वेदमूर्ति-श्रीरामकृष्णः

तोतापुरी

सर्वविधद्वैतभावसाधानानां चरमसिद्धिप्राप्तेः समनन्तरं भावातीताद्वैतभावस्य साधनेच्छा तस्य प्रादुरभूत् । तस्य चिरविशुद्धे मनसि यः कोऽप्यभिलाष उदीयते, तमविलम्बेनैव जगन्माता प्रापूरयत् । वेदान्तसाधनसमीहासमकालमेवात्यद्भुतो जटाजूटधारणपरायणो ब्रह्मदर्शी परिव्राजकाचार्यो नागा श्रीमत्तोतापुरीमहाराजोऽचिन्तनीयोपायस्वरूपं दक्षिणेश्वरमागमत् । नर्मदातीरे विविधेषु बहुष्वन्यस्थानेषु च चत्वारिंशद्वर्षपर्यन्त कठोर दीर्घ साधनफलस्वरूपनिर्विकल्पसमाधियोगेन ब्राह्मोपलब्धिस्तेनाक्रियत । नानातीर्थेषु विचरन् ब्रह्मज्ञो महात्माऽसौ दक्षिणेश्वरमुपाढौकत । गङ्गातटवर्तिनः कालीमन्दिरस्य विस्तृतसौधतले तयोरुभयोः परस्परं प्रथमं मिलनमभूत् । अन्यमनस्कस्योपविष्टस्य श्रीठाकुरस्य तपसा समुज्ज्वलं मुखमवलोक्यैव तोतापुरी तं पर्यचिनोत् । तं दृष्ट्वैव स्तब्धीभवन् मनस्यसौ व्यचिन्तयत् ‌ – “असाधारणः पुरुषोऽयं वेदान्तसाधनस्य वास्तविकोऽधिकारी ।” स्वयमेव श्रीतोतापुरीमहोदयेन श्रीठाकुरो जिज्ञासितः – “किं त्वं वेदान्तसाधनां करिष्यसि ?”

प्रश्नमिममाकर्ण्य श्रीठाकुरस्य शान्तिर्विच्छेदमापन्ना । स च समागतमहानुभावमेकवारं सम्यग् दृष्टवान्, अवोचच्च – “अहं किमपि न जानामि, मम मातैव जानाति, यदादेक्ष्यति तत्करिष्यामि ।”

“वाढम्, गच्छ, निजजननीं पृष्ट्वा आगच्छ” तोतापुरी व्याहरत् । श्रीठाकुरः शनैः शनैर्मन्दिरमगच्छन्मातरमपृच्छच्च । भावावेशेन देव्या मातुः कण्ठस्वरस्तेनाकर्णितः – “गच्छ, वेदान्तसाधनामनुतिष्ठ, त्वदर्थमेवायं संन्यासी समायातः ।” मातुरादेशमधिगत्यायं महान् प्रसन्नस्तोतापुरीसमीपमागत्य प्रोवाच – “मातुराज्ञा जाता” । तोतापुरी अद्वैतज्ञानी । तस्य दृष्टया देवीपूजा, त्रिगुणमय ब्रह्मशक्तेरुपासना चेत्यादि सर्वं मायाविलसितमेव, तदेतदखिलमेवाविद्याया विजृम्भणम् । मन्दिरस्य मातुरनुज्ञामादायायान्तं तं विलोक्य तोतापुरी “पुरुषोऽयं शक्तिसाधक” इत्यवधारयामास । अस्तु, तोतापुरी प्रत्युवाच – “वेदान्तसाधनप्रवृत्तेः पूर्वं त्वया स्वकीयश्राद्धादि समाप्य विरजाहोमाग्नौ शिखां सूत्रं च हुत्वा शास्त्रविधिना संन्यासो ग्राह्यः” । श्रीठाकुरो मनसि किञ्चिद्विचार्य जगाद – “सर्वमिदं गुप्तरीत्या समनुष्ठाय संन्यासग्रहणे नास्ति मम काचिदप्यापत्तिः । एकवर्षतो मम जन्मदात्री माता अत्र समागता वर्तते । मां संन्यासिनमवधार्य तन्मनसि महानाघातो भविष्यति । तन्मानसं क्लेशयितुमहं नाभिलषामि ।”

