वेदमूर्ति-श्रीरामकृष्णः

मन्दिरे कनिष्ठभट्टाचार्यः; रामकुमारस्य देहवासनम्

वयं क्रमशः द्रष्टुं शक्ष्यामः यत् श्रीरामकृष्णपितृमरणम्, रामकुमारस्य कलिकातागमनम्, दक्षिणेश्वरे मन्दिरप्रतिष्ठा, तत्पूजकपदस्वीकृतिः, मथुरानाथ-हृदयराम-ब्राह्मणी-तोतापुरीस्वामिनां समागमाचेति सर्वमीश्वरेच्छया युगधर्मसंस्थापनानुकूलम्, प्रयोजनीयजनानां च समावेशमात्रमेव ।

एकस्मिन् दिने अनुगङ्गातटमुपविश्य श्रीरामकृष्णो गङ्गामृत्तिकया परममनोहरमसृणभावमयशिवप्रतिमां निर्माय तन्मयभावतः समर्चयति स्म । इतस्ततो भ्राम्यन् मधुरमहोदयस्तत्र समायातः । तां च जीवन्तीमिव प्रतिमां ध्यानस्थं पूजकं चावलोक्य आश्चर्यचकितः सन् तत्रैवातिष्ठत् । एवंविधा सुलक्षणसंवलिता देवभावपरिपूर्णा प्रतिमा न तेन कदापि दृष्टपूर्वा । जिज्ञासया तेन यदैतज्ज्ञातं यन्मूर्तिरियं श्रीरामकृष्णेन स्वहस्ताभ्यामेव निर्मिता, तदानीं तस्यासीमविस्मयोऽभूत् । पूजनान्ते तां प्रतिमां स्वस्मै प्रदातुमनुरुध्य मथुरमहाशयो निर्जगाम । हृदयरामद्वारा समासादिता शिवप्रतिमेयमत्यन्तमुग्धमनसा तेन राणीसमीपे प्रहिता । तल्लघुमूर्तिनिर्माणकलायां मथुरमहाशयो निर्मातुः प्राणचित्रस्य भक्तिगाम्भीर्यस्य च परिचयं प्राप्तवान् । ततः प्रभृति कनिष्ठं भट्टाचार्य (श्रीरामकृष्णं) देव्याः पूजासपर्यासु नियोक्तुं तस्याग्रहो नितरां ववृधे ।

मथुरमहोदयसमीहां रामकुमारमुखादाकर्ण्य श्रीरामकृष्णस्तद्वासराद्दूर एव तिष्ठति । मनुष्यदासता, दक्षिणादानपूर्वकं देवसमर्चनं चेति द्वयमेव तद्विवेकविरुद्धमविद्यत ।

एकदा कालीमन्दिर-प्राङ्गणे श्रीरामकृष्णो हृदयरामेण सह पर्यटन् मथुरमहोदयेनाकारितः । मथुरमहाशयो भवन्तमाकारयतीति भृत्यमुखादाकर्ण्य श्रीरामकृष्णश्चिन्तासन्तानवितानैकतानतां प्रपेदे । हृदयरामद्वारा चिन्ताकारणं पृष्टो मातुलः प्रत्युवाच – “अनुमीयते, तत्र गतं मामसौ भृत्यतामङ्गीकर्तुं निर्देक्ष्यति ।“ “कोऽत्र दोषः ? एतादृशं सुमनोहरं स्थानम्, एतादृक् सुसम्पन्नमानवस्याश्रये कार्यानुष्ठानमित्युभयमेव समीचीनम्” इति हृदयराम उदतरत् । निजचिन्तने स्वतन्त्रः श्रीरामकृष्णो निजगाद – “दासत्वग्रहग्रस्तता मह्यं न रोचते । अन्यच्च पूजने स्वीकृते देवीविग्रहस्य बहुमूल्यानामाभूषणानां रक्षाभारोऽपि मयैव ग्राह्यो भवेत्, एतत्सर्वं मया कर्तुं न शक्यते । यद्याभूषणानामुत्तरदायित्वं त्वमङ्गीकुर्यास्तर्हि केवलं समर्चाकार्यमनुष्ठातुं नास्ति मम काचिदप्यापत्तिः ।” हृदयरामः स्वानुकूलभृत्यतामन्विष्यन्निहागत इति प्रसन्नेन चेतसा तेन स्वीया स्वीकृतिः प्रदत्ता ।

