वेदमूर्ति-श्रीरामकृष्णः

तन्त्र साधना, चन्द्रमणि देवी, जटाधारी

जीवकोटिमनुष्याणां साधनं सिद्धिलाभाय । परम् ईश्वरकोटिर्नित्यसिद्धा । ईश्वरकोटौ पूर्व सिद्धिः, अनन्तरं साधनं सम्पाद्यते । लोकशिक्षणायैव तदनुष्ठीयते । तादृशीश्वरकोटिर्जन्मसिद्धा भवति । श्रीठाकुरः कथयति स्म – “कुत्रापि फलं पूर्वं, ततश्च पुष्पमुत्पद्यते ।” श्रीरामकृष्णः समग्रामेव साधनां केवलं लोकसङ्ग्रहदृष्ट्यैव कृतवान् ।

एषु दिवसेषु स्वकीयेऽन्तःकरणेऽन्वेषणेनैव श्रीठाकुरेण सर्वमप्यधिगतम् – सर्वत्रैवोतप्रोतभावेन जगन्मातुर्दर्शनम्, भावः, समाधिः, महाभावः, ज्ञानं, विज्ञानं चेत्यादि । ब्रह्म-विष्णु-शिव-दुर्गा-प्रभृतीनां सर्वदेवदेवीनां दर्शनं च क्रियते । केवलं मनोरूपगुरुसाहाय्येनैव तेन चरमं लक्ष्यं समासादितम् । शास्त्रानुमोदितसनातन साधनमार्गस्य सत्यतायाः प्रतिष्ठावशिष्टासीत् । सम्भवतः अस्मादेव कारणात् जगन्मातुरिङ्गितेन बहुशास्त्रपारदर्शिनी प्रवीणा साधिका योगमायांशसमुत्पन्ना योगेश्वरी ब्राह्मणी गुरूपेण दक्षिणेश्वरमायाता ।

ब्राह्मणी श्रीठाकुरमुवाच – “पुत्रक, त्वया यथाशास्त्रं तन्त्रमतस्य साधनां कारयिष्यामि ।” मन्दिरे विराजमानाया मातुरनुमतिमन्तरेण जगज्जननीशिशुरयं न किमपि कार्यमनुतिष्ठति । देवीमातुरादेशमवाप्य ब्राह्मण्या निर्देशमनुसृत्यासौ तन्त्रसाधनायां व्यलीयत । साधनस्य सर्वानप्युपचारान् भैरवी स्वयं सङ्गृह्णाति । पञ्चवटी-बिल्वमूले यथाविधि मुण्डासनं स्थापितमभूत् । साधनायामस्यां श्रीठाकुर एतावान् तन्मयोऽभूत्, यदस्य बहूनां मासानां दिवसरात्रिपरिज्ञानमेव न जातम् । दर्शनानन्तरं दर्शनानि, अनुभूत्यनन्तरमनुभूतयः, सिध्यनन्तरं सिद्धयश्च याः प्राप्यन्ते स्म, न तद्गणना कर्तुं शक्यते । एवमेव विष्णुक्रान्ताप्रचलितचतुःषष्टिसङ्ख्यकतन्त्राणां सर्वेष्वपि प्रयोगेषु तेन सिद्धिः समधिगता । सर्वमिदमवलोक्य भैरवी आश्चर्यचकिता बभूव । अधिकांशप्रयोगसाधनेषु केवलं दिनत्रयमेव प्रत्येकं श्रीठाकुरस्य व्यत्यगच्छत्, न ततोऽधिकम् । समस्ततान्त्रिक प्रयोगसाधनानन्तरं प्रमोदपुलकिताङ्गी भैरवी प्रावोचत् – “तात, इदानीं त्वं दिव्यभावे प्रतिष्ठितो जातः ।”