तोतापुरी सहमतोऽभवत् । गुप्तरीत्या रामकृष्णाय संन्यासं दातुं शुभदिनस्य प्रतीक्षायां पञ्चवटी निम्नतले निजमासनं पर्यकल्पयत् ।

शुभावसरे समायाते पुण्यमयब्राह्ममुहूर्त्ते तोतापुरी स्वशिष्येण साकं पञ्चवटीसमीपस्थ पर्णशालायां प्राविशत् । होमस्य सम्पूर्णा सामग्री तत्र प्रस्तुताऽऽसीत् । यथाविधि होमाग्निः प्रजज्वाल । तोतापुरी महोदयेन मन्त्रपाठपूर्वकं शिष्यद्वारा होमानले तत्र आहुतीर्दापयित्वा विरजाहोमः समापितः । शिष्यश्च शिखासूत्रे हुत्वा गुरुप्रदत्तदण्डं कौपीनं बहिर्वस्त्रं चाधारयत् ।

ततो ब्रह्मोपदेशः प्रारब्धः । ब्रह्मोपलब्धेः फलश्रुतिरुपनिषत्सु – “भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे” इति वर्णिता । ब्रह्मज्ञानी तोतापुरीमहोदयो महावाक्यमुपदिश्य नित्यशुद्धबुद्धमुक्तस्वरूपं निर्गुणं त्रह्म घ्यातुं स्वशिष्यं प्रैरयत् । ब्रह्मनिष्ठस्तोतापुरी स्वशिष्यं द्रुतमवाद्वैतभावचरमानुभूतिनिर्विकल्पसमाधिमधिरोहयितुं बद्धपरिकरो बभूव । श्रीठाकुर एकदा प्रोवाच – “संन्यासदीक्षाप्रदानानन्तरम् नागासंन्यासिना बहुविधं सिद्धांतवाक्यमुपदिशता मम मानसं निर्विकल्पमनुष्ठाय आत्मध्याननिमग्नतासम्पादनेऽहमादिष्टः । परन्तु ध्याने समुपविष्टोऽप्यहं बहुभिः प्रयत्नैरपि नामरूपेभ्यः परं मानसं कर्तुं नापारयम् । अन्यविषयेभ्यो मनस्तु सहजमेवोपरतमभवत् । किन्तु यदा जगदम्बायाश्चिरपरिचिता जीवन्तीव चिद्धनमूर्तिर्मम पुरत आयाता तदानीमहं नामरूपपरित्यागवृत्तान्तं व्यस्मरम् । समस्तान्यपि सिद्धांतवाक्यानि श्रुत्वा ध्यानायोपवेशनेऽपि वारं वारमेतदेव यदा प्रतीयते स्म, तदानीं निर्विकल्पसमाधिसम्बन्धे मम निराशा समुद्भूत् । चक्षुषी समुन्मील्य तोतापुरीमहमुक्तवान् – ‘नाभवत्, मनः सर्वतोभावेन निर्विकल्पं कृत्वा नाहमात्मध्याने विलीनो जातः’, एतच्छ्रुत्वा नागासाघुरुत्तेजितोऽवदत् – ‘कथं न भविष्यति’ इत्युदीर्य कुट्या अभ्यन्तरं प्रविश्य चतुर्दिक्षु समन्विष्य, काचस्यैकं लघुखण्डमानयत् । तत्खण्डस्य सूचिकासममग्रभागं प्रसह्य मम भ्रूमध्ये निवेश्य प्रोक्तवान् – ‘अत्रैव विन्दौमानसमेकाग्रं कुरु ।’ ततोऽहं पुनर्दृढसङ्कल्पपूर्वकं ध्यानार्थमुपविष्टः । जगदम्बिकाया मूर्तिः पूर्ववत् पुनर्मममनसि समुद्भूत् । तदा मम मनसि ज्ञानासिना सा द्विधा विभज्य प्राक्षिप्यत । तदानीं मनसि कोऽपि विकल्पो नोद्गतः । समस्तमपि नामरूपराज्यं परित्यज्य मनो मे द्रुतमेव समाधिमनं संवृत्तम् ।”

