वेदमूर्ति-श्रीरामकृष्णः

इस्लामधर्मः ख्रीष्टीयधर्मश्च, सर्वात्मकभावः

ब्रह्मणः समुपलब्धेः स्तरा विद्यन्ते । निर्विकल्पसमाधेः गाम्भीर्ये, तथा स्थितिविशेषे च आनन्दानुभूतेस्तारतम्यमासाद्यते । तद् विषये श्रीरामकृष्णदेव एकदा प्रोक्तवान् – “देवर्षिर्नारदस्तमेतं दूरतो ब्रह्मसमुद्रमवलोक्यैव पराबवृते । शुकदेवस्तस्य स्पर्शमात्रमकरोत् । जगद्गुरुः शिवश्च तस्य ब्रह्मसमुद्रस्य चुलुकत्रयं जलं पीत्वैव शवो भूत्वा न्यपतत्” ।

साधारणकोटिगो मानवः कठोरसाधनाबलेन निर्विकल्पसमाधिमधिगन्तुं शक्नोति । परमसौ तत्र दीर्घकालं यावन्न स्थातुमर्हति । शास्त्रैराज्ञप्तम् – “आधिक्येन मानव एकविंशतिदिनपर्यन्तं तदवस्थायां स्थातुमर्हति तदनन्तरमसौ तत्स्वरूपे विलीयते । शुष्कपत्रवत् तदीयं शरीरं पतिष्यति । ईश्वरकोटिगो मानवोऽवतारधारी व्यक्तिविशेषो वा दीर्घकालपर्यन्तं निर्विकल्पसमाधाववस्थातुमर्हति । तत ईश्वरेच्छया व्युत्थितो भूत्वा लोककल्याणसमीहारूपैकमात्रशुद्धसङ्कल्पमवलम्बमानो जगत्कल्याणे प्रवर्तते” किन्तु श्रीरामकृष्ण जीवनेतिहासोऽभूतपूर्वोऽलौकिकश्च । स हि निरवच्छिन्नषण्मासपर्यन्तं निर्विकल्पसमाधाववातिष्ठत । ततश्च महाशक्तेर्विशिष्टसमीहया लोककल्याणाय भौतिकजीवनस्यान्तिमदिनं यावद् “भावमुखो” भवन् संसारे तस्थौ । तदानीमसौ सविकल्पनिर्विकल्पयोर्द्वैताद्वैतयोः परमभक्तिविज्ञानयोश्च मार्गे विचचार ।

❀ ❀ ❀

दीर्घमासष्टकं यावद् निर्विकल्पसमाधौ ब्रह्मानन्दोपभोगं कुर्वन् भावमुखो भवितुमसौ आद्याशक्त्या समादिष्टः, पूर्वमेवैतन्मया विलिखितम् । ततश्च श्रीठाकुरस्य मनसि विविधधर्मसम्बन्धिनी जिज्ञासा प्रारब्धा । जगदम्बिकामसौ प्रोक्तवान् – “मातः ! अन्यान्यधर्मावलम्बिनस्त्वां केन भावेन भजन्तीति मामादिश ।” कानिचिद्दिनानि व्यतीयुः दक्षिणेश्वरे एकः सूफी सम्प्रदायावलम्बी मोहम्मदः साधुः समागतः । गोविन्दराम इति तन्नाम । गोविन्दरामस्य सारल्यं प्रेमभावं चावलोक्य मुग्धो भवन् श्रीरामकृष्णस्तेन दीक्षितो भूत्वा इस्लामधर्मसाधने प्रवृत्तः । तदानीमसौ ‘नमाज’मधोयानः अल्लाह-नाम जपश्च विहाराहारादौ पूर्णतया मोहम्मदभावं जगृहे । भावे तत्र दिनत्रयसाधनानुष्ठानात् परं ‘तेनैको लम्बायमानश्मश्रुधारी सुगम्भीरो ज्योतिर्मयः पुरुषविशेषो दृष्टः’ । ततश्च सगुणस्य विराड्ब्रह्मणः समुप लब्धेरनन्तरं तन्मनस्तुरीये निर्गुणब्रह्मणि व्यलीयत ।

