श्रीसारदादेवीचरितम्

जन्मकथा, शैशवम्, विवाहः दक्षिणेश्वरं गमनं च

श्रीरामकृष्णो नरदेहमत्यजत् । परन्तु तदीयो भावराशिदिग्दिगन्तं, पूर्वपश्चिमं, उत्तरदक्षिणं, देशदेशान्तरं, दूरदूरान्तरं सर्वत्रैव पक्षौ विस्तारयन् प्रसरन्नास्ते । स हि भावराशिर्विश्वमानवस्य धमन्युपधमनीषु, नानाछन्दोभिः बहुभिः प्रकारैर्विचित्रां प्राणशक्तिं सञ्चारयन् अभिनवां चेतनामुद्बोधयन् प्रसरति ।

श्रीरामकृष्णस्य लीलासङ्गिनी श्रीसारदादेवी या किल तेन निजार्धाङ्गिनीरूपेण गृहीता, सेदानीं नरदेहे एव विद्यते । सहधर्मिणीविषये श्रीठाकुरोऽवोचत् – “सा शारदा, सरस्वती ज्ञानदानार्थमागता ।“

श्रीठाकुरस्य देहपरित्यागानन्तरं श्रीसारदाऽपि देहत्यागस्य निश्चयमकार्षीत् । किन्तु श्रीठाकुरेण नैतत्समर्थितम् । तेनोक्तं – “साम्प्रतं त्वं न गन्तुं शक्नोषि । अत्र बहूनि कार्याण्यवशिष्टानि सन्ति ।” युगावतारो मानवदेहं परितत्याज । किन्तु तेन स्वीया शक्तिर्युगधर्मप्रचाराय संरक्षिता । सारदादेवी नरदेहे स्थिता बभूव ।

अत्रास्माभिः श्रीसारदादेव्या जीवनस्य सङ्क्षेपतो दिग्दर्शनं कारयिष्यते । श्रीरामकृष्णभक्तसङ्घे सा “श्रीमाताठाकुराणी” इति नाम्ना एतेन रूपेण च परिचिताऽऽसीत् ।

❀ ❀ ❀

बाँकुडामण्डलान्तर्गते जयरामबाटीग्रामे, १२६० वङ्गाव्दस्य पौषस्याष्टमे दिवसे (कृष्णपक्षस्य सप्तम्यां तिथौ) (१८५३ ईसवीये हायने दिसम्बरमासस्य द्वाविंशतितमतारिकायां) बृहस्पतिवासरे रामचन्द्रमुखोपाध्यायस्य श्यामासुन्दरीदेव्याश्च प्रथमसन्तानरूपेण श्रीसारदादेव्या जन्म गृहीतम् । जयरामबाटीग्रामस्तु लघुरासीत्, किन्तु तत्र ब्राह्मणानां गृहाण्यधिकान्यासन् । अस्य उत्तरस्यां पूर्वस्यां च दिशि सीमनिर्देशं कुर्वन् स्वल्पपरिसर आमोदरो नदो लतावदटाट्यमानः प्रवहति स्म, येन ग्रामोऽयं नितरामुर्वरः समृद्धश्चाभवत् ।

स्वजन्मसम्बन्धे श्रीसारदादेव्या सूचितमासीद् – मम जनुरपि एतस्य (श्रीठाकुरस्य) समानमेव जातम् । जननी शिवहरे (शिहडे) देवदर्शनार्थमगच्छत् । परावर्तनसमये जयरामबाटी पश्चिम सीमापार्श्वे सहसैव शौचगमनेच्छाप्रादुर्भावात् देवालय निकटस्थस्यैकवृक्षस्य तले सा गतवती । शौचं नाऽभवत् । किन्तु तयाऽनुभूतं यत् एकप्रकारको वायुस्तस्या उदरं प्रविवेश, येन स्वीयमुदरं तथा गुरुभूतमिव प्रतीतम् । सा उपविष्टैवासीत् । तदानीं मम जनन्या विलोकितं यत् रक्तं कौशेयवस्त्रं धारयन्ती एका पञ्चषड्वर्षदेशीया सुन्दरी बालिका वृक्षशाखातः समवतीर्णा पार्श्वमागत्य स्वकीयौ कोमलौ करौ पृष्ठदेशतो जनन्याः कण्ठे समर्प्य प्रोवाच – “मातः ! अहं तव गृहं आगमिष्यामि ।“

