वेदमूर्ति-श्रीरामकृष्णः

जगन्मातुः पुत्रस्याचरणम्

श्रीजगन्मातुः प्रथमदर्शनानन्तरं बहूनि दिनानि यावत् मन्दिरसमर्चादिकार्यं श्रीरामकृष्णस्यासम्भवमभूत् । हृदयरामोऽन्यब्राह्मणद्वारा पूजासपर्याप्रभृतिविधेयानि समपादयत् । वायुरोगसन्देहमनुष्ठाय भूकैलासस्य राजवैद्येन मातुलस्य चिकित्सामकारयच्च । परन्तु अयं भावरोगः किं वैद्यकचिकित्सया व्यपगतो भवेत् ?

यस्मिन् दिवसे जागतिकबोधोऽजायत तस्मिन् दिने तेनैव पूजनमनुष्ठातुं गम्यते स्म । पूजापि तस्यात्यद्भूताभवत् । पूजायामुपविष्ट एव ध्यानावस्थितो निश्चलत्वमध्यगच्छत् । परवर्तिनि काले स्वकीयान् त्यागिशिष्यानयमवोचत् – “मातृमन्दिरप्रकोष्ठोपरि भागे ध्यानस्थ भैरवमूर्तिमवलोक्य ध्यानानुष्ठानकाले मया मनसि चिन्त्यते स्म ‘हे हृदय ! एवमेव निश्चलभावेन मातुः पादपद्मचिन्तनं त्वया समनुष्ठेयम् ।“ ध्यानमनुष्ठातुमुपविष्टेनैवमनुभूयते, शरीरस्था निखिला ग्रन्थयः खटखटाशब्दपुरस्सरं पादत उपरि भागे एकैकशोऽभ्यन्तरत एव स्तब्धा इवाजायन्त । ध्यानकाले ईषदपि शरीरसञ्चालनस्य आसनपरिवर्तनस्य वा सामर्थ्यं नाध्यगच्छम् । ध्यानस्थितेनानेके ज्योतिर्विन्दवोऽदृश्यन्त । कदापि पूञ्जीभूतानि ज्योतीषि चतुर्दिक्षु व्याप्तानि दृष्टानि । कदा कदाचिच्च द्रवीभूतरजतोज्ज्वलज्योतिषां तरङ्गै सर्वमपि समाच्छादितमदृश्यत । नेत्रयोरुन्मीलने निमीलने च दृश्यं तदवालोक्यत ।”

तदानीं कालत एव श्रीरामकृष्णदेवस्य समर्चासपर्यादीनि कमपि नवीनभावं दधुः । विधिनिषेधसीमानमतिक्रामन् भावोऽयं ==74=== सीमातिक्रान्तभावसमुद्राभिमुखं प्रतस्थे । तदानीं काले तेन पाषाणमयी प्रतिमा नावलोक्यते, प्रत्युत प्राणमयी जाग्रद्देवीमूर्तिरवलोक्यते । जगन्माता वदति, विहसति, इदमनुतिष्ठ, इदं नानुतिष्ठेत्यादिशत च ।

पूर्वं भोगनिवेदनकाले दृश्यते स्म यद् ‘देव्या नेत्राभ्यां देदीप्यमानोऽपूर्वः कश्चन ज्योतीरश्मिर्निर्गत्य भोगपदार्थं स्पृशति;’ परमधुना निरीक्ष्यते, ‘निवेदिते भोगे, भोगनिवेदनात्पूर्वं वा देवी स्वीयाङ्गज्योतिषा मन्दिरं प्रकाशयन्ती भोक्तुमुपविशति ।‘ एकस्मिन् दिवसे हृदयरामो व्यलोकयत् – “मातुलो हस्तेऽर्घ्यं गृहीत्वा तन्मयो ध्यानमग्नस्तिष्ठति । सहसैवासौ चीत्कुर्वन् अगादीत् – “तिष्ठ तिष्ठ, पूर्वं मन्त्रमुच्चारयामि ततो भोक्तव्यम् ।” कदाचिच्च पूजासमाप्तेः प्रागेव भोगो निवेदितः ।

