वेदमूर्ति-श्रीरामकृष्णः

नरेन्द्रः, अंशी अंशश्च द्वौ मिलितौ

अन्तरङ्गान् त्यागिनः पार्षदान् आदाय श्रीरामकृष्णदेवेन काशीपुरोद्याने भावी ‘धर्मसङ्घः’ संस्थापितः । “कामकाञ्चन-त्याग” एव तस्य दीक्षायाः प्रथमो मन्त्रः । सर्वविधकामनानां, किंबहुना, मुक्तेः समीहाया अपि परित्यागः । श्रीठाकुरस्तेभ्यस्त्यागिपार्षदेभ्यो नानाभावैर्दीक्षामदात् । तान् विविधसाधनानकारयत्, सर्वाण्यपि तत्त्वान्यशिक्षयच्च ।

तेनोक्तम् – “नरेन्द्रो लोक शिक्षां दास्यति ।” केवलं नरेन्द्र एव कथम् ? नरेन्द्रस्य नेतृत्वे प्रत्येकमपि शिष्यं जीवकल्याणसाधनाय आदर्शाचार्यरूपेणाऽसौ प्रस्तुतमकरोत् । भाविनामाचार्य शिष्याणां जीवनं सात्त्विकैश्वर्येण मण्डितमसावकार्षीत् । एकान्तस्थल एव शिक्षेयमदीयत – न च साधारणभक्तसभायाम् । श्रीठाकुरेण त्यागिभ्यः शिष्येभ्यो या गुह्यशिक्षा, ये च गोप्यसाधनोपदेशाः प्रदत्तास्तत्सर्वं ‘कथामृते’ प्रकाशितं न विद्यते । तस्य याः किलोपदेशवाण्यः कथामृते प्रकाशिताः सन्ति तास्तु सर्वसाधारणानां समस्तजगतां कृते विद्यन्ते । किन्तु त्यागिभ्यस्तेन येषां गुह्यसाधनानां तत्त्वज्ञानस्य च शिक्षा प्रदत्ता, तेषामभ्यन्तरे च यादृशः शक्तिसञ्चारः कृतस्तत्समष्टिः – “अलिखितो वेदः ।“ तत्सर्वं च केवलं पार्षदानां जीवनस्याध्ययनेनैव परिज्ञातुं शक्यते ।

सर्वेऽपि पार्षदास्तृप्तेः पूर्णतायाश्च समुज्ज्वलप्रतीका बभूवुः । भावसमाधिदेवदेवीदर्शन-ज्योतिर्दर्शन-शान्तिप्रभृतिषु यस्य वस्तुनः कृते यः प्रार्थयते श्रीठाकुरेण तस्मै तदेव प्रादीयत । किन्तु केवलं नरेन्द्रस्तृप्तिं नासादितवान् । स च चिरशान्तिमये, परमानन्दमये निर्विकल्पे समाधौ मग्नो भूत्वा स्थातुमैच्छत् । तेनोक्तम् – “अहं शान्ति समीहे, तदतिरिक्तं परमेश्वरमपि नैव वाञ्छामि ।“ श्रीठाकुरेण ज्ञायते स्म यत् नरेन्द्रस्य मनः स्वरूपे लीनं भूत्वाऽनन्तधाम प्रस्थातुं व्याकुलोभवति । परन्तु तदेतदसौ नैव सम्पादयितुमियेष । नरेन्द्र द्वारीकृत्यैव तेन युगधर्मः प्रचारयितव्य आसीत् ।

एकदा स्थिरमना नरेन्द्रः श्रीठाकुरस्य गृहे समुपविष्ट आसीत् । “किमिच्छसि कथयतु ?” – स्मितमुखेन श्रीठाकुरेण जिज्ञासितम् । साश्रुनयनेन नरेन्द्रेण प्रत्युक्तम् – “मम समीहा विद्यते, शुकदेववत् केवलं समाधौ निमज्जितुम्, केवलं देहरक्षायै किञ्चिन्नोचैरवतीर्य पुनः समाधौ विलीनो भवेयम्।” श्रुत्वेदं श्रीठाकुरो गम्भीरोऽभवत् । स हि धिक्कारस्वरेण प्रोवाच – “हन्त ! हन्त !! त्वमेव महान् आधारः, तवैव मुखादीदृशी वार्ता ! मया तु विचार्यते स्म, कदाचित्त्वं विशालवटवृक्ष इव भविष्यसि; सहस्रशो मानवास्तव छायायामागत्याश्रयं प्राप्स्यन्ति । एतन्नभूत्वा तव केवलं स्वमुक्तेरेव चिन्ता समुत्पन्ना ?” श्रुत्वेदं मुखमवनमय्य नरेन्द्रोऽश्रुविसर्जनमकरोत् अचिन्तयच्च – ‘कियद् विशालमस्ति हृदयमेतदीयम् ।‘