“तदानीं जननी संज्ञाहीनतां प्रपेदे । सर्वे गत्वा तामुत्थाप्य समानिन्युः । सैव बालिका जनन्या उदरे प्रविष्टा, तेनैव मम जम्माऽभूत् । गृहमागत्य जननी घटनामिमामवर्णयत् ।” एतस्याः घटनाया: केभ्यश्चिद्दिनेभ्यः पूर्वं श्रीसारदादेवीजनक श्रीराम चन्द्रमुखोपाध्यायेनैकस्मिन् दिने मध्याह्नकाले निद्रावस्थायां स्वप्ने दृष्टम् यत् काचित् हेमाङ्गिनी बालिका पृष्ठत आगत्य तस्य कण्ठाश्लेषं कृतवती । बालिकाया असाधारणसौन्दर्यं बहुमूल्यालङ्कारांश्चावलोक्य स तां काचिद्देवीति अमन्यत । विस्मितः सन् रामचन्द्रस्तामपृच्छत् – ‘कासि त्व’मिति । सा तु निन्दितवीणास्वरेण स्वरेण प्रोवाच – ‘इयमहं तव गृहं आगतवती’ । निद्राभङ्गे जाते रामचन्द्रः स्वप्रवृत्तान्तं स्मरन्नचिन्तयत् यत् स्वयं लक्ष्मीरेव तस्मै दर्शनं दत्तवती । परं सर्वं तेन रहसि एव स्थापितम् ।

रामभक्तो रामचन्द्रमुखोपाध्यायः कलिकातातः समागत्य स्त्रीमुखात् सर्वमिदमाकर्ण्यावधारितवान् यत् स्वयं भगवती तस्य गृहं समागच्छति । दम्पती भक्तिपूतचेतसा संयतमनसा च देव्यागमनप्रतीक्षामकुरुताम् ।

दरिद्रगृहे जन्मग्रहणात् सारदादेव्या बाल्यकालः महति दारिद्रये व्यतीतः । तस्याश्चरित्रस्य सेवाभावः प्रारम्भिवजीवन एव प्राकट्यमगच्छत् । अतिशैशवावस्थायामेव सा गर्भधारिण्या निजमातुर्बहुविधेषु कार्येषु विविधानि साहाय्यानि सम्पादयितुं प्रावर्तत । कनिष्ठसोदराणां निरीक्षणरक्षणादिकं तदीयमन्यतमं प्रधानकार्यमासीत् । तया कथितम् – “अहं सोदरानादाय गङ्गां स्नातुमव्रजम् । आमोदरो नद एव अस्माकं गङ्गा । गङ्गायां स्नात्वा भृष्टं तण्डुलं भुक्त्वाऽहं सर्वानादाय स्वगृहमागच्छम् । बहुवारं गङ्गास्नानस्य ममाभ्यास आसीत् ।”

किञ्चिदधिकवयोऽवस्थामधिगत्य सारदादेव्या कार्येष्वपि स्वजनकस्य साहाय्यदानस्यारम्भः कृतः । क्षेत्रेषु कर्मकरभृत्येभ्यो भर्जनदानम्, आकण्ठजलेऽवतीर्य घासकर्तनम् इत्यादीनि बहूनि कार्यजातानि तयाऽनुष्ठितानि । किन्तु रामचन्द्रः कन्यां देवीं मत्वा तां प्रति श्रद्धासम्मानभावनामकार्षीत् । सारदा तस्य प्राणेभ्योऽप्यधिकं प्रियतरा बभूव ।

एतयोर्दरिद्राह्मणदम्पत्योर्महत्त्वसम्बन्धे सारदादेव्यैवैकवार प्रोक्तम् – “मम पितरौ सातिशय साधुस्वभावौ स्तः । रामे पितुमहती भक्तिरभवत्। भक्त्या सहैव तस्य परोपकारित्वे नैष्ठिकत्वे च न्यूनता नासीत् । जननी चापि सुतरां कृपालुर्बभूव, सा अन्नपानदानेन लोकानामातिथ्यमकरोत् । तावतीव सरलप्रकृती आस्ताम् । अत एवाहमस्मिन् गृहे आविरभवम् ।“