श्रीठाकुरो निर्विकल्पसमाधेरन्तम्तले न्यमज्जत् । तोतापुरी बहुकालपर्यन्तं शिष्यं पश्यन् निःशब्दं बहिरागत्य कुटीद्वारं पिधाय पञ्चवट्या आसने प्रतीक्षमाण उपाविशद् यद् अभ्यन्तराच्छन्दमाकर्ण्यैव द्वारमुद्घाटयिष्यामि इति ।

दिनं व्यतीतं रात्रिरपि । आगामिदिनं रात्रिश्च व्यत्यगच्छत् । एवं दिवसत्रयं निशात्रयं च व्यतीतम् । तदाऽपि कुट्या अभ्यन्तरतो द्वारोद्घाटनार्थं न कोऽपि शब्दः समाकर्णितः । नागासंन्यासी विचलितो जातः । स्वस्यासनं परित्यज्य शिष्यदशां द्रष्टुं द्वारमुद्घाटितम् । सविस्मयं तेनावलोकितं यत् शिष्यो यथोपवेशितस्तथैवोपविष्टो विद्यते । देहे नास्ति प्राणप्रकाशः, हृदयगतिरपि रुद्वा । किन्तु मुखमण्डलं प्रशान्तं गम्भीरं तेजःपरिपूर्णं विलोक्यते । शिष्यस्तेजस्विपाषाणप्रतिमावत् स्थिरो वर्तते । विज्ञातं यत् शिष्यचेतः सम्प्रति सच्चिदानन्दे निमज्जति । मुण्डकोपनिषदि “हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्र ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥” इत्यादिना या ब्रह्मोपलब्धेरवस्था वर्णिता सैव श्रीरामकृष्णदेवेनास्मिन् समयेऽधिगता |

तथापि तोतापुरी न पूर्णं व्यश्वसत् । किमेतदपि सम्भवम् ? यस्व निर्विकल्पसमाधेः साधनायां चत्वारिंशद्वर्षपर्यन्तं कठोरं तपः साधितम् स हि शिष्येण एतावता स्वल्पसमयेन समधिगतः । नागासंन्यासिना शिष्यः परीक्षितः । सर्वप्रकारेण सर्वाणि लक्षणानि सुपरीक्षितानि । विलोकितं – श्वासप्रश्वासयोर्गतिर्हृदयस्पन्दनं च नैव जायते । शिष्यस्य शरीरं बहुवारं स्पृशन्नपश्यद् यत् चैतन्यस्य किमपि लक्षणं न प्रतीयते । केवलं मुखमण्डले दिव्यानन्दप्रकाशसद्भावात् सम्पूर्णमप्यङ्गं प्रकाशमयमास्ते । आनन्दविस्मयान्वितस्तोतापुरी चीच्चकार – “किमियं दैवी माया ?” अयं तु सत्यमेव निर्विकल्पः समाधिरासीत् ।

ततः तोतापुरी शिष्यं समाधितो व्युत्थितं विधातुं प्रक्रियामाचरत् । गम्भीरस्वरेण तेन “हरिः ओम्” इति मन्त्रः समुञ्चारितः । बहुकालं यावदेवं कृते सति क्रमशः श्रीठाकुरस्य सहजावस्था पुनः समागता । तेन नयने समुन्मीलिते । अनन्तरं श्रीरामकृष्णजीवने वयं द्रक्ष्यामः यत् स “यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन” इत्युपनिषदि वर्णितायामनिर्वचनीयायां भूमानन्दावस्थायां प्रतिष्ठितः ।

तोतापुरी स्तम्भितोऽभवत्, अवाधारयच्च यदयं शिष्योऽलौकिकः पुरुष इति । तोतापुरी परिव्राजकः संन्यासी दिनत्रयादधिकमेकत्र स्थातुं नार्हति । परमेकेन दिव्याकर्षणेन वशीभूतोऽसौ एकादशमासान् दक्षिणेश्वरेऽतिष्ठत् । एतावता कालेन शिष्यमखण्डब्रह्मानन्दरूपनिर्विकल्पे समाधौ दृढप्रतिष्ठितं विधातुं सर्वदैवाचेष्टत । एकस्य साधनस्यानन्तरं नूतनं साधनं प्रचलति । अनुभूतेरनन्तरमनुभूतिर्जायते । वेदान्तस्यैव विचारस्तस्यैव च साधना बोभूयते स्म ।

