वेदमूर्ति-श्रीरामकृष्णः

कामारपुकुरं गमनम्, उर्ररभारते नीर्थयात्रा च; मथुरस्य गृहे

श्रीठाकुरस्य मासषट्कं यावत् निर्विकल्पावस्थायां स्थितेरनन्तरं ‘भावमुख’-दशायां मनसो व्युत्थानता सम्पादनेन महाशक्तिसमीहयाऽसौ कठिनैरुदररोगैराक्रान्तः । तत्परिणामेन तदीयं शरीरं कङ्कालमात्रावशिष्टमभवत् । बाबामहाशयस्य शीर्ण शरीरमवलोक्य मथुरमहोदयो विशिष्टां चिन्तामापेदे । वर्षाकालः सन्निधत्ते । वर्षाकालिकगङ्गाजलसेवनेन तदीय उदररोगो वर्धिष्यते, इत्यवधार्य मथुरमहोदयस्तं किञ्चित्कालकृते कामारपुकुरपुरे प्रेषयितुं निश्चयमकार्षीत् । तत्र “शिवपरिवारोऽयम्” इत्यवगत्य मथुरमहोदयपत्नी जगदम्बादासी स्वयमेव वर्तिकां यावत् सर्वाणि वस्तूनि सङ्गृहीतवती ।

श्रीरामकृष्णदेवः कामारपुकुरं जगाम । हृदयरामो भैरवी च सार्धमेव जग्मतुः । प्रायः सप्तहायनेभ्यः समनन्तरं श्रीठाकुरं स्वमध्यस्थमालोक्य आत्मीयस्वजनानां ग्रामवासिनां च मनांसि महत्यानन्दसागरे निमग्नानि । नववधूमानेतुं जयरामवाटीस्थाने कश्चित्सन्देशवाहकः प्रहितः । श्रीसारदादेवी सानन्दं कामारपुकुरे समाययौ वस्तुतस्तस्या इदमेव प्रथमं स्वामिदर्शनमासीत् ।

इतो बहुवर्षेभ्यो देवी सारदा स्वामिनं न व्यलोकयत् । सप्तवार्षिक्यामवस्थायां तस्या द्विरागमनमभूत्, तदानीं श्रीरामकृष्णदेवो जयरामवाटीग्रामे गतवानासीत् । तदानीन्तनीययाऽस्फुटस्मृत्या तस्या मनसि एतावानेव भावो जागर्ति स्म यदियं गृहस्यैककोणे निलीना बभूव । तामन्विष्य भागिनेयो हृदयरामो बहुभिः कमलपुष्पैस्तस्याश्चरणयोः समर्चामकार्षीत् । ततस्तया श्रीठाकुरस्य चरणौ धावयित्वा स्वकीयैः शिरोरुहैः संप्रोव्छय व्यजनवातश्चक्रे । इदमवलोक्य सर्वा अपि प्रतिवेशिन्यो जहसुः । ‘श्रीसारदादेवी श्रीरामकृष्णदेवस्य पार्श्वे दण्डायमाना स्वकीयाभ्यां लघुभ्यां हस्ताभ्यां व्यजनं चालयति’ एतत् दृश्यं भावुकहृदयेषु महदनुप्रेरणा-हिल्लोलमुत्पादयामास ।

जयरामवाट्यां निवसन्ती श्रीसारदादेवी एतावद्भिर्वर्षैः श्रीरामकृष्ण सम्बन्धे बहुविधं वृत्तान्तमशृणोत् । किन्तु कामारपुकुरमागतायास्तस्या मानसिका निखिला अपि सन्देहमेघाः क्षणात् व्यलुम्पन्, तत्कर्णचक्षुर्द्वन्द्वमपि निरस्तोऽभूत् । स तु सर्वभावेन स्नेहमयो ममतामयश्च वर्तते । स्वल्पैरहोभिरेव श्रीसारदादेव्या सम्पूर्णोऽपि तदीयसेवाभारः स्वकरयोगृहीतः । श्रीठाकुरोऽपि स्नेहेन ममतया च समीपमुपस्थाय पत्नीमधिकमाचकर्ष । सस्नेहं सर्वमपि कार्यं तामशिक्षयत् । दीपवर्तिका कथं स्थापनीयेत्यपि शिक्षयामास । तस्य प्रेममयेन व्यवहारेण प्रबलयाऽऽत्मीयतया च सा वशंवदा बभूव । समयव्यवधानं च तयोः सामीप्यं न व्यनाशयत् । चिरकालतः सम्मिलितप्राणावुभौ एकस्यैव पदार्थस्य द्वौ भागौ इव अदृश्येताम् | श्रीठाकुरो नानाविधमीश्वरीयप्रसङ्गमश्रावयत् । श्रीसारदादेवी च तन्मयभावेन सर्वं शुश्राव । भावावेशकाले सा सविस्मयं तं व्यलोकयत् ।

तयोः पारस्परिकीम् एतां घनिष्ठतां भैरवी ब्राह्मणो नैव साधुदृशाऽपश्यत् । तस्या भयमभवद् यत् तदीयः शिष्य आदर्शच्युतः सम्भवेत् । सा श्रीठाकुरं पत्नीतः पृथक् स्थापयितुमनेकविधं प्रयत्नमकरोत् । किन्तु श्रीठाकुरः स्वकर्तव्यसाधनेऽटलतां भेजे । एतेन ब्राह्मणी मनस्येव प्रतिहता बभूव । यदा श्रीठाकुरोऽद्वैतसाधनायां प्रवृत्त आसीत् तदापीयं तत्साधनातस्तं न्यषेधीत् । देवादिष्टः श्रीठाकुरो ब्राह्मण्या आदेशं नाङ्गीचकार । भैरव्या निर्णीतमासीद् यत् श्रीठाकुरे दिव्यचेतनाया दिव्यशक्तेश्च कारणभूता ममैव कृपा वर्तत इति । साऽकथयत् – “मयैव तुभ्यं दिव्यदृष्टिः प्रदत्ता” । श्रीठाकुरो मन्दं मन्दं विहस्य सर्वमशृणोत्, ब्राह्मण्याः समधिकसेवार्थं स्वपत्नीमादिशच्च, तां प्रसादयितुं स्वयमपि बहुविधमचेष्टत ।

ब्राह्मण्याः प्रवर्धमानदृप्तव्यवहारेण गृहस्थिताः सर्वा अपि स्त्रियः क्षुब्धा अभूवन् । प्रतिवेशिन्यो भैरवीसमीपमागन्तुं नेच्छन्ति । तस्याः क्रोधोऽहङ्कारश्चैतावान ववृधे यदेकदा कामप्येकां साधारणीं घटनामाश्रित्य हृदयरामेण साकं महान् विवादः समुपस्थितः । एतेन सर्वैर्दुःखमन्वभूयत । प्रशान्तक्रोधा ब्राह्मणी स्वाभ्यन्तरं पश्यन्ती विवादे तत्र स्वदोषमेवान्वभवत् । सन्तप्तमानसा सा श्रीठाकुरतः क्षमां याचमाना काशीधामनि समागच्छत् ।

सर्वप्रथमं ब्राह्मण्येव श्रीरामकृष्णदेवाभ्यन्तरे परमात्मशक्ति विकासमवलोक्य तमवतारविशेषं घोषयन्ती बहुवर्षपर्यन्तं तेनैव साकं तस्थौ । परमन्ते गुरुत्वाऽभिमानस्तस्या निर्मलां दृष्टिमाच्छादयत् ।

❀ ❀ ❀

कामारपुकुरस्य स्वास्थ्यप्रद जलवायुना ग्राम्यवातावरणेन च कतिभिश्वन मासैरेव श्रीठाकुरः स्वस्थोऽभवत् । तस्याङ्गेषु स्वास्थ्यप्रकाशो दृष्टिगोचरतामापद्यत । तस्य मुखादीश्वरीयकथामाकर्णयितुं ग्रामवासिनां संमर्दः समुपतिष्ठते स्म । तदीयमीश्वरीयभावावेशमवलोक्य भयभीता भूत्वा ते ग्रामवासिनोऽवाधारयन् यत् मृतोऽयमिति । बाल्यसङ्गिभिः सह सरसानालापान् कुर्वन् स एतादृशीः कथाः श्रावयति, याः समाकर्ण्य विहसतां स्त्रीपुरुषाणामुदरे व्यथा समुदपद्यत । तदानीं तमवलोक्य सर्वैरेवं प्रतीयते यत् साधारणोऽयं मानवः ।

मातुलं स्वग्रामे शिवहरे समानेतुं हृदयरामस्य बलीयसी वासनाऽऽसीत् । श्रीठाकुरः शिविकामारुह्य हृदयरामेण सह शिवहरमगच्छत । बहुदूरं यावद् विस्तीर्णे भुवो भागे विचरतस्तस्य मनसि विराट् चैतन्यस्य स्फूर्तिरभवत् । परिसरे वर्षाकालिकं सलिलमवलोक्य स भावस्थो बभूव । स व्याहरत् – “वर्षासलिलेन यथा धरित्री संपृक्ता, तथैव जीवजगत् चैतन्याप्लुतं वर्तते ।” इति ।

