वकर्तव्यनिर्णयार्थमसौ विशेषचिन्ताग्रस्तो बभूव । देवीभोगप्रसादभक्षणप्रस्तावं नायं स्वीचकार । अतः भ्रातुराज्ञयाऽमान्नमादाय गङ्गाकूले स्वयं पाचयित्वा भोजनं कुर्वन् दक्षिणेश्वरे स्थातुं सहमतोऽभवत् । इदमाचरणं तस्यानुदारता ऐकान्तिकी निष्ठा वेति को निर्णयेत् ?

गङ्गातीरवासो रामकृष्णस्य कृते परमाकर्षकोऽभवत् । यतः स्थानं रमणीयं देवालयश्च सन्निधत्ते । किञ्चिद्दिनानन्तरमेव प्रियदर्शनो ब्राह्मणकुमारोऽयं समेषां दृष्टीराचकर्ष । तेजःपुञ्जस्वरूपेण रूपेण, स्वीयस्वाभाविकानन्द निमग्नतया, सांसारिकवस्तुषु उदासीनतया, तन्मनस्कतया, विनम्रेण तेजोदीप्तेन व्यवहारेण, सरलतया चासौ सर्वप्रियोऽभूत् । कियद्दिनानन्तरमेव मन्दिरनिकटस्थपञ्चवटीवनं श्रीरामकृष्णकृतं सर्वाभ्यर्हितं प्रियस्थानमभवत् । भ्रातुर्नेत्रपथं विरहय्य, अवकाशं चासाद्य निर्जनारण्यस्थाने प्रविश्य बहुहोरां यावदसौ गभीरे ध्याने न्यमज्जत् । अयमेव स्वल्पः समयस्तत्कृते शान्तिमयः समपद्यत ।

एवं दक्षिणेश्वरे प्राय एकमासो व्यपगतः । स्वीयभोजन निर्माणाशनात् स्वकीयाग्रजन्मसेवाया व्यतिरिक्तं च श्रीरामकृष्णस्य किमपि कार्यान्तरं नाविद्यत । निजमनोऽनुकूलसुखपुरस्सरसमययापनयथोचितावसराधिगमात् स्थानं तत् तत्कृते प्रियतरमभूत् । तदानीमेव काले राणीजामाता मथुरमहाशयो युवकमिमं शान्तदर्शनमुदासीनमपश्यत् । तदन्तःकरणे ब्राह्मणयुवानं प्रत्यान्तरिकमाकर्षणं कथमुत्पन्नमिति न वक्तुं शक्यते । युवकसम्बन्धे जिज्ञासया मथुरमहाशयेनेदमवगतं यत् अयं पूजकस्य रामकुमार भट्टाचार्यस्य कनिष्ठो भ्राता । ततश्च युवानमिमं देव्याः सपर्यार्थ नियोक्तुं तन्मनसि बलवती समीहा समुदपद्यत । ततो वार्तालापप्रसङ्गेन रामकुमार भट्टाचार्यो मधुरमहोदयं स्वकीयकनिष्ठभ्रातुर्वैराग्यपूर्णा मानसिकीमवस्थां सुस्पष्ट व्यजिज्ञपत् । श्रुत्वापि वृत्तान्तममुं महाशयोऽसौ अनुकूलावसरं प्रतीक्षमाणस्तस्थौ ।

एतस्मिन् एव काले कामारपुकुरनिकटवर्तिनः शिहर ग्रामवास्तव्यो हृदयराम मुखोपाध्यायो जीविकाप्रदं किमपि कार्यमन्विष्यन् दक्षिणेश्वरमायातः । हृदयरामो रामकृष्णस्य भागिनेयो भवति, पितृस्वसृतनूजाया हेमाङ्गिन्या आत्मजश्च । बाल्यावस्थायामुभावप्येकत्रैव क्रीडतः । हृदयरामो मातुलस्य प्रेयानासीत् । तदानीं काले श्रीरामकृष्णः सार्धविंशतिवर्षदेशीयः । तस्माच्च हृदयरामश्चतुर्वर्षैः कनीयान् । बाल्यकालतः सुपरिचितं हृदयरामं प्रति श्रीरामकृष्णस्यान्तरिकं प्रेम केनापि कारणविशेषेण परमं प्रगाढमभूत् । हृदयरामोऽपि मातुलममुं प्राणप्रियं परमात्मीयममन्यत । दक्षिणेश्वरेऽत्र द्वावपि परस्परं सम्मिलितौ परमानन्दमनुबभूवतुः ।

सांसारिकसम्बन्धानुसारेण हृदयरामः श्रीरामकृष्णस्य भागिनेयः, परन्तु वस्तुतस्त्वयमस्ति युगावतारसेवकस्तत्सहचरश्च । अवतारस्य बहवः पार्श्वचरा यथानिर्दिष्टकार्यसम्पादनार्थ विभिन्नलोकेभ्यः समागत्य नररूपं गृहीत्वा युगप्रयोजनमनुष्ठाय स्वानभीष्टान् लोकान् प्रतिपेदिरे । तथैव श्रीरामकृष्णस्य शरीररक्षाया विशिष्टं कार्यम् सम्पादयितुं हृदयरामो जन्म लेभे । परमहंसदेवः परवर्तिनि काले स्वयमवोचत् – “यदि हृदयरामो नाभविष्यत् तर्हि साधनाकाले मम शरीररक्षणसम्भवोऽपि नाभविष्यत् ।” अत एव निश्चीयते यद् दक्षिणेश्वरे प्रथमसमागमदिवसादारभ्य पञ्चविंशतिवर्षपर्यन्तं हृदयरामः स्वमातुलस्य छायापुरुष इव समपद्यत । शयनम्, भ्रमणम्, उत्थानम्, उपवेशनं च सर्वमपि तस्य मातुलेन सहैवाभूत् । केवलं मध्याह्नभोजनसमय एवोभौ परस्परं वियुक्तावभूताम् । तदानीमपि श्रीरामकृष्णेन स्वहस्तपक्कं भोजनमक्रियत, हृदयरामेण देव्याः प्रसादः अगृह्यत च । मातुलभोजननिर्माणप्रबन्धः सकलोऽपि हृदयरामेणाक्रियत, कस्मिंश्चिद् दिवसे मातुलप्रसादोऽपि गृह्यते स्म । रात्रौ तु द्वाभ्यामपि देवीप्रसाद-शष्कुल्यो-ऽभुज्यन्त ।

❀ ❀ ❀


केषाञ्चिन्मतेन राणी काशीयात्रायै प्रतिष्ठमाना वर्तमानदक्षिणेश्वरकालीमन्दिस्याभ्यर्णे रात्रौ गङ्गायां निशां निनाय । तदानीमेव भगवत्यादेशो लब्धः । अतस्तया काशीयात्रा निरुद्धा ।
कस्यचिद् विषयस्य “अस्ति नास्ति वा” इति निर्णयार्थं कर्गजयोर्लिखित्वा तच्चोभयं गोलाकारं विधाय, तयोरेकस्य निःसारणेन निश्चयीक्रियते ।