श्रीरामकृष्णमुखादङ्गीकृतिमाकर्ण्य नितरामानन्दितो मथुरमहोदयोऽब्रवीत् – “इदं त्वतीवसमीचीनमभवत्, भवान् मातुः सपर्यामनुष्ठास्यति, रामकुमार भट्टाचार्यो हृदयरामश्च भवत्साहाय्यं विधास्यतः ।”

देवीमन्दिर प्रतिष्ठातः प्रायो मासत्रयाभ्यन्तर एव देवीपरिचर्यादिकृते श्रीरामकृष्णः समागतोऽभूत्, तेन स्वहस्ताभ्यामेव सुरभितकुसुमानां स्रजोऽग्रथ्यन्त स्वस्वान्तानुकूलं माता भवतारिणी भूष्यते स्म, विह्वलेन सता स्वीयसुमधुरकण्ठतो गीतान्यश्राव्यन्त । अहर्निशं तन्मयतास्वरूप-मादकतयैव व्यत्ययासीत् । कथञ्चिदवकाशमधिगत्य श्रीरामकृष्णः पञ्चवटी काननेऽदृश्यो भूत्वा ध्यानमग्नोऽप्यभवत् । हृदयरामो मातुलं दृष्ट्वा इततस्तो भ्राम्यन् बहुकालानन्तरं मातुलमुदासीनमवलोक्यन् पृच्छत् – “एतावत्कालपर्यन्तं भवान् कुत्रासीत्, विलम्बेन दृष्टो भवान् ।” “अहो, अत्रैवासम्” इति किञ्चिन्मातुल उदतरत् ।

मन्दिर प्रतिष्ठानन्तरं भ्राद्रमासः समायातः । पूर्वस्मिन् दिवसे जन्माष्टमीमहोत्सवः सम्पन्न आसीत् । तत्र महान् आनन्दोद्रेकोऽभवत् । अद्य राधागोविन्दमन्दिरे विशिष्टो नन्दोत्सवः सम्पाद्यते । ससमारोहं कीर्तनं प्रचरति । द्वितीयप्रहर-भोगावसानेऽन्यत्र प्रकोष्ठो नीयमाने गोविन्दे पूजकक्षेत्रनाथः पादपिच्छिलत्वात् प्रतिमया सहैव पतितः; विग्रहस्य च पदमेकं भग्नम् । मन्दिरे महान् कोलाहलो बभूव — “इयं तु महती अमङ्गलसूचना ।” घटनामिमामाकर्ण्य राणी अनिष्टाशङ्कया रोमाञ्चिता जाता । नूनमेव कोऽपि सेवापराधो जातः । अकल्याणभयेन सर्वे भीता बभूवुः । उपायान्तरमज्ञात्वा पण्डितानां सभा संयोजिता । पण्डितपरिषदा निर्णीतं यत् “खण्डितप्रतिमां गङ्गाजलप्रवाहे विसर्ज्य तत्स्थाने नूतनमूर्त्तेः प्रतिष्ठा कारयितव्या” । नवीनप्रतिमा निर्माणमादिष्टमपि । एतावत्या प्रेमभक्त्या परिपूजितो भगवानल्पेनैव हेतुना परित्यज्यत इत्यालोच्य मथुरमहोदयान्तःकरणं दारुणशोकेनोद्वेलितमभूत् । स च राणीमातरमवोचत् – “विषयेऽत्र कनिष्ठभट्टाचार्यस्य (श्रीरामकृष्णस्य) मतं कथं न ज्ञायते ?”

