वेदमूर्ति-श्रीरामकृष्णः

भक्तसङ्गे

श्रीरामकृष्णदेवस्य जीवनकालीनान्तिमषड्वर्षाणि पुर्णानि षड्युगानीव सन्ति । यस्या महाशक्तेरिङ्गितेन अत्युग्रसाधनयाऽसौ भूमानन्दे प्रतिष्ठितोऽभवत्, तस्याः शक्तेः समीहयैवामृतसरो भवन् समस्तेभ्योऽपि तृषार्तेभ्यस्तस्यैव भूमानन्दस्य वितरणे संलग्नोऽभवत् । माधुर्यपर्वतं चूर्णयित्वा सर्वेभ्यो लघुभ्यो महद्भ्यश्च व्यतरत् । आनन्दस्य लुण्ठनबोभूयत । येन यावल्लब्धं, तावल्लुण्ठितम् । किन्तु येऽसमर्था अक्षमा आगन्तुमसमर्थास्तेषां द्वारेषु समुपस्थायाऽनुकम्पामूर्तिः श्रीरामकृष्णोऽमृतरसं तं प्रापयत् ।

यथा माता बालकं स्तन्यं पाययितुं व्याकुलीभवति, तथैव श्रीरामकृष्णोऽपि ब्रह्मकृपारूपजलेन सर्वानभिषेचयितुं व्याकुलत्वं प्रपेदे । विचारमन्तरेणैव प्रत्येकमपि प्राणिनमसौ अभिषिक्तमकरोत् । असाववोचत् – “यथा मलयसमीरप्रवाहतः सर्वाण्यपि काष्ठानि (घासवंशान् परित्यज्य) चन्दनानि भवन्ति, तथैव (इदानीमपि) ।”

एकदा श्रीठाकुरो भावाविष्टः प्रोवाच – “सम्प्रति मातरं वच्मि, ‘अधिकं नैव शक्नोमि जल्पितुं, अपि च कथयामि मातः ! यमेकवारं स्पृशामि स चैतन्यवान् भवतु ।’ एतादृङ्महिमास्ति योगमायायाः, सा इन्द्रजालं कर्तुं शक्नोति । आद्या शक्तिर्योगमायाऽस्ति, तस्या अत्यद्भुताऽऽकर्षणशक्तिः । मया तस्यापूर्वाकर्षणशक्तेः प्रयोगो विहितः ।”

विचित्रेणैकेनाज्ञाताकर्षणेनाकृष्टा राजमहाराजाः, दुःखितौदरिकाः, पण्डितमूर्खाः, भक्तज्ञानिनः, हिन्दूमोहम्मदाः, ब्राह्मख्रिस्ताः, साहित्यिकाः, कवयः, शिल्पिनः, विपणिकृतः, ब्राह्मणाः, श्वपाकाः, पतितापतिताः, वृद्धवनितादयश्च सर्वे दक्षिणेश्वरमायान्ति, किं वस्तु तानाकर्षति ? किमर्थमेतेऽस्य दीनपूजकब्राह्मणस्य पार्श्वे धावन्तः समायान्ति ?

कश्चिदपि कथं न स्यात्, सर्वस्य कृते तस्य द्वारमुद्घाटितमासीत्, हस्तौ प्रसारितावभूताम् । श्रीरामकृष्णस्य वीरभक्तो गिरिशः स्वस्यान्तिमजीवने वारमेकमुवाच – “पापस्वीकारार्थमेतावन्महत् स्थानं विद्यत इति यदि मया विदितमभविष्यत् ता बहून्यन्यान्यपि पापानि अकरिष्यम् ।“ असावद्भुत ऐन्द्रजालिकः प्रत्येकव्यक्तिजीवनेन सहेन्द्रजालक्रीडामेवाकरोत् । निरक्षरमषपालकस्य निरक्षरः पुत्रोऽपि तदीयस्पर्शमात्रेण महाज्ञानः सर्ववेदज्ञाता च समभूत् । ज्योतिर्मण्डलस्यैकम् ऋषिं निर्विकल्पसमाधितः समाकृष्य श्रीठाकुरो नरनारायणसपर्यायां, विश्वधर्मप्रचारे च न्ययोजयत् । तेन धर्महीनाय धर्मः प्रदत्तः, नास्तिक आस्तिकीकृतः, शुष्कप्राणा अपि प्रेमधारया परिप्लाविताः ।

