वेदमूर्ति-श्रीरामकृष्णः

साधना दिव्यदर्शनम् च

निज-जनकमृत्युः श्रीरामकृष्णहृदये संसारस्यानित्यताविषये विशिष्टं प्रभावमपातयत् । इदानीं पितृतुल्यस्य अग्रजस्य मृत्युना तदीयान्तरिकवैराग्याग्निर्नितरां प्रजज्वाल । संसारोऽनित्यः, जीवनं क्षणभङ्गुरम्, मानं, यशः, पार्थिवसम्पत्तयश्चेत्यादि सर्वमतीव तुच्छम् । तथापि जीवास्तान्येवानित्यानि वस्तूनि सङ्ग्रहीतुमिच्छन्ति ! शरीरनाशोऽश्यम्भावी, मृत्युरपि सुनिश्चितः, तथापि अग्निशिखासक्ताः पतङ्गा इव मनुष्या अप्यनित्यभोगासक्ता मृत्युमाप्नुवन्ति । “अहन्यहनि भूतानि गच्छन्ति यममन्दिरम् । शेषाः स्थिरत्वमिच्छन्ति किमाश्चर्यमतः परम्” इति युधिष्ठिरेणोक्तम् ।

महाभारते वर्णितं यत् राजा ययातिः स्वीयकनिष्ठपुत्राद्यौवनमधिगम्य सहस्रवर्षपर्यतमिच्छानुसारं विषयभोगान्ते दृष्टवान् यत् –भोगवासनाया अन्तः न विद्यते इति । उक्तं च – “न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवर्धते । यत्पृथिव्यां ब्रीहियवं हिरण्यं पशवः स्त्रियः । एकस्यापि न पर्याप्तं तस्मात्तृष्णां परित्यजेत् ॥” सहस्रवर्षविषयभोगान्ते ययातिमनसि विषयवितृष्णा प्रश्नः समुत्पन्नः, परं श्रीरामकृष्णजीवने दृश्यते यत् विषयभोगं विनापि तस्मिन्नुपरतिरजायत । श्रीरामकृष्णजीवनं वस्तुतः निरुपमम् ।

ज्यायसो भ्रातुर्मरणशोकः श्रीरामकृष्णस्वान्ते तीव्रानुरागरूपतः परिणतः । सदैवासौ स्वस्वरूपे स्थितः सच्चिदानन्दे निमज्जितुं व्याकुलो बभूव ।

परवर्तिनि समये श्रीरामकृष्णेन स्वशरीरमुद्दिश्याङ्गुगुलीनिर्देशं कुर्वता स्वीयान् भाविनः सन्देशहरान् त्यागिनः शिष्यानुद्दिश्य प्रोक्तम् – “अत्रत्यसाधनभजनानुष्ठानं युष्माकं हिताय आदर्शरक्षणाय च सम्पादितम् । मत्कृतसाधनभजनषोडशांशेषु कदाचित् युष्माभिरेकांशः करिष्यते ।” श्रीरामकृष्णजीवनस्य प्रत्येकमपि कार्यं दृष्टान्तभूतम्, भविष्यतो मानवजीवनस्य च दिग्दर्शनस्वरूपम् । ततः प्रभृति सुदीर्घा द्वादशवर्षव्यापिनी याऽत्यद्भुता साधना तेन समनुष्ठिता, सा किल जगत्कल्याणार्थमेव । यस्य महतो धर्मस्य प्रचारार्थमसौ समागमत्, येषां शान्तिसमन्वयैक्यभावानां सन्देशं श्रावयितुं तदाविर्भावस्तेषां सर्वेषामेव तज्जीवनमादर्शस्वरूपं सजीव प्रमाणं च । यस्याः प्रतिमापूजाया विरुद्धो भारते देशान्तरे च सुमहान् झञ्झावातः प्रावहत्, सैव तज्जीवनयात्रामार्गस्य निर्देशचिह्नायिताऽभूत् । दक्षिणेश्वरे भवतारिण्या मूर्त्तेः पूजामवलम्ब्य तदीयसत्यप्रतिष्ठारूप कार्यं प्रादुरभवत् ।

