वेदमूर्ति-श्रीरामकृष्णः

ब्राह्मसमाजः, अन्तरङ्गभक्ताः च

सामान्यतया ‘प्रचार’-शब्देन यत् किमपि ज्ञायते, तादृशः प्रचारः श्रीरामकृष्णदेवेन नानुष्ठितः । तत्कार्यविषयो भावराज्यमेव । स्वीयाध्यात्मशक्तिबलेन जीवमात्रस्य कल्याणं तेन विहितम् ।

सोऽवादीत् – “एकैकशो मया सर्वे धर्मा अङ्गीकृताः । हैन्दवं, मुस्लिमम्, ऐसवीयं, वैष्णवं वैदान्तिकं मतं च । सर्वेष्वपि मार्गेषु प्रचलता मयाऽन्ते इदमेवानुभूतं यत् ईश्वर एक एव । विभिन्नैर्मार्गैः सर्वे तमेवैकमीश्वरमुपढौकन्ते ।“ श्रीरामकृष्णस्य साधनं सिद्धयश्चैकं नवीनमादर्श प्रतिष्ठापयितुमासन् ।

आद्यायाः शक्तेः प्रेरणया ‘भावमुख’- दशायामवस्थाय जीवकल्याणाय प्रवर्तितुं श्रीठाकुरेणादेशो लब्धः । तदानीं सर्वतः प्रथमं विविधैर्धर्मसम्प्रदायैः सह सम्मिलित एव श्रीठाकुरो दृश्यते । गीतायामपि तदेव लिखितम् –

“यद् यद् विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ।“ इति ।

अत एवासौ विभिन्नानां विभूतिमतामूर्जितसाधकानामभ्यन्तरे शक्तिं सञ्चारयन् तदुदारभावजागर्तये स्वप्रयन्नमन्वतिष्ठत् । अनेन क्रमेण कियन्तः साधकाः श्रीरामकृष्णस्य दिव्यसङ्गेनाध्यात्मिकों चेतनामधिगतवन्त इति न वक्तुं शक्यते । स च भावधारया शनैः शनैः सर्वान् परिप्लावयामास । जगति यस्या विशिष्टाया भावधारायाः प्रवाहाय श्रीरामकृष्णदेवेन शरीरमङ्गीकृतम्, तस्या अप्रतिहताऽप्रगतिः समारब्धा बभूव ।

तात्कालिकोल्लेखनीयघटनासु तत्सामयिकब्राह्मधर्माचार्यश्रीकेशवचन्द्रसेनेन सह ब्राह्मसमाजेन च साकं श्रीरामकृष्णदेवस्य मेलनं वर्तते । १२८१ वङ्गाब्दे (१८७५ ई०) बेलघरियानामकस्थानस्योद्याने श्रीकेशवचन्द्रेण सह प्रथमसाक्षात्कारगमनात्पूर्वं श्रीठाकुरो भावावस्थायां सदलं केशवचन्द्रमपश्यत् ।

जगन्मातुरिङ्गितेनैव श्रोरामकृष्णदेवः श्रीकेशवचन्द्रं साक्षात्कर्तुमगच्छत् । तदाप्रभृत्येव श्रीठाकुरस्य गम्भीराध्यात्मिकानुभूतय उदारभावश्च केशवचन्द्रजीवनेषु स्निग्धप्रभावनिपातनमारभन्त । केशवचन्द्र एतस्य देवमानवस्य सङ्गममधिगत्यैतावान् मुग्धोऽभवत्, यत्प्रथममेलनदिनादेवासौ यथाज्ञानं ‘श्रीरामकृष्णजीवनं’ मुक्तकण्ठम् उपासनाकाले, व्याख्यानसमये स्वीयसञ्चालितसमाचारपत्रमाध्यमेन, अन्यान्यमानवैः सह पत्रव्यवहारादिषु च प्रचारयामास । तदीयैतादृशप्रचारपरिणामेन अल्पकालादेव वङ्गे सम्पूर्णभारते च आङ्गलभाषाशिक्षितसमाजेषु, ततो नु क्रमाद् विदेशीयविद्वत्सु च श्रीरामकृष्णदेव जीवनवेदः प्रचारितोऽभूत् ।

