श्रीसारदादेवीचरितम्

विश्वजननी

श्रीठाकुरो महासमाधौ लीनो बभूव । शोकातुरा श्रीमाता परेद्युरेव विधवावेशं दधार । स्वकीयाङ्गभ्यस्तया एकैकं सर्वाण्यप्याभूषणानि निःसार्य प्राक्षिप्यन्त । यदाऽसौ हस्तयोः कङ्कणे निःसारयितुं प्रावर्तत, तदानीमाविर्भूय श्रीठाकुररुतस्या द्वौ करावगृह्णात् उक्तवांश्च – “मृतोऽहं किम् ? त्वं सौभाग्यवत्याचिह्नस्वरूपमाभूषणं किमर्थं त्यजसि ?” इत्युक्त्वा कङ्कणावतारणं न्यरुणत् । हस्तयोः कङ्कणे न निस्सारिते । श्रीमात्रा स्वदुकूलस्य कूलं विदार्य लघूकृतम् । तदनन्तरं तया सर्वदैव लघुरक्तकूलं दुकूलमेव पर्यधीयत ।

श्रीठाकुरस्य देहावसानानन्तरं श्रीमात्रा शरीरपरित्यागसङ्कल्पः कृतः । तदानीं श्रीठाकुर आत्मानं दर्शयन् उवाच – “न, त्वमेतर्हि संसार एव तिष्ठ, बहूनि कार्याणीदानीमव शिष्यन्ते ।” किन्तु श्रीठाकुरस्य देहावसानेन योऽभावः प्राकट्यं नीतः, स हि श्रीमातुः कृतेऽसह्योऽभवत् । किन्तु श्रीठाकुरस्यादेशात् तया समस्थीयत ।

श्री ठाकुरदेहपरित्यागस्य सप्तदिनानन्तरं श्रीमाता काशीपुरं परित्यज्य समागच्छत् सा परित्यक्तसर्वधैर्येव समभूत् । तदीयमनसोऽस्थैर्यं क्रमशः प्रववृधे । अतः श्रीठाकुरस्य विशिष्टभक्तैः सपरामर्शं वृन्दावनदर्शनार्थं श्रीमातरं गमयितुं निश्चयोऽनुष्ठितः । बलरामबाबूमहोदयस्य गृहे सप्तदिननिवासानन्तरं सौरभाद्रपदस्य १५ तिथौ श्रीमाता वृन्दावनं प्रतस्थे । त्यागिनः सन्तानाः योगेन्द्र-काली-लाटूप्रभृतयो भक्तिमत्यः काश्चन स्त्रियश्च सार्धं जग्मुः । श्रीमाता मार्गे वैद्यनाथस्य, वाराणस्याः, अयोध्यायाश्च दर्शनमकार्षीत् । काश्यां श्रीविश्वनाथस्य नीराजनावसरे सा भावाविष्टाऽभूत् । वृन्दावनयात्राप्रसङ्गे श्रीमाताऽवोचत् – “वृन्दावनकाले मया दृष्टम्, यत् श्रीठाकुरो धूम्रयानस्य गवाक्षे मुखं स्थापयित्वा ब्रवीति – ‘यत् कवचं त्वत्समीपे वर्तते, तन्न भ्रश्येतेति द्रष्टव्यम् ।‘ तदीयमिष्टकवचं मत्पार्श्व एवासीत् । तस्य पूजनं प्रतिदिने तन्मया सत्यहमकरवम् । अनन्तरं च कवचं बेलुड-मठे समर्पितम् ।”

वृन्दावने समागत्य ते सर्वे वंशीवटस्य कालाबाबूकुञ्जे न्यवात्सुः । वृन्दावनं भगवतो लीलास्थलम् । प्रत्येकवस्तुनि तस्यैव लीलायाः स्पर्शो विद्यते । भावमय पुण्यभूमौ कृष्णमयवृन्दावने समागत्य श्रीमातुः शोकदग्धं मनः शनैः शनैः किञ्चित् शान्तिमवाप । सा च भावसाधनस्यातलगाम्भीर्ये न्यमज्जत् । प्रतिक्षणमेवासौ भावसमाधौ तन्मयी बभूव । विरहाश्रूणि शनैः शनैरानन्दप्लवने रूपान्तरितान्यभूवन् ।