सारदादेव्या बाल्यकालीनघटनाविशेषस्य किमपि विवरणं नोपलभ्यते । ग्रामीणानामन्योन्यबालिकानामिव पित्रोः स्नेह परिपूर्णे क्रोडे तस्या अपि लालनं पालनं चाभवत् । पितरौ तां सस्नेहं ‘सारु’ नाम्ना समाह्वयतः स्म । बाल्यकाले सारदादेव्या कश्चिदपि लेखनपठनसुयोगो नासादितः । किन्तु परस्तात् स्वचेष्टयाऽसौ किञ्चित् लेखनपठनादिकमशिक्षत । बाल्यकाला देवासौ शान्ता अकुटिला च बभूव । सरलता मूर्तरूपेव समागमत् । क्रीडासहचरीभिः सह न तस्याः कोऽपि कलहो जातः । परन्तु कदाचित् अन्यबालिकासु परस्परकलहे जाते झटिति सा तासु सौमनस्यमकरोत् । देवदेवीनां प्रतिमा निर्माय पुष्प बिल्वपत्रादिभिः तत्समर्चनं तस्यै अतीवारोचत ।

षष्ठे वर्षे पदार्पणं कुर्वत्या एव तस्याः पाणिग्रहः श्रीरामकृष्णेन सह समभूत् । अस्य विवाहस्याप्येक इतिहासो वर्तते, यस्य मर्मापि बहुगौरवपूर्णमास्ते । श्रूयते यत् हृदयस्य ग्रामे शिवहरे (शिहडे) गीतपुराणप्रवचनादीनामयोजनमबोभूयत । एतदुपलक्ष्य श्रीरामकृष्णदेवोऽपि शिवहरे समाययौ । पार्श्ववर्तिभ्यो ग्रामेभ्यो बहवः स्त्रीपुरुषा गानं श्रोतुं शिवहरे समाजग्मुः । श्यामासुन्दरी चाऽपि सहैव सारदां नीत्वा समायाता । शिवहरे एव तस्या मातृनिलयः । गीतादेरनन्तरं सभायां विसर्जितायामेका प्रतिवेशिनी सारदां क्रोडे कृत्वा परिहासस्वरेण तामपृच्छत् – “एषु केन सह विवाहं करिष्यसि ?” तदानीं बालिकया सारदया उच्चैर्विहस्य द्वाभ्यामेव कराभ्यां समीपोपविष्टश्रीठाकुराभिमुखमिङ्गितं कृतम् । एतावत्या वालिकाया भाविनः पत्युर्निर्देशः, तथैव च श्रीरामकृष्णद्वाराऽपि भावावस्थायां भाविन्याः पत्न्याः सम्बन्धे पूर्वतो निर्धारणम्, इति घटनाद्वयमन्योन्य परिपोषक मतीव विस्मयजनकं च ।

सारदादेव्याः पितृगृहजीवनं जागतिकदृष्टया नितान्तकष्टपूर्णमासीत् । बालिकया सत्याऽपि तया बहूनि कार्याण्यक्रियन्त । एतावत्स्वल्पावस्थायामपि चुह्लिकास्थानपरिष्कारादिकमपि सम्पादयन्ती सा ओदनहण्डिकामप्यवतारयितुं चुह्लितो नाशक्नोत् । ततस्तत्पिता तां हण्डिकां चुह्लितः अवातारयत् । परन्तु तयैतादृशसर्वकार्यसम्पादने प्रमोदोऽन्वभूयत ।