श्रीरामकृष्णदेवमानसं स्वभावत एवोर्ध्वगामि । अत “इदं भोक्तव्यमिदं खादितव्यम्” इति मनः शमयन् सहजदशायां नीचैरानयति स्म । कामारपुकुरे समागत्य प्रातरेव समादिशत् – “अद्येदं वस्तु पाचनीयम् ।” एकस्मिन् दिने पञ्चफोडननामधेयं सुगन्धिकरणद्रव्यं नासीत् । लक्ष्मीमाता श्रीठाकुरभ्रातू रामेश्वरस्य पत्नी व्याजहार – “नास्ति चेत् न भवतु, तद्द्रव्यं विनैव कार्यं चलिष्यति” । श्रुत्वेदं श्रीठाकुरो जगाद – “कथमेतत्, यदि तन्नास्ति, तदैकेन पणेन तदानय । यस्मिन् यस्य वस्तुन आवश्यकत्वं तद्विना कथं कार्य सेत्स्यति ? तव सुस्वाद्यवस्तुसंयुक्तं शाकं भोक्तुमेवाहं दक्षिणेश्वरादत्र समायातः, तदेव त्वं परित्यक्तुमिच्छसि ।“ लक्ष्मीमाता व्रीडयाऽभिभूता । त्वरितमेव द्रव्यं तदानाययामास । इत्थं विविधैः प्रकारैस्तेन ब्रह्मावगाहि स्वकीयं मनः सांसारिकभावेषु बलादानीतम् ।

सम्भवतः सप्तमासान् नानाभावैः कामारपुकुरे यापयित्वा श्रीठाकुरः पुनर्दक्षिणेश्वरमाययौ । १२७४ वङ्गीयहायनस्य (१८६७ ई०) अग्रहायणमासस्येयं वार्ता ।

❀ ❀ ❀

इतो मथुरमहोदयः सपत्नीको मध्यभारतपुण्यतीर्थेषु यात्राया आयोजनमनुष्ठितवान् । दक्षिणेश्वरं समागतं श्रीठाकुरमपि तीर्थयात्रायां नेतुं महान्तमाग्रहं सपत्नीकोऽसौ व्यधात्। सोऽपि सहमतो बभूव । परन्तु हृदयरामेणापि गन्तव्यमिति निर्णीतम् ।

ततः शुभमुहूर्तमवलोक्य ईसवीय १८६८ हायनस्य जनवरीमासीयसप्तविंश्यां तारिकायाम् (वङ्गीयस्य १२७४ वर्षीयस्य माघमासीयमध्यभागे) शताधिकमानवैः साकं श्रीठाकुरं गृहीत्वा मथुरमहोदयस्तीर्थाटनाय प्रतस्थे । यात्रिभिः प्रथमगन्तव्यस्थानं देवगृहं (देवघर) निर्णीतम् । सर्वे ग्रामस्यैकस्य मार्गमाश्रयन्तो जग्मुः । निर्धनग्रामवासिनां दुर्दशां दृष्ट्वा श्रीठाकुरस्य हृदयं करुणार्द्रमभूत् । तेन मथुरमहोदयः प्रोक्तः – “त्वमपि मातुर्देव्याः कार्यवाहकः, एतेभ्यो निर्धनग्रामीणेभ्यः शिरस्तु दानाय तैलम्, एकमेकं धौतवस्त्रम्, दिनस्यैकस्य कृते पर्याप्तं भोजनं च प्रदीयताम् ।” पूर्वं तु मथुरमहोदय एकं विघ्नमिममवाधारयत् पुनः प्रोवाच – “भगवन् ! तीर्थेष्वनेकप्रकारा व्ययाः क्रियन्ते । इमे च बहवः सन्ति । सर्वेषां भोजनादिदानेन धनराहित्यं स्यात् ।”

दरिद्रनारायणदुःखैः श्रीठाकुरस्य नयने सजले संवृत्ते । तदीयं हृदयमपूर्वया करुणया समाक्रान्तम् । स चोवाच – “गच्छ त्वम् । त्वया सह नाहं काशीं गमिष्यामि, साम्प्रतमहमेतेषां पार्श्वे निवत्स्यामि । एतेषां रक्षकः कोऽपि नास्ति, एतान् विहाय नाहं कुत्रापि गमिष्यामि ।“ इदमुक्त्वा मथुरमहोदयं हित्वा निर्धनेषु गत्वा समुपविवेश । विवशो भूत्वा मथुरमहोदयस्तदिच्छामनुसृत्यैव सर्वां व्यवस्थामकरोत् । बुभुक्षितानामाननेषु प्रसन्नतामवलोक्यासावग्रेऽसरत् ।

श्रीकाशीपुरीमागत्य भावाविष्टः श्रीठाकुरः सुवर्णमण्डितां ज्योतिर्मयीं काशीमपश्यत् । बहुभिर्युगैः साधुभक्तानां हार्दिको भक्तिभावो घनीभूतो हेममयभावप्रवाहेण शिवनगर्यामत्र ओतप्रोत रूपेण सर्वत्रैव परिव्याप्तोऽवलोकितः । श्रीठाकुरस्य मनसि शिवपुर्या एतावान् गम्भीरः प्रभावो न्यपतद् येन शौचादिद्वारा स्थानमिदमपवित्रीकर्तुं नास्य प्रवृत्तिरभूत् । अतः शिविकामारुह्य असिनद्याः परं पारमासाद्य शौचादिभ्यो निवर्त्तते स्म ।

मथुरमहोदयः केदारघट्टस्य सन्निधाने भवनद्वयं भाटकेन गृहीतवानासीत् । पूजादानादौ स हि मुक्तहस्तोऽभवत् । तस्य बहिर्गमनकाले अनेके रक्षापुरुषा अग्रतः पृष्ठतश्च राजतच्छत्रदण्डादिकमादाय चलन्तोऽदृश्यन्त । कश्चिद् राजेवासौ शोभते स्म ।

काश्यां निवसता श्रीरामकृष्णदेवेन प्रतिदिनं श्रीविश्वनाथ दर्शनार्थ गम्यते स्म । तत्र गत्वैवासौ भावस्थो भूत्वा स्वस्याभ्यन्तरे श्रीविश्वनाथस्य ज्योतिर्मयं प्रकाशमपश्यत् श्रीकेदारमन्दिरे तस्यायं भावो नितरां ववृधे ।

काशीप्रसङ्गे श्रीठाकुरेण प्रोक्तम् – “मणिकर्णिकाघट्टसामीप्यमासाद्यास्माकं नौकाऽतिष्ठत् । सहसैव तत्र शिवदर्शनं जातम् । नौकास्थित एवाहं समाधिस्थोऽभवम् । नाविकैर्हृदयरामो बोधितो – ‘गृहाणगृहाण, अन्यथाऽयं पतिष्यति’ । मया दृष्टम् – सम्पूर्णमेव जगत् स्वान्तरस्थं विधाय शिवोऽस्मिन्नेव मणिकर्णिकाघट्टे स्थितः । ततः क्रमशः स धावन्मत्समीपमागच्छति । पूर्व तु दूरादेवावलोकितः । ततोऽसौ समीपमागत्य ममाभ्यन्तरे समाविवेश” ।

वाराणस्यां तदीयान्यदर्शनानां विवृतिः “लीलाप्रसङ्ग”-पुस्तके प्राप्यते – “दृष्टम्, पिङ्गलवर्णजटाजूटधारी स एव श्वेतदीर्घकायपुरुषो गम्भीरं पादविक्षेपं कुर्वन् श्मशानस्थितां प्रत्येकचितामुपढौकमानः सर्वानेव देहिनो यत्नपूर्वकमुत्थाप्य तेषां कर्णेषु तारकब्रह्ममन्त्रमुपदिशति, सर्वशक्तिमयी स्वयं जगदम्बा महाकालिका स्वरूपं विभ्राणा प्राणिपार्श्वे चितोपरि समुपविश्य स्थूलसूक्ष्मकारणादिसर्वप्रकारजीव संस्कारबन्धनानि स्वहस्तेन विनाश्य निर्वाणद्वारमुद्घाट्य च स्वीयपरमधामाभिमुखं प्रस्थापयति ।

काश्यां सहसा श्रीठाकुरेण भैरवी ब्राह्मणी दृष्टा । सा चतुःषष्टियोगिनीस्थाने मोक्षदानामधारिण्या एकस्या भक्तिमत्याः स्त्रियः सन्निधाने निवसति स्म । श्रीठाकुरो बहुवारं तस्या निवासस्थानेऽगमत् । ततश्च ब्राह्मणी तेनैव साकं वृन्दावनमगच्छत् ।

श्रीठाकुरस्तैलङ्गस्वामिनं विलोक्य नितरां प्रासीदत् । तेनोक्तम् – “साक्षाद् विश्वनाथस्तस्य शरीरे प्रविष्टः प्रकाशते । तस्यावासेन काशी नितरां शुशुभे । ज्ञानस्योच्चदशामसौ समधिगतवान् । श्रीठाकुरस्तैलङ्गस्वामिनं भोजयितुं पायसं निर्माय नीतवान् । तं दर्शयित्वा हृदयरामः प्रोक्तः – “इयमेव सत्या परमहंसावस्था” ।

पञ्च सप्त वा दिनानि यावत् काश्यां स्थितेरनन्तरं श्रीठाकुरो मथुरमहोदयेन साकं प्रयागं प्रस्थितवान् । प्रयागे तदीयदर्शनादीनां घटनाविशेषस्योल्लेखो नावाप्यते । पुनरेकपक्षं यावत् काशीनिवासस्यानन्तरं सर्वे वृन्दावनं प्रतस्थिरे । तत्रत्यदर्शनादिसम्बन्धे श्रीठाकुरेण प्रोक्तम् – “मथुराया ध्रुवघट्टे समुपस्थितेन मयाऽदृश्यत यद् वसुदेवः श्रीकृष्णं कोडे गृहीत्वेव यमुनायाः पारं प्रयाति । गोवर्धनदर्शनकाले राधाकुण्डमार्गे श्यामकुण्डमायाति । गोवर्धनदर्शनसमकालमेवाहं विह्वलोऽभवम् । धावन गोवर्धनोपरि गत्वा स्थितः । ब्रजवासिनो मामवातारयन् । बाँकेविहारिणमवलोक्यैव भावाविष्टोऽहं तं ग्रहीतुमधावम् । वृन्दावने मया भिक्षुकव्रतमङ्गीकृतम् । तन्मयो पक्षमेकं पालितम् । कालीयदमनघट्टमवलोक्यैवाहं विह्वलतामुपेतः ।”