एकदा श्रीठाकुर आत्मानं दर्शयन् श्रीमातरमुवाच – “मया योगेन्द्राय दीक्षा न दत्ता, त्वमेव तस्मै मन्त्रं देहि ।” कश्च मन्त्रो देय इत्यपि तेन सूचितम् | पूर्वं तु माता न तत्र मनोऽदात्, मनसि ‘सर्वे जनाः कथयिष्यन्ति अधुनैव माता दीक्षादानतत्परा जाता’ इति । तया व्रीडाऽनुभूयते स्म, भयमपि किञ्चिदुदपद्यत । परेद्युः श्रीठाकुरेण पुनरपि तस्यै दीक्षादानवृत्तान्तः कथितः । तथापि तथा नैतदनुष्ठितम् । तृतीयदिने पुनः प्रदत्तदर्शनाय श्रीठाकुराय श्रीमात्रां निवेदितम् – “मया तु तेन सह वार्ताऽपि न क्रियते, कथं मन्त्रं दद्याम् ?” श्रीठाकुर उदतरत् – “त्वं पुत्रीं योगेन्द्रसुन्दरीमभिधेहि, – सा स्थास्यति ।“ इवश्च श्रीठाकुरेण दर्शनं ददता दीक्षाग्रहणार्थं योगेन्द्रः प्रोक्तः । किन्तु श्रीमातरं विज्ञापयितुं योगेन्द्रस्य साहसं न बभूव ।

तां भक्तिमतीं योगेन्द्रसुन्दरीं द्वारीकृत्य श्रीमात्रा योगेन्द्र (योगानन्द) विषये परिज्ञातमिदं यत् श्रीठाकुरेण तस्मै कश्चनापीष्टमन्त्रो न प्रदत्तः तदा तया योगेन्द्रीय दीक्षादानस्य निश्चयः कृतः । श्रीमाता एकस्यां पेटिकायां श्रीठाकुरस्य प्रतिकृति देहावशेषमपि सुरक्षितमकरोत् । एकदा तत्पूजनं कुर्वाणयां तया समाहूतो योगेन्द्रः स्वपार्श्वमुपवेष्टुमादिष्टः । पूजां कुर्वती श्रीमाता गम्भीरभावावेशनिमग्ना बभूव । तस्यामेव भावावेशावस्थायामसौ योगेन्द्राय मन्त्रमदात्, श्रीमाता एवमुच्चैःस्वरेण मन्त्रोच्चारणं कृतवती यत् पार्श्ववर्तिगृहेऽपि मन्त्रोऽसावश्रूयत ।

स्वर्गवाहिन्या अमृतगङ्गायाः पवित्रधारासमानः श्रीमातुः कृपातरङ्गैः कियन्तः सहस्रशः प्राणाः सञ्जीविताः – इति क्रमशोऽस्माभिर्द्रक्ष्यते । तारिण्यास्तापहारिण्याः स्वरूपं विभ्राणया तया सङ्ख्यातीतानां सन्तप्तस्त्रीपुरुषाणां पापतापाः स्वायत्तीकृता अभूवन् ।

श्रीठाकुरस्य विरहव्यथया दुःखिनी माता प्रायशो रोदनमकरोत् । एकदा श्री ठाकुरो दर्शनं दत्वा तामुवाच – “त्वमेतावत् कथं रोदिषि ? अहं कुत्रापि तु न गतवानस्मि ? अत्र गृहे न हि तत्र गृहेऽस्मि ।“

एकदा कल्य एव श्रीमाता कुञ्जे समुपविष्टा ध्यानं कुर्वाणा शनैशनैरेतावद्गभीरे समाधौ न्यमज्जत्, यदसौ समाधिर्न केनापि प्रकारेण भज्यते स्म । भक्तिमतीभिः स्त्रीभिर्बहुकालपर्यन्तं तत्पार्श्वमुपविश्य हरिनामकीर्तनं कृतम्, तथाप्यसौ समाधिर्नात्रुट्यत् । अन्ते त्यागिसन्तानयोगेन्द्रेण यदा भगवन्नामोच्चारितम्, तदानीं स ईषद् भग्नोऽभवत् । समाधौ भग्ने श्रीठाकुरो यथाऽवदत् तथैव श्रीमाता प्रोवाच – “खादिष्यामि ।“ भोज्यपदार्थे पानीये च समीपमानीते यथा श्रीठाकुरो भुङ्क्ते स्म, तथैव श्रीमात्राऽपि किञ्चित् किञ्चिद् भुक्तम् । अनन्तरं प्रोक्तम् – “अहं श्रीठाकुरस्य भावावेशे आसम् ।“ कदाचिच्च आनन्दोल्लासनिमग्ना लघ्वी बालिकेव सङ्गिनीः सह नयन्ती मन्दिरेषु देवदर्शनं कुर्वती व्यचरत् । सदैवासौ आनन्दपरिपूर्णा बभूव । नित्यमेव नवे नवे भावानन्दे समुच्छ्रसिता समभूत् ।

