वेदमूर्ति-श्रीरामकृष्णः

जगद्गुरोः कलिकातां गमनम्, कण्ठे व्रणः

श्रीरामकृष्णः कस्यापि देशविशेषस्य जातिविशेषस्य कृते नागच्छत् । स हि समागतो विश्वमानवानां समस्तधर्माणां च हितसाधनाय । “यावन्ति मतानि, तावन्तः पन्थानः” इत्येव विश्वधर्मस्य नूतनं रूपम् ।

सर्वेऽपि धर्माः सत्याः । सर्वेष्वपि धर्मेषु जीवात्मनोऽतीन्द्रियसत्ताप्राप्तये एकैकः सन्मार्गों वर्तते । “यावन्ति मतानि तावन्तो मार्गाः” इत्येतद्धर्मपताकायास्तले हिन्दवो, बौद्धाः, ईसामतानुयायिनो, मोहम्मदाच, तथैव च मानवजातेः, मानवसभ्यतायाश्च प्रगत्या सह भविष्यत्काले यावन्ति धर्ममतानि समुत्पत्स्यन्ते, तत्तद्धर्मावलम्बिनश्च सर्वे समीपत एव स्थास्यन्ति तेषां सर्वेषां च आदर्शो भविष्यति, “श्रीरामकृष्णदेवस्य जीवनम् ।”

श्रीरामकृष्णदेवोऽवदत् “रामः कृष्णः अन्ये च अत्रैव शरीरे (आत्मानं दर्शयित्वा) समागताः सन्ति ।” याशक्तिः प्रतियुगं रामकृष्णादिरूपेण आविरभवत्, सैवेदानीं “रामकृष्ण" स्वरूपेण अवातरत् ।

देवा असुरबधाय प्रस्तुतां देवीं स्वीयैरायुधैः सज्जितामकार्षुरिति दुर्गासप्तशतीपुस्तके समुल्लिखितम् । श्रीरामकृष्णावतारेऽप्येतद् दृश्यते यत् ब्रह्मज्योतिरारभ्य शिव-काली-राम-कृष्ण-ईसा-मुहम्मद-चैतन्य-(महाप्रभु)-प्रभृतयः, अन्ये च बहवो दिव्यदेहधारिणस्तद्भ्यन्तरे ज्योतिःस्वरूपतो लीनाः सन्ति ।

सर्वेऽप्यवताराः कस्या अपि विशेषशक्तेः आधारस्वरूपा विभिन्नभावानां प्रतीकाः सत्यस्य मूर्तविग्रहाश्च । श्रीरामकृष्णस्याभ्यन्तरे सर्वेषां तेषां सङ्गतेरयं परिणामो बभूव यदसौ सर्वभावानां मूर्तविग्रहरूपेण आध्यात्मिकशक्तेः केन्द्रस्वरूपेण च परिणतोऽभवत् । समस्तमपि विश्वमेकेनाभिनवेनाध्यात्मिकेनालोकेनोद्भासयितुमेव हि तेषां विभिन्नज्योतिर्मयस्वरूपाणां श्रीरामकृष्णाभ्यन्तरे सम्मेलनमभूत् । सच्चिदानन्दरूपस्य ब्रह्मणः, त्यागमूर्तेः शिवस्य, अभयवरदानरूपायाः कालिकायाः, सत्यमूर्तेः श्रीरामचन्द्रस्य, परमकल्याणस्वरूपस्य श्रीकृष्णस्य, क्षमाधृतिविग्रहस्य ख्रीस्तस्य, विश्वभ्रातृत्वप्रतीकस्य मुहम्मदस्य, चाण्डालान्तप्रेमप्रदस्य श्रीचैतन्यस्य, एतेषां सर्वेषामेव भावज्योतिरेकोभूयैको महाशक्तिशाली परमालोकनिकेतनस्वरूपः श्रीरामकृष्णो विचकास । श्रीरामकृष्णस्य स्वरूपं महातेजःपूर्णस्य तस्य सन्धानात्मकज्योतिषः समानमासीत्, यतः समस्तेऽपि संसारे आध्यात्मिकालोकस्य किरणाः प्रसरन्ति । पूर्वोत्पन्नानां समेषामवताराणां भावराशिं पुनरुद्दीप्य नवीनामाकृतिं ग्राहयितुं प्रयोजनमभूत् । अत एव श्रीरामकृष्णजीवनस्याभिनवा साधनाऽपूर्वा सिद्धिश्चासीत् । श्रीरामकृष्णो न व्यक्तिविशेषः, प्रत्युतासीदसौ भावमयो विग्रहः ।