जयरामबाटीग्रामे, तत्पार्श्वववर्तिषु स्थानेषु चैकदा महादुर्भिक्षमापतत् । तदानीं काले धर्मप्राणरामचन्द्रस्य परमोदारहृदयपरिचयो जायते । कदाचिदनन्तरं श्रीसारदादेव्या भक्तेभ्य एकवारं चर्चा कृता – “कर्हिचित् (१२७१ वङ्गाब्दे) प्रदेशे तत्र भयङ्करं दुर्भिक्षमभूत् । अनेके मानवा भोजनाभावान्मम गृहं समागच्छन् । अस्माभिः पूववर्षोत्पन्नधान्यराशिः कुसूलेषु सुरक्षितः समक्रियत । पितृदेवस्तमेव धान्यराशिं तण्डुलरूपेण परिणमय्य, तत्र च माषद्विदलानि प्रक्षिप्य हण्डिकासु कृसरान्नं पाचयित्वाऽरक्षीत् । अवोचच्च “स्वगृहवासिनः सर्वे एतदेव भोक्ष्यन्ति, ये चात्र समागमिष्यन्ति तेऽप्येतदेव भोजयितव्याः । मम सारदायाः कृते समीचीनतण्डुलानां भक्तं निर्मातव्यम् । सा तदेव खादिष्यति ।” किन्तु कदाचित् एतावन्तो मानवाः समाययुर्यत् कृसरान्नं न पर्याप्तमभवत् । ततः पुनर्निर्माणाय चुह्लिकोपर्यस्थाप्यत । तदेवोष्णं कृसरं परिवेष्य तच्च शीतलीकर्तुं व्यजनेन मया वातश्चक्रे । हंहो ! यतो बुभुक्षाज्वालापीडिता जना भोक्तुमुपविष्टा अभूवन् । एकस्मिन्दिवसेऽस्पृश्य ‘डोम’ – जातीया काचित् स्त्री आगता – तस्याः शिरोरुहास्तैलाभावेन जटीभुता, बुभुक्षया च नेत्रे उन्मादपूर्णे इवास्ताम् । सा द्रुतमागच्छन्ती धेन्वाः कृते स्थापितायां मृत्तिकाकुण्डिकायां जलार्द्रतण्डुलकुट्टनोद्भूतचूर्णं यदासीत्तदेव भोक्तुमारभत । तदालोक्य सर्वेऽपि तामूचुः ‘अभ्यन्तरे गत्वा कृसरान्नं भक्षय’ इति । परं बुभुक्षापीडिता सा तद्वचनेऽदत्तावधाना तदेव चूर्णं भक्षयन्ती तस्थौ । एतदृशं भयावहं दुर्भिक्षमभवत् तस्मिन् वर्षे ।"

सारदादेव्या बाल्यमिषेण परिणममानकरुणापरदुःखकातरतादीनि यानि मुकुलितान्यासन्, तान्येवानन्तरं तदीयमातृत्वाभ्यन्तरतः पूर्णविकसितानि बभूवुः येषां दिव्यैः सौरभैः सहस्रशः प्राणाः शान्तिमुपेयिवांसः । सन्निहिते भविष्यति काले च सङ्ख्यातीतप्राणैः प्रेरणा प्राप्स्यते ।

❀ ❀ ❀

१२७४ बङ्गाब्दे (१८६७ ईसवीये) श्रीठाकुरः विवाहात् प्रायः सप्तहायनानन्तरं कामारपुकुरमाजगाम । जयरामबाटीतः सारदाऽपि कामारपुकुरे समानीता ।तदानीं कालेऽस्या अवस्था चतुर्दशवर्षदेशीयाऽभूत् । तदा च प्रायः षण्मासान् श्रीठाकुरस्य समीपं स्थित्वा तया बहूनां लौकिकानामाध्यात्मिकानां च विषयाणां शिक्षाऽधिगता ।

एतेषु मासेषु श्रीरामकृष्णस्य दिव्यसङ्गति-फलस्वरूपं श्रीसारदा देवी अतीव शान्तस्वभावा, विचारशीला, निःस्वार्थप्रेमपरा चाभूत् । तथैव मनसि सदाऽऽनन्दपूर्णा भूत्वा दुःखपीडितमानवमात्रेऽनन्ते समवेदना परिपूर्णहृदया, क्रमशश्च करुणायाः साक्षात्प्रतिमाऽजायत ।