एकदिनस्यायं वृत्तान्तः । केचित् पुरुषाः पुष्पैः सज्जीकृत्य कीर्तनं कुर्वन्तः शवमेकं नयन्तोऽभूवन् । तमवलोक्य श्रीमाताऽवोचत् – “पश्यत, पश्यत, किमिव लोकाः वृन्दावनं धाम प्राप्नुवन्ति । वयं मरणार्थमत्र समागताः, परन्तु ज्वरोऽपि न बभूव । कथयत – कियदधिकं मम वयोऽभूत् । स्वकीयं पितरं नैजं ज्यायांसमप्यपश्यम् ।“ श्रुत्वेदं सहवासिन्यः स्त्रियो हासं हासं लुलुठुः । ताभिः प्रोक्तम् – “मातः ! किमुक्तम् – पिता दृष्टः ? पितरं को न पश्यति ?” एवं बालिकावत् श्रीमाता बभूव । श्रीठाकुरस्तु तस्याः प्राणेश्वर एवासीत् । देहपरित्यागानन्तरं तस्या असौ सर्वेश्वर एवाभवत् । नानारूपैरनेकविधाभिस्तेन मातुर्हृदयस्य शून्यता पूर्णतायामुद्धेलितासीत् ।

श्रीमाता सेविकाः सङ्गिनीश्च सह नीत्वा वृन्दावनस्य परिक्रमामकार्षीत् । तदानीं प्रायशः सा भावविह्वलाऽवलोकिता । ८४ क्रोशपरिक्रमायां पञ्चदशदिनेभ्योऽधिककालो व्यत्यगात् । श्रीमाता वृन्दावनात् योगेन्द्रं (योगानन्दं) भक्तिमतीरन्याश्च साकं नयन्ती हरिद्वारमगात्, हरपौढीपवित्रसलिले च श्रीठाकुरस्य कांश्चित् केशान् नखांच विससर्ज ।

हरिद्वारात् श्रीमाता जयपुरमुपतिष्ठमाना केषाञ्चिद्दिवसानां कृते पुनरपि वृन्दावनं प्रत्यागता । ततश्च कलिकातामागत्य कानिचन दिनानि बलराममहोदयगृहे स्थिता । ततश्च कामारपुकुरमगच्छत् । अवसरेऽस्मिन् श्रीमाता अष्टौ नव वा मासान् कामारपुकुरेऽतिष्ठत् । श्रीठाकुरेणैकदा सा प्रोक्ता – “त्वं कामारपुकुरे स्थास्यसि, शाकं वप्स्यसि, शाकं भक्तं च खादिष्यसि, हरिनामानि च ग्रहीष्यसि ।” आदर्शसात्त्विकजीवनयापनस्य कीदृशं सुन्दरं चित्रमेतत् ।

तदानीन्तनं श्रीमातुः कामारपुकुरजीवनमतिक्लेशमयमभवत्, किन्तु तदीयमन्तरं तथैव दिव्यमहिम्ना संयुक्तं माधुर्यमयं चाभवत् । ओदनं शाकं चासौ निर्माति स्म, किन्तु तत्र निक्षेप्तुं लवणमसौ कस्मिंश्चिद्दिने न प्रापत् । श्रीठाकुरस्य विशिष्टा शिक्षा आसीत् – “न कस्यचिदग्रे करः प्रसारणीयः । यदि सम्भवेत्तर्हि हस्तमधोमुखीकृत्य किञ्चित्प्रदातुमेव चेष्टा कर्तव्या ।“ श्रीमात्रा अन्तिमदिनं यावदादेशोऽयमक्षरशः पालितः । स्वामी सारदानन्दः परवर्तिनि काले दुःखं प्रकाशयन्नुवाच – “तदानीं अस्माकं धारणा नेयमासीत् यन्माता लवणमपि समासादयितुं न पारयति ।“

श्रीमाता एकदा प्रोवाच – “वृन्दावनतः परावृत्य यदाऽहं कामारपुकुरमगमम्, जनापवादभयेन – असौ किमपि वदेत्, स किञ्चित् कथयेदिति विचार्य मयैकदा करकङ्कणे अवतारिते । विचारितं च गङ्गाविरहिते स्थाने कथं निवसेयम् ? गङ्गास्नानाय गन्तुं मन आदिशत् । निरंतरं मम गङ्गास्नानस्याग्रह आसीत् । एकदा मया दृष्टम् – अग्रतो मार्गेण श्रीठाकुरः समायाति (भूतनहराभिमुखतः), तत्पृष्ठतश्च नरेन्द्र-बाबूराम-राखालादयो भक्ता, अन्ये च बहवो मनुष्या आसन् । मया विलोकितम् ‌– श्रीठाकुरस्य पादान्निर्गत्य जलप्रवाहोऽग्रेऽग्रे (जलस्य धारा !) गच्छति । मया विचारितम् – अयमेव सर्वम् – अस्यैव पादपङ्कजात् गङ्गा निर्गता ! शीघ्रं शीघ्रमहं रघुवीरगृहसमीपस्थजवाकुसुमवृक्षाद् बहूनि कुसुमानि त्रोटयित्वा गङ्गायामर्पितवती । ततः श्रीठाकुरेणाहमादिष्टा – “त्वया करकङ्कणे नावतारयितव्ये ।” ततः प्रभृति (लोकापवादभयात्) श्रीमात्रा करकङ्कणे नावतारिते ।