❀ ❀ ❀

श्रीठाकुरश्चैकदा प्रोवाच “सामन्तीयशासनस्य मुद्रा सम्राजः शासने नैव प्रचलति ।” मुद्राया उपादानं यद्यपि समानमेव तस्या आकृतिर्मुद्रणं च परिवर्तत एव, तथैव श्रीठाकुरोऽपि सर्वधर्मस्वरूपः “यावन्ति मतानि, तावन्तो मार्गाः” इत्येतस्य नूतनं मुद्रणस्वरूपं दधार । तदीयैषा दिव्यवाणी “यो ह्यत्र (श्रीरामकृष्णभावग्रहणार्थम्) आगमिष्यति, स एव चैतन्यस्य लाभं करिष्यति ।“

अन्यदप्यसौ प्रावोचत् “कालेऽत्र छद्मवेशेनैवागमनम्, यथा कश्चिद् भूस्वामी गुप्तरूपेण भूस्वामिताकार्यं द्रष्टुं गच्छति ।“ अतोऽत्रावसरे पूर्णसात्त्विकभावस्यैवाविर्भावः । रूपस्य, विद्यायाः, सर्वविधैश्वर्यस्य कस्याश्चनान्यस्या विभूतेर्वा तत्र प्रकाशो नास्ति । केवलं परा विद्या, परमा भक्तिः, परमं ज्ञानमेवात्र प्रकाशितत्वमगमन् । अपूर्वस्त्यागः, उत्कटं वैराग्यं, विशुद्धमीश्वरपरायणत्वं, विश्वप्लावि प्रेम, इत्येतान्येव श्रीरामकृष्णावतारस्य भावैश्वर्यरूपाणि बभूवुः । भाग्यवन्त एव छद्मवेशधारिणमेनं पर्यचिन्वन् । येषामिदमन्तिमं जन्म त एवैनं सर्वभावमयं ग्रहीतुं शक्ष्यन्ति ।

श्रीठाकुरस्य शरीरं शनैः शनैः क्षीणतामगच्छत्, दुर्बलं चाभवत् । अहोरात्रं धर्मशान्तिमुक्तीनां वितरणमेव प्रचलति स्म, सुदूरादपि जनाः, सामूहिकाः समाययुः । सर्वेऽपि संसारदावानले दग्धाः समागताः । ते कानप्यपायान्कुर्वन्तस्तत्परिश्रमस्वरूपयन्त्रणामनुभवन्तश्च समायान्ति स्म । सर्वेऽपि मुक्तेरभिलाषिणः । स चाप्यकातरभावेन सर्वेभ्योऽपि मुक्तिं प्रायच्छत् ।

श्रीरामकृष्णदेव एकदा भावदशायामुक्तवान् – “अत्र नास्ति कश्चिदपरः । यूयं सर्वे आत्मीया एव, युष्मान् एव ब्रवीमि, अन्ते च बोधितवानस्मि, स हि पूर्णः, अहं तस्यैवांशः । स च प्रभुरहं च तस्य दासोऽस्मि, पुनर्विचारयामि, सोऽहमेव, अहमेवासी ।“

श्रीठाकुरोऽन्यस्मिन् दिवसे जगन्मातुः समीपे भावाविष्टः प्रार्थनामकरोत् – “जननि ! अत्र ये जना आन्तरिकाकर्षणेनागमिष्यन्ति ते सिद्धा भवन्तु ।” स हि जीवत्राणाय समागच्छत्, तदेव सङ्केतयन्नुवाच – “अवतारस्य, परमेश्वरस्य वा दर्शनमेकमेव वस्तु ।”

स्वीयमानवदेहान्मुक्तेः कालमप्यसौ जानाति स्म । एकदाऽसौ मातरं श्रीसारदादेवीमगादीत् “यदा त्वं द्रक्ष्यसि यदहं (रात्रौ) कलिकातायामेव स्थितिं कुर्वाणोऽस्मि, यस्य कस्यापि हस्तात् भोजनं कर्तुं प्रवृत्तोऽस्मि, किं वा स्वभोजनतः प्रागेव तस्मात् स्वभोजनपदार्थात् कमपि भागं निष्कास्य कस्मैचिदन्यस्मै दातुं प्रवर्तमानोऽस्मि, तदा त्वयाऽवधेयं यत् ममेदं शरीरं नैव बहुदिनं स्थास्यति ।“

श्रीठाकुरो भक्तान् प्राह – “यदा बहवोऽधिका जना मयीश्वरबुद्धया श्रद्धां भक्तिं च विधास्यन्ति, तदानीमेवेदं शरीरमन्तर्धानं प्राप्स्यति ।“ शरीरत्यागसमयसम्वन्धे तेनान्यदपि वहु सङ्केतितम् । इदानीं छद्मवेशेनागतिः । बहूनां मानवानामेतस्य बोधे जाते, सोऽहं प्रस्थास्ये ।