श्रीरामकृष्णे जगज्जनन्या वेशकारिपदे नियुक्ते मथुर महाशयो रामकुमारं ज्येष्ठभट्टाचार्यं, श्रीरामकृष्णं च कनिष्ठभट्टाचार्यमकथयत् । यदा कदा भगवद्भावाविष्टं विलोक्य कनिष्ठभट्टाचार्योपरि विशेषतो मधुरमहोदय दृष्टिराकृष्टाऽभवत् । मथुरमहाशयपरामर्शं राणी चापि सममन्यत । भग्नप्रतिमा विषये मथुरमहोदयेन पृष्टेन श्रीरामकृष्णेन भावाविष्टेन सता प्रतिपादितम् – “राणीजामातृषु यदि कस्यचित्पादो भग्नः स्यात् तर्हि तं त्यक्त्वा तत्स्थानेऽन्यः समानीयेत किं वा तस्य चिकित्साव्यवस्था विधीयेत ? अत्रापि विषये तदेवानुष्ठेयम् । प्रतिमाया भग्नं पादं संयोज्य यथापूर्वं समर्चनमुचितम् ।”

एतादृशं सरलं समाधानमाकर्ण्य सर्वे सविशेषं विस्मयं जग्मुः । गोविन्द दिव्याविर्भावविग्रहो भग्नोऽपि न परित्याज्य इति रामकृष्णव्यवस्था विद्वद्भिर्ब्राह्मणैर्नाङ्गीकृता । तैरुक्तम् – “व्यवस्थेयं शास्त्रविरुद्धा, भग्नविग्रहसमर्चनं नोचितम्” । परन्तु कनिष्ठभट्टाचार्यस्य प्रेमपूर्णा व्यवस्था राण्या मथुरमहाशयस्य चैतादृशी मनोनुकूलाऽभवत्, यदुभावेवानन्दसागरे निमग्नौ ।” राणीनेत्राभ्यामानन्दाश्रुधारा प्रवाहिता ।

अनुरुद्धेन श्रीरामकृष्णेन विग्रहभग्नपाद एवं संयोजितो यद् योगचिह्नमपि न विलोक्यते । प्रतिमायास्तस्याः पूजासपर्यादिकं सर्व यथापूर्वं प्राचरत् । बहुकालानन्तरं वराहनगरस्य कूटीघट्ट तत्रत्यप्रसिद्धभूस्वामिना जयनारायणवन्द्योपाध्यायेनैकस्मिन् दिने वार्ताप्रसङ्गेन श्रीरामकृष्णः पृष्टः – “महाशय ! तत्रत्यो गोविन्दः किं भग्नोऽस्ति ?” श्रीरामकृष्ण उदतरत् – “अरे कीदृशी भवदीया बुद्धिः, योऽखण्डो मण्डलाकारः स किं भग्नो भवितुमर्हति ?”

नवीना मूर्तिर्निर्मिता समानीता च, किन्तु प्रतिष्ठिता नाभवत् । असावधानताहेतोर्देवविग्रहपूजकपदात् क्षेत्रनाथो निःसारितः । ततः प्रभृति गोविन्दपूजाभारः कनिष्ठभट्टाचार्योपरि समागतः । हृदयरामश्च कालीमातुर्वेशकारिपदे नियुक्तः ।

❀ ❀ ❀

काशीपुरोद्याने स्वीयरुग्णावस्थायामन्तिमे काले एकस्मिन् दिवसे गम्भीरसमाघितो जागृतो भावाविष्टः श्रीपरमहंसदेवः समुदीरयामास – “एतदभ्यन्तरे द्वौ स्तः, एकः सः स्वयमीश्वरः, द्वितीयश्च भक्तो भूत्वा विराजते ।”

वर्तमानयुगे श्रीरामकृष्णः भगवतः भक्तभावरूपलीलाऽऽसीत् । भक्तस्वरूपेण तेनैकाग्र साधनाऽभिनवलीला च सम्पादिता । तस्याः साधनायाः प्रयोजनद्वयम् — एकमादर्शमुपस्थापयितुमेतत्सर्वमासीत् – द्वितीयं च विकृतस्य दीर्घविस्मृतस्य च सनातनधर्मस्य युगोपयोगिना नूतनेनादर्शेन पुनः प्रतिष्ठापनम् ।