इतः किञ्चिद्दिनानन्तरं नरेन्द्रः सन्ध्यासमये ध्यानस्थ उपविष्टोऽस्ति; शनैः शनैस्तदीयं मानसं निर्विकल्पसमाधौ निमन्नमभूत् । शरीरं स्थावरवत् स्थिरं – बाह्यतो मृतवत् संवृत्तम् । दादागोपालेन दशेयमवलोकिता, शङ्कितेन भूत्वा त्वरितं श्रीठाकुरपार्श्वमुपेत्य तेन प्रोक्तम् – “नरेन्द्रो मृतः संवृत्तः ।” स तु सर्वमेवावागच्छत् । शान्तस्वरेणासौ प्रोवाच – “समीचीनमभूत् ; तिष्ठतु कश्चित्कालमस्यामेवावस्थायाम्, एतदर्थमेव मां बहूद्विग्नमकरोत् ।”

पर्याप्तनिशायां व्यतीतायां नरेन्द्रस्य ज्ञानं शनैः शनैः परावर्तत । किन्तु तदानीमपि मनः शरीरे नासीत् । स हि चीच्चकार – “मम शरीरं कुत्रास्ति ?” पार्श्वे समुपविष्टा भक्तास्तस्य देहं थपथपायमानाः प्रोचुः – “इदमस्ति तावकीनं शरीरम् ।” सहजामवस्थामासाद्य नरेन्द्रनाथः श्रीठाकुरस्य समीपमगच्छत्। समाधिशान्तौ तदीयं मनः स्नातमासीत् । तं दृष्टैव श्रीठाकुरः प्रोवाच – “किं रे ! साम्प्रतन्तु मात्रा तुभ्यं सर्वं प्रदर्शितम् । यत् किञ्चिद् दृष्टं, सर्वमधुना तिरोहितं स्थास्यति, कुञ्चिका (कला) मम हस्ते स्थास्यति । इदानीं त्वया मातुः कार्यं पूरयितव्यमास्ते । मातुः कार्ये पूर्णे सति दशेयं पुनः परावर्तिष्यते ।“ नरेन्द्रनाथस्य मनस्तदानीमक्षयशान्तिमयमास्ते स्म । स च मौनीभूय मुखमवनमयन् तस्थौ ।

❀ ❀ ❀

क्रमशः श्रीरामकृष्णो महाप्रयाणाय समुद्यतोऽभवत् । स्वीयं युगधर्मं प्रचारयितुं तेन त्यागिनामन्तरङ्गाणां जीवनं तेनैव भावेन प्रस्तुतमक्रियत । तेन ज्ञायते स्म यत् नरेन्द्रनाथ एव तस्य योग्य उत्तराधिकारी वर्तते । एतस्मै विशिष्टकार्यायैव तस्यागमनमभूत् । एकस्मिन् दिने नरेन्द्रमाहूय तेन प्रोक्तम् – “एतान् सर्वान् बालकान् तव हस्ते समर्पयामि, त्वयैतेषां निरीक्षणसंरक्षणं कर्तव्यम् ।” ततश्च सङ्घजीवनयापनसम्बन्धे तेन नरेन्द्राय अनेके सदुपदेशाः प्रदत्ताः ।

महाप्रयाणस्य केभ्यश्चिद्दिवसेभ्यः पूर्वत एव श्रीठाकुरः प्रतिदिनं सायं नरेन्द्रं स्वपार्श्वमाहूय द्वारं पिधाय च बहुकालं यावत् तस्मै गुह्यानुपदेशान् अदात् । लीलासंवरणात् अष्टभ्यो नवभ्यो वा दिनेभ्यः प्राग् असौ योगीन्द्रं पञ्चाङ्गमानेतुं सङ्केतितवान्, सौरश्रावणस्य २५ दिनेभ्योऽग्रे प्रत्येकदिनस्य तिथिनक्षत्रादिकं पठितुमुक्तवांश्च । योगीन्द्रः पठन्नभवत् । श्रीठाकुरो नेत्रे निमील्य सर्वं शृण्वन्नभूत् । यदा योगीन्द्रः श्रावणसङ्क्रान्तिपर्यन्तं पठितवान्, तदानीं तेन सङ्केतद्वारा पञ्चाङ्गं पिधातुमाज्ञाऽर्पिता । तस्मिन् काले केनापि न ज्ञातं यत् श्रीठाकुरेण देहत्यागदिनं स्थिरीक्रियते ।

