वेदमूर्ति-श्रीरामकृष्णः

भैरवी ब्राह्मणी

श्रीरामकृष्णः कामारपुकुराद् दक्षिणेश्वरं समागतः । ततः किञ्चिद्दिनानन्तरं तात्कालिक रोगभोगं समाप्य राणी रासमणिः १८६१ वर्षीयफरवरी मासस्यैकोनविंश्यां तारिकायां रात्रौ परलोकं प्रस्थिता ।

श्रीठाकुरः कदाचित् प्रोवाच – “शरीरत्यागस्य कतिभ्यश्चन दिवसेभ्यः प्राक् राणी स्वकीये कालीघट्टस्थे आदि गङ्गातटभवने समागत्यातिष्ठत् । देहत्यागस्य किञ्चित्क्षणपूर्वं गङ्गातटं सा समानीता । तदानीं स्थानं तद् उज्ज्वलदीपमालाप्रकाशपरिपूर्णमासीत् । सहसैव सा निजगाद – ‘अपसारय, अपसारय, साम्प्रतं लौकिकप्रकाशो मह्यं न रोचते, सम्प्रति मम माता देवी समागता, तदङ्गप्रभाभिश्चतुर्दिक्षु प्रकाशः परिव्याप्नोति । कतिपयक्षणानन्तरं सोवाच – ‘इयं माता समायाता !’ इत्युक्त्वा कालीचरणाभिलाषिणी राणी रासमणिः शान्तिपुरस्सरं कालीचरणयोर्व्यलीयत ।

श्रीरामकृष्णस्य सर्वधर्मसमन्वयस्य साधनाया मन्दिरं निर्माय राणी युगधर्मसंस्थापने साहाय्यमकरोत् । एतद्विशिष्ट कार्यसम्पादनार्थमेव जगन्मात्रा सम्भवतः स्वकीयासु अष्टासु सहचरीषु एका राणीरासमणिरूपेण नियोजिता । यदा च राणी शिव-काली-विष्णु मन्दिराणि स्थान एकस्मिन्नेव निर्माय स्थापितवती तदानीं तादृशाभिन्नभावसंयुक्तं तद्भिन्नमेकमपि देवायतनं न विलोक्यते स्म । ईश्वरीयशक्तेरद्दश्यसङ्केतेन तस्या हृदये प्रेरणैतादृशी समभवत् । एतदस्माभिरेतावत् कालानन्तरं युगधर्मस्य प्रयोजनं प्रभावं च विलोक्य अनायासेनैवावधारयितुं शक्यते ।

राणी रासमणौ स्वर्गं गतायां किञ्चिद्दिनानन्तरं दक्षिणेश्वरे काचनैका योगेश्वरी भैरवी ब्राह्मणी समायाता । सैव सर्वप्रथमं श्रीरामकृष्णाभ्यन्तरे भावं, महाभावम्, ईश्वरावेशं प्रकाशं चावलोक्य तमवतारपुरुषमुद्घोषयत् । ततश्चानया विख्यातपण्डितसभायां शास्त्रवाक्यानि समुद्धृत्य तत्प्रमाणितं च ।

श्रीरामकृष्ण एकस्मिन् दिवसे गङ्गातटोद्यानतः पुष्पाण्यवाचिनोत्, मालां संग्रथ्य मातरं भूषयितुम् । तदैव तेन बकुलवृक्षघट्टे संलग्ना नौकेका विलोकिता । एका भैरवी तन्नौकातः समवतीर्य मन्दिराभिमुखमाययौ । केयं भैरवी, कथमत्र समागतेति तां दृष्ट्वैव श्रीरामकृष्णोऽवागच्छत् । त्वरितमेव स्वगृहमागत्य तामानेतुं हृदयरामः प्रोक्तः । आश्चर्यचकितो हृदयरामः प्रोक्तवान् – “भैरवीयमपरिचिता कथमाहूता समागमिष्यति ?” श्रीरामकृष्णो बालभावेन व्याजहार – “मम नामग्रहणपूर्वकमाहूता समागमिष्यति । एतदेव संवृत्तम् । हृदयरामस्तत्समीपं गत्वा मातुलस्य नामोच्चारणं कृतवान् । भैरवी किञ्चित अकथयित्वैव हृदयरामेण साकं श्रीरामकृष्णस्य गृहमायाता । तं विलोक्यैव आनन्दविस्मयान्विता सजलनयना निजगाद – “त्वमत्रासि पुत्र, गङ्गातीरे निवससीति ज्ञात्वा त्वामन्वेषयन्ती अभवम् । श्रीरामकृष्णेनोक्तं – “मां कथं जानासि मातः !” भैरवी सोल्लासमुक्तवती – “जगदम्बिकायाः कृपया मया सर्वं परिज्ञातम् ।”