त्रयोदशशतवर्षपूर्वं श्रीमहम्मदेन सगुणस्यैकेश्वरवादस्य प्रचारो विहित आसीत् । तदानीं तेन स्वशिष्यमण्डली समादिष्टा – ‘ईश्वरो धर्मश्चैक एव । वेदान्तोपवर्णितस्य सगुणब्रह्मणो नामान्तरमेव ‘ईश्वर’ इति । धर्म एक एव स च वेदान्तधर्मः बाह्यदृष्ट्या धर्मस्य विभिन्नत्वमवलोक्यते, वस्तुतस्तु पारमार्थिकदृष्ट्या सर्वोऽपि धर्म एक एव ।

ततः प्रायशः सार्धैकवर्षानन्तरस्येयं घटना । श्रीठाकुरस्य मनसि ईसामसीहप्रवर्तितधर्मगूढ़मर्मज्ञानवासना समुदियाय । दक्षिणेश्वरकालीमन्दिरस्य दक्षिणे भागे यदुलालमल्लिकस्यैकं सुन्दरोद्यानयुक्तं भवनमस्ति । यदुमहोदयो धार्मिकी वृद्धा तन्माता च  श्रीठाकुरोपरिदेववत् श्रद्धामरक्षताम् । यदुमहोदयोद्यानस्थभवनस्य भित्तौ विविधचित्राणां मध्ये मेरीक्रोडे विराजमानस्य शिशोः ईसामहोदयस्यैकं कमनीयं चित्रं विलम्बितमासीत् । श्रीरामकृष्णदेवश्चैकदा तद्भवनप्रकोष्ठे समुपविशन् तन्मयो भूत्वा तां मूर्तिं ददर्श । क्रमशः ईसामहोदयस्यात्यद्भुतं चरित्रमालोचयन् असौ भावाविष्टो बभूव । तदानीमसावपश्यत् चित्रमिदं सजीवं ज्योतिर्मयमेव सम्भभवत् । देवजनन्या देवशिशोश्चाङ्गेभ्यो निःसृत्यैकं दिव्यं ज्योतिस्तस्य शरीरे प्रविवेश। स च गम्भीरे ध्याने निममज्ज । ध्यानेऽसौ ईसामहोदयस्य शान्तिमयीं दिव्यमूर्तिं तदीयप्रार्थनामन्दिरं चापश्यत् । ईसामसीहपूजका धूपदीपादीनां सौरभं वितन्वन्तो नितान्तकातरभावतः समर्चां प्रकुर्वाणाः प्रार्थनामनुतिष्ठन्ति । एतादृशभावमग्न एव श्रीठाकुरो स्वनिवासस्थानं परावर्तत ।

तदीया तन्मयता दिनत्रयं प्राचलत् । क्षमारूपा प्रेमस्वरूपा च जगन्माता श्रीरामकृष्णहृदयमन्दिरे समुद्बभासे । दिनत्रयमसौ श्रीकालीमन्दिरे न गतवान् । अन्तिमे दिवसे भावाविष्टः पञ्चवटीतलेऽटन् आसीत् । तदानीमसौ ददर्श – एका गौरवर्णा देवमानवमूर्तिदिव्यं ज्योतिः प्रसारयन्ती तमेव पश्यन्ती तदभिमुखमायाति । तस्या विशालनयनयोरपार करुणा सम्भृता वर्तते, मुखमण्डले च देवभावोऽङ्कितः । “कोऽयं महानुभाव” इति श्रीठाकुरो व्यचिन्तयत् । तस्य हृदयतो ध्वनिर्निःससार – अयमीसामसीह एव वर्तते, येन जीवकल्याणाय स्वकीयहृदयस्य रक्तं प्रदत्तम् ! शान्तभावतः पादौ प्रक्षिपन् परमपुरुषोऽसौ अग्रेसरन् श्रीठाकुरमालिङ्गय तदीयदेहे प्राविशत् ।