श्रीरामकृष्णो यदा कदाऽवोचत् – “देव्या नासिकासमीपे हस्तमानयता मया दृष्टम्, माता सत्यमेव श्वासप्रश्वासौ प्रकुरुते । बहुवारं यत्नतो विलोकनेनापि रात्रौ मन्दिरदीपकज्योतिषि मातुर्दिव्याङ्गच्छाया कदापि न दृष्टा । स्वीये प्रकोष्ठे स्थितेन मया बहुधा श्रूयते स्म यत् देवी नूपुराणि धारयन्ती छम-छम शब्दं प्रकुर्वाणा बालिकेव आनन्देन मन्दिरोपरि गच्छति, शीघ्रमेव प्रकोष्ठाद् बहिर्निर्गत्यापश्यम् – देवी मन्दिरस्योपरि द्वितीयतले विकीर्णकेशा कदाचित् कलिकातां कदापि च भागीरथीं विलोकयति ।”

पूजाकाले श्रीरामकृष्णदेवः कदापि एवमकरोत् – अर्घ्यं परिकल्प्य पूर्वं स स्वीयं मस्तकं वक्षःस्थलं पादौ च स्पृष्ट्वा तदर्घ्यजलं जगन्मातुः पादपद्म समर्पयामास । किमिदं सर्वत्र दिव्यदर्शनं वा ? उताहो देव्या सह स्वकीयोऽभेदभावावबोधो वा ? किं वा स्वस्याभ्यन्तरे ओतप्रोतरूपदेवीप्रकाशानुभवो वेति ?

कदाप्यसौ सिंहासनमारुह्य मातरं भोजयति “भुङ्क्ष्व, मातः भुङ्क्ष्व, पर्याप्तं भुङ्क्ष्व ।” ततश्च कदाचिदवोचत् “अपि अहं खादेयम् ? भवतु खादामि” इदमुच्चारयन् किञ्चित् खादित्वा अवशिष्टं मातुर्मुखे समर्पयति ।

नतः प्रभृति प्रतिक्षणमेव जगन्माता तेनैव सह स्थित्वा तदीयां सम्पूर्णचेतनां व्याप्नुवाना समतिष्ठत । मात्रा साकं वार्तालापः कौतुकपरिहासः, मानाभिमानं सर्वमपि बोभूयते स्म । क्रमशः कनिष्ठभट्टाचार्यस्य क्रियाकलापोपरि कालीमन्दिर कार्यकर्तृणां दृष्टिरपतत् – पूजानाम्ना ईदृशमवैधं कर्म ! भट्टाचार्यस्य मस्तिष्कं नूनं विकृतमास्ते । एतादृशेन अनाचारेण महतोऽकल्याणस्य सम्भावना । सर्वे चिन्ताग्रस्ता बभूवुः । निखिलं वृत्तान्तमिमं विशदरूपतो विलिख्य जानबाजारे मथुरमहोदयसन्निधौ मन्दिरकार्यकर्तारः प्रेषितवन्तः । तेन प्रत्युत्तरितम् – “अहं स्वयमागत्य तस्य यथावद् व्यवस्थापनं विधात्यामि” इति ।

सूचनामदत्त्वैवैकस्मिन् दिवसे मथुरमहोदयो मन्दिरे समुपतस्थे । मन्दिरे क आयाति याति वेत्यत्र भावविह्वलस्य पूजकस्य किमपि ध्यानं नास्ति । स तु मातरमवलोक्य प्रमोदमग्नः समतिष्ठत । कदापि च श्रीरामकृष्णः पूजामनुतिष्ठन् व्याकुलो भूत्वा रुरोद, कदाचिद् आनन्दोल्लासनश्चीत्कुरुते स्म । प्रियबालकवत् मात्रा साकमालापं कदापि मानं च विधत्ते स्म । मन्दिरे देवीप्रकाशो व्याप्नोति । पश्यतो मथुरमहोदयस्य शरीरं रोमाञ्चितमभूत्, स च स्तब्धोऽभवत् । “एतादृशं भाग्यम् ! किं पश्यामि ! मम मानवजन्म सार्थकमभवत् ।” स पुलकितः सन्नचिन्तयत् । सजले नयने न सम्यक् पश्यतः । नेत्राश्रूणि प्रोञ्छन् यथागतस्तथैव मन्दिराद् विनिर्गत्य जानबाजारं निववृते । “देवीप्रतिष्ठा सार्थिका जाता । एतावद्दिवसानन्तरं वस्तुतो जगज्जननी प्रतिमायां समाविरस्ति । इयमेव मातुर्वास्तविकी पूजा !” मधुरमहोदयो विचारे निमग्नः । द्वितीये दिने मन्दिरप्रधानकर्मचारिणा आदेशपत्रमधिगतम् – “भट्टाचार्यमहाशयो येन केनापि प्रकारेण पूजां विदधीत, न तत्र बाधा विधेया ।”