बहोः कालस्य दर्शनानंतरं निजजननीसमीपे बालकवत् आनन्दप्रफुल्लितः श्रीरामकृष्णो भैरवीसमीपमुपविश्य स्वीयमलौकिकं दर्शनं भगवत्प्रसङ्गतो वाह्यज्ञानराहित्यम्, असह्यस्वशरीरज्वलनं चेत्यादिकं स्वकीयमान्तरिकं भावं सर्वं भैरव्यै न्यवेदयत् । भैरवी च शान्ता सविस्मयं सर्वमशृणोत् । श्रीरामकृष्णो व्याकुलो भवन् पप्रच्छ – “मातः ! मम किं जातम् ? किमहं सत्यमुन्मत्तोऽस्मि ? जीवनपर्यंतमन्तःकरणेन जगन्मातरमाराधयतो मम कश्चन कठिनो व्याधिरुत्पन्नः ?” ब्राह्मणी सांत्वयन्ती प्रत्युवाच – “त्वां क उन्मत्तं कथयति भोः, तव महाभावः समुदपद्यत । अत एवेमां दशां गतोऽसि । अयं भावो न केनाप्यवधारयितुं शक्यते । श्रीमत्या राधया दशेयमधिगता, श्रीचैतन्यदेवेनापि महाभावोऽयं लब्धोऽभवत् । भक्तिशास्त्रे सर्वमपीदं सुनिर्णीतम् ।”

हृदयरामो मौनमाश्रयन् सर्वमिदं शुश्राव, उभयोरपरिचितयोरेतादृशोऽन्तरङ्गमित्रवद् व्यवहारः ! दिवसो वर्धमान आसीत् । श्रीरामकृष्णेन फलं, मिष्टान्न, नवनीतं, सितोपलं, प्रसादः इत्यादि भक्षणाय भैरव्यै प्रदत्तम् । किन्तु सुतमभोजयित्वा माता किं भक्षयिष्यति ? अतस्तस्याग्रहेण श्रीरामकृष्णेनापि किञ्चिद् भक्षितम् ।

देव्या दर्शनं जलपानं च समनुष्ठाय ब्राह्मणी स्वेष्टदेवभोग आमान्नमादाय पञ्चवटीवनाभिमुखं प्रस्थिता ।

रसवती (रसोई) सम्पन्ना । भैरवी ब्राह्मणी स्वकण्ठाद् रघुवीरशिलामवतार्य, तदर्थं भोगं विनिवेद्य ध्यानस्थाऽभवत् । स्वेष्टदेवदर्शनमवाप्य क्रमशः सा समाधेरतलतले निमग्ना ।

उभयोः कपोलयोरानन्दाश्रूणि प्रावहन् । ततश्च भावाविष्टः श्रीरामकृष्णः पञ्चवट्यामागत्य रघुवीरनिवेदितभोगमभक्षयत् । ततः क्षणानन्तरं सहजावस्थां प्राप्य ब्राह्मणी दृश्यमेतद् विलोक्य प्रमोदविह्वला बभूव । ध्याने यदेव विलोकितं, चक्षुषी उन्मील्यापि तदेव दृष्टम् । तदीय इष्टदेवा भगवान् श्रीरघुवीरो रामकृष्णस्वरूपमासाद्य पूजामगृहात् । इतो भावावस्थाताऽवतीर्यं श्रीरामकृष्णः स्वकृतकर्मणा क्षुब्धः सन्निव प्रत्यवदत् – “मया आत्मविस्मरणपूर्वकं कथमेवं क्रियत इति न ज्ञायते ।“

इष्टदेवदर्शनपुलकिताङ्गी भैरवी न्यगादीत् – “साधु समनुष्ठितम्, इदं तु त्वया न सम्पादितम्, तवाभ्यन्तरे यो विराजते तेनैव कृतमिदम् । ध्याने मया यद् दृष्टं तदेव चक्षुषोरुन्मीलनेऽपि विलोकितम, मम पूजा सार्थकत्वमाप्ता । नास्ति बहिः पूजायाः सम्प्रति प्रयोजनम् ।” इत्युक्त्वा महता भक्तिभावेन ब्राह्मणी प्रसादं खादितुं प्रवृत्ता ।