श्रीरामकृष्णस्य दिव्यशरीरे सहस्रद्वयवर्षाणामनिर्वातमम्लानं च धर्मज्योतिः प्रविष्टम् । श्रीठाकुरस्य मनो विराडब्रह्मसमुद्रे निमग्नमभूत् । सुमह्तः समयस्यानन्तरं दक्षिणेश्वरे चैकदा ईसामसीहमसमुद्भूतः । तदानीं तेन भक्ता जिज्ञासिताः – “युष्माभिबाइबिलपुस्तकमधीतमेव । वदत, तत्र ईसामसीहरूपं कीदृग् वर्णितम् ? अहन्तु अद्राक्षम् – तस्य नासिका किञ्चिन्निम्ना आसीत् ।“

❀ ❀ ❀

श्रीरामकृष्णदेवेन बौद्ध-जैन-सिक्ख धर्माणामपि साधनमनुष्ठितमित्यस्य किमपि प्रमाणं नोपलभ्यते । किन्तु भगवतस्तथागतस्य सम्बन्धे स व्याजहार – “बुद्धदेवकथा मया बहुशः समाकर्णिता । सोऽपि दशावतारेष्वेकः । अचलं निष्क्रियं बोधस्वरूपं च ब्रह्म । बुद्धिर्यदास्मिन् बोधस्वरूपे विलीयते तदैव ब्रह्मज्ञानं सम्पाद्य मनुष्यो बुद्धो भवति ।

जैनधर्मप्रवर्तकतीर्थङ्करेषु सिक्खानामादिगुरौ नानकदेवे च तस्यासाधारणी श्रद्धा आसीत् । श्रीनानकदेवो विदेहजनकस्यावतार आसीदिति श्रीठाकुरोऽवोचत् । तान् सर्वानपि धर्मानसौ भगवल्लाभाय सत्यमार्गानमन्यत । तस्य प्रकोष्ठे विविधदेवदेवीनां चित्रैः सह महावीरस्य तीर्थङ्करस्यैका पाषाणमयी मूतिर्व्यराजत ।

“सर्वेऽपि धर्माः सत्याः । यावन्ति मतानि तावन्तः पन्थानः” । इयमेव सत्यवाणी सर्वधर्मसाधनेन तत्सिद्ध्या च श्रीठाकुरेण समधिगता । इयं वार्ता न केवलं बुद्धेर्विचारस्य वा कल्पनारूपा, परन्तु तस्यानुभवसम्भूता । श्रीठाकुरस्यान्तःकरणतः सर्वधर्मसमन्वयरूपो यो महान् धर्मो जगति प्रचचार, तस्यैव महतो धर्मस्य प्रतीकं श्रीरामकृष्णस्वरूपमपि ।

अन्तिमेषु दिवसेषु काशीपुरस्योद्याने निवसता स्वीयं चित्रं विलोक्य भावस्थेन सता तेनोक्तम् – “अस्या मूर्तेर्गृहे गृहे पूजा भविष्यति ।“ तदीयाऽभयवाणीयमासीत् – “येषामिदमन्तिमं जन्म तैः सर्वैरत्र (मत्प्रचारितोदारमते) आगन्तव्यमेव” । अर्थात् एतदुदारधर्मभावभाविताः सन्तो ये श्रीरामकृष्णमाश्रयन्ति, तेषां मुक्तिरवश्यम्भाविनी ।

❀ ❀ ❀

उपनिषत्सूच्यते – “ईशावास्यमिदं सर्वं यत्किंच जगत्यां जगत्” , “सर्वत्र सर्वभूतेष्वीश्वरानुभूतिः” इयं कीदृशी अवस्था एतत्साधारणमानवगम्यं न भवितुमर्हति । परन्तु श्रीरामकृष्णजीवने एतस्योपनिषद्वाक्यस्य सार्थकं रूपायणं दृश्यते ।