तदा प्रभृति श्रीरामकृष्णं प्रति मधुरमहोदयस्याकर्षणं गम्भीरश्रद्धास्वरूपं जगृहे । क्रमशस्तद्विषयकविविधपरिचयमधिगत्य विद्वान् अनुभवी मन्दिराधिपतिमथुरमहोदयो जीवनस्यान्तिमसमयं यावत् तदीयान्तरङ्गसेवको बभूव ।

❀ ❀ ❀

जगन्मातृविषयकः श्रीठाकुररामकृष्णस्य गम्भीराभिनिवेशः, भावावेशः, आनन्दविलासश्च क्रमश एतावान् प्रवृद्धो यत् तद्द्वारा नियमितपूजानुष्ठानादिकमसम्भवमभूत्, कदापि च तेन पूजामन्तरेणैव नैवेद्यं न्यवेदयत्, कदाचिच्च स पूजासनमुपविश्य पुष्पचन्दनादिना त्वात्मपूजामकार्षीत् । कदापि च क्षणार्धकृते मातुरदर्शनेन विच्छेदेन च महतीमस्थिरतामुपातिष्ठत् ‘मातः मातः’ इत्युदीरयन् भूमावलुण्ठत् । शरीरं सम्पूर्णमेव रक्ताक्तमजायत । मातुरदर्शनेन श्वासावरोधो भूत्वा हृदयमकम्पत, अनले जले वा पतति इति न परिज्ञायते स्म । समस्तेऽपि देहे भीषणज्वाला समवर्धत । विरहाग्निसन्तापेन तदीयानि सर्वाण्यङ्गानि प्राज्वलन् । अनेकहोरापर्यन्तं गङ्गाजलनिमग्नतयापि विरहज्वाला नैवोपशमं गच्छति ।

हृदयरामेणायुर्वेदिकं तैलं मर्दितम्, औषधानि सेवनार्थं प्रदत्तानि किन्तु तस्य सत्परिणामो न जातः । मासषट्कं यावत् एषासहनीया शरीरज्वाला प्रचलति । सहसा विचित्रोपायेनैकेन सा ज्वाला कञ्चित्कालं शान्तिमापद्यत परवर्तिनि काले अवोचदेकस्मिन् दिवसेऽसौ – “कदाचिदहं पञ्चवटीवने समुपविष्ट आसम्, अपश्यम् एको भयङ्करः कृष्णः पुरुषो मम शरीरात् निर्गत्य पतन् लुण्ठन् रक्तनयनः मत्त इव पुरतोऽभ्राम्यत् । द्वितीये क्षणे अद्राक्षम् मद्देहनिर्गतः एकः शान्तो गैरिकवत्रधारी पुरुषस्त्रिशूलं करे गृह्णन् तं भयावहं कृष्णपुरुषं स्वहस्तस्थत्रिशूलेनामारयत् । ततः प्रभृति कष्टदायकः असहनीयः शरीरदाहः क्षीणतामापद्यत । ततः पूर्वमसहनीया ज्वाला षण्मासपर्यन्तमत्यन्तक्लेशमदात् ।” परमुन्मादभावस्य ह्रासो नाभूत्, भावावेशः क्रमशो ववृधे । तदानीमंशतो गात्र दाहस्योपशमो जातः ।