देहत्यागस्य त्रिभ्यश्चतुर्भ्यो वा दिनेभ्यः पूर्वं श्रीठाकुरेण स्वशय्यासमीपे नरेन्द्र आहूतः । निस्तब्धताकारणात् गृहं गुरुत्वपूर्ण मिव प्रतीयते स्म । गृहे तदानीं कश्चिदपि नासीत् । पुरत उपवेशनाय नरेन्द्रं सङ्केतयन् श्रीठाकुरः स्नेहपुरस्सरं निर्निमेषदृष्ट्या तदभिमुखं निरीक्षमाणः शनैः शनैर्गम्भीरसमाधौ लीनोऽभवत् । तस्मिन् समये नरेन्द्रनाथेनैतदनुभूतम्, यत् श्रीठाकुरस्य शरीरात् सूक्ष्मस्तेजोरश्मिरेको निर्गत्य तदभ्यन्तरे प्रविशतीति । शनैः शनैस्तस्यापि बाह्य चेतना व्यलुप्यत, स चापि समाधिस्थोऽभवत् । बहोः कालस्यानन्तरं सहजां दशां प्राप्य तेन दृष्टं यत् श्रीठाकुरो मौनी भूत्वाऽश्रूणि विमुञ्चति । कारणे पृष्टे श्रीठाकुरो व्याजहार – “अद्य तुभ्यं सर्वस्वमर्पयित्वाऽहमकिञ्चनोऽस्मि संवृतः । अस्याः शक्तेः प्रभावेण त्वया जागतिकानि बहूनि कल्याणानि विधास्यन्ते । कार्ये पूर्णे जाते पुनस्त्वं प्रत्यागमिष्यसि ।“ ततः क्षणात् श्रीरामकृष्णशक्तिर्नरेन्द्रनाथे प्राविशत् । श्रीठाकुरो नरेन्द्रश्चैकस्वरूपतां प्राप्ताविवाभूताम् ।

देहत्यागे केवलं दिनद्वयमवशिष्टमासीत् । श्रीठाकुरोऽसह्यरोगयन्त्रणया कातरतामगच्छत् । नरेन्द्रस्तस्य शय्यासमीपेऽधोमुख उपविष्टोऽभूत् । तदानीमेव सहसा तस्य मनसि भावोऽयमुत्पन्नो यद् यदि एतद्दारुणशारीरिककष्टसमयेऽपि “अहमस्मि भगवान्” इति कथयेदयं तदाऽहं प्रत्येष्यामि । परमाश्चर्यम् ! नरेन्द्रमनसि तादृशविचारोदयसमकालमेव श्रीठाकुरस्तदभिमुखमाननं परिवर्त्य स्वस्थकण्ठेनोक्तवान् — “यश्च रामः यो वा कृष्णस्तौ द्वावपीदानीं (स्वशरीरं प्रदर्श्य) शरीरेऽस्मिन् रामकृष्णरूपे विद्येते । तव वेदान्तदृष्ट्या न हि ।” नरेन्द्रः सापराध इव मुखमधः कृत्वोपविष्टो बभूव । हृदयमुन्मथ्याश्रुधारा तदीयनेत्राभ्यां प्रावहत् ।

१२९३ वङ्गाब्दीयसौरश्रावणस्यैकत्रिंशत्तमतिथिः, सूर्यवासरश्च । इदमेव श्रीरामकृष्णनरलीलाया अन्तिमं दिनम् । ज्योत्स्नालावितवातावरणं तद्वियोगकरुणध्वनिना व्यथितमिव बोभूयते स्म । भक्तानां भाराकान्तप्राणेषु श्रीरामकृष्णोऽद्य नवीनरूपेण समागतः । स हि दारुणया यातनया पेपीड्यमानोऽभवत् । नाडी क्षीणाऽसम्बद्धा च प्रचलति ।

इदानीं समयेऽपि भक्तैः साकं गम्भीरतत्त्वचर्चा प्राचलत् । कस्यचित् शिरसि हस्तं परिभ्रामयन् प्रेम प्रादर्शयत् । सन्ध्यातः प्रागेव तस्य सातिशयं श्वासकष्टमजायत । भक्ता अश्रूणि व्यमुञ्चन् । सर्वेऽपि श्रीठाकुरस्य शय्यायाश्चतुर्दिक्षु शान्ताः सन्तस्थिरे ।