एतावदवधिपर्यन्तसमये द्विभुजाप्रभृतितो दशभुजापर्यन्तं बहूनां देवोमूर्तिसमूहानां कियत्सङ्ख्याकानां तेन दर्शनं कृतमिति न निश्चेतुं शक्यते । सर्वासां देवीनां कान्तिरनुपमा आसीत् । आगामिन्यो बहव्यो देवीमूर्तयस्तु तं विभिन्नभावानामुपदेशमप्यदुः । ठाकुरः कदाचित् प्रोक्तवान् – “षोडश्याः, त्रिपुरायाश्च श्रीविग्रहात् सौंदर्यं द्रुतं सत् चतुर्दिक्षु परिव्याप्तमिवाभवत् ।” तदानीं समये भैरवप्रभृतीनामनेकेषां देवविग्रहाणां दर्शनं तेनानुष्ठितम् । दिव्यशक्तिप्रभावतोऽसौ विज्ञातवानासीत् यत् किञ्चित्कालानन्तरं धर्मज्ञानमधिगन्तुं बहवो मनुष्यास्तत्सन्निधाने समागमिष्यन्ति इति ।

तांत्रिकसाधनानंतरं बहूनि वर्षाणि यावत् श्रीठाकुरस्य शरीरकान्तिर्दिनानुदिनं ज्योतिर्मयी सती ववृधे । येन तस्य देहो ज्योतिर्मयोऽभूत् । तस्मिन् यस्यैव दृष्टिः पतति, स एव विस्मयान्वितस्तदभिमुखं दरीदृश्यते स्म । साधारणे मानवदेहे नैतादृश्या द्युतेः सम्भावना । तदानीं तेन जगन्मातुरभ्यर्णे कातरस्वरेणाभ्यर्थना विहिता – “मातः ! ममैतेन बाह्यरूपेण किं सेत्स्यति । स्वकीयं रूपं त्वं गृहाण, ‘त्वदीयं वस्तु देवेशि ! तुभ्यमेव समर्पये’ । तन्त्रसाधनायां सिद्धौ समधिगतायां सर्वत्रैव प्राणिवर्गेऽसौ जगन्मातुर्दर्शनमकरोत् । सर्वत्र मातुरेव प्रकाशं रूपं चापश्यत् ।

❀ ❀ ❀

“या देवी सर्वभूतेषु मातृरूपेण संस्थिता” इति दुर्गाशप्तशत्यामभिहितम् । सर्वप्राणिषु यच्चिन्मयरूपेण व्याप्नोति तदेव मातृरूपेणापि विराजते । श्रीठाकुरस्य तन्त्रसाधनायां समाप्तिं गतायां तज्जन्मदात्री माता चन्द्रमणिर्दक्षिणेश्वरं (१८६५ ई०) समागताऽऽसीत् । श्रीठाकुरः प्रतिदिनं प्रातरुत्थायादौ तस्याश्चरणौ स्पृशति स्म, ततो मन्दिरमगच्छत् । ‘मातृदेवो भव’ चन्द्रमणिरपि देवी एव । श्रीठाकुरस्य मातृभक्तिरपि न साधारणी । मातुर्मनस्याघातो न स्यादितिहेतोर्गुप्तरीत्या तेन संन्यासो गृहीतः । स वृन्दावने न तस्थौ, यतो मातरं रुदतीं द्रष्टुं स न शशाक । अत्र श्रीरामकृष्ण आदर्शमानवरूपेण अस्माभिः प्राप्यते । सांसारिकदायित्वज्ञानेन सह स्नेहममत्वादीनां न तत्र स्वल्पाऽपि न्यूनताऽवलोक्यते । मोहातीतविज्ञानावस्थायामवस्थितस्यापि तस्य मातुमृत्युनाऽबाधरूपाऽश्रुधारा तत्कपोलौ प्लावयन्ती ददृशे । तेन शास्त्रानुसारं संन्यासो गृहीतः । अतः पितृकर्मणि तदधिकारो नास्ति । स किल गङ्गाजले प्रविष्टोऽश्रुजलमोचनरूपतर्पणेन पितृकार्यमपूरयत् । अत्र वयं श्रीरामकृष्णमादर्शपुत्ररूपेणावलोकयामः ।

चन्द्रमणिरादर्श महिलाऽविद्यत । जीवनपर्यन्तं देवद्विजार्त सेवापरायणाऽन्तिमे समये गङ्गायाः पुत्रगदाधरस्य च निकटे समागत्य न्यवसत् । प्रायशो द्वादश वर्षाणि गङ्गातटमुषित्वा सा (२७ फरवरी, १८७६ ई०) देवीलोकं प्रतस्थे ।