अकस्मादेवैकदा तद्दिव्योन्मादस्यास्वाभाविकव्यवहारेण मन्दिरे महान् कोलाहलः संवृत्तः । अतीव विपरीता घटना घटिता । राणी देव्या दर्शनार्थमागताऽऽसीत् । गङ्गास्नानं विधाय मन्दिरमागत्य श्रीमूर्तिपुरतः समर्चनमनुष्ठातुमुपविष्टा । राणीमाता कनिष्ठपुरोहितमधुरकण्ठविनिर्गतं मातृनामगानं श्रोतुमभिलषति स्म । गानश्रवणकले कर्णेषु सुधावर्षणमिवान्वभूयत । पूजां कुर्वाणया तया मातुः स्तवनगानकृते कनिष्ठभट्टाचार्योऽनुरुद्धः । श्रीठाकुरोऽपि राणीमातुः समीपमुपविश्य भावाविष्टो रामप्रसादकमलाकान्तप्रभृतिभक्तसाधकविरचितं गानमगायत् । राणीमातुर्हृदयं भक्तिरसाप्लुतमभूत् । परन्तु सहसैवाज्ञानतः राणीमानसे अभियोगचिन्तैका प्रादुरभूत् । सा तु तदभियोगफलाफलचिन्तायां न्यमज्जत् । श्रीठाकुरस्य गानं सहसा निरुद्धमभवत् । असन्तुष्टोऽसौ रूक्षस्वरेणोवाच – “अत्रापि सैव चिन्ता” ? इत्युक्त्वा तेन राणी चपेटिकया ताडिता ।

एकः साधारणपूजको राज्ञै चपेटिकां दत्तवान् । मन्दिरे कोलाहलः संवृत्तः । मन्दिररक्षकसेवको भट्टाचार्यं श्रीठाकुरं निग्रहीतुमाक्रामत् । केचित् कुवाच्यमवादिषुः । केऽपि च हन्तुमुद्यताः । परन्तु असौ भावाविष्ट आसीत् । तस्य मुखे च मृदुमन्दहास्यं व्यराजत । अनेन मथुरमहोदयचेतसि सुमहानाघातो जातः । परन्तु राणीमाता प्रत्युवाच – “कनिष्ठपुरोहिताभ्यन्तरप्रविष्टा देव्येव मामशिक्षयत्” । एतावता मधुरमहोदयो न सन्तुतोष | विचारशीलत्वादसौ व्यचिन्तयत् – देव्या आवेशः कनिष्ठपुरोधसोऽभ्यन्तरे जायते इति सत्यम् ; परन्तु वायुप्रकोपोऽपि वर्धमानः सम्भवति, तस्य चिकित्सा कर्तव्या । प्रसिद्धकविराजगङ्गाप्रसादसेनचिकित्सायां श्रीठाकुरः स्थापितः । परन्तु ततः कालात् कनिष्ठपुरोधसं प्रति राणीदेव्याः श्रद्धाभावः प्रववृधे । अन्तर्यामी पुरुषोऽयमिति भावो राणीमनसि स्थानमगृह्णात् ।

मथुर महोदयः केवलं चिकित्साप्रबन्धं विधाय न न्यवर्तत, प्रत्युत विविधयुक्तितर्कैः श्रीठाकुरं सावधानमप्यकार्षीत् यद् भगवद्भक्त्या एतावानतिरेको न साधीयान् । सर्वोऽपि विषयः सीमातिक्रान्तो न समीचीनः । उभयोरपि मध्ये एतादृशी समन्वयवार्ता प्रचचाल । तदानीन्तनीयया घटनयैकया मधुरमहोदयस्य नेत्रयोर्यवनिकाऽपसृतेव । कथाप्रसङ्गेनैकदा मथुर महोदयेन श्रीठाकुरः प्रत्युक्तः – “ईश्वरोऽपि स्वनियममनुसरति । तेन यो हि नियमो निर्धारितस्तं त्रोटयितुमीश्वरे शक्तिर्नास्ति ।” एतदाकर्ण्य श्रीठाकुरश्चकितोऽब्रवीत् –“किं जल्पसि, भगवान् स्वोयनिर्मितनियमं यदैव समीहते तद्वान्यथा कर्तुं शक्नोति, तत्स्थाने च नियममपरं निर्मातुं शक्नोति ।“ मथुर महोदयस्तद्वचनमनादृत्य तर्कमुपास्थापयत् – “रक्तपुष्पवृक्षे रक्तमेव कुसुमं जायते, तत्र श्वेतस्योत्पत्तिरसम्भवा । यतस्तेन नियमोऽयं निर्धारितः । यद्येवं तर्हि रक्तपुष्पवृक्षे श्वेतपुष्पमीश्वरः कथं नोत्पादयति” ? ठाकुरस्त्वरितमेवोदतरत् – “स्वाधीनोऽसौ, समीहामात्रेणैव सर्वमनुष्ठातुं प्रभवति ।” परन्तु मथुरमहोदयो न तद्वचसि विश्वासमकरोत् । द्वितीये दिवसे श्रीठाकुरः शौचार्थ बहिर्गच्छन्नभूत् । मार्गेऽपश्यत् एकस्य रक्तजपाकुसुमवृक्षस्यैकस्यां शाखायां द्वे पुष्पे विकसतः । तत्रैकं रक्तमपरं च श्वेतम् । दृष्ट्वैव तां शाखाम् उभयविधकुसुमसहितां भङ्त्वा मथुर महोदय समीपं प्रक्षिप्योवाच – “पश्येदम् ।” मथुरमहोदयश्चकितो भवन् उक्तवान् – “अस्तु महाशय, अहमेव पराजितः ।”