भक्तानां साधनमार्गे प्रवर्तनात् प्राक् श्रीठाकुरस्तदन्तःकरणेष्वनुप्रविश्य पश्यति स्म यत्ते कस्मिन् पथि गमनयोग्याः सन्ति । एतदनुसृत्यैवासौ तदनुरूपसाधनमार्गेषु तान् पर्यचालयत् । कस्यापि भावा न कदापि तेन विनाशितः । कस्यापि धर्मस्य सम्प्रदायस्य वाऽनुयायिनः कथं न स्युत्सर्वानपि तदीयमार्गत एवानन्दधामाभिमुखं पर्यचालयत् । स चोवाच – “यथा काचनिर्मित कपाटयुक्तपिधान्या अभ्यन्तरे संस्थापितानि वस्तूनि सुस्पष्टं परिदृश्यन्ते, तथैवात्र समागतभक्ताभ्यन्तरमपि समालोक्यते मया ।“

स्वीयकृपान्वितहस्तस्पर्शतः श्रीठाकुरो यत्नेन प्रत्येक हृदयस्य पापतापग्लानिमलिनताचिह्नान्यपि प्रोञ्छयाचकार । स प्रेम्णा प्रोवाच – “यः सर्वदा आत्मानं पापिनं मन्यते स नूनमेव पापी भवति । आत्मनः पापस्वरूपस्यावधारणस्य न हि, प्रत्युत परमेश्वरे दृढविश्वासस्यावश्यकत्वमास्ते । वयं निरन्तरं भगवन्नामानि गृह्णीमस्तर्हि पापमस्माकं कुत्रातिष्ठत् ?” तदीया सत्यवाणी मन्त्रशक्तिरिव प्रभावं पर्यदर्शयत्, तस्य स्पर्शमात्रेणैव सर्वे आत्मानं सहजसुन्दरमन्वभवन् ।

श्रीठाकुरः करुणासागर आसीत् । तस्य मनसि सर्वान् प्रति समान एव दयाभावो बभूवः । समर्थासमर्थतायास्तस्य मनसि कोऽपि भावो नासीत् । सर्वेषामसौ त्राताऽभवत् अशरणशरणश्च । परन्तु तस्य समाजस्यासौ नासीत्, यस्य सर्वे जनाः “सर्वं माया, सर्वं मिथ्या” इति रुदन्ति । जीवस्य दुःखमवलोक्य स्वयमसौ रोदिति स्म । शोकातुरस्य तस्य वेदनया मनो नितरां पीडितमजायत ।

त्यागमार्गे गच्छन्तो ये भक्तबालकाः श्रीठाकुरस्य भाविनः सन्देशवाहकाः समभवन, तेषां शिक्षा, दीक्षा, साधनादीनि च भिन्नानि बभूवुः । तेषां जीवनमनाघ्रातकुसुमवत् पूतमासीत् । तेन प्रोक्तम् “काकोच्छिष्टं फलं नैव देवपूजोपयोगि, युष्माकं जीवनं स्वतन्त्रम् एतदेव देवपूजाकृते कृष्णार्पितजीवनम् ।” तानसावुपदिष्टवान् – “नारीमात्रे मातृभावसंरक्षणमेव शुद्धो भावः । मातृभावो निर्जलैकादशीवद् वर्तते, यत्र न कस्यचिदपि भोगगन्धस्य सम्भावना । संन्यासिनां कृते तु भावोऽयं निर्जला एकादशी एव ।“

श्रीरामकृष्णस्य त्यागिनः पार्षदाः साधारणजीववत् प्रारब्धवशीभूता नैव जन्मागृह्वन् । देवकार्यसम्पादनाय, जीवमात्रकल्याणाय च ते समागताः । तेषां दृष्टिमभ्यन्तरे दापयित्वा कदा कदाचिदसौ अवोचत् “इमे बालका जन्मत एव सिद्धाः । ईश्वरीयं ज्ञानमादाय जन्म लेभिरे । अवतारेण सह ये समागच्छन्ति, ते नित्यसिद्धाः सन्ति । केषाञ्चित् एतदेवान्तिमं जन्म । नित्यसिद्धानां श्रेणी पृथग् भवति । एकवारं किञ्चित्साधनानुष्ठानेनैव नित्यसिद्धा भगवन्तं प्राप्नुवन्ति, पुनः साधनं विनापि ज्ञानमधिगच्छन्ति ।“

श्रीठाकुरस्य शिक्षापद्धतिः पूर्णतयाऽभिनवाऽऽसोत् । “मानवगुरुः मन्त्रं ददाति कर्णेषु, जगद्गुरुस्तु मन्त्रं ददाति प्राणेषु ।” सोऽपि भक्तप्राणेषु स्वोयामाध्यात्मिक शक्ति सञ्चारयन् तेषां कुण्डलिनीशक्तिं जागृतामकार्षीत् । अधिकारानुसारमेवासौ भावाविष्टो भूत्वा भक्तानां वक्षसि, जिह्वायां शरीरस्य कुत्राप्यन्यस्थाने वा स्पर्शमकरोत् । एतेन शक्तिपूर्णेन स्पर्शेन तेषां मनांसि संहृततामन्तर्मुखतां च प्रपद्यन्ते स्म । सञ्चितः किन्तु सुप्त ईश्वरीय भावो जागर्ति स्म । फलतस्तैः कस्यचिद्दिव्यस्य ज्योतिषः, देवदेवीनां ज्योतिर्मयस्वरूपाणां दर्शनमक्रियत । कैश्चिद् गम्भीरध्यानस्य, अपूर्वानन्दस्यानुभूतयोऽक्रियन्त । केचिदोश्वरप्राप्तये सम्भ्रान्तमनसो बभूवुः । पुनश्च कस्यचन जीवने दिव्यभावावेशस्य, समावेस्तन्मयतायाश्च सञ्चारोऽजायत ।