श्रीठाकुरस्य वृन्दावनस्थानादिदर्शनसम्बन्धे हृदयरामेण यत् किञ्चिन्निर्दिष्टम् तत् किल आलमबाजारमठस्थितस्य श्रीरामकृष्णानन्दमहाराजस्य २६।१२।९५ तारिकायां बाबूराममहाराजनाम्ना लिखितं पत्रमनुसृत्यैवंविधमास्ते – “श्रीश्रीगुरुदेवेन मधुरामवतीर्य सर्वप्रथमं ध्रुवघट्टप्रभृतेर्दर्शनमनुष्ठितम् । ततश्च स वृन्दावनधामनि समागत्य श्रीगोविन्दमन्दिर निकटवर्तिनि भवने चैकत्र समतिष्ठत । सङ्गे तस्य मधुरमहोदयहृदयरामप्रभृतय आसन् । वृन्दावने तस्य ==136== प्रायशो नित्यमेव भावावेशोऽभवत् । पदमेकमपि गन्तुं न शशाक । शिविकायामेवासौ नीयते स्म । तस्याः शिविकायाः द्वारमपिहितमभवत् । दर्शनं कुर्वन्नगच्छत् । यदैव भावेऽधीरो भूत्वा शिविकातः पतन्निव भवति, तदैव झटिति हृदयरामस्तं निरुणद्धि । हृदयरामः शिविकायाः पार्श्वं गृहीत्वा प्रचचाल । एवं हृदयरामेण साकं गत्वा राधाकुण्डस्य श्यामकुण्डस्य च तेन दर्शनं कृतम् । एतद्दर्शनकाले मथुरमहोदयः सङ्गे नासीत् । मथुरमहोदयेन प्रायः सार्धशतमुद्राणां चतुराणक्यो द्व्यायाणक्यश्च वितरणार्थं हृदयरामस्य हस्ते समर्पिता अभूवन् । श्रीठाकुरेण वैष्णवसाधुभ्यो दानं प्रदातु हृदयरामः समादिष्ट आसीत् । ततश्चायं गोवर्धनदर्शनार्थं जगाम । तत्र गत्वा नग्नो भूत्वाऽसौ गिरिशिखरमारूढवान् । तीर्थपुरोहितैः सयत्नमसौ नीचैरवतारितः ।

“गङ्गामाता तमवलोक्य पर्यचिनोत् । श्रीठाकुरस्तस्याः सन्निधौ षट् सप्त वा दिनानि न्यवसत् । हृदयरामो मथुर महोदयस्यानुरोधेन श्रीठाकुरमनिच्छन्त्यामपि गङ्गामातरि निधुवनात् समानिनाय । “वृन्दावने तेन भिक्षुकव्रतं जगृहे । अनन्तरमेतद्विषये लिखिष्यते ।“

वृन्दावने श्रीठाकुरस्य गङ्गामातुश्च मिलनमेकमभूतपूर्वमासीत् । गङ्गामाता निधुवने तिष्ठति, उच्चकोटिसाधिका चासीत् । यदा कदा तस्या भावावेशोऽपि जायते स्म । तस्या भावं द्रष्टुं जनानां सम्मर्द उपस्थितोऽभवत् । भावाविष्टैव सा श्रीठाकुरमवलोक्य पर्यचिनोत् । साऽवदत् – “इयं साक्षात् श्रीराधिकैव देहं धारयन्ती समागता” । सा किल तं दुलारीनाम्ना समाह्वयति । कस्याप्यपरिचित पुरुषस्य दुलारीनामत आह्वानम् ! गङ्गामाता भावनेत्राभ्यां पश्यति स्म । मधुरभावसाधनकाले श्रीराधिका ठाकुरस्याङ्गेषु समागता बभूव । ततः प्रभृत्येव सा श्रीठाकुराभ्यन्तरे न्यवसत् । अत एव गङ्गामाता श्रीठाकुरं राधिकारूपेण ददर्श । श्रीठाकुरोऽपि गङ्गामातरमासाद्य भावाविष्ट एव तस्थौ । अत्यधिकस्यानन्दस्यावेशतोऽसौ दक्षिणेश्वरमपि व्यस्मरत् । तदानीमेव मथुर महोदयस्य काशीप्रत्यावर्तन समयः समायातः गङ्गामाता कथमपि स्वीयां दुलारीं प्रस्थापयितुं परित्यक्तुं वा न शक्नोति । श्रीठाकुरस्यैकं हस्तं गृहीत्वा हृदयराम आकर्षति, अपरं च गङ्गामाता । तदानीमेव काले श्रीठाकुरस्य मनस्यायातं यत् – “दक्षिणेश्वरस्य मन्दिरे मम जन्मदात्री माता एकाकिनी तिष्ठति । इदमवधार्यासौ वृन्दावने न समधिकं तस्थौ ।

पक्षमेकं वृन्दावन उषित्वा पुनः सर्वे काशीमागतवन्तः । श्रीठाकुरस्याज्ञया मथुरमहोदयः काश्यां ‘कल्पतरु’रभवत् । ब्राह्मणेभ्यो दरिद्रेभ्यश्च मुक्तहस्तेन तेन बहुदानं प्रदत्तम् । कश्चिदपि याचको विमुखो नाभूत् । किञ्चिद् ग्रहीतुमनुरुद्धः श्रीठाकुरः प्रत्युवाच – ‘यदि प्रेम्णा किमपि दातुमिच्छसि, तदैकं कमण्डलुं देहि ।” श्रुत्वैतत् मथुर महोदयस्य नेत्रे मजले संवृत्ते ।

‘'एकमेवाद्वितीयम्’ इति भावे प्रतिष्ठितस्य श्रीराम कृष्णदेवस्य तीर्थान्तरगमनेन किं प्रयोजनम् ? स्वयमेवासौ सर्वतीर्थस्वरूपो वर्तते । सर्वे देवा देव्यश्च तेनैव साकं तिष्ठन्ति । एतस्मिन्विषये श्रीमन्महाभारते दृश्यते :–

“तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनयः सशिष्याः, प्रायेण तीर्थाभिगमापदेशैः स्वयं हि तीर्थानि पुनन्ति सन्तः ।“ तथा च – “भवाद्विधा भागवतास्तीर्थभूताः स्वयं विभो, तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता ॥“ इति शास्त्रसिद्धान्तो याथातथ्येन प्रमाणितो भवति । श्रीरामकृष्णदेवस्य जीवनमवलोक्य तीर्थस्य वास्तविकं माहात्म्यमवगन्तुं प्रमाणान्तरावश्यकत्वं नास्ति ।

श्रीठाकुरो गयाधाम्नि गन्तुं नैच्छदतो मधुरमहोदयो गयागमनं विनैव कलिकतां पराववृते । मासचतुष्टयं तीर्थभ्रमणानन्तरं १२७५ वङ्गाब्दस्य (१८६८ ई०) ज्येष्ठमासस्य मध्यभागे पुनर्दक्षिणेश्वरमाजगाम । श्रीठाकुरः पञ्चवट्याश्चतुर्दिक्षु वृन्दावनस्य रजांसि न्यपातयत् । किञ्चिद् रजस्तेन निजसाधनकुटीरस्य मध्यभागे निखातम् । “अद्यप्रभृति स्थानमिदं वृन्दावनमिव देवभूमित्वं प्रपन्नम्” इति सानन्दं तेन प्रतिपादितम् । तदानीमेव काले मथुरमहोदयेन बहून् वैष्णवगोस्वामिभक्तानामन्त्रय पञ्चवट्यां विराट् महोत्सव आयोजितः । विपुलां दक्षिणां भोजनं च समधिगच्छन्तस्ते सर्वे मथुरमहोदयाय तीर्थयात्रा सुफलमाशीर्वादांश्च प्रयच्छन्तो जग्मुः ।

❀ ❀ ❀

१२७५ वङ्गाब्दीये (१८६८ ई०) शारदीयनवरात्रे श्रीठाकुरं गृहमानीय दुर्गोत्सवं सम्भावयितुं हृदयरामस्य मनसि महती समीहा समुदपद्यत । तदैव मथुरमहादयस्य जानबाजारस्थितानवासस्थाने दुर्गोत्सवः सम्पादनीय आसीत् । मथुरमहोदयः स्वबाबामहाशयं कथमपि परित्यक्तुं नैच्छत् श्रीठाकुरस्य स्वगृहानयनेऽसामर्थ्यात् हृदयरामस्य मनसि सुमहानाघातो जातः । तं दुःखितमवलोक्य श्रीठाकुरः ==139== प्रोवाच – “त्वं कथं खिद्यसे ? अहं सूक्ष्मशरीरेण नित्यमेव तव पूजायां सम्मिलितो भविष्यामि । अन्यः कश्चित्त मां न द्रक्ष्यति, परन्तु त्वमवश्यमेवालोकयिष्यसि । एतदेव संवृत्तम् । सप्तमीविहितपूजां समाप्य नीराजनसमये हृदयरामेण विलोकितं यत् श्रीठाकुरो ज्योतिर्मयदेहधारी भावस्थो भवन् प्रतिमायाः पार्श्वे तिष्ठतीति । अनन्तरं हृदयरामेण कथितम् – “प्रतिदिनं सम्प्रति सन्ध्याकालिकपूजावसरे च देवीप्रतिमासन्निधौ दिव्यदेहधारिणं मातुलमपश्यम् ।” दक्षिणेश्वरमागत्य हृदयरामेण यदा प्रतिदिनं श्रीठाकुरस्य दर्शनवृत्तान्तो निवेदितस्तदा तेन प्रोक्तम् – “नीराजनसमये सन्ध्याकालिक पूजावसरे च मयैतदनुभूतं यदहं ज्योतिर्मयदिव्यशरीरेण तव चण्डीमण्डपे समुपस्थितोऽस्मीति” ।