श्रीठाकुरस्य जननी सरलतायाः प्रतिमूर्तिरासीत् । विहाय श्रीभगवन्तं न तस्याः काचिच्चिन्ता, न वा सांसारिके वैभवे आकर्षणम् । मथुरमहोदयः श्रीठाकुरं ‘बाबा’ – पदेनावोचत् । श्रीठाकुरस्य जननीं दक्षिणेश्वरे समागतां ‘ठाकुरमा’ (पितामही) इत्यकथयत् । मथुरमहाशयः स्वबाबामहोदयाय (श्रीरामकृष्णाय) अद्यावधि न किमपि दातुमशक्नोत् । एकदाऽसौ सनियमं लिखित्वा तस्मै एकं जनपदभागं @@१०६@@ प्रदातुमैच्छत् । परन्तु श्रीठाकुरो लगुडं गृहीत्वा तमताडयत् । एतेन तन्मनसि खेदः संवृत्तः । एकदा ठाकुरमातृमहोदयामकथयत् – “यदि मां भवती परं न मन्यते तर्हि भवत्या किञ्चिद् यथेच्छं मत्तो याच्यताम् ।” बहुधा विचारानन्तरमपि वृद्धया कोऽप्यभावो नानुभूतः । सहसा स्मृतिरभूत्-तस्या दन्तमंजनं समाप्तमितिं । विहस्य तथा प्रोक्तम् – “इदानीं स्मृतम्, यदि किमपि प्रदातुमीहसे तर्हि एकाणकस्य दन्तमञ्जनमानय” । श्रुत्वेदं मथुरमहोदयस्य नयने सजले संवृत्ते । आवेगभरेण ठाकुरमातरं प्रणतवान्, अचिन्तयच्च ‘यद्येतादृशी माता न भवेत्, तदानीमेतादृशस्त्यागी पुत्रः कथमुत्पद्येत ?”

❀ ❀ ❀

शक्तितन्त्रोक्तनिखिलप्रयोगसिद्धिलाभानन्तरं श्रीठाकुरेण वैष्णवतन्त्रोक्त पञ्चप्रयोगसाधनव्रतं जगृहे । सम्भवतः १२७० हायने (१८६३ ई०) जटाधरी नाम कश्चन रामानुजमतावलम्बी साधुर्दक्षिणेश्वरं समाजगाम । तस्मात्साधो राममन्त्रदीक्षां गृहीत्वा श्रीठाकुरो वात्सल्यभावसाधनायां प्रवृत्तः । जटाधारिणः पार्श्वे अष्टधातुनिर्मिता वात्सल्यस्वरूपश्रीरामचन्द्रस्यैका प्रतिमा आसीत् । तन्नाम ‘रामलाल’ इति प्रसिद्धम् । किन्तु लोकोत्तर प्रेमभक्त्या तदुद्विग्रहं स्वकीयेष्टदेवस्य भावमयमूर्तिं मत्वा जटाधारी स्वसमीपमरक्षीत् । अत एव विग्रहसमर्चासपर्यादौ तन्मयो भवन् असौ ईश्वरीयदिव्यानन्दमन्वभवत् । तेन दिव्यदर्शनमपि लभ्यते स्म, तस्य रामलालो रूपं चिन्मयं धृत्वा क्रीडन् नानाभावस्तस्मै दर्शनं ददत् चिरसङ्गी भूत्वा तेन सहैव निवसति स्म ।

वात्सल्यभावसाधने जटाधारिणा दीक्षितः श्रीठाकुरस्तत्साधनायामपि तन्मयो बभूव । स जटाधारिणः सन्निधौ शान्तिपूर्वकमुपविष्टस्तन्मयत्वमुपगतो ‘श्रीरामलाल’स्य दिव्यां क्रीडां लीलां चापश्यत् । तदानीमेवैका विचित्रघटना घटिता । रामलालोऽधुना जटाधारिसमीपे स्थातुं नेहते । शनैः शनैरसौ श्रीरामकृष्णस्य नितरां प्रियोऽभवत् । यदैवासौ जटाधारिणः सान्निध्यात् प्रस्थातुमुद्यतो भवति तदैव रामलालोऽपि तेन साकं गन्तुं प्रस्तुतो जायते । निवारितोऽपि न शृणोति, नरीनृत्यमानः साकमेव समगच्छत । कदाचिदङ्कमारोढुं हठमकार्षीत् ।