एतावतापि मथुरमहोदयः श्रीठाकुरं स्वच्छेन मनसा नाङ्गीकृतवान्, उपायान्तरेणापि तं परीक्षितुमचेष्टत ।

“श्रीरामकृष्णस्य निद्राराहित्यं भावाभिनिवेशाधिक्यं च द्वयमिदं कठोरस्येन्द्रियनिग्रहस्य फलं भवितुमर्हति । किञ्चित् खण्डिते ब्रह्मचर्ये भावोऽयं शैथिल्यमाप्स्यति व्यवहारे च समतास्थापनं भविष्यति ।“ इति मथुरमहाशयेन मनसि आलोचितम् । केषाञ्चचनापि परिज्ञानमन्तरेणैव नगराद् द्वे परमसुन्दर्यौ समानीय रहः श्रीठाकुरस्य प्रकोष्ठे प्रवेशिते । वाराङ्गनारूपेण इमे तेन न दृष्टे । “स्त्रियः समस्ताः सकला जगत्सु” इति बुद्ध्या द्वयोरभ्यन्तरे भवतारिणी जगदम्बैव विलोकिता । स तु मातः ! मातः ! इत्युक्त्वा समाविस्थो जातः । द्वे अपि ते लज्जिते अधोमुख्यौ विनिर्गते । नैतेन किमप्यभवत्, किञ्चिद्दिनानन्तरं मथुरमहाशयः श्रीरामकृष्णं मछुयाबाजारस्यैकस्यां वीथ्यां सुन्दरीणां विलासिनीनां मध्ये समानयत् स्वयं च तस्मात्स्थानादपससार । श्रीठाकुरो विलासिनीर्विलोक्यैव मातुः स्तुतिं कर्तुं प्रवृत्तः । बाह्यचेतना व्यलुप्यत । शिशुरिव मग्नोऽभवत् । स्त्रियः अवाचो बभूवुः । किमेतादृगपि सम्भवति, कोऽयं महापुरुषः ? ता आत्मानं धिक्कुर्वाणा अपराधिन्य इव तच्चरणयोर्निपेतुः । परन्तु तदानीं कालेऽप्यसौ समाधिस्थ एवासीत् । यदा मथुरमहोदय एतां वाराङ्गनाघटनामाकर्णितवान् तदा सोऽतीवाश्चर्यचकितः बभूव । परं तेन श्रीठाकुरस्य परीक्षा न परित्यक्ता । एवं किल मथुरमहोदयेन बहुभिः प्रकारैः श्रीठाकुरः परीक्षितः ।

❀ ❀ ❀

श्रीठाकुरद्वारा नियमितसेवापूजनादि न सम्भवमिति श्रीमथुरमहाशयो निर्णिनाय । तत्प्रबन्धोऽपि तेन सम्पादितः, तदानीमेव काले श्रीठाकुरस्य पितृव्यपुत्रो रामतारकचट्टोपाध्यायो जीविकामन्विष्यन् दक्षिणेश्वरमाययौ । तदीयं हलधारीति व्यावहारिकं नाम । श्रीठाकुरो यावत् स्वास्थ्यं न लभते तावत्कालपर्यन्तं मथुर महोदयस्तमेव देव्याः पूजकं न्ययुनक् ।