ब्रह्मविषयकनिर्विकल्पसमाधिप्रसूतं सार्वत्रिकं ब्रह्मदर्शनं – सर्वात्मकतानुभूतिं च ब्रह्मज्ञपुरुषः समाधिभृत् वेदस्वरूपो जागतिकभूमावस्थानकाले व्यावहारिकक्षेत्रे वा कीदृगभावेनानुभवति एतस्य वर्णनं शास्त्रेषु सर्वत्र उपलभ्यते – “ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति” । ब्रह्मज्ञपुरुषः सर्वव्यापिब्रह्मणश्चैतन्यस्वरूपस्य सर्वभूतेषु विद्यमानतां दृष्ट्वा जीवरूपेणावभासितस्य, एकांशेनात्मानं जीवजगद्रूपेण विवर्तितं कुर्वाणस्य भगवतः यदा तादात्म्यमेकत्वं वानुभवति तदा तस्य कीदृशी अवस्था भवति – एतच्छ्रीरामकृष्णजीवनेऽनेकघटनामाध्यमेनांशतः परिबुध्यते ।

(१) दक्षिणेश्वरस्य कालीमन्दिरोद्यानं नवदूर्वादलसमाच्छन्नमासीत् । अपूर्वा सा शोभा ! श्रीरामकृष्णदेवः एकदा तत्रैव स्थितस्तस्य दृश्यस्य सौन्दर्यमनुभवन्नासीत् । तस्मिन्समयेऽकस्मात्कश्चित्पुरुषस्तान्येव कमनीयदूर्वांकुराणि चरणतलाभ्यां मथ्नन्निवागच्छत् । श्रीठाकुर एतदवलोक्य कामप्यसह्ययन्त्रणामन्वभवत् । परवर्तिकाले तामेव घटनामुल्लिख्य स बालभक्तान्प्रत्यवोचत् – “वक्षस उपरि कस्यचित्पादप्रक्षेपणैर्यादृशी यन्त्रणा भवति, तादृशी एव यन्त्रणा तस्मिन्समये मयानुभूता” इति ।

(२) दक्षिणेश्वरे कालीमन्दिरस्य पुरतः चांदनी समाच्छादिते बृहद्धट्टे स्थितः सन् एकदा भावाविष्टः श्रीठाकुरः गङ्गादर्शनं कुर्वन्नासीत् ।  अस्मिन् समये द्वे नावौ घट्ट संलग्ने । केनापि कारणेन नाविकयोर्मध्ये विवादः समुदभूत् । क्रमशः स विवादो हस्ताहस्तियुद्धे परिणतः । एको नाविकोऽन्यस्य पृष्ठोपरि अतितीव्रमाघातमकरोत् । एतेन श्रीठाकुर उच्चैश्चीत्कारं कृत्वा अरोदीत् । तस्य तत्कातरक्रन्दनं श्रुत्वा हृदयरामः कालीमन्दिरतः द्रुतमेव तत्रागत्य अपश्यत् यच्छ्रीठाकुरस्य पृष्ठदेशः शोथपूर्णो रक्तवर्णश्च जातः । तदवलोक्य हृदयरामः अधीरीभूयासकृत् पृष्टवान् “मातुल ! केन त्वं ताडितः ? दर्शय, अहं तस्य समुचितदण्डव्यवस्थां करिष्यामि” इति ।

श्रीरामकृष्णस्तस्मिन्क्षणेऽपि भावस्थ एवासीत् । अनन्तरं कथंचित् प्रकृतिस्थो भूत्वा उक्तवान् – “न केनाप्यहं ताडितः । कश्चिन्नाविकोऽन्यस्य पृष्ठोपरि तीव्राघातं कृतवान् एतेनैवाहं वेदनानुभवमकरवम् । तस्यैवाघातस्य चिह्नं मम पृष्ठोपर्यजायत । इति