❀ ❀ ❀

१८८५ ईसवीयवर्षस्य ‘एप्रिल’-मासस्यान्ते श्रीठाकुरस्य कन्सररोगसूत्रपातो जातः । किन्तु तेन तस्य कापि चिन्ता न कृता, धर्मोपदेशः, शक्तिसञ्चारः, जीवोद्धारश्च दिनानुदिनं प्रावर्धत, सहैव स रोगोऽपि । कण्ठाभ्यन्तरे शनैः शनैः शोथ: समाजायत, व्रणमपि संवृत्तम्, येन कथने महत् कष्टमन्वभूयत, तदापि तेन परमेश्वरचर्चाऽक्रियत एव ।

धर्मपिपासूनामागमने जाते स्वकण्ठव्यथा दूरं स्थाप्यते स्म । तदुपरि निरन्तरं भावस्य समाधेश्च गतिपरम्परा प्राचलत् । ईश्वरचर्चायां प्रादुर्भूतायां तस्मिन्नुद्दीपनं जायते, येन सहसाऽसौ समाधिस्थो भवति स्म । सेवकानां निरोधस्य कोऽपि प्रभावस्तस्मिन्नापतत् ।

पर्याप्त चिकित्सयापि रोगवृद्धिमवलोक्य भक्ताः शङ्किता बभूवुः । चिकित्सासेवासौविध्यं विचार्य द्राक्तराः श्रीठाकुराय कलिकातायां स्थातुं स्वसम्मतिं दत्तवन्तः । कलिकातानगरांशभूते श्यामपुकुरे लघुभवनमेकं भाटकेन गृहीतम् । एकसप्ताहं कलिकातायां बलरामबाबूगृहे स्थित्वा १८८५ ईसवीयस्य अक्टोबरमासस्यारम्भेऽसौ श्यामपुकुरे समागच्छत् । तदानीं द्राक्तर-महेन्द्रलालसरकारस्तस्य चिकित्सामकार्षीत् । ततः किञ्चिद्दिनानन्तरं तस्य सेवायै श्रीमाता सारदादेवी अपि दक्षिणेश्वरात् श्यामपुकुरस्थगृहं समाययौ ।

परमहंसदेवोऽस्वस्थो भूत्वा कलिकातायां समागतोऽस्तीति परिज्ञाय अनेके मानवास्तद्दर्शनार्थं समाजग्मुः । श्यामपुकुरस्य लघुभवनमेतद् दर्शनार्थिनां समागमेन जनबहुलतीर्थरूपेण परिणनाम । अनेके मुक्तिकामनामादाय समागताः । यस्य विश्रामस्य महती आवश्यकताऽऽसीत्, तस्मै तस्य प्रदानमसम्भवं संवृत्तम् । तस्य मुखादीश्वरीयप्रसङ्गमाकण्ये सर्वे मुग्धा अबोभूयन्त । द्राक्तरः सरकारो वार्तालापतः श्रीठाकुरं दृढतया न्यवारयत् । परन्तु स स्वयमेव षट्सप्तहोरा यावत् तेन साकं धर्मचर्चामकार्षात् । तथापि तेन तृप्तिर्नासाद्यते स्म । स अवोचत्, “केनाप्यन्येन सह वार्ता न करोतु, केवलं मयैव सह करोतु ।”

ये जनाः श्रीठाकुरस्य पार्श्वे समागतास्तेषामुपर्य्येव न हि, सूक्ष्मदेहेन बहुदूरं प्रस्थाय बहूनामुपर्यसौ कृपामकरोत् । श्रीठाकुरो यदा श्यामपुकुरे न्यवसत्, तत्कालीनेयं घटना – विजयकृष्णगोस्वामी ढाकातः समागत्य प्रोक्तवान् – यदेकदा ढाकास्थिते स्वभवने द्वारं पिधायाऽसौ समुपविष्टो भगवन्तं परमेश्वरमचिन्तयत् । तदानीं श्रीठाकुरः सशरीरस्तत्रोपस्थाय तस्मै दर्शनं दत्तवान् । कदाचिदयं मस्तिष्क विकारः स्यादित्येतन्निर्गयार्थमसौ गोस्वामिमहोदयः स्वहस्ताभ्यां श्रीरामकृष्णस्याङ्गप्रत्यङ्गानि संस्पृशन् ददर्श । विजयमुखाद् वार्तामिमामाकर्ण्य श्रीठाकुरो मन्दं मन्दं जहास ।