हलधारी सुपण्डितो निष्ठावान् विष्णुभक्तश्चासीत्, वृत्तिकर्शितो देवीपूजाव्रतमङ्गीचकार । किञ्चिद्दिनानन्तरं बलिदानप्रथा निरोद्धुं तेन प्रस्तावः कृतः । बलिदानप्रथा बहोः कालात् प्रचलिता आसीत् । एकस्य पूजकस्य कथनेन सा कथं निरोद्धुं शक्यते ? बलिदानं न निरुद्धम् । अतः कारणात् हलधारी दुःखितेन चेतसा पूजनमकार्षीत् । सम्भवत एकमासानन्तरं हलधारी मन्दिरे सन्ध्यावन्दनं कुर्वन् कर्कशशब्दपूर्वकं देव्या आज्ञापनमशृणोत् – ‘अद्य प्रभृति मम पूजा त्वया न कर्त्तव्या, यदि करिष्यते तर्हि सेवापराधेन तव पुत्रो मरिष्यति ।“ हलधारिणा तत्र ध्यानं न दत्तम् । विषयेऽत्र तेन स्वमनसो दुर्बलत्वमङ्गीकृतम् । परन्तु किञ्चिद्दिनानन्तरमेव तत्पुत्रो दिवङ्गत इति संवादो लब्धः । श्रीरामकृष्णपरामर्शमनुसृत्य तद्दिवसादसौ हलधारी देवीपूजां परित्यज्य गोविन्दपूजनमङ्गोचकार । हृदयरामश्च देव्याः पूजकपदे नियुक्तः ।

❀ ❀ ❀

श्रीरामकृष्णजीवने इदानीं प्रभृति सततबोधा, केवलानन्दरूपा निर्विकल्पावस्था प्रारब्धा । श्रीरामकृष्णो जगन्मात्रा विविधभावतः अनेकरूपतश्च निरन्तरमेव समाकीर्णमात्मानमपश्यत् । निरवकाशं मातृदर्शनम् ! अविच्छिन्नो मातृप्रकाशः ! मातृसाधना सिद्धिरूपेण परिणता, एतर्हि माता बहिरभ्यन्तरे सर्वत्रैव परिव्याप्नोति । स नेत्रयोरुन्मीलने निमीलने निर्निमेषदृष्टौ च नानारूपेषु मातुरेव दर्शनमकार्षीत् । कदाचित् मातुरभिन्नमात्मानमपश्यत् । तथापि मातरि शिशौ चास्त्येव भेदः । इदानीमसौ मातुः क्रोडस्य लघुतरः शिशुः । उत्तिष्ठन् उपविशन् चरन् विचरंश्च मातृमुखापेक्षी बभूव । इदानीं पूर्ववत् विरहजनितशिरोघर्षणादिकम् अङ्गानां चेतस्ततः क्षेपणं व्यपगतम् । सम्प्रति क्रमशो विलासो – मातृभावतश्च निरवच्छिन्ना चैकतानता । मातृविरहजनितो गात्रदाहो रूपान्तरितोऽभवत् दिव्यानन्दस्य परिपूर्णतायामुच्छलतायां च ।

त्रिकालेषु कालातीतसत्तायामपि “सर्वं खल्विदं ब्रह्म” इति वाक्यं नूतनरूपेण विकसितम् । मातैव सर्वं, समस्तापि चेतना मातृरूपा । यावत्प्रकाशः मातृस्वरूपः । कालातीत-सत्तायामपि सैव विराजते । सर्वत्रैव वस्तुषु प्राणिषु वाणीषु गुणेषु च सैव विराजते । न केवलं सत्त्वगुण एव तमस्यपि तस्या एव सत्ता । “तस्य भासा सर्वमिदं विभाति” – एतादृशी दिव्याऽनुभूतिस्तस्य जाता ।“

पुनः स्थूलदृष्ट्या मानवाः यां मूर्तिपूजां मन्यन्ते, सैव ज्ञानातीतपरमतत्त्वस्यैक उत्तमः स्तरः । तेन स्वजीवनादर्शे तस्यैव तत्त्वस्य प्रतिष्ठा कृता । अयमेव तदीयसमन्वयस्वरूपजीवन वेदस्य प्रथमो मन्त्र इवाभूत् ।