श्रीरामकृष्णस्य जीवने देवत्वमानवत्वयोः सम्मिश्रणं वस्तुतोऽलौकिकं सर्वमाधुर्यमयं च । एकतस्तत्रात्युच्चब्रह्मानुभूतिर्ब्रह्मदृष्टिश्वाविद्यत, तथैव परतः साधारणमनुष्यवदसौ सुखदुःखाभ्यामप्यभिभूयते स्म । अन्यदीयसुखदुःखाभ्यां तस्याविच्छिन्नभावसम्बन्ध इवासीत् । दशाद्वयेऽप्यसौ सहजभावतो विचचार । एकत्र क्षणे स जीवजगत उपरि स्थिते परमतत्त्वेऽवस्थितो दृश्यते, परमपरत्र क्षणे च पुत्रशोकसन्तप्तमनुष्य कृते समवेदनापूर्णो भूत्वा अश्रूणि विमुञ्चन् परिलक्ष्यते ।

श्रीठाकुराग्रजरामकुमारस्यात्मजः सूतिकागृह एव मातृहीनो जातः । रामाक्षय इति तदीयमभिधानम् । वयस्थो भूत्वाऽसौ हि दक्षिणेश्वरे विष्णु मन्दिरस्य पूजकोऽभवत् । तदीयां भक्तिं तन्मयतां च विलोक्य सर्वे मुग्धा आसन् । अतः श्रीठाकुरोऽपि तस्मिन् नितरां प्रासीदत् । रामाक्षयं वर्षत्रयावस्थां यावदसौ स्वक्रोडे एवाक्रीडयत् । स एव खुदिरामकुलस्य गौरवचिह्नमासीत् । तस्य निष्ठा, भावुकता भक्तिश्चानुपमा अभूवन् । एकविंशतिवर्षदेशीयोऽसौ विवाहानन्तरं श्वसुरपुरे भयावह रोगेण समाक्रान्तो बभूव । किञ्चित्स्वस्थो भूत्वा दक्षिणेश्वरं प्रत्यगच्छत् । सम्प्रति किञ्चित् स्वास्थ्यं सबलत्वमधिगत एवासौ पुनर्ज्वरेण समाक्रान्तः । डाक्टरः प्रोवाच – “साधारणोऽयं ज्वरस्त्वं त्वरितमेव नैरुज्यमवाप्स्यसि ।“ दिनचतुष्टयं यावद् ज्वरो न न्यवर्तत । श्रीठाकुरो दृष्ट्वेदं हृदयमेकान्ते नीत्वा प्रोवाच – “डाक्टरेण न परिचीयते । अक्षयो विकाराक्रान्तः । कमपि साधीयांसं चिकित्सकमानीय चिकित्सां कारय, परन्तु निराशो भव । बालकोऽयं न जीविष्यति ।“

श्रुत्वेदं हृदयरामोऽवादीत् “हन्त मातुल ! किमेवं ब्रवीषि ?” श्रीठाकुर उदतरत् – “किमहं स्वेच्छया कथयामि ? जगन्माता यदेव मां व्याहारयति, समीहामन्तरेणापि तदेवाहं वच्मि । किमवधारयसि, अक्षयमृत्युर्ममाऽभिप्रेतः ?”

अक्षयस्यान्तिमसमयः सन्निधत्ते । श्रीठाकुरस्तस्य शय्यायाः सविधे गत्वा प्रोक्तवान् – “अक्षय ! उच्चारय – ‘गङ्गा, नारायण, ओम्, राम’ इति ।” वारत्रयमुच्चारणेनैव अक्षयस्यात्मा अक्षयधाम प्रतस्थे । हृदयरामो रुदन् विह्वलो जातः । किन्तु श्रीठाकुरो भावावेशे स्थितः सर्व पश्यन् व्यहसत् । तेनावलोक्यते स्म यदात्मा कथं निस्सरति, कुत्र गच्छति च ? मृत्युः किलावस्थान्तरप्राप्तेरपरं नाम ।

द्वितीयदिवसस्येयं घटना । श्रीठाकुरः शान्तः स्वगृहस्योपप्रकोष्ठे स्थितः सहसाऽक्षयस्य शोकेनाभिभूतोऽभवत् । तेन प्रोक्तम् – यथा वस्त्रनिष्पीडनं क्रियते, तथैव ममाभ्यन्तरभागमपि कोऽपि निष्पीडयतीति मयाऽज्ञायत । द्वितीये क्षणे पुनर्भावस्थो भूत्वा न्यगादीत् ‌ – “मातः ! अत्र तु स्ववस्त्रस्यैव बोधो नास्ति, भ्रातृजेन कः सम्बन्धः ? साधोर्ममैतावान् शोकस्तदा सांसारिकाणां का गतिः । इदमेव मां दर्शयसि मातः !”

❀ ❀ ❀

मथुर महोदयः श्रीठाकुरं दिवानिशं यावता परीक्ष्य पश्यति तावतैव तदुपरि तस्य श्रद्धाऽऽकर्षणं च प्रवर्धते स्म, एतादृशस्त्याग-संयम-ज्ञानभक्ति-भगवत्परिपूर्णता-विगलितकरुणा-प्रभृतयो भावा नान्यत्रावलोक्यन्ते । परन्तु एतैः सार्धमहंकारत्यागोऽपि तथैव ।

श्रीठाकुरं स्वतः स पृथकस्थं कर्तुं नापारयत् । आहारे विहारे, किमधिकं – शयनकालेऽपि तं स्वपार्श्वे रक्षितुमैच्छत् । बहुविधैर्भावैः श्रीठाकुरं सेवमानस्यापि तस्य मनस्तृप्तिं नासादयति । सुवर्णपात्रेषु भोजयित्वा सहस्रमुद्रा मूल्यात्मकैः कौशेय पट्टाम्बरैस्तं छादयित्वाऽपि न तस्य वासना परिसमाप्तिमेति । बहुमूल्यवस्त्राणि पद्भ्यां मर्दयित्वा स्वर्णपात्राणि च थूत्कृत्य प्रक्षिपति, यतोऽयं ‘समलोष्टाश्मकाञ्चन’ दशामधिगतोश्रीठाकुरं सन्तर्पयितुं मथुरमहोदयेन अन्नमेरुयज्ञस्यानुष्ठानं विहितम् । महान्तः साधवो महात्मानः पण्डिताश्चामन्त्रिताः समभूवन् । श्रीठाकुरं कीर्तनं श्रावयितुं विश्रुताः कीर्तनकारिणः समाहूताः । गायकगायिकानां योग्यतापरिमाणज्ञानमिदमेवासीद् यत् तदीयगानकीर्तनं शृण्वन् श्रीठाकुरः समाधिस्थो भवेत् । यस्य कीर्तनश्रवणेन तस्याधिकः समाधिर्भवेत् स एव सर्वाभ्यर्हितः कीर्तनकर्ता ज्ञास्यते । तस्मै एव अधिकः पुरस्कारो दातव्य इति । श्रीठाकुरमुद्दिश्यानन्दमहोत्सवः प्राचलत् । बभूव । विकारातीतस्य श्रीठाकुरस्य कस्मिंश्चिदपि वस्तुनि आसक्तिर्नासीत् ।

तदानीं मधुरमहोदयः केषुचिद्दिवसेष्वनन्तरितेष्वेव श्रीरामकृष्णं जानबाजार स्थिते स्वगेहे समानयत् । बाबामहाशयं प्रति मथुरमहोदयस्यासाधारणमाकर्षणमवलोक्य कालीघट्टम्वामिनो हालदारपरिवारस्य पुरोहितो मनसि नितरां प्रजज्वाल । तेनालोचितम् – “आपदियं कुतः समायाता ? ज्ञायते एष मथुरमहोदयं प्रति इन्द्रजालमपातयदन्यथाऽसौ एतस्यैतावद्वशे कथमागतः । अयं किल पाखण्डिनां प्रथमस्तत्रापि निरीहतायाः प्रदर्शनं करोति । हन्त ! केनापि प्रकारेणैतस्येन्द्रजालं मम हस्ते समागच्छेत् ।”

एकदा सन्ध्याकाले श्रीठाकुरो जानबाजारस्थे गृहे अर्धचेतनावस्थायामुपविष्टोऽभवत् । शनैः शनैस्तस्य सहजा दशा प्रत्यागच्छति । तदानीमेवासौ पुरोधाः कुतश्चिदागतः श्रीठाकुरं चैकाकिनमुपविष्ट व्यलोकयत् । अयमेवानुकूलः समय इति मनसि विमृश्य, समीपमागत्य च इतस्ततो निरीक्षमाणः श्रीठाकुरस्य शरीरे ईषदाघातं कुर्वन् उवाच – “अये ब्राह्मण ! वद त्वया बाबू केन विधिना वशमानीतः ? कथय, कथं मायां विरच्य शान्तस्तिष्ठसि ? किं न ब्रवीषि ?” बहुवारं कृतेऽपि प्रश्ने, यदोत्तरं न लब्धं तदा क्रुद्धेन तेनोक्तम् – “अयं श्यालको न कथयिष्यति” इति जल्पन् स्वोपानद्गूढपादेन श्रीठाकुरं प्रहृत्य प्रत्यगच्छत् । क्षमामूर्तिः श्रीठाकुर एतद्घटनाविषये किमपि कस्मैचनापि न प्रकाशयामास । तेन ज्ञायते स्म यन्मथुरमहोदयकर्णगोचरीभूतायामस्यां वार्तायां पुरोहितस्य का दशा भविष्यतीति । परन्तु किञ्चिद्दिनानन्तरं केनापि कारणान्तरेण पुरोहितोऽसौ मथुरमहोदयेन स्वगृहान्निष्कासितः । अनन्तरं कदाचित् प्रसङ्गवशात् श्रीठाकुरो मथुरमहोदयं घटनामिमां श्रावितवान् । श्रुत्वैव क्रोधान्मथुर महोदयस्य चक्षुषी रक्ताभे संवृत्ते । साक्षेपं तेनोक्तम् – “बाबा, घटनामिमां यद्यहं तदानीमेवाश्रौप्यम्, तर्हि पुरोधसं जीवन्तं न कदापि पर्यत्यक्ष्यम् ।“