सन्ध्याया अनन्तरं तेन किञ्चिद् बुभुक्षाऽनुभूता । सेवकाः सामान्यपथ्यं भोजयितुमचेष्टन्त । किन्तु गलाभ्यन्तरे न किञ्चिदप्यवातरत् । ततश्वासौ गम्भीरे समाधौ निमग्नो बभूव । शरीरं स्पन्दनशून्यं सुस्थिरं च संवृत्तम् ।

मध्यरात्रौ तस्य सहजदशा पुनः प्रतिनिवृत्ता । तदानीं पुनरनेन किञ्चिद्भोक्तुमीहा प्रकाशिता । बहुशिरोधानसाहाय्येनासौ समुपवेशितो जातः । तेन ईषत्पानीयसमा ‘सूजी’ विना क्लेशमशिता, प्रोक्तं च – “इदानीमहमतिशयस्वच्छन्दतामनुभवामि ।“ नरेन्द्रनाथेन किञ्चित् शयितुमसावनुरुद्धः । तदानीमेव काले सोऽत्यन्तस्वाभाविकेन स्वरेण वारत्रयं “काली” नाम्नः समुच्चारणमकरोत्, द्वितीये क्षणे च शयितवान् ।

निस्तब्धा निशा । कुतश्चिच्च झिङ्गुरझङ्कतिः श्रूयते स्म । रात्रौ एकवादने, द्विमिनिटयोः (कस्यचन्मते षण्मिनटेषु ) सहसा तस्य सर्वाङ्गेषु वारं वारं सपुलकानि रोमाणि समुदश्चन् । तस्य दृष्टिर्नासाग्रे प्रतिष्ठिताऽऽसीत् । सम्पूर्णे मुखमण्डले दिव्यानन्दमयी दीप्तिर्जागर्ति स्म । स च समाधिस्थो जातः । समाधिरयं महासमाधौ परिणनाम, श्रीरामकृष्णदेवः स्वरूपे व्यलीयत । अंशी अंशश्च द्वौ मिलित्वैकतां गतौ ।

श्रीमाता ठाकुराणी रुरोद – “मम मातः ! कालि ! मां विहाय क गतासि ?”

❀ ❀ ❀


पञ्चाङ्गमनुसृत्य तस्मिन् दिने १८८६ ईसवीयागस्तस्य १५ तारिकाऽऽसीत् । श्रीरामकृष्णदेवः ३१ श्रावणस्य रात्री १ वादनानन्तरं गम्भीरसमाधौ मनोऽभवत् । केचित् पुरुषास्तमेव देहत्यागमवागच्छन् । पाश्चात्यज्योतिषगणनया समयेऽस्मिन्, अगस्तस्य १६ तारिका सोमवासरश्चासीत् । पूर्वप्रकाशिते कुत्रापि ग्रन्थे श्रीठाकुरस्य देहत्यागकाल: १६ अगस्तो रविवारश्च लिखितो निभाल्यते । पाश्चात्यज्योतिषगणनानुसारेण मध्यरात्रौ द्वादशवादनानन्तरं परवर्तिदिनमारभ्यते । अगस्तमासस्य षोडशतारिकायाः स्वीकारे सोमवासरस्य स्वीकृतिरेव समीचीना प्रतीयते । 

   श्रीठाकुरस्य देहत्यागप्रसङ्गे स्वामी रामकृष्णानन्द एकस्थाने प्रोक्तवान् – (भगिनीदेवमातृकृते Ramkrishna and His disciples – नामग्रन्थे १६१-६३ पृष्ठे) – “वयं द्वितोयदिने अर्थात् सोमवासरे एकद्विवादनं यावत् समाधितस्तस्योत्थानस्याशामकुर्म । तदानीं कालेऽपि श्रीठाकुरस्य शरीरे विशेषतश्च पृष्ठभाग ईषदुत्ताप आसीत् ।” “श्रीरामकृष्ण पोथी”-पुस्तके ६२२ पृष्ठे समुपलभ्यते यत् – द्राक्तरः सरकारः अगस्तस्य षोडशतारिकायां सोमवासरे दिने प्राय एकवादनकाले समागत्य श्रीरामकृष्णं समीचीनरीत्या परीक्ष्य च दुःखं प्रकाशयन्नवोचत् – “अनुमानतः अर्धघण्टापूर्वमयं स्वदेहं परित्यक्तवान् ।”