बहुरात्रिपर्यन्तं भावाविष्टः श्रीठाकुरो ग्रामीणस्त्रीपुरुषाणां समीपमुपविष्ट ईश्वरचर्चामकरोत् । तामाकर्ण्य सारदादेवी विगतबोधा शयिता बभूव, दृष्ट्वैतदन्याः स्त्रियस्तां बोधयन्त्य ऊचुः – “एतादृशीः समीचीनाः कथाः न श्रुतवती, शयिताऽसि ?” श्रीठाकुरस्तस्याः परिबोधनं निवारयन्नुवाच – “न हि, एतां न बोधयत, किमियं स्वेच्छया सुप्ता ? एतासां सर्वासां कथानां श्रवणेन नेयमत्र स्थास्यति, द्रुतमेव पलायिष्यते ।“ स्वस्वरूपवर्णनमाकर्ण्य श्रीसारदादेवी सहसा स्वरूपे व्यलीयत ।

श्रीरामकृष्णो दक्षिणेश्वरं समागमत् । सारदादेवी चापि जयरामबाटीमगच्छत् । तदनन्तरीयचतुर्वर्षाणि दीर्घविस्मृतेरवगुण्ठने व्यलुप्यन्त । पत्या तदीयो न कोऽपि संवादो गृहीतः । न च स समागच्छति, न चापि तामाह्वयति । तत् किमसौ मां विस्मृतवान् ? तस्य चरणयोः छायायामेव ममैकमात्रविश्रान्तिरिति क्रन्दनध्वनिः श्रीसारदादेव्या विरहक्लान्तप्राणेषु बोभूयते स्म । ग्रामे च श्रीरामकृष्णसम्बन्धे क्रमशो बह्व्यः किंवदन्त्योऽश्रूयन्त । स हि पूर्णतो नग्नो भूत्वा लम्बायमानं लगुण्ड स्कन्धे कृत्वा भ्राम्यति, भिक्षुकाणामुच्छिष्टं भुङ्क्ते, अस्पृश्यश्वपाकवत् पुरीषं प्रोञ्छति, इत्यादिका बहवो वार्ताः समाकर्ण्यन्त । सारदादेव्या आन्तरिकी अव्यक्त वेदना केन ज्ञायते ? आकाशाभिमुखं पश्यन्ती उष्णान् श्वासप्रश्वासान् गृहन्ती बभूव सा ।

यदि जनानां वचनं सत्यं भदेत् ? तर्हि तु ममैतावदूरे निवासो न समीचीन इति – सारदादेव्या विचारितम् । स्नानसुयोगमुपलक्ष्य काश्चन प्रतिवेशिन्यो गङ्गास्नानार्थं कलिकातां गन्तुमुद्यता बभूवुः । इदमाकर्ण्य ताभिः सह तयाऽपि दक्षिणेश्वरं गन्तुं निश्चयो विहितः । सारदामनोभावमवधार्य स्वयं जनक एव तां दक्षिणेश्वरं निनाय ।

तारकेश्वरतः षष्टिक्रोशार्धान् त्रिचतुरेषु दिनेषु पद्भिरतिक्रम्य रात्रौ प्रायशो नववादनकाले दक्षिणेश्वरमागत्य श्रीसारदा सत्वरं श्रीठाकुरस्य गृहं प्राविशत् । अवगुण्ठनवतीं पत्नीमवलोक्य श्रीठाकुरः सोल्लासं प्रोवाच – “त्वमागताऽसि ? साधु कृतम् । हृदयराम ! कटं विस्तारय” इति वाक्यद्वयेनैव श्रीसारदादेव्या मन आनन्द परिपूर्णमभवत् । आनन्दस्यावेगेन नयने वाष्पमलिनतां गते ।