श्रीठाकुरस्य संसर्गतस्तोतापुरी महत्यानन्दे निमग्नो गमनवार्ता विस्मृतवानिव । एतावद्दीर्घकालं यावत् एकत्र निवासेन तोतापुरीमहोदयस्य वेदान्तमयजीवने श्रीरामकृष्णस्योदारभाव प्रभावः प्रचुरमात्रया पपात । परमर्मज्ञस्तोतापुरीदमवधारयामास यत् शिष्यस्याद्वैतभावसिद्धौ स केवलं निमित्तमात्रमासीत् । एकस्य दिनस्यैकया साधारणघटनया नागासंन्यासिनो मनो नितरां प्रभावान्वितं जातम् ।

श्रीठाकुरेणैकस्मिन् दिने जिज्ञासितोऽसौ यत् – “भवता ब्रह्मलब्धम् । सिद्धयोऽधिगताः । कथं नित्यमेव ध्यानमभ्यस्यते ?” नागासंन्यासिना अतिगम्भीरभावेन तदीयस्वच्छजलपात्रं दर्शयित्वा प्रोक्तोऽसौ – “दृश्यतां कीदृक् स्वच्छमिदं जलपात्रम्, यदि नित्यमेव परिमार्जितं न स्यात् तदा मलिनं भविष्यति, मनोऽप्येतादृगवधेयम् । ध्यानाभ्यासेन यदि मनसः परिष्कारो न क्रियेत तदा तन्मनो मलिनं भविष्यति ।“ गुरुमुखमवलोक्य सस्मितकोमलस्वरेण श्रीठाकुरः प्रत्यवदत् – “यदि सुवर्णमयं तद् भवेत् ?” तोतापुरीमहोदयः स्वीचकार यत् यदि सुवर्णमयं जलपात्रं स्यात्तर्हि प्रतिदिनं तस्य मार्जनप्रयोजनं नास्ति, तेन शिष्यकथनसङ्केतोऽप्यवधारितः । न चासीद् रामकृष्णः साधारणः साधकः । केनापि साधनेन भजनेन वा नाऽसौ सिद्धीरधिगतवान् स तु चिरशुद्धो नित्यसिद्धश्च आसीत् ।

श्रीठाकुरस्य चिरशुद्धपरिपूर्णजीवनमवलोक्य तोतापुरी महोदयेनान्यदपि बहु शिक्षितम् । निर्विकल्पस्य समाधेरनन्तरमपि तस्य जीवने यत् न्यूनत्वमासीत्, तदपि श्रीरामकृष्णदेवदिव्यसङ्गेन परिपूर्णमभवत् ।

तोतापुरी बाल्यादेवाद्वैतवादी । एकान्तनिष्ठया तेन शुद्धस्याद्वैतभावस्य साधना विहिता । ब्रह्मातिरिक्तं सर्वमिदं माया विलासमयमेव स मन्यते स्म । तस्य विचारे द्वैतभावस्य किमपि स्थानं नाविद्यत । देवदेवीनां नास्ति सत्ता, सगुणस्येश्वरस्यास्तित्वमपि नाङ्गीक्रियते । तस्य दृष्ट्या “सर्वं खल्विदं ब्रह्म, नेह नानास्ति किञ्चन” । एतस्यैव साधना तेनानुष्ठिता । किन्तु सर्वभावमयस्य श्रीरामकृष्णस्य जीवनं पूर्णरूपेण स्वतन्त्रं विद्यते । तस्य जीवने सर्वेषामपि भावानां समन्वय आसीत् । अद्वैतभावे निर्विकल्पसमाधौ सुप्रतिष्ठोप्यसौ अनेकशो द्वैतभावापन्नो भूत्वा भक्तिभावेऽपि लीनतां प्रपेदे । बाल्यकालादभ्यस्ततया तदानीमप्यसौ करतालिकां दत्वा हरिनाम, मातृनाम, अन्यान्यदेवदेवीनां च नामानि कीर्तयति, गायति चापि । एकदा श्रीठाकुरः पञ्चवट्यां नागासंन्यासिनः समीप उपविष्ट आसीत् । अनेकाध्यात्मिकप्रसङ्गा वार्तालापाश्च बोभूयन्ते स्म । तदानीम् सन्ध्यासमागममवलोक्य श्रीठाकुरः कथाप्रसङ्गं परित्यज्य करतालिकां वादयन् भगवन्नामगानमकरोत् । एतदवलोक्य नागासंन्यासी स्तब्धो भवन्नुवाच – “किमिदं करोषि ?” परिहसन् पुनरुवाच “हस्ताभ्यां रोटिकां निर्मासि किम् ?” श्रीठाकुरो भावस्थो भूत्वा बालकवद् विहसन् व्याहरत् – “करतालिकया भगवन्नामकीर्तनं किं भवान् रोटिकानिर्माणं जल्पति ?” दृष्ट्वा श्रुत्वा चैतत् तोतापुरीस्वामिनः प्रज्ञाचक्षुरुन्मीलितमिवाभवत् । तेन सर्वमवगतम् ।