एकदा श्रीठाकुरोऽवदत् – “अहमेकस्मिन् दिवसे स्नातुमगच्छम् । रामलालोऽपि सहगमनाय हठमकरोत् । किं कुर्याम्, अहं नीतवान् । ततश्च जलमध्यान्निर्गन्तुमसौ नैच्छत् । कथनमपि न शृणोति, अन्ते क्रुद्धोऽहं तं जले मज्जयन् अवोचम् – “यावन्मज्जनमीहसे, तावन्निमज्ज ।” मया दृष्टम्, जलमध्ये तेन श्वासकष्टमनुभूयते । तदीयकष्टं विलोक्य मया चिन्तितम् – “किमेतन्मया कृतम् । ततोऽहं तं जलान्निःसार्य निजाङ्के निधाय गृहमानयम् ।

अन्य अपि बह्व्यो दिव्या लीला अभूवन् । शनैः शनैः रामलालो निरन्तरं श्रीठाकुरस्याभ्यर्णे न्यवात्सीत् । जटाधारिणः पार्श्वे गन्तुं नैच्छत् । एकस्मिन् दिवसे स वृद्धः साधू रसवतीं (रसोई) निर्माय भोगनिवेदनायोपविष्ट आसीत् । परन्तु रामलालः कुत्र ? अन्विष्यन्नसौ ददर्श – रामलालः श्रीरामकृष्णस्य गृहे सानन्दं क्रीडति । प्रसह्यासौ रामलालमानिनाय । एवं बहूनि दिनानि रामलालस्य दीव्याः क्रीडाः प्राचलन् ।

ततश्चैकस्मिन् दिवसे जटाधारिणा श्रीठाकुरसमीपमागत्य सजलनयनेन प्रोक्तम् – “रामलालेन कृपया मम हृदयस्य सर्वा आकाङ्क्षाः परिपूरिताः । येन भावेन मम दर्शनसमीहाऽऽसीत्, तेनैव भावेन मह्यं दर्शनमात् उक्तवांश्व – यद् भवन्तं विहाय नान्यत्रासौ गमिष्यति, भवत्समीपेऽसौ प्रसीदति, सुखमनुभवतीति विज्ञायाहं नितरां प्रसन्नोऽस्मि ।” एवमुदीर्य रामलालं श्रीठाकुरहस्तयोः समर्प्य जटाधारी बाबा गमनानुज्ञां प्राप्तवान् । ततः प्रभृति रामलालः श्रीरामकृष्णसविधे तिष्ठति स्म ।

साधरणमानवदृष्टया रामलालो लघुधातुमयमूर्तिव्यतिरिक्तं न किञ्चिदन्यत् । किन्तु श्रीठाकुरस्य सन्निधानेऽसौ दिव्यलीलामयश्चिन्मयो बालभगवत्स्वरूपोऽस्ति । भवतारिण्या मृण्मयी प्रतिमा यथा चिन्मयी लीलामयी च भूत्वा श्रीरामकृष्णेन सह दिव्यां क्रीडामकरोत्, तथैव रामचन्द्रस्य लघ्वी प्रतिमापीयं चिन्मयं श्रीरामविग्रहं धृत्वा तस्मै दर्शनमदात् ।

दर्शनमिदं न स्थूलचक्षुषा सम्पद्यते । इदमसाधारणम् । भावमयेन दिव्येन वा चक्षुषा एतद्दर्शनं जायते । भावमयचक्षुर्विना चिन्मयरूपदर्शनं न कर्त्तुं शक्यते श्रीकृष्णसखस्यार्जुनस्यापि भगवतो वास्तविकस्वरूपदर्शनाय दिव्यचक्षुषः प्रयोजनीयताऽभवत् । ‘भावः’ एका साधरणी अनुभूतिः । ततोऽपि अलौकिकी असाधारणी अनुभूतिः ‘महाभाव’ इत्युच्यते । श्रीठाकुरो निजगाद –