❀ ❀ ❀

ततः प्रभृति श्रीरामकृष्णस्य समस्तोऽपि समयोऽपार्थिववस्तुध्यानचिन्तने व्यतीयाय । समर्चनानन्तरं मन्दिरे समुपविष्टो जगन्मातुः सन्निधाने नैजां हार्दिकीं तीव्रवेदनां व्यञ्जयति, भजनकीर्तद्वारेण अभ्यर्थनामनुतिष्ठति च । तन्मयताया विह्वलतायाश्चायं विचित्रो भावः । दिनस्य द्वितीययामे मन्दिरद्वारेषु पिहितेषु पञ्चवटीमुपस्थाय स गम्भीरे ध्याने न्यमज्जत् । आहारेषूदासीनता, निद्रायां विरतिः प्रतिक्षणमेव तन्मयो भावः । स्वकीयजीवनान्तिमकाले त्यागिनं निजशिष्यमेकमुद्दिश्योक्तवान् – “चतुर्दशवर्षाणि नाहमस्वपम्” । गीयते स्म –

“अपास्तास्ति निद्रा, पुनः किं शयिष्ये
        सुजागर्मि योगाख्ययागप्रयोगे ।
इदानीं यदीयाऽस्ति निद्रा हि तस्मै
        प्रदायाऽखिलां तां स्वयं शाययामि ।”

निशा निःस्तब्धा । मन्दिरद्वाराणि पिहितानि । सर्वे शेरते । परन्तु श्रीरामकृष्णनयनयोर्निद्रा नास्ति । नैजं विष्टरं विहाय स निर्गतः । पञ्चवटी काचनस्यैकस्यामलकीवृक्षस्य तले समुपविश्य स ध्यानस्थोऽभवत् । सर्वेषामलक्षितः प्रभाते यदा प्रत्यागच्छत् तदानीं तस्य नयने समुद्भ्रान्ते रक्ते च निभालिते ।

एकदा रात्रौ द्वितीयप्रहरे हृदयरामस्य निद्रा सहसा भग्ना । अपश्यदसौ विष्टरे मातुलो नास्ति । स कुत्रागच्छदिति चिन्तया समस्तामपि रात्रिं हृदयरामो जागृत एवातिष्ठत् ।

क्रमेण बह्व्यो निशा व्यत्यगुः । एकस्यां रात्रौ हृदयरामः शयनच्छद्मना नेत्रे निमील्य विष्टरे शयानो मातुलं ददर्श यदसौ शयनस्थानमपहाय पञ्चवटीवनाभिमुखं प्रस्थितः । सोऽपि निःशब्दं दूरत एव तत्पृष्ठे चलितवान् । परन्तु तेन निरीक्ष्यमाण एव मातुलो बने व्यलीयत । आश्चर्यचकितो भवन् बहुकालं यावत्तत्रैवातिष्ठत् । विलम्बेनापि यदा मातुलो न प्रत्यागतस्तदासौ लोष्टानि चिक्षेप | प्रगाढनिःशब्दताभङ्गव्यतिरिक्तो लोष्टप्रक्षेपणत्य कोऽपि परिणामो नाऽभवत् । अनेकास्वपि रात्रिषु हृदयरामस्य भयप्रदानपरम्परा प्राचलत् । परमेतावताऽपि मातुलं पराङ्मुखं कर्तुमपारयन्नसौ पृष्टवान् – “मातुल ! रात्रौ सघने कानने गत्वा त्वं किमनुतिष्ठसि कथय ?” तेनोक्तं – “तत्रैक आमलकीद्रुमः, तदीये तले समुपविश्य मया ध्यानं क्रियते ! शास्त्रेषूक्तं यत् धात्रीतरुतले समुपविश्य ध्यानविधानेन सर्वेऽपि कामाः सिध्यन्ति ।“

एकदा निशायामन्यस्यां भूतप्रेतानामावासे ‘कबरडाँगा’ कानने प्रविष्टं श्रीरामकृष्णदेवं हृदयरामो दूरादेवाऽपश्यत् – मातुलो नग्नो भूत्वा ध्यानमग्नोऽस्ति । असौ व्यचारयत् – किं मातुलस्योन्मादो जातो यदयं न उपविष्टः ? किमिवाश्चर्याधायकमिदम् | साहसेन समीपमुपस्थायापश्यत् – मातुलो यज्ञोपवीतमपि परित्यक्तवानस्ति । तदानीमुच्चैःस्वरेण “मातुल, अये मातुल” इत्युद्घोषणात् तदीयध्यानभङ्गे जाते हृदयरामेण पृष्टः – “किं करोषि यज्ञोपवीतं वस्त्रं चावतार्य नग्नः किं तिष्ठसि” ? शून्यया दृष्ट्या हृदयरामस्याभिमुखमवलोक्य स प्रत्युवाच – “हृदु त्वं न जानासि, एवमेव पाशमुक्तेन सता ध्यानं क्रियते, लज्जा-घृणा-भय-जात्यभिमानादिकं सर्वमेव पाशस्वरूपम्, तन्मुक्तेन सता मातुर्ध्यानं कर्तव्यम् । अत एव सर्वमेतदवतारितम् । ध्यानान्ते प्रत्यागमनकाले पुनर्धारयिष्यामि” । निशम्यैतदुत्तरं हृदयरामः स्तम्भितोऽभवत् ।