अनन्तरं देहत्यागात्किञ्चिद्दिनपूर्वं कदाचिन्मथुरमहोदयः प्रोक्तवान् – “बाबा, तवाभ्यन्तरे केवलं स एवेश्वरो विराजते, नान्यत् किमपि । शरीरं तु केवलं कञ्चुकमात्रम् ।” रात्रौ दिने वा यदापि मथुर महोदयः श्रीठाकुरं पश्यति, तदानीमेव तच्चरणयोर्मस्तकं नमयति ।

ततः किञ्चिद्दिनानन्तरं मथुरमहोदयः श्रीरामकृष्णं सहैव नीत्वा स्वीयभुस्वामितावृत्तान्तमवलोकयितुमगच्छत् । राणाघट्टाभ्यर्णं कलाईघट्टमागतस्य श्रीठाकुरस्य नयने दरिद्रतापेपीड्यमानग्रामीणस्त्रीपुरुषदुरवस्थायामपतताम् । तेषां शीर्णवस्त्राणि शुष्कामाकृतिमवलोक्यैव तदीयं मानसं चीत्कृतिमातनोत् । मातुरानन्दमय्या राज्ये एतावन्ति दुःखकष्टानि ! तेन मधुरमहोदयः प्रोक्तः – “एतान् उदरपूरणं भोजय, परिघानार्थमेकमेकं वस्त्रं देहि, शिरसि प्रदातुं तैलं च ।” पूर्व तु मथुरमहोदयेनापत्तिः कृता । किन्तु श्रीठाकुरस्य हठेनान्ते तदिच्छानुसारं सर्वानतर्पयत् । ततश्च श्रीठाकुरस्यादेशेन निर्धनप्रजानां वार्षिककरोऽपि मथुर महोदयेन परित्यक्तः ।

श्रीठाकुरो मासषट्कं निर्विकल्पसमाधावतिष्ठत् । जन्मग्रहणानन्तरमेव श्रीमद्भगवता सहाखण्डं विलसति भ्राम्यति च । तथाप्ययं साधारणान् मानवान् न विसस्मार । विस्मर्तुं कथं शक्नुयात् ? मनुष्या अपि भगवत्स्वरूपा भगवदंशा एव । मानवपरित्यागेन भगवत्प्राप्तिरसम्भवैव । श्रीरामकृष्णजीवने अकिञ्चनान् दुःखदारिद्र्यप्रपीडितान् जनान् प्रति गभीरानुकम्पा तथा हार्दिकी सहानुभूतिः अस्मान् विमुग्धमानसान् व्यधत्त ।

मथुर महोदयस्य देवादिष्टं कर्म समाप्तिमगात् । तदीयो महायात्राकालः सन्निधत्ते । सप्ताष्टौ दिनानि ज्वरस्य भोगानन्तरं तदीय आत्मा देवीलोकमगच्छत् । अन्तिमसमये मथुरमहोदये रुग्णे सति श्रीठाकुरोऽवगतवान् यदिमं जगन्माता स्वधाम नूनं नेष्यति । प्रतिदिनं स मथुरमहोदयवृत्तान्तमवगन्तुं हृदयरामं प्रेषयति । किन्तु स्वयमेकवारमपि नागच्छत् । १२७८ वङ्गाब्दश्रावणस्य प्रथमतिथौ (१८७१ ई०) तृतीयप्रहरे श्रीठाकुरो गम्भीरभावस्थो ज्योतिर्मयदेहेनान्तकाले स्वसेवकस्य शय्यासमीपमाययौ । पञ्चवादने भावसमाधिर्व्यपगतः । स च हृदयं स्वसमीपमाहूय प्रोक्तवान् – “जगन्मातुः सहचारिण्यो मथुरं सम्मानपूर्वकमेकस्मिन् दिव्यरथे स्थापयित्वा निन्युः । तदीयं ज्योतिर्देवीलोकं प्रापत् ।“ समधिकरात्रौ व्यतीतायां समाचारो लब्धो यत् – ‘मधुरमहोदयः सायं पञ्चवादने स्वर्गतः ।‘

बहोः कालस्यानन्तरं “मधुरमहोदयस्य किमभूत्” इति जिज्ञासितः श्रीठाकुरो भक्तान् प्रोवाच – “कुत्रापि गत्वा कश्चिद् राजा महाराजो वा भूत्वा जन्म ग्रहीष्यति । यतस्तस्य भोगवासना प्रबलाऽऽसीत् ।”

पूर्वमैवैतल्लिखितं यत् १२७४ वङ्गीयाब्दे श्रीरामकृष्णदेवेन सारदादेव्या च कामारपुकुरे सहैव कतिचिन्मासा व्यतियापिताः । एतस्मिन्नवधौ श्रीठाकुरस्य दिव्यसहवासेन श्रीसारदादेव्या यो ह्यानन्दः समुपलब्धः स हि श्रीसारदादेव्याः कथनेनैव ज्ञायते – “हृदये आनन्दपरिपूर्णो घटः स्थापित इव संवृत्तः । तदा प्रभृति निरन्तरं मया स एवापूर्व आनन्दोऽनुभूयते । धीरस्थिरदिव्योल्लासे हृदयं कथं सम्भृतमासीदिति कथयितुं न कदापि शक्यते ।“

ततः श्री सारदादेवी चत्वारि वर्षाणि पुनरपि जयरामवाट्यां व्यतीयाय । इदानीमियमष्टादशवार्षिकी पूर्णा युवती संवृत्ता । हृदये स्वामिनो ध्यानं कुर्वती आनन्दस्मृतिपरिपूर्ण मानसा तत्र ससुखमुवास । किन्तु जयरामवाट्यामेतर्हि विचित्रा चर्चा प्रचरति — ‘जामाता उन्मत्तः संवृत्तोऽस्ति’ । इयमपि ग्राममहिलासमाजे एकोन्मत्तपत्नी अवधार्यते । पतिनिन्दाश्रवणतो नैजमात्मानं विमोक्तुमियं गृहान्न निःसरति । किन्तु एतावतैव समस्या न समाधीयते । श्रीसारदादेव्या मनः किञ्चित् शङ्कितं जातम् । ‘पञ्चमुखे परमेश्वरो वसतीति’ लोकोक्तिरेव कदाचित् सत्या भवेत्, साम्प्रतं ममात्राधिकनिवासो न समीचीनः । तदीये नेत्रे मन्दायेते । श्रीसारदादेव्याः प्रतिवेशिन्यः काश्चन कस्यचिद् व्रतस्योपलक्ष्ये गङ्गां स्नातुं गन्तुमुद्यता बभूवुः । ‘अयमेव शुभोऽवसर’ इति श्रीसारदादेव्या मनसि विचारितम् । तया च प्रतिवेशिनीनां समीपे स्वीयगङ्गास्नानसमीहा प्रकाशिता । तस्याः पिता रामचन्द्रो यदा तदीयामिमामिच्छामशृणोत् तदा पिताऽवधारितवान् यदस्याः स्नानेच्छा कथं भवति । स च तां स्वेनैव साकं नेतुं सन्नद्धोऽभवत् ।

शुभदिने यात्रा प्रारब्धा । सुदीर्घसङ्कीर्णग्राम्यमार्गेण गम्यते स्म । तथापि श्रीसारदादेवी प्रसन्नमानसा विस्तीर्णक्षेत्रात्क्षेत्रमाक्रमद्भिस्तै सर्वैः सहागमत् । रात्रौ सर्वे कुत्रापि विश्रामस्थाने विश्रम्य पुनर्दिने प्रचलन्ति । किन्तु दिनद्वये व्यतीते एकस्मिन् स्थाने ==145== श्रीसारदादेवी भीषणेन ज्वरेण समाक्रान्ता पितुर्विशेषचिन्ता हेतुतां प्रपेदे । परन्तु एकयाऽघटनीयघटनया सा विस्मिताऽक्रियत । परवर्तिकाले कदाचिद् भक्तानां समीपे तथा प्रोक्तम् – “ज्वरेण यदाऽह विगतबोधाऽभवम्, तदाऽपश्यम् यदेका स्त्री मम पार्श्वे समागत्योपविष्टा । सा कृष्णवर्णा, किन्तु सुन्दरी एतादृशी आसीत् यत् तादृशसुन्दरी स्त्री मया कदाचिदपि नावलोकिता । उपविष्टैव सा मम मस्तके शरीरे च स्वहस्तं भ्रामयितुं प्रावर्त त । स हस्तश्च कीदृशः शीतल कोमलश्च ! शरीरज्वाला शान्तिमापत् । मया सा जिज्ञासिता – कुतस्त्वं समागता ? अहं दक्षिणेश्वरादागता इति तयोत्तरितम् । श्रुत्वेदं स्तब्धीभूताऽहं प्रोक्तवती – दक्षिणेश्वरात् ? ममापि मनो दक्षिणेश्वरं गन्तुं, तमवलोकयितुं, तत्सपर्यामनुष्ठातुं च मां समादिशति । किन्तु सम्प्रति मार्गे ज्वराक्रान्ततया ज्ञायते यत् तत्सर्वं मम भाग्ये नास्ति । तया प्रोक्तम् – कथमेतत् त्वं तु दक्षिणेश्वरं गच्छसि । नीरोगा भूत्वा तत्र गच्छ, दर्शनं चानुतिष्ठ । त्वदर्थमेव मया स दक्षिणेश्वरे निरुद्धः’ । मया पृष्टम् – ‘त्वं मम काऽसि’ ? तयोत्तरितम् – ‘अहं तव भगिनी’ । अहमुक्तवती – ‘सत्यम्, एतदर्थमागताऽसि ?” । एतद्बार्तालापानन्तरमहं पार्श्व परिवर्तयन्ती निद्रां प्रपन्ना’ । दक्षिणेश्वराच्छ्रीमहाकाली स्वभगिनीं श्रीसारदां नीरोगां विधातुं तथा तस्या मानसं चिन्तारहितं शान्तं च कर्तुं तत्र विजनस्थाने रात्रावागता ।