“पूजया तु जपः श्रेष्ठो जपाद् वै ध्यानमुत्तमम् ।
ध्यानतोऽपि महान् भावो महाभावस्ततोऽधिकः ॥”

सुतरां महतो महीयानेव महाभावः, अत्रैव सर्वे भावाः समाविशन्ति, अत्रैव सर्वभावानां परिपूर्णता । प्रेमस्वरूपः परमेश्वरो महाभावमयः । प्रेमापि महाभावस्यैवापरं नाम । अत एव “स ईशोऽनिर्वचनीयप्रेमस्वरूप” इत्युक्तम् ।

❀ ❀ ❀

वात्सल्यभावसाधनावसरे श्रीठाकुर आत्मानं मातरं कौशल्याममन्यत आत्मनि तेन मनसा वचसा कर्मणा च मातृभावस्यारोपो विहितः । वात्सल्यभावे प्रतिष्ठानन्तरं श्रीठाकुरस्यान्तःकरणे मधुरभावभावनायास्तीव्रतरा समीहा समुदपद्यत ।

वैष्णवशास्त्रे मधुरभावोऽयं शान्तादिभावपञ्चकसारनाम्ना परिपूर्तिसंज्ञयाऽपि वर्णितः । तन्मते किलैकमात्रमधुरभाव एव शान्त्यादयः सर्वे भावाः समाविशन्ति । मधुरभावसाधनावसरे तेन नारीवेशोऽगृह्यत । श्रीठाकुरस्याभिज्ञातसेवको मथुरमहोदयस्तदर्थं वाराणसेयीं शाटिकाम्, घाघराम्, अच्छादनीम् (ओढनी) चुनरीप्रभृतीनि नारीघारणवस्त्राणि, मूल्यवतः सुवर्णालङ्करांश्च क्रीत्वा प्रददौ । एतादृशवेशधारिणं श्रीठाकुरं तन्निकटसम्बन्धी हृदयरामो विभ्रमात् नारीमेवाबुध्यत ।

श्रीरामकृष्णजीवने जन्मतो मृत्युपर्यन्तं प्रत्येक घटना धर्मप्रतिष्ठामेव विलोक्यते । अत एवासौ प्रत्येकभावसाधनासमये शास्त्रानुसरमेव तस्य भावस्य चिह्नान्यधारयत् । तन्त्रसाधनाकाले रक्तवस्त्रम्, सिन्दूरं, रुद्राक्षादीनि, वैष्णव-तन्त्रसाधनावसरे च वैष्णवावायाक्ता वेशभूषा, यथा श्वेतचन्दनं श्वेतवस्त्राणि, तुलसीमालां च विभक्तिसम्मोत श्रूयत । पुनः अद्वैतभावसाधना कालेऽपि शिखासूत्रे परित्यज्य संन्यासचिह्नकाषाढ-वस्त्रादि धारयामास । सर्वेष्वपि व्यवहारेषु स दीघकालविस्मृतां शास्त्रमर्यादामेवापालयत् ।

एतर्हि श्रीठाकुरस्य श्रीकृष्णदर्शनोत्कण्ठा दिनानुदिनं ववृधे । तस्य प्रार्थनया करुणक्रन्दनेन च दिशः पर्यपूर्यन्त । मनसि प्राणेषु च परिव्याप्तेन श्रीकृष्णविरहेण निद्राया आहारस्य च परित्यागात् दिनान, पक्षाः, मासाश्च व्यत्यगुः । अस्थिरप्राणोऽयं सर्वं विहाय केवलं विललाप ! प्राणानां दारुणेन दहनेन पुनर्गात्रदाह उदपद्यत । तात्कालिकविरहप्रसङ्गे तेनोक्तमासीत् – “तदानीं श्रीकृष्णविरह एतावान् प्रबलो बभूव, येन शरीरस्य प्रत्येक रोमकूपात् यथावसरं रक्तबिन्दव निरगच्छन् । देहग्रन्थयः शिथिलीभूताः” । हार्दिक्या तीव्रयन्त्रणया स मृतवत् संज्ञाशून्यतां प्रपेदे ।