कामारपुकुरेऽन्यदापि श्रीमातुः श्रीठाकुरस्य दर्शनमभूत् । तत्सम्बन्धे तया प्रोक्तम् – एकस्मिन् दिने श्रीठाकुरः समागत्य प्रोवाच – “कृसरान्नं भक्षय ।“ कृसरं निर्माय श्रीरघुवीराय भोगः समर्पितः । ततश्चाद्दमुपविश्य भावावेशे श्रीठाकुरमभोजयम् ।”

इतश्च श्रीमातुः कामारपुकुर-निवासासौविध्ये परिज्ञाते त्यागिभिभक्तैः कलिकातायामागन्तुं तस्या: समीपेऽनुरोधपत्राणि लिखितुमारब्धानि । श्रीमाता कामारपुकुरे स्वश्वशुरगेहे आसीत् । तत्रान्येऽपि मानवा न्यवसन्, समाजोऽप्यास्ते स्म । सा महत्या बुद्धिमत्ता बुद्धिमत्तया सर्वसम्मतिमादाय कलिकातामागमत् ।

श्रीमाता कलिकातामाययौ । तस्या गङ्गाभक्तिरपूर्वाऽविद्यत । अतो भक्तैर्गङ्गापश्चिमतटस्थे बेलुड़ग्रामे गङ्गाया अतिनिकटतटे वर्तमानबेलुड़मठस्य निकटवर्तिनि नीलाम्बर मुखर्जीमहोदयस्य भाटकगृहीते उद्यानवति गृहे श्रीमाता निवासिता । तया सार्धं काश्चन भक्तिमत्योऽप्यासन् । तस्याश्च निरीक्षणभरणदायित्वं स्वामिना योगानन्देन स्वोपरि गृहीतम् । एकदा सन्ध्योत्तरकाले श्रीमाता भवनपृष्ठ समुपविश्य ध्यानमकरोत् । पार्श्वे “पुत्री योगेन्द्रा” गोपालसुन्दरी चोपविष्टे । श्रीमातुर्मनः शनैः शनैर्निर्विकल्पदशां प्रापत् । स्पन्दनहीना सती गभीरसमाधौ न्यमज्जत् । बहोः कालादनन्तरमवबोधे जाते तया प्रोक्तम् – “अये योगेन्द्रे ! मम हस्तौ कुत्र, पादौ च कुत्र स्तः ?” तदापि तस्या देहे बोधो न न्यवर्तत । भक्तिमत्यः श्रीमातुर्हस्तौ पादौ च ईषस्पृष्ट्वा प्रोचुः – “इमौ हस्तौ इमौ च पादौ स्तः ।” तस्मिन् दिने देहे मनस आगमनेऽधिकः समयो व्यत्यगमत् । एवमात्मानन्दनिमग्ना श्रीमाता मासषट्कं बेलुड़े तस्थौ । स्थानमिदं युगयुगान्तरं यावत् महातीर्थरूपेण परिणमयितुमेव श्रीमाता तत्र तपश्चचार, अन्यथा तत्स्थानं को जानीयात् ?

बेलुडे निरवच्छिन्ने दिव्यानन्दे समययापनानन्तरं श्रीमाता स्वान्तरे जगन्नाथदेवस्य दुर्निवारमाकर्षणमन्वभवत् । भक्तानां प्रयत्नेन तस्याः पुरीगमनव्यवस्था समभूत् । पुरीक्षेत्रे श्रीमाता स्वसङ्गिनीभिः साकं बलरामबाबू महोदयस्य “क्षेत्रवासी”ति नाम्नि भवने अतिष्ठत् । सा प्रायशो नित्यमेव पदातिनी जगन्नाथ दर्शनार्थमगात् । बलरामबाबू महोदयस्य पाण्डेयगोविन्दशृङ्गारी यदा श्रीमातरं शिविकामारोह्य गमनप्रस्तावमकरोत्, तदानीं तयोक्तम् – “न गोविन्द, त्वमग्रेऽग्रे मार्ग दर्शयन् व्रज, अहं तु दीनहीनाऽकिञ्चनेव तव पृष्ठतो जगन्नाथदर्शनार्थं गमिष्यामि ।” मन्दिरमुपस्थाय भावाविष्टया तया विलोकितं यत् जगन्नाथः पुरुषसिंहरूपेण विराजमानो विद्यते । स्वयमियश्च तस्य पादसेवां विधत्ते ।