आगामिदिने प्रात. श्रीरामचन्द्रेण दृष्टं यत् कन्याया ज्वरो व्यपागमत् । ततोऽसौ शनै शनै पुनः प्रस्थानमकार्षीत् । ईषदुरगमनानन्तरमप्रत्याशित रूपेणैका शिविका लब्धा । क्रमशो मार्गोऽपि समाप्तप्राय एव । निशि समागतायां सर्वे दक्षिणेश्वरमाययुः ।

पत्नी मार्गे ज्वराक्रान्ता – इति श्रुत्वा श्रीठाकुरो विशेषरूपेणोद्विग्नोऽभवत् । त्वरितमेव पत्नीकृते स्वगृहे स पृथक् शय्याया व्यवस्थां सम्पद्य स्वयं तस्याः सेवायां संलग्नः । तेन स्वभावत एव दुःखं प्रकाशयता कथितम् – “त्वमेतावद्दिनानन्तरमागता ? इदानीं सेजोबाबू (मथुरामोहनः) नास्ति यस्तव सेवायां यत्नमनुतिष्ठेत् ।” त्रिचतुर्दिनानि स्वगृहे स्थापयित्वा औषधपथ्यादिनाऽसौ स्वपत्नीं स्वस्थामकरोत् । ततश्च स्वमातुर्निकटे नौबतस्थले श्रीसारदादेव्या निवासव्यवस्थामकार्षीत् ।

श्रीठाकुरेण कतिपयमात्रदिनसङ्गता श्रीसारदादेवी पत्युः प्रीत्याऽजस्रान्तरिकतया चाप्यायिता बभूव । तयावगतं यत् जनैर्यत्किमपि भणितं तत्सर्वमसत्यम् । यथाऽयं पूर्वमासीत् तथैव साम्प्रतमपि । तां प्रति श्रीठाकुरस्याकर्पणं किञ्चिदपि न्यूनं नास्ति । स्वास्थ्यलाभानन्तरं सा नौबतस्थलस्थिता सोल्लासं मनसा वचसा कर्मणा शरीरेण च स्वश्वश्रूस्वामिनोः परिचर्यायां संलग्नाऽभवत् ।

श्रीरामकृष्णदेवेन पत्नी समाहूता नासीत् । सा स्वयमेवागतवती । सा आगताऽऽसीत् स्वामिना साकं स्वघनिष्ठतावर्धनद्वारा तेन सह परिचयदृढीकरणाय तस्य च मनोभावेन सेवां निर्वर्तयितुम् । स्वेच्छया सारदादेव्या दक्षिणेश्वरे समागमं श्रीठाकुरो जगन्मातुः सङ्केतमवाधारयत् । तेन विचारितं – यत् तया साकं मम सम्बन्धस्तां मत्तः दूरे स्थापयितुं कदापि न जातः । एतया विना तु मम जीवनमेवापूर्णम् । तेन स्वीयं कर्तव्यं सम्यक् स्थिरीकृतम् । एतेन तस्य जीवनस्यैकदिव्यभावः प्रकाशमागतः ।

प्रागेवेदमुल्लिखितं यत् श्रीरामकृष्णदेवेन विवाहात्पूर्वमेव भावाविष्टेनैकवारं स्वयमेव स्वकीयाया भाविन्याः पत्न्याः सङ्केतस्थानं सूचितमासीत् । सर्वं ज्ञात्वैव तेन कथितमभूत् । कासौ कन्या, तेन सह पत्न्याः, पत्न्या च साकं तस्य कः सम्बन्धः, विवाहस्य च किं प्रयोजनम् इति सर्वमवगत्यैव तेन विवाहो विहित आसीत् । तर्हि कथमेतत्सम्भवं यद् विवाहानन्तरं सर्वमसौ विस्मरिष्यति । अस्माभिरिदं विज्ञायते यदयं केवलं जगन्मातुरादेशं प्रतीक्षते स्म ।

इतः पूर्वमेव तन्त्रसाधनायां प्रतिष्ठितस्य श्रीठाकुरस्य चेतसि नारीमात्रोपरि मातृभावः समुत्पन्नो बभूव । ततस्तेन वेदान्तसाधनायामद्वैतसिद्धिरधिगता । मासषट्कं निरन्तरमसौ निर्विकल्पसमाधौ स्थितोऽभवत् । प्राणिमात्रे च ब्रह्मदर्शनमकरोत् । ततस्तस्य का भीतिरस्ति यदसौ भार्यां दूरे स्थापयितुं प्रयत्नवान् भवेत् ।

❀ ❀ ❀

श्रीरामकृष्णदेवो मनोवाक्कायैः पुत्र-वित्त-लोकैषणां सांसारिकीं निखिलामपि वासनां परित्यज्यैव संन्यासी बभूव । सोऽनुपमं त्यागोज्ज्वलं जीवनं कस्यचिद्धातुद्रव्यविशेषस्य स्पर्शमात्रेणैव तस्य शरीरे कम्प इव जायते स्म । तेन स्वयमेव श्रावितम् – “एकदा मथुरमहोदयस्य, मारवारदेशनिवासिनो लक्ष्मीनारायणस्य च सम्पत्तिः सलेखं मह्यं दीयते इति वृत्तान्तमाकर्ण्य मम शिरसि शूलमिव प्रविवेश महती यन्त्रणा बोभूयते स्म ।”

हावभावसम्पन्नानां सुन्दरीणां मध्येऽप्यसौ समानीयत, किन्तु तत्र गत्वैव समाधिस्थोऽभवत् । अन्या अपि बह्व्यो घटनावल्यः सन्ति, यास्तदीयजीवने त्यागस्यादर्शमत्युन्नमयन्ति ।

❀ ❀ ❀

केवलं विभिन्नधर्माणां साधनार्थं, संन्यास ग्रहणार्थमेवासौ न समागतः स हि सर्वदेशसर्वस्तरीयजनमङ्गलसाधनार्थं, प्राणिमात्रकल्याणार्थं च समायातोऽभूत् । तस्य जीवने सर्वविधा परिपूर्णता प्राप्यते । संसारे कोटिशः स्त्रियः पुरुषाश्च गृहस्थजीवनं यापयन्ति । तेषां कृते नवीन आदर्शो रामकृष्णजीवने प्राप्यते । एतदादर्शपरिपूरणार्थमेव तेन विवाहः कृतः । श्रीसारदादेवी तदर्थमेव दक्षिणेश्वरमाययौ ।

“त्यागेनैके अमृतत्वमानशुः” इत्युपनिषच्छ्रुतिवाक्यं मानवमात्रहिताधायकम्, अत्र संन्यासिनां गृहस्थानां वा प्रश्नो नोदेति । अयमेवामृतत्वाधिगममार्गः । भारते वर्षेऽसावप्येकः समय आसीद् यत्र गृहस्थाश्रमोऽपि त्यागादर्शोपरि प्रतिष्ठितो बभूव । सामयिकप्रभावेण साम्प्रतिकः समाजस्तस्मादादर्शतः सर्वथा पराङ्मुखोऽस्ति । भूमानन्दप्राप्तेरेकः सोपानभूतः पन्थाश्च गृहस्थाश्रमो मन्यते स्म । किन्तु साम्प्रतं स बहुदूरमतीते गुञ्जायमानं तस्यैकं प्रतिध्वनिमात्रमवशिष्यते । गृहस्थाश्रमवासिभिरप्यमृतत्वमधिगम्यताम्, तैरपि सत्पथमाश्रीयताम्, इत्युद्देशसिद्धय एव श्रीरामकृष्णेन गृहस्थ जीवनमूरीकृतम् । गृहस्थाश्रमस्य सर्वोच्चादर्शानां प्रदर्शनमेव तस्य लक्ष्यमासीत् । “स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ।” श्रीरामकृष्णजीवने ध्यानतः परिदृश्यमाने सर्वथेदं स्पष्टीभवति यदात्मानन्दे प्रतिष्ठालाभार्थं भौतिकतात उपरि उत्थानं मानवानां कृतेऽत्यावश्यकं भवति । यावत् सांसारिक विषय विषभोगजन्यानन्दात् मनो न निरुध्यते न तावत् कदापि भूमानन्दोपलब्धः सम्भावना ।

बहूनां मनसि प्रश्नोऽयं जागर्ति यत् श्रीठाकुरस्य जीवने गृहस्थाश्रमस्य परिपूर्णता आसीन्न वा ? श्रीरामकृष्णः एकरूपतयैव गृहस्थानां संन्यासिनां चादर्शभूतो बभूव । अतः पत्न्या साकं तस्य कोऽपि भौतिकसम्बन्धो नाभवत् ।