भक्तरूपतोऽसौ भवतारिण्याः समर्चनमकरोत् । तेनैव माध्यमेन मूर्तिपूजाया निगूढरहस्यमुद्घाटितमभवत्, ततश्च संसारे सत्यशान्तिलाभाय लुप्तस्य सहजमार्गस्यान्वेषणपूर्णपरिबोधो जातः । एतत्फलस्वरूपं निराशान्धकारनिपीडित मानवजनैः हृदयाप्यायनकारिण्या आशाया आनन्दस्य च शुभः सन्देशो लब्धः । मूर्तिपूजापरमतत्त्वलाभस्य मार्गनिर्देशोऽयं केवलं हिन्दुजातेर्भारतवर्षस्यैव कृते न हि, प्रत्युत समस्तस्यापि भूमण्डलस्य मानवजातेः सर्वधर्मावलम्बिनामादर्शस्वरूपो हिताधायकश्चासीत् । अतः परं श्रीरामकृष्ण देवो दीनहीनो भक्तपूजकरूपेण अकिञ्चनव्याकुलरूपेण च परिदृश्यते । इयं तदीया अनन्यसदृशी लीला विद्यते ।

❀ ❀ ❀

श्रीरामकृष्णेन केवलं विग्रहस्यैव न हि, चिन्मयदेवतायाः समर्चनं क्रियते स्म । तत्कृतपूजनमवलोकयितुं जनाः पंक्तिबद्धा मुग्धाः सन्तः समतिष्ठन्त । परवर्तिनि समये पूजाकालीनावस्थासम्बन्धे स्वयमेव परमहंसदेवेन व्याजह्रे – “अङ्गन्यास-करन्यासादीनि पूजाङ्गानि सम्पादयता मया ते ते मन्त्राः समुज्ज्वलवर्णरूपाः स्वदेहाङ्गेष्वेव सन्निविष्टा दरीदृश्यन्ते स्म, ‘रं’ इति जलधारया वह्निप्राकारं विचिन्त्य, इत्यादि मन्त्रान् उच्चार्य्य परितो जलं सिञ्चन ध्यायन्नहं स्वचतुर्दिक्षु शतशो जिह्वा विस्तारयन्तं साक्षादग्निदेवमेव दुर्भेद्यप्राचीरवत् पूजास्थानस्य सर्वप्रत्यूहान् निराकुर्वन्तं रक्षन्तं चापश्यम् । कुण्डलिनीध्यानकाले सर्पाकृतिं कुण्डलिनीशक्तिं सुषुम्णामार्गतः सहस्रारमध्ये प्रविशन्तीमपश्यम् । देहस्य यान्यङ्गान्यतिक्रामन्ती शक्तिरियमूर्ध्वगामिनी बोभूयते स्म निखिलान्येव तानि नितान्तजडवत्स्पन्दनहीनानि प्रतीयन्ते स्म ।”

समर्चनसमये श्रीरामकृष्णस्य तेजःपुञ्जशरीरं, तन्मनस्कविह्वलभावम्, अनेकहोरा यावत् ध्यानस्थितिं च निरीक्षमाणा लोकाः परस्परमूचुः – “स्वयं ब्रह्मण्यदेव एव साक्षात् पूजायामुपविष्टोऽस्तीति ।“ ध्यानविलीनचेता असौ भगवतो दिव्यं प्रकाशमेवापश्यत् । महता मोदेन तस्यान्तःकरणं परिप्लुतं, वक्षःस्थले चानन्दाश्रूणि प्रवहमानानि लोकैर्व्यलोक्यन्त । समर्चासमाप्तौ हार्दिकावेगेन सह सुमधुरकण्ठतो गानस्तुतिं कुर्वतस्तस्य परमभावुकतयाऽऽत्मविस्मृतिर्बोभूयते स्म । तदानीं सम्पूर्णमपि मन्दिरं दिव्यप्रकाशसमुद्भासितम् इव जायते । इदं ज्ञायते यद् देवता अपि कर्णौ दत्वा स्तुतिगीतिं शृणोतीव ।