राम-कृष्ण-बुद्ध-ईसा-चैतन्यादिदेवमानवानां जीवनचरित्रपर्यालोचनेन सुस्पष्टमिदं ज्ञायते यत् तैः इच्छया, स्पर्शेन च बहवोऽसमर्था अपि समर्थीकृताः । नेत्रहीनेभ्यो नेत्राणि प्रदत्तानि । अज्ञानिभ्य आत्मज्ञानं प्रदत्तम् । भक्तिरहितेभ्यो भगवद्भक्तिरर्पिता, पापिनः पापाद् विमोचिताः । वर्तमान युगे श्रीरामकृष्णस्य जीवनचरित्रे आध्यात्मिकशक्तिसञ्चारस्य यः समुल्लेखो निभाल्यते, तस्य पुरतोऽतीतघटनावल्यो निस्सारा इव प्रतिभान्ति ।

श्रीठाकुरस्य शक्तिसञ्चारफलस्वरूपतो भक्तेभ्योऽलौकिकदर्शनस्य, भावावेशस्य गम्भीरध्यानस्य, च लाभोऽभवत् । तस्य सन्निधाने योऽपि समागतः स एव महत्यानन्दे निमग्नः सन् परावर्तत । भक्तानां भक्तिभावः समुद्वेलित इवाऽभवत् । बहुभिरेव भाव-हास्य-रोदन-नृत्य-गान द्वारा “ऊर्जितभक्तिः” समधिगता ।

इदं किल महाशक्तेरेवाकर्षणं यत् केवलं कलिकातायास्तदभ्यर्णस्थानेभ्य एव न हि, प्रत्युत बहोर्दूरादपि भक्ता अनुरागिणो मुक्तिकामाः सदला दक्षिणेश्वरमागत्य सम्मिलिता अभूवन् । एकस्मिन् दिवसे श्रीठाकुरेण भावावेशे प्रोक्तम् – “यो हृदयेन ध्यानं जपं चानुतिष्ठति, तेनात्र स्थाने (श्रीरामकृष्णं भगवद्रूपेण स्वीकर्तुं) समागन्तव्यमेव भविष्यति ।”

❀ ❀ ❀

श्रीरामकृष्णदेवसन्निधाने धावन्तो ये भक्ताः समवेता अभूवन साधारण्येन द्विधा विभाजयितुं शक्यन्ते – मुक्तिकामा अन्तरङ्गस्वरूपाश्च ।| द्विविधेष्वेतेषु मुक्तिकामिनां सङ्ख्या समधिका अन्तरङ्गभक्ताश्च गणनीया एवासन् ।

मुक्तिकाभिष्वपि बहुविधानां भावानां साधकाः । सर्वानपि साधकभक्तानेतान् मुक्तिद्वारं प्रापयितुं श्रीठाकुरेणागणनीयानि कष्टानि सोढानि । शतशो जीवानां पापभारो गृहीतः । केषांचित्स्पर्शनेन वेदनया स चीत्क्रियते स्म । तदानीमसौ वक्ति – “सर्वाङ्ग ज्वलितमभूत् ।” एतावन्ति कष्टान्यनुभूयापि जीवानामुद्धारे स प्रवर्तमान एवाभवत् । जीवकल्याणार्थमेवासौ शरीरं जग्राह, किन्तु कदा कदाचिदसौ अवासोदत् । तदानीं तेन जगन्माता साभिमानं प्रोच्यते – “जलमिश्रितं दुग्धं प्रोद्बेलयितुं बहूनामिन्धनानां प्रदानं क्रियते । इदानीं तन्मया न कर्तुं शक्यते मातः ! एकसेटकदुग्धे सेटकचतुष्टयं जलम् ! इन्धनोत्थैर्धूम्रैर्नेत्रे ज्वलिते ।“