नरेन्द्रनाथस्य नायकत्वे युवानो भक्ताः यथावसरं श्रीठाकुरस्य सेवाये श्यामपुकुरस्य गेहे न्यवात्सुः । गृहिणो भक्ता दिन एव समागत्य महताऽऽनन्देन च चिकित्सासपर्यादीनां व्ययवहनमकुर्वन् । अस्वस्थं श्रीठाकुरं भक्तजननीं (सारदादेवीं) च केन्द्रीकृत्य श्यामपुकुरे श्रीरामकृष्णभक्तसङ्घस्य सुचनाऽभवत् ।

श्रीठाकुरस्य मानसं शनैः शनैरनन्तस्याभिमुखमधावत् । ईषदपीश्वरीये प्रसङ्ग प्रचलितेऽसौ गम्भीरसमाधौ न्यमज्जत् । श्रीठाकुरस्यै तस्य समाधेरवस्थाया एकदा द्राक्तरः सरकारस्तस्यैकः सहचरो द्राक्तरश्चोभौ मिलित्वा परीक्षणं साधुरीत्या कृतवन्तौ, सर्व दृष्ट्वा श्रुत्वा चोभौ स्तब्ध संवृत्तौ । द्राक्तरेण सरकारेण यन्त्रद्वारा श्रीरामकृष्णहृदयस्य स्पन्दनं सुपरीक्षितं, दृष्टं च यत् हृदयं सर्वथा स्पन्दनहीनं विद्यते । केनाप्यन्येन द्राक्तरेण श्रीठाकुरस्योन्मीलिते नयने निजाङ्गुलीं प्रवेशयताऽपि न काऽपि त्रुटिः कृता ! सर्वं परीक्ष्य विलोक्य च तेन स्वीकृतं यत् बाह्यतो मृतवत्प्रतीयमानस्य श्रीठाकुरस्यैतत्समाधिदशासम्बन्धे आधुनिकं भौतिक विज्ञानं न किञ्चिदपि वक्तुं शक्नोति ।

समाधेर्दशामेतां तर्कवादिनो मूर्छाम्, पाश्चात्त्यदर्शनानुयायिनश्च जडत्वमङ्गीकुर्युः, न तद्भिन्नं किञ्चिदन्यत्, किन्तु समाधिकाले श्रीठाकुरेण यत् किमपि दृश्यते समुपलभ्यते च तत्सर्वमेवाक्षरशः सत्यमभवत् । बहुभिरप्येतत् परीक्षितं सत्यघटनया सम्यक् मेलितं च । अयं समाधिरेव मानवं परमज्ञाने भूमानन्दे च प्रतिष्ठापयति ।

इतः श्रीठाकुरस्य रोगः प्रवर्धमानोऽभवत् । केनाप्यौषधेन किमपि सत्फलं नावलोक्य द्राक्तरः सरकारः किञ्चिद् विचचाल । तस्य परामर्शेन जलवायु परिवर्तनार्थं कलिकातातो बहिः कुत्राप्युन्मुक्तस्थाने श्रीठाकुरं नेतुं निश्चयो जातः । पुरत आसीत् पौषमासः । पौषमासे स्थानपरिवर्तनविषये श्रीठाकुरेणापत्तिः करिष्यत इत्यालोच्य भक्ताः शीघ्रतरं किञ्चिदुपयुक्तस्थानमन्वेष्टुं प्रावर्तन्त । काशीपुरे अशीतिमुद्रामासिकभाटकेन गोपालचन्द्र घोषस्योद्यानभवनं स्वीकृतम् । आग्रहायणसङ्क्रान्तेरेकदिनपूर्वं (१८८५ ईसवीयस्य दिसम्बरमासस्यैकादश्यां तारिकायाम्) शुभदिने मध्याह्नोत्तरकालेऽसौ काशीपुरमाजगाम । अत्रैव श्रीरामकृष्णदेवेन मानवलीलाया अष्टौ मासा व्यतियापिताः ।

प्राकृतिक-शोभासम्भृत उन्मुक्तस्थानेऽत्र समागत्य श्रीरामकृष्णो बालकवदानन्दं प्रकाशयामास । कैश्चिद्दिवसैरेव श्रीरामकृष्णस्वास्थ्ये समुन्नतिं निभाल्य भक्तहृदयानि सानन्दं ननृतुः । श्रीठाकुरस्य भाविसंन्यासिनः शिष्यास्तदीयशय्यासमीपे समवेताः पूर्णरूपेणात्मानं तस्य सपर्यायां न्ययोजयन् । तेषां मनसीदानीं तीव्रं वैराग्यमासीत्, सर्वेऽपि शाश्वतशान्तिमधिगन्तुं व्याकुलोबभूवुः ।