ब्राह्मणी सा जीवन्तं रघुवीरमध्यगच्छत् । इष्टदेव प्रत्यक्षदर्शनेन पूजाध्यानयोर्विलयो जातः । प्रेम्णा रोमाञ्चिता ब्राह्मणी दीर्घकालसमर्चितां स्वीयां रघुवीरशिलां गङ्गागर्भे विससर्ज ।

प्रथमदिनेऽपि रामकृष्णाभ्यन्तरे दर्शनं रामचन्द्रस्यासाद्य भैरव्या निश्चितधारणाऽभवत् यदयं साधारणः साधकः सिद्धपुरुषो वा नास्ति ! स्वयं भगवानेवायम् । श्रीरामकृष्णस्य दिव्यमलौकिकं दर्शनमनुभूतिं च शास्त्रेभ्यो मेलयित्वा श्रीरामकृष्णोऽयमवतार विशेष इति तया निर्णीतम् । वार्तामिमामुच्चैः सर्वानप्यश्रावयत् । मथुरमहोदयः, अन्ये च बहवो मानवाः साश्चर्यं श्रुतवन्तः । कालीमन्दिरे कोलाहलो जातः ।

अनेन क्रमेण षट्सप्त वा दिनानि व्यतीतानि । ब्राह्मणी पञ्चवटीवने तस्थौ । दूरदर्शी श्रीरामकृष्णो निरचिनोत् – ब्राह्मण्या अत्रावस्थानं न शोभनम्, सांसारिका मनुतनुजनुषः स्वकीयान्तःकरणेषु विचित्रमेवावधारयन्ति । तस्या घनिष्ठतामेतां लौकिका कया दृशा द्रक्ष्यन्तीति को जानीयात् ? विज्ञापितैव ब्राह्मणी सर्वमवबुध्य कालीमन्दिरं त्यक्त्वा तस्यैव दक्षिणेश्वरग्रामस्य निकटवर्तिनि गङ्गातटदेवमण्डलघट्टे गता ।

ब्राह्मणी दूरं जगाम, किन्तु तदीयं मनः प्रतिक्षणं श्रीरामकृष्णोपरि संलग्नमासीत् । तं ब्रह्मगोपालं रामकृष्णं द्रष्टुं किमपि भोजयितुं च प्रतिदिनमसौ कालीमन्दिरमायाति । भिक्षाचर्यायां यत् किमपि लभ्यते तद् गोपालं भक्षयितुमियमागच्छति । अनेके ईश्वरीयप्रसङ्गा अभूवन्, बहुशो भावावेशाः श्रीरामकृष्णस्य समपद्यन्त । आनन्देन कञ्चित्कालं यापयित्वा ब्राह्मणी पुनः स्वस्थानं परावर्तते ।

एकस्मिन् दिवसे मथुरमहोदयेन सह पञ्चवट्यामुपविष्टो वार्तालापं च कुर्वन् श्रीरामकृष्णः सहसा प्रोवाच – भैरवी कथयति यदवतारस्य सर्वाणि लक्षणानि मम शरीरे सन्ति, सा बहूनां शास्त्राणां मर्मज्ञा । अभिमानशून्यतायाः, सरलतायाश्च प्रतिमूर्तेरस्य वचनमाकर्ण्य मथुरमहोदयेन भणितम् – “सा किमपि कथयेत्, परमवतारा दशैव न ततोऽधिकाः । अतस्तत्कथनं कथं सत्यं भवेत् । आम्, भवदुपरि काली मातुः कृपा वर्तते इति वार्ता नासत्या ।”

एतादृशे वार्तालापे प्रचलित एव ब्राह्मणी नन्दपत्न्याः (यशोदायाः) आवेशतस्तन्मयी भूता एकस्यां स्थाल्यां मिष्टान्नमादाय पञ्चवटीमुपतस्थौ । समागतैव सा विपरीतभावं मनुष्यमेकमवलोक्य नैजमात्मानं निरुन्धाना मिष्टान्नस्थालीं हृदयरामाय प्रादात् । विलोकितैव ब्राह्मणी श्रीरामकृष्णेन प्रोक्ता – “मातः ! त्वमत्रत्यं वृत्तं यत् किमपि कथयसि, तत् सर्वमेव मया एतस्मै प्रोक्तम्, अयं वदति अवतारा दशैव, न ततोऽधिकाः ।”