१८७५ ऐसवीयमार्चमासस्य पञ्चदश्यास्तिथेरयं वृत्तान्तः । घोटकशकटेन श्रीठाकुरो बेलघरियास्थानस्योद्यानभवने केशवचन्द्रेण सह साक्षात्करणायागच्छत् । दिनस्य द्वौ प्रहरौ व्यत्यगच्छताम् । अतिसाधारणस्तस्य वेशः । परिधानीयं केवलमेकं धौतवस्त्रम् । शरीरमनावृतम् । धारितधौतवस्त्रस्य पुरतो वर्तमानोऽर्धांशः स्वकीयस्कन्धे संस्थापित श्रासीत् । शरीरं तु शीर्णमभूदेव, वदनमपि शुष्कं रूक्षमिव प्रत्यभासत । श्रीकेशवचन्द्रस्तदानीं स्वसहचरैः साकमुद्यानस्थपुष्करिण्यां स्नानोपक्रमं कुर्वन्नासीत् । श्रीठाकुरमवलोक्य पूर्वं तु सर्वे साधारणं कर्मापि मानवं तमवागच्छन् । किन्तु, स्वल्पकालेनैव तेषां धारणा अपार विस्मयरूपेण परिणता । विभिन्न परमात्मप्रसङ्गानन्तरम् –

“न जानाति कश्चित्पुमानत्र लोके, यदेषा महाकालिका किंस्वरूपा ।
न तद्दर्शनं कर्तुमीशानि यानि, प्रसिद्धानि सर्वाणि षड्दर्शनानि ॥“

इति गायन् श्रीठाकुरः समाधिस्थोऽभवत् । तदीयां भावावस्थां विलोक्य पूर्व तु सर्वे तदीयं कपटताप्रदर्शनमेव मेनिरे । परन्तु यदाऽर्धचेतनावस्थामधिगत्य श्रीठाकुरस्तन्मयो भूत्वा गम्भीरस्याध्यात्मिकतत्त्वस्यातिसरलां व्याख्यामकरोत्, तदानीं सर्वे एतादृशीं मुग्धदशां प्राप्ताः, यतः स्नानभोजनादीन्यपि विस्मृतवन्तः । तदीयाममृतमयीं वाणीमाकर्ण्य तां तन्मयतां प्राप्तानां तेषां यदा सायंकालिक उपासनासमयः समभवत् तदानीं तैर्बोधो लब्धः ।

एतत्प्रथममिलनानन्तरं १८८४ ईसवीयहायनस्य जनवरीमासस्य पूवार्धं केशवचन्द्रस्य शरीरत्यागात् पूर्वयावत्, प्रायशो दशवर्षाणां लम्बायमाने काले कियद्वारान् सशिष्यवर्गः केशवचन्द्रो दक्षिणेश्वरे श्रीरामकृष्णदेवेन सह मिलितुमगच्छत्, कियद्वारान् वा तं बेलघरे कमलकुटीरे ब्रह्मसमाजे चानयदित्यस्येयत्ता नास्ति । सङ्ख्यादृष्टितो यथाऽनेकवारान् मेलनं तेषामभूत्, तथैव प्रभावान्तरङ्गतादृष्ट्याऽपि तेषां मिलनमतीव गम्भीरमभवत् ।

श्रीरामकृष्णसमनुष्ठितोदारधर्मभावप्रभावो ब्राह्मसमाजाभ्यन्तरतः समस्तकलिकातायास्तन्निकटवर्तिस्थानानां विभिन्नधर्मावलम्बिनां जीवनेऽभिनवमेकं विपर्ययमुदपादयत् । सर्व एव श्रीरामकृष्णजीवने एकस्य नूतनप्रकाशस्य त्यागजनितदीप्तेश्च दर्शनमकार्षुः । भगवत्प्राप्तये कियतीनां पवित्रतात्यागोदारतान्तरिकतानामावश्यकत्वं विद्यत इति सर्वैरवगतम् ।