श्रीठाकुरः स्थूलशरीरेण कदापि जगन्नाथदर्शनार्थं नागमत् । अत एकदा श्रीमाता श्रीठाकुरस्यैकमूर्तिं स्वीयवस्त्राञ्चले गोपयित्वा मन्दिरं नीतवती तामेव मूर्तिं जगन्नाथदर्शनमकारयत् । पुर्यामपि श्रीमाताऽनेकशः भावतन्मयतां प्रापत् । तत्र तथा गुरुत्व परिपूर्णमेकं दर्शनमप्यनुष्ठितम् । जगन्नाथमूर्तिसम्बन्धे बहुभिर्भक्तैर्जिज्ञासिता सा प्रोवाच – “मया स्वप्ने शिवमूर्तिर्दृष्टा । केवलं शिवमूर्तिः शिवलिङ्गम् । एकलक्षशालिग्रामाणां वेदी निर्मिताऽभवत् । तदुपरि जगन्नाथशिवो व्यराजत । विमला देवी चाप्यतिष्ठत् । महाष्टम्यां रात्रौ तस्यै बलिर्दीयते । विमला तु दुर्गैवास्ते । अतः शिवस्तु स्थास्यत्येव ।”

नानाभावानन्देषु विविधप्रकार दर्शनं कुर्वती श्रीमाता प्रायः चतुरो मासान् श्रीक्षेत्रमध्युवास । श्रीठाकुरेण सह तदा तस्या नित्यसम्बन्धनित्यं मेलनमपि समभवत् । श्रीसारदादेवी तदभ्यन्तरे ईदृशं प्रेमसम्बन्धं प्राप्तवती यस्मिन् न कश्चिद् विच्छेदोऽवसादो वा बभूव । आसीत् केवलं पूर्णता-पूर्णा तन्मयतैव । जगन्नाथो “मन्नाथो” जातः । सम्पूर्णचेतनायां समस्तव्याप्तावपि श्रीठाकुरो व्यराजत । इदानीं तस्मिन् चिरमेलनमासीत् । विच्छेदव्यवधानम् आत्मानन्दस्यासीमतायां गत्वा सम्मिलितम् ।

श्रीमातुरभ्यन्तरे श्रीठाकुरस्य प्रकाशोऽयमतिशयसुन्दरोऽभवत् । स च नानारूपेषु शाश्वतभङ्गिमादिषु प्रेमपवित्रतायां धृतिरूपे शक्तिरूपे भक्तिमुक्तिरूपेषु च प्राकट्यमगमत् । अत एव तु तस्या निर्विचारं तादृग् दयादाक्षिण्यं चासीत् । श्रीमाता स्वयमुवाच – “अहं दयाया दीक्षां ददामि । तद्दानाभावाद् रोदिति दृष्ट्वा दया प्रादुर्भवति । अतएव कृपाया दीक्षा दीयते । अन्यथा तेन मम को लाभः ? मन्त्रदाने कृते तत्पापमपि गृह्यते । चिन्तयामि, शरीरं तु यास्यत्येव – तदेतेषां किञ्चित्कल्याणं भवेत् ।“ एकस्याश्रितजनस्य कष्टमवलोक्य अभयवरदा श्रीमाता प्रोवाच – कस्माद् भयमस्ति, पुत्र, सर्वदैवावधारय यत् श्रीठाकुरस्या साकं वर्तते, अहमपि त्वयैव सार्धमस्मि, मयि मातरि त्वया सह स्थितायां तव कस्माद् भयमास्ते ? श्रीठाकुरः प्रोक्तवान् – “ये तवाश्रयार्थं समागमिष्यन्ति अन्तकालेऽहं तान् स्वहस्ताभ्यां गृहीत्वा लोकान्तरं नेष्यामि । कोऽपि यथेच्छं कुर्यात्, योऽपि पन्था रुचिकरो भवेत् तत्रैव किन्न गच्छेत् । अन्तिमसमये युष्मान् सर्वान् नेतुं श्रीठाकुरेण समागन्तव्यमेव ।” आश्रितानां कर्णेषु मेघध्वनिरिव श्रीमातुरभयवाणी गुञ्जायमाना बभूव – “मातरि मयि युष्माभिः सार्धं विद्यमानायां युष्माकं कस्मात् किं भयमस्ति ?”