मथुरमहोदयस्याभिमुखं निरीक्षमाणा भैरवी जगाद – “कथम् ? श्रीमद्भागवते चतुर्विंशतेरवताराणां चर्चां कुर्वता भगवता वेदव्यासेन विष्णोरसङ्ख्येया अवतारा निर्णीताः (अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्यथा – भागवते) । वैष्णवशास्त्रे च महाप्रभोः पुनरागमनवृत्तान्तस्य सुस्पष्टं समुल्लेखः।” ब्राह्मणीवचनस्योत्तरं दातुमसमर्थो मथुरानाथमहाशयस्तूष्णीं तस्थौ ।

कतिभ्यश्चन मासेभ्यः श्रीरामकृष्णस्य गात्रे पुनरप्यसहनीयो दाहः समुदभूत् । बहुहोरापर्यन्तं गङ्गाजले शरीरे पातितेऽपि, आकृतेन वस्त्रखण्डेन शिरसि वेष्टितेऽपि शरीरज्वाला कथमपि न शान्तिमायाति, वैद्यकचिकित्सयापि न शान्तिरधिगता । समाकर्ण्यैतत्सर्वं ब्राह्मणी प्रत्युवाच – “अयमामयो नास्ति, भगद्दर्शनजन्यतीव्रव्याकुलता शरीरे वर्तते । श्रीकृष्णस्य विरहे श्रीमत्या राधिकाया अप्येषैव दशा सम्बभूव । महाप्रभुचैतन्यदेवस्यापि जीवने एतादृशी अवस्था समागता । इमां ज्वालां शमयितुमपूर्वमौषधं वर्तते । सर्वाङ्गेषु सुगन्धितचन्दनस्य लेपं कृत्वा, सुरभितानां कुसुमानां मालाधारणेन दाहोऽयं शान्तिमेष्यति ।”

विधानमिदमाकर्ण्य मथुर महोदयप्रभृतयः सर्वेऽपि जहसुर्येन विधानं तन्न कार्यरूपेण पर्यणमत् । ततश्च ब्राह्मण्या विशेषाग्रहेण श्रीरामकृष्णस्य शरीरं चन्दनचर्चितं पुष्पमालाविभूषितं च सम्पादितम् । दिनत्रयं कृतेनामुनोपचारेण असहनीया ज्वाला पूर्णतया शान्तिं प्रापत् । सर्वेऽपि विस्मयं ययुः । एतेन भैरवीविश्वासो दाढ्यमुपगतः । श्रीरामकृष्णशरीरे को निवसतीति सा स्वमनस्यवधारयति । बलपूर्वकमुक्तवती यदयं मानवशरीरे साक्षात् भगवानेव ।

ततश्च किञ्चिद्दिनानन्तरं श्रीरामकृष्णस्य शरीर एको नूतन उत्कट उपसर्गो दृष्टिगोचरीबभूव। भीमवत् तस्यापि सर्वप्रासिनी बुभुक्षा समबर्धत । अयमपि रोगो भैरव्या चिकित्सितः । ‘योगजेयं क्षुधा’ इति शास्त्रे विलोक्य तदुपशमश्च तथा विहितः । श्रीरामकृष्णः कदाचित् प्रोवाच – “तदानीमेकप्रकारविकटक्षुधाया उद्रेकोऽभूत् । बहुना कृतेन भोजनेनापि उदरं न पूर्यते स्म । भोजनं कृत्वा यदैवोत्तिष्ठामि तदैव पुनर्भोजनं कर्त्तुं समीहा जागर्ति । अहोरात्रं भोजनस्यैव समीहाऽभवत् । ‘मम विचित्रोऽयं रोग’ इति ब्राह्मणीमभ्यधाम् । तयोत्तरितम् – ‘भयस्य वार्ता नास्ति । भगवतः पथि प्रवृत्तस्य यदा कदा दशेयमायाति, एतद्वस्थावर्णनं शास्त्रेषूपलभ्यते । अहमधुनैव रोगमिममुपशमयामि ।‘ मथुरमहाशयद्वारा गृहाभ्यन्तरे भर्जनमारभ्य शष्कुली-रसगुल्ला-सन्देशप्रभृतीनि सर्वाण्यपि खाद्यवस्तूनि संस्थाप्य ब्राह्मण्या श्रीरामकृष्णः प्रोक्तः – ‘भगवन्, गृहेऽत्र त्वया रात्रिन्दिनं स्थित्वा यथेच्छं वस्तु भोक्तव्यम् ।‘ गृहेऽहं प्रेषितो भ्राम्यन् खाद्यवस्तूनि पश्यन्, ताभ्यश्च खाद्यसामग्रीभ्यः किञ्चिदादाय अखादम् । एवमेव दिनत्रये व्यतीते सा विकटक्षुधा शान्तिमुपगता, अहं च सुरक्षितोऽभवम् ।”