श्रीरामकृष्णः कस्यापि नवीनधर्मस्य, किं वा नूतनसम्प्रदायस्य प्रवर्तनार्थं जगति नागच्छत् । सर्वेषामपि धर्माणां पुनरुज्जीवनं नवीनदिव्यशक्ति सञ्चारणमेव तदागमनप्रयोजनम् । तदीयं समन्वयस्वरूपं जीवनं सर्वधर्माणां समागमस्थानमभूत् । एतदेव कारणमस्ति यत् तच्चरणयोरुपविश्य प्रत्येकस्य सम्प्रदायस्य मानवः पूर्णां स्वच्छन्दतामनुभवति स्म । मानवोऽसौ कस्यापि धर्मस्य सम्प्रदायस्य वाऽनुयायी कथं न स्यात्, किन्तु तेन श्रीठाकुरस्याभ्यन्तरतः स्वस्वभावस्य परिपूर्णता प्रप्यते स्म ।

कलिकातायास्तन्निकटवर्तिस्थानानां च विभिन्नसाधकैः सम्मिलितेन श्रीरामकृष्णदेवेन कथमिव सङ्कीर्णताया अवरोधं त्रोटयित्वा सर्वेषां मनस्युदारभावजागर्तिः कृतेत्यस्यैकं सुन्दरं विवरणं श्रीकेशवचन्द्रद्वारा तत्कालपरिचालितः “न्यू-डिस्पेन्सेशन” – नाम्नि पत्रे समासाद्यते । तस्यानुवादोऽत्र दीयते – “नवविधानम्” ८ जनवरी १८८२ ई० । “आशायाः प्रकाशः – कलिकाताया नागरिकजीवनस्य आध्यात्मिकभावधारायाः सम्बन्धे सम्प्रति यैरवधानं प्रदत्तं तैरिदमवधार्य सविस्मयैर्भवितव्यं यत् दक्षिणेश्वरस्य भक्तिभाजन – श्री परमहंसदेवो हिन्दूषु नवविधानब्राह्मसमाजिषु चैकस्यापूर्वसंयोगस्य स्थापनां कुर्वन्नास्ते । एतर्हि सम्मानितहिन्दुगृहेषु बहूनां धर्मपरिषदामायोजनानि सम्पाद्यन्ते । द्वयोः सम्प्रदाययोः प्रतिनिधयः कथमेकमनसो भूत्वा तत्रत्य सभासु सम्मिलन्तीति तत्रोपस्थाय द्रष्टुं शक्यते । तत्राध्यात्मिकभावधारायाः प्रेमभक्तेश्चैक्यभावमवलोक्य सर्वः सहैव विस्मितैर्विमुग्धैर्भूत्वा च स्थीयते । परमेश्वरस्य स्तुतिः प्रार्थना, परमहंसदेवद्वारा धर्मालोचना, उन्मादनापूर्णं मुग्धकारिकीर्तनं चेत्यादिकास्तत्रत्यसभानां साधारण्येन प्रधानकार्यक्रमास्तिष्ठन्ति । तत्त्वज्ञाः पण्डिताः, शिक्षिता युवानः, स्वपक्षप्रतिपादका वैष्णवाः, योगिनश्च सदलबलास्तत्रत्यसभासु सम्मिलन्ति ।” तेषु स्थानेषु गमनेनानायासमेव मनसि जीवितप्रेमभक्तिप्रकाशो जागरूकतामापद्यते । समस्ताः स्त्रियः पुरुषाचैकस्यां स्वर्गीयानन्दधारायामिव प्रवहन्ते । इदमेकमपूर्वं दृश्यम् ।

“अत्याश्चर्यजनकोऽस्य प्रभावः । न ज्ञायते यत् विभिन्नधर्माणां परस्परविरोधिमतानि प्रेमभक्तेरस्यां तीव्रधारायां कुत्रान्तर्हितानि जायन्ते । नैतद् वक्तुं शक्यते यत् धर्मस्यैतदेकत्वं प्रेम्णश्वेदमपूर्वं मेलनमन्ते कुत्र प्रापयिष्यति ? भगवतः क्रियाकलापो मानवबुद्धिमतिशेते ।”