एतछ्रुत्वा हृदयरामः स्तम्भितः सन् विचारयामास – किमेतत् सम्भवम् ? परं श्रीरामकृष्ण परमहंसपृष्ठ आघातचिह्नमवलोक्य तस्य निरवधिर्विस्मयो व्यजायत ।

(३) अन्यस्मिन् दिने – श्रीठाकुरो भवतारिण्याः पूजार्थं कालीमन्दिरस्योद्याने बिल्वपत्रचयनासक्त आसीत् । द्वित्राणि बिल्वपत्राणि त्रोटयित्वा सोऽन्वभवत् यत् सर्वमेव चैतन्यमयमिति । बिल्वपत्र-चयनपरः सोऽवलोकितवान् यत् वृक्षोऽपि बिल्वपत्रत्रोटनफलस्वरूपं तीव्रवेदनामनुभवति । अतोऽधिकपत्रत्रोटनात्स विरतोऽभूत् ।

श्रीरामकृष्णजीवने आब्रह्मस्तम्बपर्यन्ता सर्वाखण्डब्रह्मानुभूतिविषयका अनेका घटना दृश्यन्ते । “यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ।” इति श्रुतिवाक्यं श्रीरामकृष्णजीवने मूर्तमिवाभवत् ।

ऋग्वेदे दृश्यते – “सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् ।” स विराट् पुरुषो न केवलं  विश्वब्रह्माण्डं परिव्याप्यावतिष्ठते, अपि तु तद्वहिरपि अतितिष्ठति । मायावशेन भ्रमदृष्टियुक्तो मानवो नामरूपाभ्यां विशेषितं कृत्वा जगदिदं यद्भावेन पश्यति, वस्तुतः तत् जगतो वास्तविकं स्वरूपं न भवति ।

“सर्वं ब्रह्ममयं जगत्” मेघनिर्मुक्ताकाशे प्रकाशमानः सहस्र-रश्मिरिव मायायुक्त मानवस्य हृदयाकाशे स्वाभिन्नं ब्रह्म“ एकमेवाद्वितीयं, नेह नानास्ति किञ्चन” रूपेण प्रतिभातं भवति । एषा समाध्यवस्थानुभूतिः । व्युत्थानावस्थायां स ब्रह्मदर्शी यत्र कुत्रापि दृष्टिक्षेपं करोति, तत्र सर्वं कृष्णमयम् इत्यवस्थायाम् निवासं करोति । तदा “सर्व खल्विदं ब्रह्म” इति श्रुतिवाक्यस्य सार्थकानुभूतिर्जायते, तस्मिन् क्षणे तद्दर्शने ब्रह्मातिरिक्तं न किमप्यन्यद्वर्तते । तद्ब्रह्मैव जीवजगच्चतुर्दश-भुवनेषु ओतप्रोतं परिव्याप्तम् ।

“पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि” एतादृशोऽनुभवो जायते ।

श्रीरामकृष्णजीवने विश्वात्मकताविकासानुभूतिर्निरुपमा । वस्तुतः समाध्युत्थानानन्तरं सहजावस्थायामपि सर्वभूतेष्वात्मानमेव तादात्म्यरूपेण पश्यतः तस्य हृदये जीवमात्रे सार्वत्रिकप्रेम्णः तथा सहानुभूतेरुदयोऽजायत । एतञ्च प्रेम केवलं मनुष्यमात्रे सीमाबद्धं नासीत् ।

❀ ❀ ❀


“भावमुख” – शब्दस्यायमर्थो यत् क्षुद्रोऽहंभावो विलुप्यते । सर्वावस्थायां विराडहंभावो जागति, अर्थादीश्वरेच्छया सह मानसमेकीकृत्य लोककल्याणसाधनानुष्ठानं क्रियते ।
ईशोपनिषद् १
मुण्डकोपनिषद् ३.२.५
ईशोपनिषद् ६
पुरुषः सूक्तम् १