जगन्मातुर्दर्शनाभिलाषव्याकुलत्वमुत्तरोत्तरं श्रीरामकृष्णहृदये प्रावर्धत । मातुः सेवासमर्चादिषु दीर्घः कालो मन्दिर एव व्यतिगच्छति । प्रारब्धा समर्चा न समाप्तिमेति । स्वरुच्यनुकूलमनेकप्रकारस्रक्चन्दनादिना मातरं भूषयति । देव्याः श्रीमदङ्गस्पर्शः कोमलः प्रतीयते । तदानीं तस्य सर्वाङ्गेषु रोमाञ्चो जायते । निश्चिनोति – मम माता पाषाणमयी नास्ति, सा तु चिन्मयी वर्तते ।

तन्मयत्वमवर्धत । माता विभूष्यते, बहुभिरुपचारैः सेव्यते, परन्तु तृप्तिर्न भवति । आरब्धमारत्रिकं न समाप्यते, बहुकालं प्रचलितमपि न विराममुपगच्छति, यत इयं भगवत्या आरतिः !

मथुरमहोदयः कनिष्ठभट्टाचार्यस्य पूजाभावमिममालोक्य विह्वलो मुग्धश्व बोभूयते । “किं प्रतिमाया एतादृक् समर्चनं सम्भवम् ?” इत्यसौ व्यचिन्तयत् । कियत्कालानन्तरमनेन राणी प्रोक्ता – “महत्सुकृतिफलस्वरूपमयमद्भुतः पूजकोऽधिगतः । यथासम्भवं त्वरितमेव देवी जागर्तिमाप्स्यति ।”

श्रीरामकृष्णस्यालौकिकं व्यवहारं दिव्यभावावेशं गम्भीराभिनिवेशं च दर्शं दर्शं लोकैरन्योन्यमुच्यते – “कनिष्ठभट्टाचार्यमस्तिष्कं विकृतमभवत् ।” कैश्चनैवमपि कथ्यते – “अस्य भूतावेशोऽभूत् ।” तस्य मनः प्राणाश्च जगन्मातुर्भावसमुद्रे न्यमज्जन् । तीव्रा व्याकुलता तन्मयता च शनैः शनैरेवं प्रववृधे, यत् तस्य यथाविधिपूजाविधानमसम्भवमिव जातम् । आहारेषूदासीनतया निद्रायां च विमुखतया तदीयं शरीरं क्रमशः क्षीणतां प्रपेदे । वक्षःस्थलं रक्तायमानं नेत्रे च सर्वदैव सजले प्रतीयेते । प्रतिक्षणमव्यक्ता अशान्तिः । अन्तर्दाहात् व्याकुलः सन् ‘मा मा’ इत्यार्तनादं करोति ।

कदा कदाचित् तीव्रया व्याकुलतया छिन्नद्रुम इवापतत् । भूतले बिलुठन् अङ्गानि परिवर्तयति । लोका उदरशूलं व्याहरन्ति । देवीमन्दिरे सन्ध्याया आरतौ मञ्जीरढक्काघण्टा निनदन्ति । तदानीमप्यसौ दिव्योन्मादे रोरुद्यमानो व्याकुलीभवति । “मातः, एकदिनं पुनरपि व्यत्यगात्, तव दर्शनं न लब्धम्, दिने दिने आयुः क्षीणं भवति । मातः ! तव दया नास्ति, इदानीमपि त्वया दर्शनं न दीयते ।” एतया रोदनव्याकुलतया शिलाऽपि द्रवति स्म ।

अबोधस्य शिशोः करुणं क्रन्दनमाकर्ण्य किं जननी निजक्रोडे तं नोत्थापयिष्यति ? कियत्कालमन्तर्हिता स्थास्यति ? आनन्दमयी चिन्मयी माता स्वीयशिशुसन्निधाने समुपस्थिता बालकं च क्रोडीकृतवती ।