❀ ❀ ❀

एकस्मिन् दिवसे श्रीरामकृष्णदेवो भावाविष्टो मथुरमहोदयं प्रोक्तवान् – “जगन्माता मां सर्वमप्यदर्शयदवाबोधयच्च । अन्तरङ्गभूता ये सन्ति, ते सर्वेऽत्रागमिष्यन्ति । तेऽत्रावस्थाय परमात्मविषयकज्ञानस्याधिगमं, श्रवणं, प्रत्यक्षं, प्रेमभक्तेः प्राप्तिं च करिष्यन्ति । (स्वीयशरीरं दर्शयित्वा) अस्मिन् शरीरे जगन्माता महान्ति क्रीडनानि करिष्यति । संसारस्य महत्कल्याणं विवास्यति । अत एव शरीरमेतद् रक्षितं विद्यते ।” इयं बहुदिवसेभ्यः पूर्वस्य वार्ता । अस्याभ्यन्तरे मानवलीलासमाप्तिविधानसमयोऽपि तेन ज्ञायते स्म । (एतत्सम्बन्धेऽस्माभिरनन्तरं विचारयिष्यते) । परन्तु स्वीयानन्तरङ्गीभूतान् सन्देशवाहकान् समागतान् असौ यदा नापश्यत् तदा किञ्चिदस्थिरत्वमभजत् ।

तात्कालिकदशाया वर्णनं तेन तदनन्तरं बालभक्तान् प्रति समनुष्टितम् – “युष्मान् द्रष्टुं मनो मे व्यग्रमभवत् । हृदयं केनापि निष्पीडितमिव प्रत्यभिज्ञातम् । तदानीं यन्त्रणयाऽहं विकलोऽभूवम् । उच्चैः रोदितुमिच्छा समुदेति स्म । ‘लोका दृष्ट्वा किं कथयिष्यन्ति’ इति विचारतो रोदितुं नाशक्नुवन् । महत्या कठिनतया स्वकीय आत्मा संरक्षितः । यदा दिनस्यानन्तरं रात्रिः समागच्छति, मातुर्मन्दिरे विष्णुमन्दिरे च सान्ध्यनीराजनवाद्यान्यबदन् तदानीमवगम्यते स्म यदेकं दिनं रात्रिश्च पुनर्व्यत्यगच्छत् । तदाऽपि युष्मान्नागतानवलोक्य हृदयमतीवावासीदत् । तदानीं काले सौधस्य पृष्ठमारुह्य ‘यूयं कुत्र स्थ, आगच्छत’ – एवमुच्चैर्श्चीत्कुर्वन् अहं करुणक्रन्दनमकरवम् । विक्षिप्तो भविष्यामीति प्रतीयते स्म । ततः कियद्दिनानन्तरं यदा यूयमेकैकशः समागन्तुं प्रवृत्तास्तदानीमीषत् शान्तिरधिगता । पूर्वमेव मया यूयं दृष्टाः – अतो यदा भवन्त एकैकशः स्वागमनं प्रारब्धवन्तस्तदानीमहं भवतः सर्वान् पर्यचिनवम् ।”

विचित्रं तस्य दर्शनम्, अद्भुतं च तस्य साफल्यम् । अयं देवशक्तिसम्पन्न ऐन्द्रजालिकः सौधपृष्टस्याध्यात्मिके वायुमण्डले एकमेतादृशमाश्चर्यमयं स्पन्दनमसृजत्, यस्यैकस्वरे सम्बद्धा अनेके आत्मानः सहैव स्पन्दमाना बभूवुः । तेनाप्येकमव्यक्तमाकर्षणमनुभूतम्, परन्तु तेन नैतत् ज्ञातं यत् कः आह्वयति, कुतोऽयं ध्वनिरायाति ?

इमाः सर्वाः घटनाः १८७५-७६ ईसवीये वर्षे सङ्घटिताः समभूवन्, अन्तरङ्गभूतानाहूयैवासौ न विरतोऽभवत् । ब्रह्मसमाजे अन्योऽन्यधर्मप्रतिष्ठानेषु च गत्वा जगन्मातुरिङ्गितेन श्रीठाकुरो दिव्यं भाव प्राकाशयत्, येन निर्दिष्टभक्तास्तदीयामवस्थितिमवगन्तुं शक्नुयुः ।

तदभ्यन्तरे दिव्यप्रेरणैका प्रकाशमापद्यत, धर्मचेतनाया जागर्तये एकोऽनिवारणीय आग्रहश्च । यत्र कुत्रापि भगवन्नामगुणगानमभवत्, तत्रैवासावयाचितोऽपि समागच्छत् । ईश्वरस्य नाम ध्यानं वा यः समनुतिष्ठति, अनायासेनैव तदभ्यर्णं समुपातिष्ठत् । एषु सर्वविधक्रियाकलापेषु सकलधर्मावलम्बसाधकजीवने प्रौढतासम्पादनमेव तस्य लक्ष्यमासीत् ।