श्रीसारदादेव्या शनैः शनैरवधारितं यत् श्रीठाकुरः तस्याः पूर्वमेव स्थूल देहं परित्यज्य कथमगच्छत् । सा सम्प्रति स्वविद्यमानताप्रयोजनसाधने प्रावर्तत तथा सर्वेषु भगवतीकृपाविभाजने प्रवृत्ता च । एकदा भक्तेनैकेन जिज्ञासितम् – “मातः, अन्यान्यावताराः स्वस्वशक्तीनामनन्तरमेव देहमत्यजन् | परमिदानीं भवतीं विहाय श्रीठाकुरः प्रागेवागच्छत्, इति कथम् ?” श्रीमाताऽवदत् – “वत्स जानास्येव त्वं, जगति प्रत्येकस्योपरि तस्य मातृभाव आसीत् । भुवने तस्यैव मातृभावस्य विकासाय मां अरक्षत् ।“

श्रीठाकुरेण यथा स्वस्वरूपसम्बन्धे संक्षेपतः केचिद् वृत्तान्ताः श्राविताः, तथैव यत्र कुत्रापि प्रसङ्गतः स्वकीयलीला सङ्गिनीस्वरूपसम्बन्धेऽपि किञ्चित् किञ्चित् प्रकाशितमभूत्, तथैव तेन श्रीसारदादेवीं प्रति जगतो दृष्टिरपि समाकृष्टा । अन्यथाऽसौ केवलमादर्शनारीमात्ररूपत एव परिचिताऽभविष्यत् । स्वयं शक्तिरूपिणी श्रीमाता महाशक्तिबलेन स्वस्वरूपमगोपयत् । तस्या आवरणस्यापावरणं मानवशक्तिमतिरिच्यते, गुप्तलीलाभिनयोऽयं तत्कृपयैव कदाचित् कस्यचिद् भाग्यशालिनः पुरुषस्य दिव्यदृष्टौ समापतति स्म । अनन्तरमीश्वरकोटिर्महात्मा स्वामी प्रेमानन्दः प्रोवाच – “माता केन परिज्ञातुं शक्यते ? ऐश्वर्यलेशोऽपि नास्ति । श्रीठाकुरस्य पार्श्वे तु तदापि विद्याया ऐश्वर्यमासीत् – भावसमाधिपरम्पराऽभूदेव, किन्तु मातुरेतदैश्वर्यमपि नितरां विलुप्तमभवत् । इयं कीदृशी महाशक्तिः ! यद् (पापिजनस्वरूपं) विषमस्माभिः पाचयितुं न शक्यते, तन्मात्रे समर्प्यते । माता सर्वानङ्के स्थापयति-आश्रयं प्रयच्छति ।“

श्रीमाता पुरीतः कलिकातायां समागमत् । तत्र च प्रायशः सप्ताहत्रयमुषित्वा विवेकानन्दं, प्रेमानन्दं मास्टरमहाशयं च सह नीत्वा आँटपुरमाययौ । कियन्ति दिनानि तत्र स्थित्वा सा कामारपुकुरमाजगाम । तदानीमपि प्राय एकवर्षमध्युष्य पुनः कलिकातां परावर्तत ।

स्वजनन्याः स्वर्गारोहणानन्तरं श्रीठाकुरेण गयां गत्वा विष्णुपादपद्म पिण्डं दातु श्रीमाता समादिष्टा । तदा श्रीमात्रा प्रोक्तम् – “पुत्रस्य विद्यमानत्वे श्राद्धमहं करिष्यामि ?” श्रुत्वेदं श्रीठाकुरो निजगाद – “ओम, भविष्यति, भविष्यति । किमहं तत्र गन्तुं शक्नोमि ? गत्वा च किमहं परावर्तिष्ये ?” श्रीमात्रा शङ्कितया निगदितम् – “तर्हि भवतो गमनस्य आवश्यकता नास्ति ।” श्रीठाकुरस्य देहत्यागानन्तरं तमादेशं स्मृत्वा तया तदानीमेव गयाधाम प्रस्थातुं निश्चयः कृतः । “वृद्धगोपालेन” (स्वामिना अद्वैतानन्देन) साकं १८९० ईसवीयहायनस्य मार्चमासे समुपस्थाय गयाकृत्यादिकं सम्पादितम् । विष्णुगयातः श्रीमाता बुद्धगयादर्शनार्थं जगाम । सम्बन्धेऽत्र तया प्रोक्तम् – “बृहति बोधगयामठे एतावन्त्यधिकानि वस्तूनि ! कस्यापि वस्तुनोऽभावो नास्ति – किमपि कष्टं नास्ति । एतदवलोक्य अहं रुदितवती श्रीठाकुरं प्रार्थितवती च – “ठाकुर मम बालकानां निवासाय नास्ति किमपि स्थानम्, द्वारे द्वारे परिभ्रमन्ति । एषां कृतेऽपि एतादृशेनैकेन निवासस्थानेन भवितव्यम् । तदा ठाकुरस्येच्छया बेलुडमठोऽयमभूत् ।”