❀ ❀ ❀

युगधर्मसंस्थापनाय श्रीरामकृष्णो निरन्तरं द्वादशवर्षपर्यन्तं सातिशयकठोरां साधनामकरोत् । प्रथमं वर्षचतुष्टयस्य साधनकाले जगज्जनन्या मुखमवलोक्यैव एकाकी असौ साधनपथमन्वसरत् । अनन्तरं जगन्माता, मातृमुखापेक्षिणः शिशोः प्रसारितौ हस्तौ स्वयं गृहीत्वा स्वकीये कोडे तं स्थापितवती । साधनमार्गेऽत्र एकान्तनिष्ठा तीव्रतमा व्याकुलता चेति द्वयमेव तस्यैकमात्रं पाथेयमभूत् । व्याकुलतेयं कीदृशी गम्भीरा तीव्रतमा चासीदित्येतदाभासः श्रीठाकुरस्य स्वमुखतः वर्णनेनैव समुपलभ्यते – “शरीरानपेक्षितत्वान्मनसस्तदानीं मम शिरोरुहा प्रवर्धमाना धूलिधूसराः जटिलतां दधुः । ध्यानमनुष्ठातुमुपविष्टस्य मनस एकाग्रतया शरीरमेतादृक् स्थाणुत्वमापद्यते स्म यत् पक्षिणो जडवस्तु समवधार्य निःशङ्कं शिरसि समुपविश्य च जटासु चञ्चुपुटानि निक्षिप्य खाद्यवस्तून्यन्विष्टवन्तः । कदाचिश्च भगवतो विरहे व्याकुलो भूत्वा भूमौ विलुठ्य शिरोघर्षणेन रुधिरमपि निःसरति । एवं ध्यान-भजन-प्रार्थनादिभिः समस्तमपि दिनं कथं व्यतिगच्छतीत्यस्य परिज्ञानमेव नाभवत् । पुनश्च सायंकालीन मन्दिरशङ्खघण्टारवमाकर्ण्य दिनं समाप्तमिति बोधो जायते, जीवनस्यैकं दिनमिदमपि वृथा व्यपागच्छत्, मातुर्दशनं नाभवत् ! तदानीं तीव्रतरवेदनया मनसो व्याकुलत्वादहमवशो भूमौ निपतन् चीत्करोमि – ‘मातः, इदानीमपि दर्शनं न दीयते ।’ यातनया पौनःपुन्येन विलुण्ठन् रुदन्नभवम् । लोकाः कथयन्ति – “उदरे शूलमुत्पन्नमिति रोदिति ।”

परवर्तिनि काले बालभक्तानुद्दिश्य सखेदं स प्रोक्तवान् – “मानवाः पत्नीपुत्रादिमरणेन सम्पदो नाशेन च अश्रूणि प्रवाहयन्ति, परन्तु परमेश्वरप्राप्तये तथा को रोदिति, कथय ? यदि कोऽपि कथयेत् – ‘मया एतावानार्तनादः कृतः, एतावती प्रार्थना विहिता, परं तेन दर्शनं न दत्तम् ।’ भगवन्तमुद्दिश्य व्याकुलो भवन् एकवारं रुदिहि, तदानीं पश्य यदसौ कथं दर्शनं न ददाति ।” आन्तरिकतोद्भूतं वचनमेतादृशं श्रोतृहृदयमस्पृशत् ।

एषु द्वादशसु वर्षेषु तथा परवर्तिनि जीवनेऽपि श्रीठाकुररामकृष्णेन कति नवीना अनुभूतयो, नूतनानि दर्शनानि च सुविहितानि ! एतद्विषये संसारः किं जानाति ? तस्या अनन्तासीमानुभूत्याः सम्बन्धे तेन कदाचित् प्रोक्तम् – “अत्रत्योपलब्धिर्वेदवेदान्तमलङ्घयत् ।” तस्य ‘अवाङ्मनसगोचर’-राज्यपरिज्ञानं यावदेव लब्धं, तत्प्रकाशस्थानमप्यत्र लघीयसि पुस्तके नास्ति । अतो अस्माभिर्विभिन्नसाधनदर्शनादिविषये साधारणतयैवात्र निर्देष्टुं शक्यते ।

श्रीरामकृष्णस्य साधनाक्रमो विभिन्नसाधनमार्गस्तरसूचको नास्ति । ‘सर्वेऽपि धर्माः भगवत्प्राप्तेः सन्मार्गभूताः’, एतत्सत्यस्य प्रदर्शनमेव तत्साधनाया मूलसूत्रं मर्मवाणी वा । अद्वैतभावतः सिद्धिं लब्ध्वाऽपि तेन एकेश्वरवादमूलक इस्लामधर्मः संसाधित आसीत् ।