प्रथम-दर्शनसम्बन्धे तेन कदाचिदुक्तमासीत् , “एकदाहं जगन्मातरं गीतिमश्रावयम् रुदन् प्रार्थयम् – ‘मातः ! त्वामाह्वयामि, किं त्वया न श्रूयते ? रामप्रसादाय दर्शनं दत्तम्, मह्यं न दास्यसि ?” मातुरदर्शनेन मम मानसेऽसह्यवेदना आसीत् । लोको यथाऽङ्गप्रोक्षणं निपीडयति तथा मम हृदयमपि केनापि निपीड्यते स्म । मातुर्दर्शनं कदापि न भविष्यतीत्यालाच्य वेदनयाऽहं व्याकुलत्वमन्वभवम् । चञ्चलचेतसा विचारितं – तर्हि जीवनेन किं प्रयोजनम् ? मातुर्मन्दिरे स्थापितं करवालं प्रति मम दृष्टिरपतत् । एतस्मिन्नेव क्षणे जीवनं समापयिष्यामीति विचार्य खड्गं ग्रहीतुमधावम् । तदानीमेव मातुर्दर्शनं लब्ध्वा बाह्यज्ञानशून्यः सन्नपतम् । तदनन्तरं बहिः किं भवति, केन प्रकारेण तद्दिनं द्वितीयदिनं च व्यत्यगादिति मया न ज्ञायते । किन्तु तदानीं मदीये हृदये प्रतिक्षणमननुभूतपूर्व एक आनन्दप्रवाहः प्रावहत् । मया च मातुः प्रकृष्टः प्रकाशः समन्वभूयत ।”

एतद्दर्शनप्रसङ्गे तेन कदाचिदुक्तम् – “द्वाराणि मन्दिरं च निखिलं लुप्तमासीत् । केवलमद्वितीयानन्तासीमचेतनज्योतिःसमुद्रव्यतिरिक्तं न किञ्चददृश्यत । यस्यां दिशि यावदुरं दृष्टिर्घावति, तत्र सर्वत्र सर्वास्वपि दिक्षु तस्यैव चैतन्यज्योतिःसमुद्रस्य समुज्ज्वलतरङ्गा नानारूपास्तीव्रवेगा भीषणं गर्जन्तो मां परितो वेष्टयन्ति । क्षणादहं समाच्छन्नो जातः । अहं च गभीरसागरे निमग्न इव संवृत्तः । चैतन्यसागरतरङ्गेषु निमज्जन् उन्मज्जन् बाह्यसंज्ञाशून्योऽपतम् ।” एतत् प्रथमदर्शनानन्तरं यदा तेन बाह्यचेतना समधिगता तदानीं करुणस्वरेण ‘मातः ! मातः !’ इति सम्बोध्यार्तनादो विहितः ।

पूवोक्तदर्शनोल्लाससमाप्तौ जगन्मातुरविच्छिन्नदर्शनार्थं तदीयमन्तःकरणं व्याकुलं बभूव । निरन्तरं मातुः परमानन्दप्रदप्रकाशे निलीनता तेन समीह्यते स्म । अबोध शिशुवत् मातुरं कवियोगमात्रेणैवासावरोदीत् । निर्निमेषनेत्राभ्यां सदैव मातरं द्रष्टुमकामयत । न तद्भिन्नं किञ्चिदन्यत् । मातुरदर्शनात् हृदयस्य शून्यता व्यथा चैवं प्रावर्धत यदेतां न निरोद्धुमपारयत् । वेदनया भूमौ विलुठन् मस्तकं च घर्षयन् रुरोद – “मातः, दर्शनं देहि, दर्शनं देहि ।” तदीयमद्भुतं दृश्यमिदं द्रष्टुं लोकानां सम्मर्दः समुपतिष्ठते स्म । असह्यव्याकुलतासमये ‘माता’ वराभयदा चिन्मयीरूपेण दर्शनं ददौ, कदापि विहस्यालापं चकार, बहुविधेन प्रकारेण प्रेम प्रदर्शयन्ती सान्त्वनां प्रददौ ।‘

❀ ❀ ❀


“धात्रीतले समाश्रित्य जपध्यानादिसाधनात् ।
    साधकस्य समस्तापि कामना सफला भवेत् ॥”