एतस्य कतिचिद्दिनानन्तरं श्रीठाकुरस्य त्यागिभिर्भक्तैर्बराहनगरे एकस्मिन् जीर्णशीर्णे भूतावासभवने कथञ्चित् पादसंस्थापनस्थानमधिगतम् । अन्नैर्विना कृच्छ्रसाधनस्य परा काष्ठा व्यत्यचलत् । श्रीमातुस्तत्प्रार्थनाया अनन्तरं शनैः शनैः सर्वतोऽवस्थायां परिवर्तमारब्धम् ।

गयातः कलिकातायां परावृत्य कियन्ति दिनानि मास्टरमहाशयगृहे कियन्ति च बलरामबाबूगेहे स्थित्वा, ततो बेलुडग्रामस्य घुषुडीश्मशानपार्श्वे भाटकगृहीते गृहे श्रीमाता न्यवात्सीत् । तत् स्थानमसौ प्रायशो मासचतुष्टयमध्युवास । अत्रैव श्रीमातुरजस्रमाशीर्वादं शिरसि धारयन् स्वामी विवेकानन्दः परिव्राजकरूपेण बहुदिवसकृते बहिरगच्छत् ।

घुषुड़ीस्थित गृहस्य निवासकालान्तिमभागे श्रीमाता कठिनेन रक्तामाशयरोगेण समाक्रान्ता बभूव । अतस्तां बराहनगरस्य सौरीन्द्रमोहनठाकुरगेहं भाटकगृहीतं चिकित्सार्थमानिन्युः । बराहनगरादियं कलिकातायां बलरामबाबूवेश्मनि समागच्छत् । दुर्गापूजाया अनन्तरं च कामारपुकुरमुपढौकमाना जयरामबाटीं जगाम ।

श्रीमातुर्मातृभक्तिरसाधारणी । तस्या जननी श्यामासुन्दरी चापि सातिशयसात्त्विकप्रकृतिरासीत् – अत एव हि देवी तद्गर्भमागच्छत् । सा एतादृशी भक्तिमती बभूव यत् जगद्धात्री देवी अयाचितभावतो दर्शनं दत्वा तदर्चनमगृह्णात् । तस्मिन् समये श्रीठाकुरः स्थूलदेहेन दक्षिश्वरमध्युवास । स किल प्रसन्नस्य (श्रीमातुः सहोदरभ्रातुः) मुखात् सर्वमाकर्ण्य प्रावोचत् – “गच्छ गच्छ, गत्वा पूजामनुतिष्ठ, एतेनैव तव मङ्गलं भविष्यति ।” एतत्पूजासम्बन्धे “श्रीमारकथा” (श्रीमातुः कथा) नाम्नः पुस्तकात् परिज्ञायते – “जगद्धात्रीपूजा बभूव । सम्पूर्णोऽपि ग्रामो निमन्त्रितः । प्रतिमा विसर्जनकाले मम माता जगद्धात्री प्रतिमाकर्णे प्राह – ‘मातर्जगद्धात्रि, अग्रिमे वर्षे पुनः समागन्तव्यम् । अहं वर्षं यावत् त्वदर्थं वस्तूनि सङ्गृह्य स्थापयिष्यामि ।”

अग्रिमे वर्षे मम माता मामगादीत् – ‘पश्यत, त्वयाऽपि किञ्चिद् देयम्, मम जगद्धात्र्याः समर्चनं सम्पत्स्यते ।‘ मया प्रोक्तम् – “भवतु, वारमेकं पूजनमभूत् । पुनरेतत् किमर्थम् ? नाहं किमपि सहायं कर्तुं समर्था । परं रात्रौ स्वप्ने दृष्टम् – तिस्रः देव्यः समागत्योपस्थिताः सन्ति । अरे रे !, इदानीमपि स्मृतम् – जगद्धात्री, तस्याश्च द्वे सङ्गिन्यौ जया विजया च । ताभिः प्रोक्तम् – ‘किं वयं गच्छेम ?’ मया पृष्टम् – ‘काः यूयम् ?’ देव्या निगदितम् – ‘अस्म्यहं जगद्धात्री ।‘ मयोक्तम् – ‘न गन्तव्यम् कुत्र गमिष्यथ ? तिष्ठत, मया तु गमनाय यूयम् नोपदिष्टाः ।‘ तत एव हायनात् जयरामबाट्यां प्रतिवर्षं जगद्धात्रीपूजा बोभूयमाना समायाति ।