विभिन्नधर्मेषु लघुत्वगुरुत्वयोर्हेयोपादेययोश्च यद्द्द्वन्द्वं सङ्कुचितो दृष्टिकोणो वा विद्यते श्रीरामकृष्णसाधनक्रमे तन्निराकृतिर्दृश्यते । तेन शर्करापर्वतस्य कथैका श्राविताऽऽसीत् – “शर्कराया एककणभक्षणेन यस्याः पिपीलिकाया उदरं पूर्यते सा किल शर्करायाः पर्वते कियती शर्करेति परिज्ञातुमभिलषति किम् ? शुकसनकादयः पिपीलिकोपमाः, श्रीपरमात्मा शर्करापर्वतसमानः ।”

सर्वसम्प्रदायसाधनासु सिद्धिं लभमानेन तेन परमं सत्यमिदमुपलब्धम् – “यावन्ति मतानि तावन्तो मार्गाः ।” प्रत्येकोऽपि धर्मः समुत्कृष्टशान्तिलाभस्यैकः पन्थाः । महामानवस्यैतस्य जीवने समधीता वेद-बाइबिल-पुराण-कुरान-त्रिपिटिक-जेन्दावस्ताप्रभृतयः सर्वेऽपि साम्प्रदायिकप्रन्थाः सन्देहवितर्कात्मके वर्तमानयुगेऽपि एकस्यां वेद्यां सहैव स्थानमधिगतवन्तः सन्ति ।

प्रथमचतुर्वर्षाणि यावद् बहुविधैर्भावैर्जगन्मातुर्दशने प्रतिष्ठिताऽपि श्रीरामकृष्णजीवनगतिस्तत्रैव नावरुद्धा परमनवच्छिन्नरूपा अनन्तभावसमुद्राभिमुखं वेगशालिनी सरिदिव प्रवहमाना बभूव । सम्प्रत्यसौ दासभावसाधनासमुद्रे न्यमज्जत् । श्रीरामचन्द्रदर्शनाय तेन रामदासस्य हनूमतः पूर्णो भावः स्वात्मन्यारोपितः ।

दास्यभावसाधनायाश्चरमाऽनुभूतिस्तदीया तत्कथनेनैव विज्ञायते – “तदानीमेकदाऽहं पञ्चवट्यामुदासीन उपविष्ट आसम् । तदाऽपश्यम् अतुलनीयैका ज्योतिर्मयी नारीमूर्ति कियद्दूरे आविर्भूय तत्स्थानं प्राकाशयत् । तन्मुखोपरिप्रेमदुःखकरुणासहिष्णुतापरिपूर्णमनुपमं लावण्यं नृत्यति । मूर्तिरसौ प्रसन्नदृष्टिः शनैः शनैरुत्तरतो दक्षिणस्यां दिशि ममाभिमुखमग्रे ससार । आश्चर्यचकितेन मया विचारितम् – केयम् ? सहसा कश्चिद्वानरः शब्दायमानोऽभिमुखं कूर्दित्वा तच्चरणयोरपवत् । ममाभ्यन्तरे केनचित्कथितमिव यत् “इयं जनकराजतनया राममयजीविता सीतादेवी” इति । मातर्मातरित्युच्चारयन् तस्याश्चरणयोः पतनेच्छया यावदहमुपसर्पामि तावन्मूर्तिरसौ मम शरीरे प्रविवेश । अहमानन्दाप्लुतश्चेतनाशन्यो जातः । ध्यानचिन्तनविधानमन्तरेणैव सहजरूपेण एतादृगदर्शनं प्रागितो न मया कदापि समुपलब्धम् ।”

❀ ❀ ❀


‘ठाकुर’ (ठक्कुर)-शब्दस्य ‘देवता’ ‘देवप्रतिमा’ वा इति वाच्यार्थः कोशेषु दृश्यते । वङ्गदेशे पूज्यब्राह्मणकृते ‘ठाकुर’ इति शब्दप्रयोगः क्रियते । दक्षिणेश्वरे भक्तसमागमानन्तरं श्रीरामकृष्णं तद्भक्तगणः ‘श्री ठाकुर’ शब्देनैव समबुध्यत । अतः वयमपि अस्मिन् ग्रन्थे श्रीरामकृष्णकृते ठाकुरशब्दस्य परमहंसदेव-शब्दस्य च प्रयोगं विधास्यामः ।
देवी माहात्म्यम् ११.६
छान्दोग्योपनिषद् (३.१४.१)
मुण्डकोपनिषद् (२.२.११)