पत्नी ज्वरार्दिता समागतेति ज्ञात्वा श्रीठाकुरो महतीं चिन्तामापेदे । तेन पत्नी स्वगृह एव संस्थापिता, अजस्रप्रमधारया सुसिक्ता च । श्रीठाकुरस्य चिकित्सादिप्रबन्धेन सपर्यया च श्रीसारदादेवी त्रिभिश्चतुर्भिर्वा दिनैरेव रोगरहिता जाता । अहो ! कियान् स्नेहः, कीदृशी च ममता अस्ति अस्य हृदये । कियदाकर्षणम्, कियती च गम्भीराऽऽन्तरिकता ! सहसैव सारदादेवीहृदयं द्रवीभूतमिव संवृत्तम् । एतावद्दिनानि यावत् स्वोपस्थानराहित्यात् आत्मन उपरि महान् क्रोधोऽप्यबोभूयत । तयाऽवधारितं यद् ग्रामे याः किल जनश्रुतयः समाकर्णितास्ताः सर्वा मिथ्याभूताः सन्ति । अहो ! अयं त्वीदृशः प्रेममयोऽस्ति, यथा प्रेमस्वरूपो भगवानेव विद्यते, श्रीसारदा देवीदमालोचयत् । श्रीठाकुरोऽपि ममतापाशेन सारदादेवीं दिनानुदिनमतिसमीपमाचकर्ष, आत्मानं चासौ सर्वतोभावेन सारदादेव्या हस्तयोः समर्पयाञ्चकार ।

श्रीसारदादेव्याः प्रायशो मासद्वयं स्थितावेव श्रीठाकुरेण श्रीषोडशी (श्री त्रिपुरासुन्दरी) रूपेण तस्याः समर्चनमनुष्ठितम् । श्रीरामकृष्णदेवस्य सत्यदृष्टौ सारदादेव्या वास्तविकं स्वरूपं प्रकटितमिव जातम् । पूजाकाले देव्या आसने उपवेशनमात्रेणैव श्रीसारदादेवी भावस्था बभूव । श्रीठाकुरस्तदीयौ चरणौ आलक्तकेन शिरश्च सिन्दूरेण समयोजयत् । श्रीसारदां वस्त्रादिनाऽऽच्छाद्य मिष्टान्नं ताम्बूलं चाऽभक्षयत् । अनन्तरं श्रीसारदादेव्या श्रीठाकुरस्य भ्रातृपुत्रीं लक्ष्मीमणिं प्रति पूजाया अस्या विषये चर्चा कृता । ततो लक्ष्मीमणिर्विहस्यापृच्छत् – “भवती अतिलज्जावती आसीत्, वस्त्राणि कथं पर्य्यधापयत् ?” तयोत्तरितम् – “अहं तु भावाविष्टा भूत्वोपविष्टाऽभूवम् ।“ अनन्तरं श्रीसारदादेवी श्रीठाकुरोभावपि गम्भीर समाधिमग्नौ बभूवतुः । ततः श्रीरामकृष्णोऽर्घबाह्यदशायामागत्य देवीचरणे स्वात्मनिवेदनपूर्वकं स्वकीय सर्वसाधनाफलं जपमालां च समर्प्य प्रणतवान् – “सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते” इति एवं पूजाविधिः समाप्तिमगात् । पूजको पूज्या देवी च द्वावप्यात्मस्वरूपेणैकतां जग्मतुः । तयोर्दाम्पत्यजीवनस्यैतदेव परिपूर्ण रूपम्, एष एव पूर्णः परिचयः । तस्मादेव लीलामय्याः स्त्रीरूपेण लीला एतावन्माधुर्यमयी विद्यते । कीदृश आनन्दः स्वामिसेवायाम्, स्वामिसाहचर्ये च ? सेवा-क्षमा-लज्जा-तुष्टि-शान्तिरूपेण सा सदा त्यागमूर्तिशिवस्वरूपस्वामिनः सेवायां तत्परा बभूव ।

श्रीरामकृष्णः श्रीसारदादेवीं पूजयामास । स तु पार्थिवं शिवलिङ्ग निर्माय पर्यपूजयत्। मृन्मयमूर्तौ चिन्मयप्रकाशमपश्यच्च । समस्ता नार्यस्तस्य कृते पूज्यतमा आसन् । परन्तु तदीयेयं षोडशीपूजा एकस्याः स्वतन्त्रपद्धत्याः परिचायिका किं नास्ति ? एतस्याः पूजायाः माध्यमेन सारदादेवी एवं केवलं तेन देवीत्वे प्रतिष्ठापितेति न, विश्वस्य नारीभ्य एव बृहत्तममर्यादा, महत्तमगुरुता च प्रदत्ता ।

“या देवी सर्वभूतेषु मातृरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥”