तोतापुरी स्वामिनो दक्षिणेश्वरनिवास कालस्यान्तिमेभागे घटनैका घटिता । तेन शक्तेरस्तित्वं न स्वीक्रियते स्म । शक्तिकृपामन्तरेण ब्रह्माधिगतिरसम्भवेत्यपि नैवामन्यत । एतस्य स्वीकरणमेव तस्य प्रयोजनमासीत् । अथवा तोतापुरीमहोदयं निमित्तीकृत्य ब्रह्मतच्छक्त्योरभेदरूपसत्यं सुप्रतिष्ठं बभूव ।

तोतापुरी सहसा कठिनरक्तामाशयरोगसमाक्रान्तोऽभवत् । सर्वविधं चिकित्सितं, नानाविधमौषधं, पथ्यादिकं च निखिलं व्यर्थमभवत् । रोगः केनाप्युपायेन नोपशाम्यति । निस्तव्धरात्रौ स धूनीसन्निधावुपविष्टोऽभूत् । उदस्यासह्ययन्त्रणया व्याकुलतामनुभवन् अशोचत् – मनसि समाहिते शरीरकष्टं नानुभविष्यते । ध्याने समुपविष्टोऽपि मनः समाहितं कर्तुं नाशक्नोत् । चित्तमुदरयन्त्रणया पृथग्भवितुं नार्हति ।` विविधप्रयत्नसम्पादनेऽपि यदा साफल्यं नाधिगतं, तदा तस्य मनसि महद् वैराग्यमुदियाय – “एतस्य पाञ्चभौतिकदेहस्य कृते कथंकारं कष्टमनुभवामि ? शरीरमिदं गङ्गाजले विसर्जयामि।” एतन्मनसि भावयन् तोतापुरी दृढसङ्कल्पचेता गङ्गागर्भेऽवततार, शनैः शनैर्गङ्गाम्भस्यग्रेसरन्नपि गभीरं जलमप्राप्तो गङ्गाया द्वितीयतटे समागतः । सर्वत्रैवं गङ्गायां जानुदध्नं जलमेव तेनासादितम् । तोतापुरी विस्मयान्वितः – “कथमियं दैवी माया” इत्यवागच्छत् । सहसैव तस्य हृदयं दिव्यप्रकाशा लोकितमभूत् । स्तब्धीभवन्नसावपश्यत् – “जले स्थले सर्वत्रैव शक्तेर्विलासः परिदृश्यते । तस्या महाशक्तेर्निःश्वासेनैव चराचरं निखिलमपि ब्रह्माण्डं प्राणमयं परिदृश्यते”, यस्य ब्रह्मणो ध्यानं एतावन्तं कालं क्रियते स्म तत्तु निर्लिप्तमेव । सर्वमिदं महाशक्तेर्विलसितमेव, तस्या इङ्गितेनैव जन्ममृत्युबन्धमोक्षादयो भवन्ति ।

"शिवस्तु निर्गुणं ब्रह्म, इकारः शक्तिरुच्यते ।
इकाराभावतो नूनं शव एवावशिष्यते” ।
“शववक्षसि राजन्ती नरमुण्डस्रजाऽन्विता
खड्गहस्ता महाकाली जरीहर्ति जगत् त्रयम्” ।