संन्यासाश्रमस्याखण्डं ब्रह्मचर्यमेवैकमात्रभित्तिः । श्रीरामकृष्णजीवनेनैतन्निर्णीतं यत् केवलं विषयभोग एव नास्ति सर्वस्वम् । पत्न्या सहाध्यात्मिक सम्मेलनेन, प्रकारान्तरविषयजन्यसम्बन्धमन्तरेणापि गम्भीरस्य प्रेम्णः सम्भावना । श्रीराकृष्णदेवजीवने संसारेणैतत्प्रत्यक्षीकृतम् । इदमेव रजोगुणविरहितं परिपूर्णं विशुद्धं च प्रेमाभिधीयते । अस्मिन् प्रेम्णि उच्छलतायाः, अवसन्नतायाः, अतृप्तेश्च नास्ति सम्भावना । एतादृशमेव प्रेम मानवं देवत्वे, देवीत्वे, पूर्णानन्दे, अत्मानन्दे च प्रतिष्ठापर्यात ।

प्रेमेदं दैहिकस्पर्शशून्यं द्वयोरन्तरात्मनोर्विशुद्ध मिलनमासीत् । किं तयोः परस्परं गम्भीरं प्रेम नाभवत् ? मैवम् । स्वस्वप्रेममयव्यवहारेण तौ संसारेऽत्र कस्यापि प्रेमिणः प्रेमिकायाश्च मनसि ईर्ष्यामुत्पादयितुं शक्नुतः । अनन्तरं श्रीसारदादेवी वार्तालापप्रसङ्गेन भक्तिमतीः प्रोवाच – अहो ! कीदृशं सुमधुरव्यवहारमसौ करोति स्म मया सह । एकस्मिन्नपि दिने नाभूत् काप्येतादृशी घटना, यया मनसि व्यथायाः समुत्पत्तिर्भवेत् ! कदापि भ्रमादपि तेन मम मनस्याघातो न कृतः । दक्षिणेश्वरे निवाससमयस्येयं वार्ता – “एकस्मिन् दिनेऽहं तस्य गृहे भोजनं स्थापयितुमगच्छम् । तेनावधारितं यत् लक्ष्मी (श्रीरामकृष्ण-भ्रातृकन्या) भोजनं स्थापयित्वा गच्छति । एतदेवावधार्य तेन कथितम् ‘द्वारं पिघाय गन्तव्यम्’ । मयोक्तम् ‘अतिसुन्दरम् ।‘ मम कण्ठस्वरं ज्ञात्वाऽसौ सविस्मयमुवाच – “केयम् त्वमसि ? मया न परिज्ञातं यत् त्वमागताऽसि । मयावधारितं लक्ष्मी अस्ति । मनसि न किमप्यन्यथा मन्तव्यम् ।“ ततोऽहं प्रावोचम् ‘तेन किमभवत् ?’ कदापि तेन मह्यं निरादरशब्दो न प्रोक्तः ! सदैवासौ मां प्रसन्नां स्थापयितुं प्रयत्नमकरोत् ।”

श्रीठाकुरः प्रोक्तवान् – “इयं सारदा स्वयं सरस्वती वर्तते । सा विभूषिता स्थातुमिच्छति ।“ स्वयं तु तेन सुवर्णं न स्पृश्यते स्म, परन्तु पत्नीकृते प्रयत्नपूर्वकं स्वर्णाभूषणानि निर्मापितानि । चित्रिते पादभूषणे, हारः, समीचीनो नासालङ्कारः, कङ्कगे, कुण्डले, किम्बहुना, तत्कालप्रचलिता बहुविधा अलङ्कारास्तदर्थ तेन निर्मापिताः । मनोनुकूलाः शाटिकाश्चानायिताः । न कस्यापि वस्तुनो न्यूनता । प्रयत्ने नाणीयस्यपि त्रुटिरभूत् । सदैवासौ सावधानोऽभवत् । कस्मिंश्चित् दिने यदि पत्न्याः शिरो व्यथते स्म तदानीमसौ चिन्तितोऽभवत् ।

श्रीरामकृष्णदेवस्य वैवाहिक जीवनयापनमालोक्य देवा अपि विस्मयान्विता अभूवन् । आदितः मानवानामितिहासे एतादृशजीवनयापनस्योदाहरणं दुर्लभम् । श्रीशुकदेवस्य, आचार्यशङ्करस्य महात्मन ==150== ईसामसीहस्य च जीवनमन्यादृशमासीत् । एतेषां वैवाहिकजीवने प्रवेशो नासीत् । किन्तु वैवाहिकजीवनमङ्गीकृत्य तेषां श्रेणौ गणनीय एकः श्रीरामकृष्णदेव एव । गृहस्थाश्रमाणां सम्मुखे त्यागस्यादर्शं प्रदर्शयता तेन मध्यमार्गो व्यवस्थापितः – “एकस्य द्वयोर्वा सन्तानयोरुत्पत्तेरनन्तरं परमेश्वरचिन्तन पूर्वकं पतिपत्नीभ्यां भ्रातृभगिनीवत् जीवनं यापनीयम् ।” गृहस्थाश्रमाणां कृतेऽयमेव तस्य निर्देशः ।

श्रीरामकृष्णदेवेन स्वीया पत्नी पूजिता । पूजेयं नारीं प्रति तथाविधं सम्मानप्रदर्शनमात्रमेव नासीत्, यथाविधं पाश्चात्य देशेषु प्रचरति । इयमस्ति मातृत्वस्य, देवीत्वस्य पूजनं नारीं नारीं दिव्यसिंहासने संस्थाप्य तस्याः स्वे महिम्नि प्रतिष्ठापनम् ।

जाज्वल्यमानशिखाप्राकारपरिवेष्टिते साधनपथेऽत्र स्निग्धदेहेनाक्षतमनसा सिद्धेरमृतसरोवरं यावत् गमनात् परमसौ श्रीरामकृष्णः ‘परमहंसपद’मलञ्चकार । जागतिके इतिहासेऽयं श्रेष्ठो मानवस्तथाऽऽध्यात्मिकेतिवृत्ते तदीया श्रेणी महामानवस्य वर्तते स्म ।

❀ ❀ ❀

श्रीरामकृष्णदेवेन श्रीसारदादेव्या निवासव्यवस्था तु स्वमातुर्वेश्मनि नौबते विहिता, किन्तु रात्रौ तस्याः शयनप्रबन्धः स्वगृह एव कृतः । एकं दिनं, दिनद्वयमेव न हि, अष्टौ मासान् रात्रिन्दिनमसौ तया सहैवासीत् । स्वस्थः, सबलः, पूर्णयुवकश्च श्रीठाकुरः, नवयौवनसम्पन्ना श्रीसारदादेवी च । उभयोः सम्बन्धोऽपि घनिष्ठोऽन्तरङ्गश्च । कदाचिदयं तया सहैतादृशीं सरसां वार्तामकार्षीत्, यामाकर्ण्य श्रीसारदादेवी विहसन्ती लुलुण्ठ । दिनं रात्रिश्च एकसमानदिव्यानन्देन व्यत्यगच्छताम् । श्रीसारदादेवी सानन्दं स्वामिसेवापरायणा शयनगृहं स्वच्छं करोति, स्वामिनः शिरसि शरीरे च तैलं मर्दयति, स्वयं भोजनं निर्माय भोजयति, पादौ संवाहयति च । सर्वमिदं स्वाभाविकरीत्या प्रचलति स्म । परमेतेषामधिकांशो भागो लोकचक्षूंषि विहाय बोभूयते स्म ।

प्रारम्भे एकस्यां रात्रौ श्रीठाकुरः स्वपत्नीमेकान्तेऽपृच्छत – “किं त्वं सांसारिकविषयभोगेषु मामाकर्ष्टुं समागताऽसि ?” एतदाकर्ण्य स्वच्छन्दसरलकण्ठतः श्रीसारदादेव्या प्रोक्तम् – “न हि, कथमहं भवन्तमस्यां दिशि समाकृष्टं करिष्यामि ? स्वाभीष्टपथे भवतः साहाय्यं कर्तुमहमागतास्मि ।”

श्रीठाकुरस्य गृहस्थजीवनमतीव मधुरम् । कदा कदाचिच्चोभावपि भगवच्चर्चायां तन्मयौ भवतः कदापि च श्रीठाकुरो विभिन्न भावैस्तां गृहकार्यजातमशिक्षयत् । संसारे मानवैः स्त्रीभिश्व साकं कथं व्यवहर्तव्यम् । कया रीत्या च स्वजीवनं परिचालनीयम्, इत्यादिको लघुतरोऽपि विषयो न तेन परित्यज्यते स्म । परन्तु रात्रौ समागतायामसौ स्वात्मन्येव तिष्ठति । यथा यथा रात्रिः प्रवर्धते, तथा तथा तस्य समाधौ भावे च गाम्भीर्यमायाति । कदा कदाचिच्च समस्तामपि रात्रिं समाधावेव व्यत्ययति ।

प्रथमं तु श्रीसारदादेवी श्रीठाकुरस्य तामवस्थामवलोक्य भयव्याकुला बभूव । परमनन्तरमेकवारं तया भक्तिमत्यः प्रोक्ता – “कस्मिन् अपूर्वभावेऽसौ तिष्ठति स्मेति न परेभ्यो विदितं कर्तुं शक्यते । कदाचिदसौ भावाविष्टो बहुविधं वक्ति, कदापि विहसति, कदापि रोदिति, कदापि च केवलगम्भीरसमाधाववतिष्ठते । समस्ताऽपि निशा तथैव व्यतियाति । कीदृशोऽसौ दिव्यावेशोऽभवत् । सर्वमिदमवलोक्य मम शरीरं कम्पते स्म । मयाऽचिन्त्यत यत् कथमियं रात्रिर्गमिष्यति ? तदानीं भावसमाधिविषये न किमप्यहमवागच्छम् । कदा कदापि तदीय समाधिभङ्गमदृष्ट्वा रुदत्या मया हृदयरामः समाहूतः । समागत्य तेन तदीयकर्णयोर्नामोच्चारणे विहिते कथं कथमपि तस्य समाधिर्व्यनश्यत् । ततश्च भयव्याकुला तेन दृष्टाऽहं स्वयमेव बोधिता यत् एतादृशभावदर्शने एतन्नामोच्चारणीयम्, ईदृग्भावदर्शने एष बीजमन्त्रः श्रावणीयः । ततश्च मम भयं व्यपगतम् । आवश्यकतायां समागतायां यथोपदिष्टोच्चारणे कृते तदीया चेतना पुनः प्रत्यागच्छत् । केचिद्दिवसा एवं व्यतीताः । ‘न जाने, कदा कस्य भावस्य तस्मिन् समावेशो भविष्यतीति’ चिन्तया रात्रौ निद्रां नाधिगच्छामीति परिज्ञाय तेनान्यत्र हे नौबते शयनायाहमादिष्टा ।“