मन्त्रमिमं सार्थंकमुच्चारयन् मानवजातिमसौ जीवभूमितो ब्रह्मभूमिं प्रापयत् ।

❀ ❀ ❀


रामचन्द्रमुखोपाध्यायस्य द्वे कन्ये पञ्च पुत्राश्च आसन् । सारदा, कादम्बिनी, प्रसन्नकुमारः, उमेशचन्द्रः, कालीकुमारः, वरदाप्रसन्नः, अभयचरणश्चेति ।
परवर्तिकाले सारदादेव्या सूचितं यत् घासकर्तनकाले तत्समाना काचिदपरा बालिका जलेऽवतीर्य घासमकर्तयत् । एतद्विषयवर्णनावसरे परेभ्यस्तया प्रोक्तम् – “बाल्ये मयाऽवलोकितं यत् मत्सदृशी बालिकैका सदैव मया सह निवसन्ती मम प्रत्येककार्ये साहाय्यमाचचार, मया साकमामोदप्रमोदमप्य करोत् । कस्मिंश्चिदन्यस्मिन् समागते न मयाऽसौ विलोक्यते स्म । दशेकादशवर्षावस्थां यावदियं दशा बभूव ।“ भगवती सङ्गिनीगणो बाल्यकालादेव श्रीसारदा देव्या सह विचरन्नासीत् ।
इतः पूर्वम् १२७३ वर्षे श्रीसारदादेवी वारद्वयं कामारपुकुरे समायाता । तदानीमसौ नूतना वधूः, तत्कृते नवीनं वातावरणम् । स्थानमपि नवीनम् । हालदारतडागे एकाकिन्या स्नानार्थं गमने तया भीतिरनुभूयते स्म । परन्तु नासीत् किञ्चिदुपायान्तरम् । विभ्यती गृहान्निःसृत्य पश्यति स्म यत् तदवस्थासमकालीना अष्टौ बालिका मार्गे स्थिता अभूवन् । ता अपि स्नातुमगच्छन् । सर्वाः सहैव वार्तालापं विदधत्यः प्राचलन् । चतस्रो बालिकाः पृष्ठे, चतस्रश्च तस्याः पुरतोऽभूवन् । स्नानोत्तरं सारदादेव्या गृहसमीपागमनं यावत् सर्वास्तया सार्धमतिष्ठन् । प्रतिदिनं ता एव अष्टौ बालिकाः स्नानकाले तां प्रतीक्षमाणा मिलन्ति स्म । बहुकालानन्तरं च सारदादेव्या परिज्ञातमिदं यदिमा ग्रामस्यास्य बालिका नासन् । तास्तु देव्या अष्टसहचारिण्यो नायिकाश्च बभूवुः, याः सदैवादृश्यरूपेण देवीं परिवेष्टयन्त्यस्तस्थुः ।
षोडशी पूजाविषये “लीलाप्रसङ्ग” लिखितम् – १२८० वङ्गाब्दज्येष्ठमासे श्रीठाकुरेण षोडशीपूजा कृता । अर्थात् श्रीमातुः दक्षिणेश्वरागमनात् चतुर्दश पञ्चदशमासेभ्यः समनन्तरम् । “श्रीश्रीमायेरकथा” नामक पुस्तकस्य द्वितीयभागे १२८ पृष्ठे लिखितम् – “... दक्षिणेश्वरे सार्धैकमासनिवासस्यानन्तरमेव षोडशोपूजा समनुष्ठिता। ततश्च प्राय एकवर्षं यावदहं दक्षिणेश्वरे स्थिता । ... अन्ते च रुग्णा स्वगृहं परावृत्ता” इत्यादि । श्रीठाकुरस्य श्रीमातुश्च जीवनस्यानेकासां घटनानां पौर्वापर्यसामञ्जस्यस्य ध्यानपूर्वकपर्यालोचनयेदं दृश्यते यत् श्रीमात्रा कथिता घटनावली समधिकसमीचीना प्रतीयते । षोडशीपूजाया अनन्तरमेव श्रीठाकुरोऽष्टो मासान् यावत् स्वगृह एव पत्त्याः शयनप्रबन्धमकार्षीत् इदमेवाधिकं सम्भवं प्रतीयते ।
श्रीदुर्गासप्तशती ११.१०
श्रीदुर्गासप्तशती ५.२.२५