दैवेच्छया युगावतारभावप्रचारानुरूपपरिवेशस्यापि सृष्टिरभूत् । एकदा श्रीठाकुरः प्रावोचत् – ‘इदं सर्वं हरिसभाप्रभृति यत् युष्माभिः दृश्यते (स्वशरीरं दर्शयित्वा) एतदर्थमेव परिज्ञातव्यम् । किं पूर्वमिदमासीत् किञ्चित् ? कथमिदं सर्वं सङ्घटितम् ? एतस्य शरीरस्यागमनान्तरमेतत् सर्वं सम्पन्नम् । जगदभ्यन्तरमेव धर्मस्यैकं स्रोतः प्रवहति ।”

श्रीठाकुरस्य दैवमाह्वानं न व्यर्थतां गतम् । १८७५ ईसवीयवर्षतस्तस्यान्तरङ्गभक्ता एकैकतो दक्षिणेश्वरे नैजमागमं प्रारब्धवन्तः । तस्य च  दिव्यसङ्गेन नवचेतनामनुभवन्तस्ते नैजमात्मानं धन्यममन्यन्त । श्रीठाकुरः प्रथमदिनत एव तान् चिरपरिचितान् मन्यमानः सर्वेषां प्राणेषु आध्यात्मिकं भक्तिभावं सञ्चारयन् तेषां कृते परमानन्दप्राप्तिद्वारमुदघाटयत् । सर्वे विस्मिता विमुग्धाश्च बभूवुः । एतादृशः स्नेहः, याचनामन्तरेण चैतादृशी दया ! इदमपार्थिव प्रेम, एतद्भयम्, अयमानन्दश्च ! अकिञ्चनान् प्रति एवं विधाया अहेतुकानुकम्पाया विधायकः कोऽयम् ? अवाचो विस्मयान्विताश्च ते इदमेव चिन्तयन्तो बभूवुः । परिचितापरिचितेभ्यः सर्वेभ्य एवासौ ‘शर्करापर्वतान्वेषणवार्मश्रावयत् ।’ आत्मीयं परिजनवर्गमसौ शनैः शनैः दक्षिणेश्वरस्य पञ्चवट्याः शीतलच्छायायामानयन् ।

❀ ❀ ❀

आधिकारिकपुरुषाः शास्त्रे जातिस्मरशब्देन प्रोक्ताः । अर्थात् ते पूर्वजन्मघटनावलीं स्मरन्ति । श्रीकृष्णबुद्धप्रभृतीनामवतारिपुरुषाणां जीवनेष्वेतस्य पर्याप्तं प्रमाणं लभ्यते । श्रीरामकृष्णदेवोऽपीदं जानाति स्म यद् यो हि रामरूपेण कृष्णरूपेण अन्यान्यावताररूपेण च शरीरं धृत्वा समागतः स एव ‘रामकृष्ण’ रूपेण विराजते । यथा श्रीरामकृष्णदेवजीवने वर्तमानभविष्यदतीताध्यात्मिकभावराशीनां सम्मेलनं परिदृश्यते, तथैव तदीयसन्देशवाहकेष्वपि पूर्वावतारैः साकं निवसतां पार्षदानां लक्षणानि दृष्टिगोचरीभवन्ति । तेषु कश्चिदखण्डस्वरूपः, कस्यचिज्जन्म रामस्य विष्णोर्वाऽशेनाभूत, कश्चिद् व्रजस्य गोपबालः, कस्यचिज्जनुः कृष्णसखस्यार्जुनस्य, श्रीराधिकाया वा अंशेन अभवत्, कश्चिन्महात्मन ईसामसीहस्य दूतः, कश्चिद् बुद्धपार्षदः, कश्चिच्चैतन्यस्य प्रतिनिधिः कोऽपि चाद्वैतज्ञानी सबभूव । ब्रह्मशक्तिः, अतीता विभिन्ना अवताराश्च वर्तमानलीलासम्पादनाय यथाभावज्योतीरूपतः श्रीरामकृष्णदेहे प्रविष्टाः, तथैव सर्वेऽवताराः स्वीयान् पार्षदानपि मानवजातिहित साधनार्थं “यावन्ति मतानि, तावन्तः पन्थानः” इति सत्यधर्मप्रचाराय प्रेषयामासुः ।