एवमनुभवन्नेवासौ स्वाभाविकीमवस्थामधिगतं पूर्णस्वस्थमात्मानममन्यत । मनसि सुमहानानन्दो ववृधे । पञ्चवटीं पुनरागतोऽसौ “या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता” इति वचनोपरि सृदृढविश्वासवान् बभूव । देवीचरणे तदीयं मनो नरीनृत्यमानमभवत् । एकत्रैव शिवशक्तिमिलनदर्शनेनामन्दानन्दसन्दोहे न्यमज्जत् ।

आगामिनि दिवसे प्रत्यूषे श्रीठाकुरो गत्वाऽपश्यत् तोतापुरी व्यक्तिविशेषः संवृत्तः । सर्वाङ्गेष्वानन्दवीचयो जाग्रति । तदीयं शरीरं नीरोगं, मनोऽपि पुलकितमदृश्यत । श्रीठाकुरं समीपस्थमवलोक्य तेन विगतनिशायाः सर्वा घटना अनुभूतयश्च श्राविताः । सर्वमेतदाकर्ण्य श्रीठाकुरो विहस्य प्रोवाच – “पूर्वं तु भवान् मातरं न मन्यते स्म । शक्तिर्मिथ्येति ब्रुवन् मया साकं तर्कवितर्कमुपास्थापयत् । ननु साम्प्रतं ज्ञातम् ? मम माता तु पूर्वमेव प्रोक्तवती –

“अग्निस्तद्दाहिका शक्तिरन्योऽन्यं नैव भिद्यते ।
तथैव ब्रह्मतच्छक्त्याः परस्परमभिन्नता ॥” इति ॥

ततः किञ्चिद्दिनानन्तरं मन्दिरस्थां मातरं प्रणम्य तोतापुरी श्रीठाकुरतश्विरकालकृते गमनानुज्ञामङ्गीचकार ।

❀ ❀ ❀

श्रीरामकृष्णजीवने एकतो यथा परमेशितुः शक्तिर्विराजते तथैव महति तन्मनसि परदुःखकातर्यभावोऽपि नाल्पीयान् आसीत् । तदानीन्तनीयया एकया लघीयस्या घटनया तत्प्रमाणमस्माभिरवलोक्यते ।

मथुरामोहनस्य पत्नी जगदम्बादासी सहसा कठिनरोगेणाक्रान्ता । रोगोऽत्यन्तं प्रावर्धत । कलिकातास्थैः सर्वेभ्यर्हितैर्वैद्यः द्राकतरैश्च (डाक्टर) तश्चिकित्सने नैजमसामर्थ्य प्रकटितम् । विवशो मधुरमहोदयो दक्षिणेश्वरमाजगाम । तस्य दशा उन्मत्तवदासीत् । श्रीरामकृष्णदेवचरणयोर्निपत्य रुदन् निजगाद – “मम भवितव्यता भवत्येव । भगवन् ! भवत्सेवाधिकारतोऽपीदानीं वञ्चितो भविष्यामि । अतः परं भवत्सपर्या न कर्तुं शक्ष्यामि” ।

मथुरमहोदयक्लेशमवलोक्य करुणया श्रीठाकुरस्य प्राणा विचेलुः । भावाविष्टेन तेन मधुरमहोदयः प्रोक्तः – “मा भैषीः, तव पत्नी नीरोगा भविष्यति” । श्रीठाकुर महोदयस्याभयवाणीमाकर्ण्य जानबाजारे समागतो मथुरमहाशयः पत्नीदशां साधीयसीमपश्यत् ।

श्रीठाकुर चैकदा प्रोक्तवान् – “ततः प्रभृति जगदम्बादासी शनैः शनैर्नैरुज्यमापत् । तदीयरोगभोगो मम देहे समागतः ।”

❀ ❀ ❀


मुण्डकोपनिषद् २.२.९
मुण्ड्कोपनिषद् २.२.१०
तैत्तिरीयोपनिषद् ब्रह्मानन्दवल्ली ९.१
निरालम्बोपनिषद् ९