❀ ❀ ❀

दिसम्बरस्य त्रयोविंशी तिथिः । सहसैव श्रीठाकुरस्य भावे परिवर्तनमदृश्यत । कृपाया लुण्ठनमबोभूयत । भावस्थो भूत्वाऽसौ कालीपदस्य वक्षः स्पृशन्नुवाच – “चैतन्यवान् भव ।” स्नेहेन च तस्य हनूदेशं (श्मश्रु-स्थानं) गृहीत्वा प्रीतिं प्रदर्शयामास । अनन्तरं भावाविष्टेन तेन प्रोक्तम् – “यः किलान्तरिकभावेनेश्वरमाह्वयति, सन्ध्यां पूजां वा विद्धाति, तेनात्रा गन्तव्यमेव ।“

प्रातर्द्वयोर्भक्तिमत्योः स्त्रियोरुपरि श्रीठाकुरस्य दया बभूव । समाधिस्थः स चरणेन तौ भक्तिमत्यौ स्त्रियौ समस्पृशत् । तयोर्नेत्राभ्यामानन्दाश्रूणि प्रावहन् । एकया रुदत्या प्रोक्तम् – “एतादृशी भवदीया दया !” तस्य तु अयाचिता कृपाऽऽसीत् । सिंथिस्थानस्थे गोपाले कृपाऽनुष्ठानाय तेनोक्तम् – “गच्छ, गोपालमाहूय समागच्छ ।”

❀ ❀ ❀

श्रीरामकृष्णस्य मानसिकदशायां तीव्रतरं परिवर्तनमभवत् । तदीयं मनः साकारतो निराकाराभिमुखमधावत् । स विद्याया “अहम्भावम्” अपि परित्यक्तवान् । स होवाच – “आम्, लोकशिक्षापि तिरोदधाति । अधिकं वक्तुं न शक्नोमि । सर्वं राममयं परिदृश्यते । कदा कदाचिन्मनसि समुद्भवति – कं कथयामि ? पश्यामि – साकारतः सर्वमपि निराकाराभिमुखं प्रतिष्ठते । बहु व्याहर्तुं समीहा समुदेति, किन्तु वक्तुं न शक्यते । इदानीमपि पश्यामि – निराकारमखण्डं सच्चिदानन्दम् – एवंविधमवस्थितमास्ते ।” (कथामृते) ।

श्रीरामकृष्णदेवः स्वीयामस्वस्थतामाश्रित्य निजभक्तानामेकं सङ्घमस्थापयत् । विभिन्नानां प्रतिकूलस्थितीनां सत्त्वेऽपि तदोयैरन्तरङ्गपार्षदैः आत्मनियोगो गुरुसेवार्थं विहितः । एकदा भावावस्थायामसौ प्रोक्तवान् “अस्य रोगस्य दशायां परिज्ञातं यत् कोऽन्तरङ्गः, कश्च बहिरङ्ग इति । ये च गृहादिकं परित्यज्यात्र समागतास्तेऽन्तरङ्गभूताः सन्ति, ये च कदाचित् संवादमात्रं पृष्ट्वा गच्छन्ति, ते बहिरङ्गरूपाः सन्ति ।”

❀ ❀ ❀

१८८६ ईसवीयजनवरीमासस्य प्रथमतारिकायां शरीरं किञ्चित् स्वस्थमदृश्यत । अतः श्रीठाकुरोऽद्य किश्चिद्भ्रमणेच्छया नीचैरवातरत् । बहवो गृहमेधिनो भक्ता अपि तेन साकं गन्तुं प्रवृत्ताः । उद्यानस्य तोरणाभिमुखं जग्मुः । पुरतो गिरिशमवलोक्य तस्य भावे परिवर्तनमभूत् । श्रीठाकुरस्य चरणयोर्निपत्य गिरिशेन तदीया स्तुतिः प्रारब्धा । सहसा श्रीठाकुरस्याङ्गप्रत्यङ्गानि रोमाञ्चितान्यभूवन् । अस्यां दण्डायमानदशायामेवासौ समाधिस्थोऽभवत् ।

भक्ता उल्लसिता बभूवुः । कश्चिदानन्दध्वनिमकरोत् कश्चित्तदीयचरणपरागं स्वमस्तकेऽस्थापयत्, कोऽपि कुसुमान्यानीय तस्य पादौ समर्चयति स्म । सर्वे प्रोन्मत्ता इवाभूवन् । एकमद्भुतं स्वर्गीयं दृश्यमेतत् ! तदानीमेवार्धचेतनः श्रीठाकुरः प्रसन्नेन मनसा सर्वान् विलोकयन् प्रोवाच – “युष्मभ्यमहमिदानीं किं कथयामि, सर्वैर्भवद्भिश्चैतन्यमधिगम्यताम् ।” इत्युक्त्वा तेन तत्तद्वक्षःस्थलस्पर्शपूर्वकं प्रत्येकोऽपि चैतन्यवानक्रियत । उपस्थितेषु भक्तेषु केवलं द्वावेव “न हीदानीम्” इत्युक्तवता तेन न स्पृष्टौ ।