श्रीराधाराणीकृपामन्तरेण श्रीकृष्णदर्शनमसम्भवमिति वैष्णवशास्त्रे प्रतिपादितम् । अतः श्रीठाकुरो मनसैकाग्रेण श्रीराधाराणीध्यान एव न्यमाङ्क्षीत् । परिणामतः स्वल्पैरेवाहोभिः श्रीराधिकाया दर्शनमभूत् । केवलं दर्शनमेव न हि, सर्वमाधुर्यमयी सा तच्छरीरेऽनुप्रविष्टा । अनन्तरं तद्दर्शनसम्बन्धे श्रीठाकुरो भक्तानेकदा प्रोक्तवान् – “तस्याः श्रीकृष्णप्रेममत्ताया निरुपमपवित्रोज्ज्वलमूर्तेर्महत्त्व माधुर्यवर्णनमसम्भवमेव । श्रीराधिकाया अङ्गच्छविर्नागकेशरकुसुमकेशरवद् गौरवर्णाऽदृश्यत” ।

तदीयाङ्गे श्रीराधिकायाः प्रवेशात् श्रीराधिकामेवात्मानं मन्यमानस्य तस्याभ्यन्तरे मधुरभावपराकाष्ठा प्रसूत महाभावप्राबल्यमवलोक्यते स्म । तदङ्गेषु श्रीराधिकाया निरवद्यं सौन्दर्यं विकासमापत् । तदीयं सम्पूर्णं शरीरमेव स्त्रीभावपरिपूर्णतया श्रीराधिकारूपेण पर्यणमत् । भावे, महाभावे, श्रीकृष्णप्रेम्णि, देहस्य रूपे, गुणेषु च श्रीराधिका स्वरूपमगृह्णात् । तदनन्तरमेवासौ श्रीकृष्णदर्शनाधिगमे साफल्यं लेभे । श्रीकृष्णभगवतो दिव्यमूर्तिः तदङ्गे प्रविवेश । एतद्दर्शनानन्देन बहूनि दिनान्यसौ विमुग्ध इव समतिष्ठत । आब्रह्मक्षुद्रकीटपर्यन्तेषु सर्वत्रैव श्रीकृष्ण एव दृश्यते स्म । स कदाचिदात्मानं श्रीकृष्णस्वरूपमेवान्वभवत् । तदानीमात्मानुभूतिसमस्तवैभवसंयुक्तश्रीठाकुरस्य प्रशान्तमानन्दमयजीवनं महाभावपरिपूर्णमभूत् । तत्रैव भावावेशे सदा न्यमज्जत् । तदभ्यन्तर एव श्रीकृष्णश्रीराधिकामिलनमयो रासोत्सवः प्रचचाल । एकरसानिर्वचनीयानन्दानुभूतिस्तेनाक्रियत ।

बहूनां वर्षाणामनन्तरं कदाचिद् दक्षिणेश्वरे समागतेषु भक्तवृन्देषु श्रीठाकुर उद्यानत एकं नीलं कुसुमं त्रोटयित्वा प्रदर्शयन् सहर्ष सर्वानुवाच – “मधुरभावसाधनकाले, यस्याः श्रीकृष्णमूर्तेर्मया दर्शनं लब्धम्, तदङ्गवर्ण एतत्कुसुमसमान आसीत् ।”

तस्मिन् एव काले दर्शनानतरं वार्तामपि निजभक्तानश्रावयत् – “एकदा विष्णु मन्दिरस्याभिमुखोपप्रकोष्ठे समुपविष्टोऽहं श्रीमद्भागवतपाठमश्रौषम् । शृण्वता मया भावावेशे श्रीकृष्णस्य ज्योतिर्मयं स्वरूपमवलोकितम् । ततश्च मया दृष्टम् – तन्मूर्तिपादपद्मतो रज्जुरिवैकं ज्योतिर्निर्गत्य आदौ श्रीमद्भागवतं स्पृष्ट्वा (स्वीयं वक्षःस्थलं प्रदर्श्य) मम हृदये व्यलीयत” । भगवान्, भागवतं, भक्तश्च त्रीण्यप्येकरूपतां प्रपद्य श्रीठाकुरस्याभ्यन्तरे प्रविविशुः । एतत् त्रयमप्येकमेव ।

❀ ❀ ❀