एकदा श्रीठाकुरेण प्रोक्तम् – “योऽस्याभ्यन्तरे वर्तते, स पूर्वत एव ज्ञापयति यत् कीदृग्भावसम्पन्नो भक्तः समागच्छति, यदि गौराङ्गरूपं पुरतः समागतं दृश्यते तदा मया ज्ञायते यद् गौरभक्तः समायाति, यदि शाक्तः समापतति, तदानीं निश्चीयते यत् शक्तिरूपस्य कालीरूपस्यैव दर्शनं भवति ।”

श्रीठाकुरस्य समीपे योऽपि पार्षदः समाययौ, तदागमनतः पूर्वमेव तत्स्वरूपसम्बन्धे भावाविष्टः श्रीठाकुरः सर्वं जानाति स्म । इयं महती विचित्रवार्ता ! प्रत्येकपार्षद स्वरूपादिविषये श्रीठाकुरेण यत् किमपि निर्दिष्ट, सर्वं तत् स्थानाभावतो न लिखितुं शक्यते । द्वित्राणां पार्षदानां सम्बन्धे किञ्चिल्लिखित्वैवास्माभिस्तृप्तैर्भवितव्यम् ।

राखालस्यागमनात् पूर्वं श्रीठाकुरेण यत् किमपि तत्सम्बन्धे तेन प्रतिपादितम् – “राखालागमतः किञ्चद्दिनपूर्वमेव दृष्टं यत् जगन्माता शिशुमेकमानीय सहसा ममाङ्क स्थापयित्वा प्रोक्तवती – “अयं तव पुत्रः।” श्रुत्वा आतङ्केन रोमाञ्चितोऽहमपृच्छम् – “किमेतत् ? मम बालकः कुतः समागतः ?” ततस्तया हसन्त्या प्रत्युक्तम् – “एष साधारणतया सांसारिकभावेनोत्पन्नो बालको नास्ति, प्रत्युत त्यागी मानसपुत्रोऽस्ति ।” तदा मया ईषदाश्वासनं लब्धम् । तद्दर्शनानन्तरमेव राखाल आगत्योपतस्थौ । मया ज्ञातम् – “यदयमेवासौ बालकः”” इति ।

राखालस्यागमनात्पूर्वं श्रीठाकुरो भावनेत्राभ्यां व्यलोकयत् – “गङ्गाया वक्षसि अकस्मात् शतदलं कमलं विकासमापन्नम् । कमलस्य प्रत्येकस्मिन् दलेऽपूर्वा शोभा ! वंशीवादकराखालराजश्रीकृष्णस्य हस्तयो गृहीत्वा तदनुरूप एको बालको नूपुरी धारायत्वा शतदले नृत्यति ।“ पश्यन्नेव श्रीरामकृष्णदेवो भावाविष्ट आनन्दमग्नोऽभवत् । तदानीमेव राखालचन्द्रः समायातः । तेनाश्चर्यचकितेन विलोकितम् – अयमेवासौ जगदम्बाप्रदर्शितो मानसपुत्रोऽस्ति कमलदलेषु नृत्यशीलः श्रीकृष्णस्य सखा । राखालचन्द्र स्वरूपपरिज्ञानमपि तेनवासौ प्राप्तवान् ।

सोऽकथयत् – “राखालो ब्रजस्य गोपबालकः । स्वरूपसम्बन्धे यदैवासौ ज्ञास्यति तदैव शरीरं त्यक्ष्यति ।“

नरेन्द्रनाथस्य दक्षिणेश्वरागमनात् पूर्वमपि श्रीठाकुस्यैकमलौकिकं दर्शनमभवत् । तेन दृष्टम् – “ज्योतिर्मण्डलस्यैको महर्षिः युगधर्मे साहाय्यं प्रदातुं देहं धृत्वा समागच्छति ।“ तेनोक्तम् – “नरेन्द्रं दृष्ट्वाऽहमवगतवान् यदयमेवासौ महर्षिः ।” आश्चर्यजनकस्यावतारस्य, अभिनवपार्षदस्य, अचिन्त्यमेलनस्य, अपूर्वसफलतायाश्च विचित्रोऽयं समन्वयः ।