देव्याः साधको रामकुमारः कनिष्ठभ्रातरं देवीसमर्चनभारं गृह्णन्तं यदा ददर्श तदानीं नितरां प्रससाद, निश्चिन्ततां च जगाम । तेनालोचितम् – भ्राता कार्ये संलग्नः । किन्तु श्रीरामकृष्णस्योदासभावम्, निर्जनपञ्चवटीवने एकाकिनीं स्थितिम् अधिकाधिकं ध्यानम्, निःसङ्गभावविहारादिकं दर्शं दर्शं चिन्तासन्तानवितानैकतानतां कदा कदाचिदसौ प्रपेदे । किन्तु तद्भक्तिभावसमर्चनमवलोक्य मथुरमहाशयोऽपि परमां प्रसन्नतां भेजे । अतो रामकुमारो व्यचिन्तयत् – समीचीनसमर्चन शिक्षणमस्मै प्रदेयमिति । तदाप्रभृति दुर्गापाठम्, कालीमातुः अन्यान्यदेवदेवीनां च पूजनादीनि विशेषतोऽसौ श्रीरामकृष्णमशिक्षयत् । श्रीरामकृष्णोऽपि अल्पीयसैव कालेन पूजादिकार्यमशिक्षत, शक्तिमन्त्रदीक्षितो भवितुं च स्वीचकार । शुभो वासरो निर्णीतः । कलिकाताया बैठकखानानामकविभागस्य शक्तिसाधक-केनाराम-भट्टाचार्यद्वारा दीक्षाकार्यं सुसम्पन्नम् । शक्तिमन्त्रदीक्षाग्रहणकाल एव श्रीरामकृष्णो भावावेशेन समाधिस्थो बभूव । शिष्यस्य भक्तिगाम्भीर्यं निरीक्ष्य गुरुः स्तम्भितोऽभवत् । स च शिष्याय हार्दिकानाशीराशीनार्पयत् ।

भ्रातरं जगन्मातुः समर्चायां विनियुज्य रामकुमारो विष्णुमन्दिरपूजको भवितुमियेष । मथुरमहोदयहार्दमपीदमेवासीत् । श्रीरामकृष्णे देवीपूजकपदे नियुक्ते, रामकुमारो नितरां निश्विन्तोऽभूत् । श्रीराम- कृष्णोऽत्यन्तदक्षतया देवीं पर्यपूपुजत् । राणी मथुरमहोदयश्च तदीयां भावपरिपूर्णामर्चामवलोक्य सातिशयं प्रासीदताम् । यथा यथा दिनानि व्यतिगच्छन्ति, तथा तथा कनिष्ठभट्टाचार्य प्रति तयोः श्रद्धाभाव आकर्षणं च ववृधे । हृदयरामो विष्णुमन्दिरस्य पूजको न्ययुज्यत । इतो रामकुमारो चिन्ताविरहितः सन् प्राप्तावकाशो गृहगमनाय समुद्यतोऽभवत् । किन्तु कामारपुकुरगमनतः प्रागेव कार्यविशेषतः श्यामनगरमूलाजोडनामकं स्थानं तेन गन्तव्यमभूत् । तत्रैवासौ अकस्माद् रोगग्रस्तो मृत्युमवाप । दक्षिणेश्वरे श्रीजगन्मातुः प्रतिष्ठाया एकवर्षानन्तरमेव रामकुमारः पञ्च  भौतिकं शरीरमत्यजत् ।

❀ ❀ ❀


रासमणिराण्या मथुरानाथस्य च परलोकप्राप्तेरनन्तरं तद्वंशधरेषु कैश्वन शास्त्रविहितेतन्नवीनप्रतिमाप्रतिष्ठाऽऽयोजनं कृतम्, किन्तु पारिवारिकविघ्नदुर्घटनादिना तदायोजनं कार्यान्वितं नाभूत् । गोविन्दस्य सा नूतना प्रतिमा साम्प्रतमपि मन्दिरे तथैव संरक्षिता विद्यते ।