इदमस्ति तदीयदिव्यगार्हस्थ्यजीवनस्य, चाञ्चल्यविरहितप्रशान्तप्रेम्णश्चैकं दर्शनम् ।

वैष्णवग्रन्थेषु सहजाऽभङ्गुरदशावर्णनप्रसङ्गे लिखितमस्ति – “अस्यामवस्थायामाविर्भूतायां मुखे समागतस्य मण्डुकस्यापि सर्पो हानिं नानुतिष्ठति ।” एतत् किल तेषां महापुरुषाणामवस्थावर्णनमस्ति, ये शास्त्रोक्तरीत्या साधनसङ्ग्रामे साफल्यमध्यगच्छन् । श्रीरामकृष्णस्य जीवने तस्य साधनासु च दृष्टिपातेन वैष्णवग्रन्थवर्णितेयमवस्था साधारणीव प्रतिभाति । पत्नीं प्रति तदीया दृष्टिः सर्वथाऽन्यविधैवासीत् । प्रत्येक स्त्रियां तस्य मातृबुद्धिरभूत् । अतस्तेन स्त्रीमात्रं जगन्मातृस्वरूपं दृश्यते । असाववोचत् – “आवां द्वावपि जगन्मातुः सङ्गिनौ । अन्यथाऽहं पत्न्या सह अष्टौ मासान् कथमतिष्ठम् ?” युगधर्मस्थापने द्वावुभावपीमौ परस्परं पूरकावास्ताम् । सहवास तस्तयोः पारस्परिकः परिचयोऽतीव प्रगाढोऽभवत् ।

एकदिनस्यैषा वार्ता । श्रीठाकुरस्य पत्नी तस्यैत्र पार्श्वे सुप्ताऽभवत् । सा निश्चिन्ता शेते स्म । श्रीठाकुरः स्वगतमुक्तवान् – “मानस ! एतदेव स्त्रीशरीरम् । लोका इदं हि परमभोग्यं वस्त्ववगत्यैतदेव भोक्तुं सदैव लालायिता भवन्ति । किन्तु एकवारमपि ग्रहणेन अत्रैव तैर्बद्धेर्भूयते । तदानीं सच्चिदानन्दघनस्य परमेश्वरस्य प्राप्तिर्नभवति, – “सत्यं ब्रूहि, एतदेव ग्रहीतुमिच्छसि, भगवन्तं वा ? यदि स्त्रीशरीरं जिघृक्षसि, तर्हि तदेतत्तव सम्मुखे तिष्ठति, गृहाण ।” एतद् विचारयता तेन तदङ्गस्पर्शनार्थं हस्तौ प्रसारितात्रिति सत्यम्, परन्तु तदानीमेव तन्मनः समाधिस्थं भूत्वा सच्चिदानन्दसागरे न्यमज्जत् । तां सम्पूर्णां रात्रिं यावदपि तस्य समाधिर्नात्रुट्यत् । द्वितीये दिवसे महता काठिन्येन तन्मनः सांसारिके धरातले आनयाञ्चक्रे ।

एवं विभिन्नावस्थायां तयोरात्मिकं मिलनमभवत् । इदमेव तदीयं दाम्पत्यजीवनम् । द्वावपि तावेकरूपौ । अन्योन्यमनयोः शान्तं समर्पणमभूत् । पारस्परिक सुखदुःखेषुभावपि सदैव चिन्तितावभूताम् । स्वजीवनस्य श्रेष्ठतमवस्तूनामन्योन्यप्रदानेनापि न तृप्तिरधिगम्यते स्म । बहिरभ्यन्तरमन्योन्यं पूर्णतया परिव्याप्तावास्ताम् । इदानीं द्वौ न स्तः । किन्तु परस्परमभिन्नतया एकरूपौ बभूवतुः ।

तदानीमेव श्रीरामकृष्णदेवस्य मनसि पत्नीं पूर्णोपचारैः षोडशीरूपेण त्रिपुरसुन्दरीरूपेण वा समचितुमीहा समुत्पन्ना । एतदीयाभिलाषेऽत्र कस्यापि दिव्यदर्शनस्य प्रेरणा किं वा दैव्याः शक्तेरिङ्गितमित्यस्य न कोऽपि समुल्लेखो लभ्यते । षोडशाक्षरमन्त्रेण जगदम्बिका पूजनमेव षोडशीपूजाऽभिधीयते ।

१२७६ वङ्गाब्दीय (१८७२ ई०) ज्येष्ठमासस्य फलाहारिण्याः पूजाया दिवसे श्रीठाकुरः पूर्वोक्तं षोडशीपूजनमकरोत् । तस्यां रात्रौ तस्य निर्देशेन तद्गृह एव गुप्तरूपेण देवीपूजायाः पूर्णमायोजनं कृतमास्ते । कालीमन्दिरविशेषपूजा यथापूर्वमभूदेव ।

पूर्वत एव पूजाकाले स्वगृहे समागमनाय श्रीठाकुरेण श्रीसारदादेवी विज्ञापिताऽभूत् । यथाकालमियं श्रीठाकुरस्य वेश्मनि समायाता । रात्रौ नववादनानन्तरं श्रीठाकुरः पूजायामुपविष्टः । श्रीठाकुरस्येङ्गितेन श्रीसारदादेवी देव्या माङ्गलिकचित्रैश्चित्रिते पीठासने विराजमानाऽभूत् । पूजनमारब्धम् । श्रीठाकुरः श्रीसारदादेवीं साक्षादेवीमवधार्य पूजामकरोत् । अस्मिन्नवसरे सा पूर्णतया समाधिस्था बभूव । अर्धचेतनावस्थायां मन्त्रमुच्चारयन् श्रीठाकुरोऽपि गम्भीरसमाधौ व्यलीयत । ‘पूज्यापूजकौ समधिस्थौ भूत्वा आत्मस्वरूपे मिलित्वा एकतां परस्परमभिन्नतामधिगतवन्तौ ।’

निशाया द्वितीयः प्रहरो व्यतीतः । तदानीं श्रीठाकुरस्य मनः शनैः शनैरर्धचेतनावस्थायामागच्छत् । तेन देवीचरणयोरात्मा निवेदितः । जपमालया सहैव सम्पूर्णं साधनाफलं देवीचरणकमलयोः समर्प्य प्रणतो बभूव ।

पूजनं समाप्तमभवत् । श्रीसारदादेव्याश्चेतनाऽपि समागता । सा जगज्जननीस्वरूपतः प्रतिष्ठिताऽऽसीत् । विश्वमातृत्वस्याकुण्ठः प्रकाशस्तस्या अन्तस्तले समुदभूत् ।

षोडशीपूजायाः समनन्तरं प्रायः एकवर्षं यावत् श्रीसारदादेवी श्रीपरमहंसदेवस्य सन्निधावुवास । सा च प्राणमनोभिः श्रीठाकुरस्य तन्मातुश्च परिचर्यायां तत्परा बभूव । सेवायामेव तथा परमा तृप्तिरासाद्यते स्म । यतः सा माता आसीत्, मातुः कृते सेवैव परमप्रिया ।

❀ ❀ ❀


काशीखण्डे लिखितं यत् – काश्यां मृत्युं गताय जीवाय श्रीविश्वनाथो मुक्तिं प्रयच्छति, परन्तु केन रूपेणेति तस्य कोऽपि विस्तृत उल्लेखो नोपलभ्यते । श्रीठाकुरदर्शनेन वार्तेयं सुस्पष्टा ।
अनन्तरमेकस्मिन् पत्रे शशी महाराज: प्रेमानन्दस्वामिनमलिखत् – “भ्रातः बाबूराम ! श्रीठाकुरो राधाकुण्डसमीपवर्तिनः चतुरानाम्नस्तीर्थपुरोहितात् भिक्षुकत्रतं गृहीतवान् । वृन्दावनदर्शनकाले तस्य हस्तयोरेकाऽपरिपक्ववंशस्य यष्टिका सदा तिष्ठति स्म । यदा हृदयेन साऽपाह्नियत तदासी अतीवकातरोऽभवत् । यावदसौ तां पुनर्नासादयत्, तावत् न शान्तिमध्यगच्छत् । वृन्दावने स एकं पदमपि गन्तुं न प्रत्रभूव । शिविकायां स्थित एव यमुनायां न्यमज्जत् ।“ श्रीवृन्दावननिवाससमये श्रीरामकृष्णः श्रीकृष्णस्य विचारे ध्याने चैतावान् निमग्न आसीत् यत्स्वात्मानं स श्रीकृष्णमेवामन्यत । अत एव बालगोपाल इव स निरन्तरं हस्तेऽपक्कवंशदण्डं धारयितुमैच्छत् ।
श्रीमद्भागवतम् १.१९.८
श्रीमद्भागवतम् १.१३.१०
श्रीमद्भगवद्गीता ६.८
कैवल्योपनिषद् ३