आग्रहग्रहिला ब्राह्मणी अघोषयत् – “अवतारोऽयं श्रीरामकृष्णः । नेयं मम केवलं मौखिकी वाणी, शास्त्रेऽपि तस्य प्रमाणमुपलभ्यते । मया प्रमाणान्युपस्थापयिष्यन्ते । अधिकारिणं पुमान्समतिरिच्य महाभावोऽयं न कस्यचिदन्यपुरुषस्य भवति, भवितुमर्हति वा । यदि कस्मिंश्चन शक्तिरस्ति तर्हि मम वचनं खण्डनीयम् ।”

मथुरमहोदयमनस्यसामञ्जस्यभावः समुत्पन्नः, तेन विचारितम्, एतावद्दिनेभ्यो भैरवी यद् वक्ति, तस्य नूनं समाधानेन भवितव्यम् । वैष्णवचरणनामक एको महापण्डित उच्चकोटिसाधक आसीत् । स च मथुर महोदयेनामन्त्रितः । अन्ये चानेकभक्तसाधक पण्डिताः समाजग्मुः । कालीमन्दिरे सम्मेलनमभूत् । श्रीरामकृष्णस्य सम्बन्धे साम्प्रतं यावद् यत् किञ्चिदपि ब्राह्मण्या समाकर्णितमवलोकितं च तत्सर्वं शास्त्रप्रमाणानि समुद्धृत्य तथा प्रमाणितम् । विषयमिममाश्रित्य विद्वद्भिः समालोचना चक्रे । परन्तु यस्य विषये काण्डमिदमुत्थितम्, स किल भावाविष्टो निर्विकारचेता निर्लिप्तो बालक इवोपविष्ट आसीत् । आत्मदर्शनस्य रमणीयकान्त्या तदीयं मुखमण्डलं देदीप्यते स्म, पण्डितानां विचारस्यांते वैष्णवचरणेन प्रोक्तम् – “एतस्य शरीरे महाभावस्य लक्षणं सुस्पष्ट दरीदृश्यते । महाभावोऽयं साधरणे जने नोत्पद्यते । इदानीं यावदयं भावः भावमय्यां श्रीराधायां श्रीचैतन्यदेवे च समुदपद्यत ।” तदीयं वचनमाकर्ण्य निखिला अवाचो बभूवुः । परं श्रीरामकृष्णेन तु मथुरमहोदयः प्रोक्तः – “अये ! किमेते जल्पन्ति, रोगोऽयं न विद्यते ।” श्रुत्वैतत् प्रसन्नता जाता ।

कियद्दिनानन्तरं पुनरप्येका विराट् परिषदायोजिता । वैष्णवचरणः, विख्याततान्त्रिक साधको गौरीपण्डितः, अनेके चापरे विद्वांसः समुपतस्थिरे । बहुविधशास्त्रीयालोचना-तर्क-वितर्कानन्तरं समाहितये गौरी पण्डितेन श्रीरामकृष्णं संबोध्य दृप्तकण्ठेन प्रोक्तम् – ‘वैष्णवचरणो भवन्तमवतारं कथयति । वचनमिदमतीव साधारणम् । मन्मते तु प्रत्येकस्मिन् युगे ये ये परमेश्वरस्यांशैरवतीर्यं महापुरुषा अवतारशब्देन सुप्रसिद्धा लोककल्याणाय समवतरन्ति, यस्य शक्त्या तेऽवताराः स्वकीयं कार्यं सम्पादयन्ति, भवान् साक्षात् स एव ।” श्रीरामकृष्णः बाल इव विहस्य प्रोवाच – “भ्रातः ! त्वं तु ततोऽप्यग्रेऽगच्छः ! अस्मिन् किं त्वया दृष्टम्, कथय ।” गौरोपण्डितो व्याजहार – “शास्त्रप्रमाणेन स्वानुभवेन चाहं वच्मि । यदि मम वचनं कोऽपि खण्डयितुमुत्सुकस्तदासौ मया सार्धं शास्त्रार्थं करोतु | अहं स्वपक्षसमर्थनं कर्तुमुद्यतः ।”

भावाविष्टेन श्रीरामकृष्णेन व्याहृतम् – “युष्माभिर्न जाने किं किमुच्यते ? परन्तु किमेतदिति को जानीयात् ? अहं तु किमपि न वेद्भि ।” साम्प्रतिकं छद्मवेशेन भगवत आगमनम् !

❀ ❀ ❀