ये च श्रीठाकुरस्यान्तरङ्गपार्षदा युगधर्मप्रचारे तत्साहाय्यं कर्त्तु समायाताः, न तेषां मुक्तिकामना । तत्सम्बन्धे श्रीठाकुरो भावावस्थायामेकदा प्राह – “अन्तरङ्गपार्षदेषु विशेषतया द्वौ विषयौ ज्ञातव्यौ स्तः, प्रथमतस्तु अहं (आत्मानं दर्शयित्वा) कोऽस्मि ? द्वितीयतस्ते के सन्ति ? मया सह तेषां कश्च सम्बन्धः ?” पुनः प्राह बालकेष्वेषु बहवो नित्यसिद्धाः, जन्मत एव तेषामीश्वरं प्रत्याकर्षणम् तेषां स्थितिः कीदृशीति ज्ञायते ? पूर्वं फलम्, ततश्च पुष्पम् । पूर्वं दर्शनम्, ततश्च भगवद्गुणमहिम्नः श्रवणं तदनन्तरं च मेलनम् । इमे सर्वे बालका भगवत्प्राप्तेरनन्तरं साधनां कुर्वन्ति । अन्तरङ्गपार्षदानां मुक्तिर्नास्ति ।“

श्रीठाकुरस्याभ्यन्तरे ईश्वरीयशक्तेरेतावदाधिक्यं विकासश्च परिदृश्यते स्म यत् तं केन्द्रीकृत्य आनन्दस्य सर्वव्यापि सावनमिव प्रावहत् । दक्षिणेश्वरं तदीयं लघुग्रहं परमात्मभावशक्तिकेन्द्रमिवाभूत् । तत एव रात्रिन्दिनं तेन समान एवाध्यात्मिक आलोकः प्रसार्यते स्म । यश्च वारमेकं समागच्छति स एव मुग्धो भवति ।

कदाचित् श्रीठाकुरः करतालिकां कुर्वन् भगवन्नामान्यकीर्तयत्, कदापि भावाविष्टो जगदम्बया साकं वार्तालापमकरोत्, कर्हिचित् सुमधुरकण्ठतो मातुः स्तुतिगानमन्वतिष्ठत्, पुनर्भक्तैः सार्धं प्रोन्मत्त इव श्रवणमङ्गलनामकीर्तने न्यमज्जत्, मृदङ्गमञ्जीरादिध्वनौ श्रुते कियन्मनोहरमभवत्तदीयं भावमयं नृत्यम् । कदापि च हुङ्कारं कुर्वन् उन्मत्तवन्नरीनृत्यमानो गम्भीरं समाधिमध्यगच्छत् । तत्र च निलीयते स्म । ततश्च सर्वं शान्तम् । तस्य मुखमण्डलत आनन्दस्य धारा इव च्युता बभूव ।

भक्ताः स्तब्धी भवन्तस्तदीयसमाधिदृश्यं व्यलोकयन् । भक्तानामपि भावावेशः समाजायत । कश्चिद् विहसति, कोऽपि रोदिति, कोऽपि जडवत् स्तब्धीभवन् स्पन्दनहीनतां प्रपद्यते, कश्चिच्चानन्दपुलकितो नरीनृत्यते । भावाविष्टश्रीठाकुरेण स्पृष्टः कोऽपि तदीयस्पर्शपरिणामेन गम्भीरसमाधौ निमज्जति । आनन्दस्वरूपमलयानिलप्रवाहतः सर्वेषां प्राणा मनांसि च तृप्तिं भजन्ते ।

❀ ❀ ❀


स्वामिना विवेकानन्देन स्थाने चैकत्र श्रीरामकृष्णदेवसम्बन्धे लिखितम् “तदीयं जीवनमेकासाधारणालोकवर्तिकाऽऽसीत्; यस्यास्तीवृरश्मिसम्पातेन जना हिन्दुधर्मस्य निखिलमवयवं स्वरूपं च परिज्ञास्यन्ति । शास्त्रे यानि ज्ञानानि केवलं मतवादरूपेण सन्ति, तानि तदीयमूर्तोदाहरण रूपाणि विद्यन्ते । ऋषयोऽवताराश्च यस्य तत्त्वस्य वास्तविकशिक्षां दातुमैच्छन्, तैः स्वजीवनं द्वारीकृत्यैव तत् प्रदर्शितम् । शास्त्राणि केवलं मतवादमात्राणि । तत्प्रत्यक्षानुभूतिस्वरूपोऽसावासीत् । महापुरुषेणैतेन स्वीयपञ्चाशद्वर्षव्यापिना जीवनेन तादृशः शिक्षाप्रदो दृष्टान्तरूपश्च नैज आत्मा सम्पादितः, यादृशः पञ्चसहस्रवर्षव्यापिना जीवनेन भविष्यदुवंशीयानां कृते जातीयाध्यात्मिकजीवनं यापयद्भिः कर्तुं शक्यते ।
विभिन्नानि मतानि एकैकावस्थाविशेषरूपाणि क्रममात्राणि च । तस्यैतेन मतवादेन वेदानां व्याख्या शास्त्राणां समन्वयश्च सम्पत्स्यते” इत्यादि ।