श्रीठाकुरस्य शक्तिसम्वलितः स्पर्शोऽयं भक्तानामाध्यात्मिके जीवने महत्तरमेकं परिवर्तनं कुर्वन् शनैः शनैस्तान् ईश्वरीय आनन्दे दृढतया प्रतिष्ठितान् विधौ ।

❀ ❀ ❀

सम्भवतः १८८६ ईसवीयाब्दस्य फरवरीमासस्य घटनेयमास्ते – श्रीठाकुरस्यान्यतमान्तरङ्गपार्षदो गोपालः (स्वस्मात् कतिपयवत्सरज्येष्ठत्वात् श्रीठाकुरो गोपालं ‘वृद्धगोपाल’ नाम्नाऽकथयत्) तीर्थभ्रमणात्परावृत्त आसीत् । साधुभ्यः काषायवस्त्रदानाय तस्य समीहा बभूव । तदानीं गङ्गासागरयात्रामुपलक्ष्य बहवः साधवः कलिकातायां समागता अभूवन् । तेभ्यः साधुभ्यो वस्त्रादिदानसमीहायां व्यक्तीकृतायां श्रीठाकुरः प्रोवाच – “अत्रत्या ये सर्वे त्यागिनो भक्ताः सन्ति – एभ्योऽभ्यर्हिताः साधवस्त्वया कुत्र लप्स्यन्ते ? अत्रैकैकोऽपि सहस्रसाधुगौरवान्वितो वर्तते । एभ्यः प्रदानेनैव तव कार्य सम्पत्स्यते ।“ श्रीठाकुरस्य निर्देशमनुसृत्य वृद्धगोपालो द्वादशगैरिकवस्त्राणि तावत्यो रुद्राक्षमालाश्चन्दनादीनि च तत्समीपमानिनाय । तानि गैरिकवस्त्राणि मालादीनि च स्वहस्तेनैव तेन नरेन्द्रादिभ्य एकादशभक्तेभ्यो दत्तानि, अवशिष्टं गैरिकं वसनं ततोऽनन्तरं गिरीशचन्द्राय समर्पितमभूत् ।

आडम्बरविहीनमिदमनुष्ठानं जागतिके इतिहासे महत्त्वपूर्णैका घटना । यतस्तद्दिने किल “श्रीरामकृष्णत्यागिसङ्घस्य” स्थापना बभूव । एतदनुष्ठानाभ्यन्तरे त्यागिसङ्घीयामोघ शक्तिबीजं निहितमासोत् । युगावतारः श्रीठाकुरः स्वहस्ताभ्यामेव सङ्घस्याभिषेककार्यं सम्पादितवान्, युगधर्मप्रचाराय च तस्मै सहस्राधिकवर्षाणां स्थायित्वमसौ प्रादात् ।

शनैः शनैर्मार्चमासः समायातः, श्रीरामकृष्णशरीरं पूर्वापेक्षयाऽपि क्षीणतां प्रपेदे । कण्ठे ईदृशी व्यथा आसीत् यद् भोजनं तु दूरे तिष्ठतु, सामान्य जलीयपदार्थोऽपि गलाभ्यन्तरं नैव कर्तुं शक्यते । जगन्मात्रा तस्मै प्रदर्शितम् – “एभिरगणितमुखैस्त्वमेवाश्नासि ।” तस्य कष्टमवलोक्य पाषाणा अपि द्रवन्ति स्म ।

१८८६ ईसवीयाब्दस्य मार्चमासस्य चतुर्दशी तिथिः । गम्भीराया निशायाश्च काल आसीत् । महता कष्टेन शनैः शनैः श्रीठाकुरेण व्याहृतम् – “मदर्थं यूयं रोदिष्यथ, अत एवैतावत् कष्टं सहे । ‘एवंविधं कष्ट’मिति सर्वे वदेयुश्चेत्तर्हि शरीरमिदं परित्यक्ष्यामि । श्रुत्वैतद् भक्ता मौनिनोऽश्रूणि विमुञ्चन्ति ।