❀ ❀ ❀


श्रीमद्भगवद्गीता १०.४१
दक्षिणेश्वरे श्रीरामकृष्णदेवस्य पार्षदान्तरङ्गभक्तानामागमक्रमस्याब्दस्य च विषये कथामृतस्य प्रथमभागे लिखितमेवंविधं वर्तते – विश्वनाथोपाध्यायः १८७५ ईसवीये समागतः । ततः किञ्चिदनन्तरं सिंथिग्रामस्य गोपाल: (अद्वैतानन्दः), महेन्द्रकविराजः, कृष्णनगरस्य किशोरीमहोदयः, महिमाचरणश्च क्रमशः श्रीठाकुरदर्शनार्थं समागताः । रामः मनोमोहनश्च १८७६ ईसवीयस्योत्तरार्धे समागत्य मिलितौ । ततः केदारसुरेन्द्रो समागतौ । ततश्च चूणी, लाटू (अद्भुतानन्दः), नृत्यगोपालः, तारकः (शिवानन्दः) चापि समागत्य मिलिताः । १८८१ ईसवीयस्योत्तरार्धे १८८२ ईसवीयस्य पूर्वार्धे नरेन्द्रः (विवेकानन्दः), राखालः (ब्रह्मानन्दः), भवनाथः, बाबूरामः (प्रेमानन्दः), बलरामः, निरञ्जनः (निरञ्जनानन्दः), अध्यापको (मास्टरः), योगीन्द्रः (योगानन्दः), च एते श्रीठाकुरस्य सम्पर्के समागताः । १८८३-८४ ईसवीये किशोरी, अधरः, नित्यानन्दः लघुगोपालः, बेलघरे-स्थानस्य तारकः, शरत् (सारदानन्दः), शशी (रामकृष्णानन्दः) च समाजग्मुः । १८८४ ईसवीयस्य मध्यभागे सान्यालः, गङ्गाधरः (अखण्डानन्दः), काली (अभेदानन्दः), गिरिशः, सारदा (त्रिगुणातीतानन्दः), कालीपदः, उपेन्द्रः, द्विजः, हरिः (तुरीयानन्दः) च समागमन् । १८८५ ईसाब्दमध्यभागे सुबोधः (सुबोधानन्दः), लघुनरेन्द्रः, पलटू, पूर्णः, नारायणः, तेजचन्द्रः हरिपदश्च समाययुः । एवमेव हरमोहनस्य, नवाईचेतन्यस्य, हरिप्रसन्नस्य (विज्ञानानन्दस्य), चाप्यागमनमभूत् ।
‘लीलाप्रसङ्ग’, ‘पोथी’, ‘भक्तमालिका’ प्रभृतिग्रन्थेषु समुल्लिखितभक्तानां दक्षिणेश्वरे आगमनसमये कथामृतप्रदत्तसमये च कथञ्चिद् व्यतिक्रमोऽपि प्राप्यते ।
श्रीरामकृष्णदेवेन कथितम् – “दृष्टमेकदा – मम मनः समाधिमार्गतो ज्योतिर्मयमार्गेणोपरि गच्छदासीत् । चन्द्र सूर्यतारामण्डितस्थूलजगदतिक्रामत् क्रमशः सूक्ष्मे भावजगति प्राविशत् । देवदेवीनां भावघनानेकमूर्तयो मार्गस्योभयतो विराजमाना अदृश्यन्त । मनः क्रमेणाखण्डराज्ये प्रविवेश, सप्त प्राचीना महर्षयस्तत्र समाधिस्थाः समुपविष्टा आसन् । ज्ञान-पुण्य-त्याग-प्रेमसु मनुष्याणामेव न हि, देवदेवीनामपि परे प्राप्ता आसन् । विस्मितेन मयाऽवलोकितम् — पुरतोऽवस्थिताखण्डलोकस्य भेदरहितसमरसज्योतिर्मण्डलस्यैकांशो घनोभूयैकदिव्य शिशुरूपेण परिणतोऽभवत् । अयमद्भुतो देवशिशुः स्वासीमानन्दं प्रकाशयन् महर्षिमेकं प्रोवाच – “अहं गच्छामि, त्वयापि मया सार्धं गन्तव्यं भविष्यति” (लीलाप्रसङ्गे)।