निशया सहैव तस्य रोगो वृद्धिमगमत् । कलिकातायां द्राक्तरस्याह्वानाय सन्देशहरः प्रहितः । शनैः शनैः किञ्चित्स्वास्थ्यमनुभवन् श्रीठाकुरोऽस्पष्टस्वरेणोक्तवान् – “अहमनेकानीश्वरीयरूपाणि पश्यामि ! तेष्वेव (स्वशरीरं प्रदर्श्य) अस्य रूपस्यापि दर्शनं करोमि ।”

१८८६ ईसवीयाब्दस्य मार्चमासस्य चतुर्दशी तिथिः । गम्भीराया निशायाश्च काल आसीत् । महता कष्टेन शनैः शनैः श्रीठाकुरेण व्याहृतम्- “मदर्थं यूयं रोदिष्यथ, अत एवैतावत् कष्ट सहे । ‘एवंविधं कष्ट’ - मिति सर्वे वदेयुश्चेत्तर्हि शरीरमिदं परित्यक्ष्यामि । श्रुत्वैतद् भक्ता मौनिनोऽश्रूणि विमुवन्ति ।

आगामिनि दिवसे प्रातरेव श्रीठाकुरो भक्तैः सह सङ्केतेनास्पष्टस्वरेण वार्तालापं कुर्वन्नासीत् – “यदि शरीरमिदं कानिचिद् दिनानि समस्थास्यत तर्हि बहवो जनाश्चैतन्यलाभमकरिष्यन्त ।“ किञ्चित् क्षणं मौनमास्थाय पुनरगादीदसौ – “किन्तु सा (जगन्माता) न रक्षिष्यति, नैव रक्षिष्यत्यसो । सरलमूर्खोऽयं (स्वदेहं प्रदर्श्य) सम्भवतः सर्वं (मोक्षादिकं) यतः दद्यात् ! एकतः कलियुगे ध्याने जपे चासक्ता न सन्ति ।“ राखालः स्नेहपूर्णस्वरेणोवाच – “भवान् जगन्मातुः समीपे प्रार्थयतु यद्देहोऽयं कानिचिद्दिनानि पुनस्तिष्ठेत् ।” श्रीठाकुरः केवलमेतावदुवाच – “इदमीश्वरेच्छाधीनम् ।”

कञ्चित्कालं मौनमवलम्ब्य पुनर्गम्भीरस्वरेणोवाच – “अस्य (मम) अभ्यन्तरे द्वौ स्तः, एकः सः (ईश्वरः) द्वितीयश्च भक्तो भूत्वाऽस्ति । तस्यैव (भक्तरूपस्य ) करो भग्नः, स एव रुग्णोऽप्यस्ति । अवगच्छसि नु ? कं कथयेयम्, कोऽवधारयिष्यति ? स च मानवावतारमाश्रित्य भक्तैः सार्धमायाति । भक्ता अपि पुनस्तेनैव सह गच्छन्ति ।“ तस्य देववाणीमाकर्ण्य सर्वे स्तम्भिता विस्मिताश्च बभूवुः ।

अनन्तरं श्रीरामकृष्णो मृदुस्वरेण नरेन्द्रमभ्यधात् — “त्यागस्यावश्यकताऽस्ति ।” पुनरुवाच “पश्यामि (आत्मानं प्रदर्श्य ) अस्याभ्यन्तरतस्सर्वमस्ति ।“

तदानीमेकस्मिन् दिने श्रीठाकुरेणालौकिकं दर्शनमनुष्ठितम् । तेन दृष्टम् – तदीयं सूक्ष्मं शरीरं स्थूलशरीरतो बहिर्निस्सृत्य भ्राम्यति । ततस्तेन प्रोक्तम् – “मया दृष्टं, सर्वत्रैव पृष्ठभागे व्रणमुद्भूतमस्ति । विचारितं, कथमेतदुद्भूतम् ? ततो मात्रा प्रदर्शितम्, यत् अनुचितान्यपि कार्याणि कृत्वा लोकाः समागत्य स्पृशन्ति स्म, तेषां दुर्दशामवलोक्य मनसि दयाभावः प्रादुरभूत्, तेषामेव दुष्कर्मस्वीकारफलप्रभावत इयमवस्था जाता। तत एव तु (स्वीयं कण्ठं दर्शयित्वा) इदमभवत् । अन्यथा शरीरेण तेन न किञ्चिदन्याय्यं कृतम् । पुनरेतावान् रोगभोगः कथम् ?” जोवानां पापभारग्रहणेनैव तस्य शरीरे भयावहोऽयं रोगः समुत्पन्नः । तस्य मुखादेतद्दर्शनकथामाकर्ण्य बहुभिर्भक्तैर्मर्मान्तिकव्यथाऽनुभूता ।

❀ ❀ ❀

एकतो वारंवारं भावसमाधिः गम्भीरास्तात्त्विक्यः कथा असह्यं कष्टम् । किन्तु सहैवैतैः रङ्गरसिकतायामपि नास्ति काचिन्न्यूनता “स ईशोऽनिर्वचनीयः प्रेमस्वरूपः” – आनन्द एव तद्रूपम् । अतो हि श्रीठाकुरः सदानन्दमयोऽस्ति ।

काशीपुरस्योद्याने एकदा श्रीमाता (श्रीसारदादेवी) सार्धद्वयसेटकदुग्धपूर्णं पात्रमादाय सोपानान्यारोहन्ती शिरसश्चङ्क्रमणेन पतिता । गुल्फस्यास्थि निजस्थानात् परिच्युतम् । शीघ्रमेव सा समुत्थापिता, समानीता च । दारुणयन्त्रणा अविद्यत । श्रीठाकुरः श्रुत्वा बालभक्तं बाबूरामं ==184== प्रोवाच – “बाबूराम ! किमिदानीं भविष्यति ? पथ्यस्य क उपायः करिष्यते ? को मह्यं पथ्यं दास्यति ?” तदानीमसौ मण्डं भुंक्ते स्म । श्रीमातैव मण्डं निर्माय तं भोजयति स्म । श्रीमातुर्नासिकायामेकं बृहन्नासाभूषणमासीत् । अतो नासिकां दर्शयित्वा हस्तसङ्केतेनासौ बाबूरामं प्रोवाच – “अये बाबूराम ! एनां पेटायां स्थापयित्वा शिरसि कृत्वा समानेतुं शक्ष्यसि ?” तस्य परिहाससंवलितां वार्तामाकर्ण्य बालभक्ता हसन्तो भुवि लोलुठ्यमाना बभूवुः ।

❀ ❀ ❀


श्रीस्वामिविवेकानन्देन सर्वभावमय श्रीरामकृष्णदेवचरणेषु आत्मनिवेदनपूर्वकं निम्नलिखितं ‘श्रीरामकृष्णस्तोत्रं’ विरचितम् —
  ह्रीं ऋतं त्वमचलो गुणजिद् गुणेड्यः
  क्तंदिवं सकरुणं तव पादपद्मम् ।
  मोहंकषं बहुकृतं न भजे यतोऽहं
          तस्मात्त्वमेव शरणं मम दीनबन्धो ॥१॥
  क्तिर्भगश्च भजनं भवभेदकारि
  च्छन्त्यलं सुविपुलं गमनाय तत्त्वम् ।
  क्त्रोद्धृतं तु हृदि मे न च भाति किञ्चित्
          तस्मात्त्वमेव शरणं मम दीनबन्धो ॥२॥
  तेजस्तरन्ति तरसा त्वयि तृप्ततृष्णा
  रागे कृते ऋतपथे त्वयि रामकृष्णे ।
  र्त्यामृतं तव पदं मरणोर्मिनाशं
          तस्मात्त्वमेव शरणं मम दीनबन्धो ॥३॥
  कृत्यं करोति कलुषं कुहकान्तकारि
  ष्णान्तं शिवं सुविमलं तव नाम नाथ ।
  स्मादहं त्वशरणो जगदेकगम्य
          तस्मात्त्वमेव शरणं मम दीनबन्धो ॥४॥
कथामृतस्य द्वितीयभागे लिखितम् “१८८५ ईसवीय एप्रिलमासस्य. चतुर्विंश्यां” तारिकायां बलरामस्योपवेश प्रकोष्ठे श्रीठाकुरो व्याजहार – “को जानाति, मम कण्ठे ग्रन्थेरुद्भवम् । रात्रेरन्तिमे भागे महत् कष्टमनुभूयते, केनोपायेन शान्ति गमिष्यति ?”
अनन्तरमेकदा द्वावपीमौ भावावेशं स्पृशता श्रीठाकुरेण चैतन्यवन्तौ सम्पादिती ।
नरेन्द्रः, राखालः, योगीन्द्रः, बाबूरामः, निरञ्जनः, तारकः, शरत्, शशी, वृद्धगोपालः, काली, लाटूश्चेति नामकेभ्यो निजशिष्येभ्यः श्रीठाकुरो गैरिकवस्त्राणि प्रादात् । देहत्यागात्पूर्वमेकादशशिष्येभ्य एतेभ्योऽन्यभावेनापि श्रीठाकुरेण संन्यासदीक्षा प्रदत्ता । द्वारं द्वारमुपस्थाय माधुकरीं भिक्षां ग्रहीतुं ते प्रहिताश्चापि ।
कथामृतस्य तृतीये भागे, १८१ पृष्ठ ।