❀ ❀ ❀

तदानीं काले श्रीमाता बहूनि दिनानि जयरामबाट्यामासीत्, पश्चाच्च १३०० वङ्गाब्दस्याषाढमासे प्रायशः सा पुनः कलिकातायां पराववृते । अत्रावसरेऽपि भक्तैर्बेलुडग्रामे भाटकेन गृहीते नीलाम्बरबाबूवेश्मनि सा संस्थापिता । तदानीं बेलुडे तया ‘पञ्चतपोव्रतं’ समनुष्ठितम् ।

श्रीठाकुरशरीरपरित्यागस्य कियत्कालानन्तरत एव श्मश्रुलेनैकेन सूक्ष्मदेहिसंन्यासिना पञ्चतपोव्रतानुष्ठानाय वारं वारं श्रीमाता प्रबोधिताऽभवत् । तस्य (सूक्ष्मदेहि) संन्यासिनो विशिष्टाग्रहेणैवासौ पञ्चतपोव्रतमन्वतिष्ठत् । विषयेऽस्मिन् श्रीमातुर्वर्णनेनैव परिज्ञायते – “ … पञ्चतपोव्रतस्यायोजनमभूत् । तदानीमहं बेलुडे नीलाम्बरबाबूगृहेऽतिष्ठम् । चतुर्दिक्षु गोमयाग्निः उपरि च प्रखरसूर्यसन्तापः । प्रातः स्नात्वा समीपमागत्यापश्यम् – अग्निर्नितरां प्रखरं प्रज्वलति । महद्भयमुत्पन्नं मनसि – कथमिव अस्य मध्ये गत्वा सूर्यास्तं यावदुपवेक्ष्यामि ? अनन्तरं श्रीठाकुरस्य नाम गृहीत्वा प्रविश्यापश्यम् - अग्नौ नास्ति कश्चित्सन्तापः । एवं सप्त दिनानि पञ्चाग्निमतपम् । किन्तु पुत्र, शरीरवर्णो मसीव कृष्णतां गतः । तदनन्तरमसौ संन्यासी नावलोकितः ।”

एतस्मिन्समये श्रीमातुरेकमलौकिकं दर्शनमभवत् । उद्यानस्याभिमुखे सुरसरिद् वहति । मात्रैकदा दृष्टम् – श्रीठाकुरो गङ्गायामवततार | सहसैव तस्य शरीरं गङ्गायां न्यलीयत । गङ्गा श्रीठाकुरचैकतां गतौ । इतश्च स्वामी विवेकानन्दो “जय रामकृष्ण; जय रामकृष्ण” इत्युच्चारयन् उभाभ्यामपि कराभ्यां तेन गङ्गाजलेन सर्वेषां शिरस्तु प्रोक्षणमकार्षीत् । तस्य च ब्रह्मवारिणः स्पर्शेन सर्वे सद्यो मुक्ततामगच्छन् । मुक्तिवारिस्वरूपश्रीरामकृष्णदेवदर्शनं तत्, श्रीमातुर्मनसि प्रभावमेतावन्तमपातयत्, येन सा बहूनि दिनानि गङ्गायां नावततार । सा प्रोवाच – “इयं गङ्गा तु श्रीठाकुरस्य देहः, अत्र कथं पादौ प्रक्षेप्स्यामि ?”

चतुष्पञ्चमासान् बेलुडे कठोरतपस्यानन्तरं श्रीमाता किञ्चित्कालाय जयरामबाटीमगच्छत्, किन्तु बहूनां विशिष्टभक्तानामान्तरिकानुरोधेन श्रीमाता पुनः कलिकातामागत्य तैः सह विहारप्रान्तीयशाहाबादमण्डलान्तर्गते कैलवारस्थाने गत्वा द्वौ मासौ व्यत्ययापयत् । तत्र वन्यहरिणानां समूहान् सायकवेगवत् पलायमानानवलोक्य श्रीमाता बालिकेव समुच्छ्वसती बभूव । कैलवारात् परावृत्य सा पुनः कतिचिन्मासान् बेलुडमध्युवास ।

स्वामिनः प्रेमानन्दस्य भक्तिमती जननी स्वगृहे आंटपुरे ‘दशभुजाया’ दुर्गादेव्या आराधनार्थमायोजनमकार्षीत् । तस्या विशेषाग्रहेण तत्पूजामुपलक्ष्य आंटपुरे श्रीमात्रापि गन्तव्यमभवत् । घटनामेतामुल्लेखयता स्वामिना विवेकानन्देन अमेरिकातः एकस्मै गुरुभ्रात्रे पत्रं लिखितम् – “बाबूरामस्य मातुर्बुद्धिर्वृद्धतया नाशमगच्छत् । तदैव तु जीवितदुर्गामपहाय मृन्मयीं दुर्गामाराधयितुं प्रवृत्ताऽऽस्ते ।“ पूजाया अनन्तरं श्रीमाता आंटपुरात् जयराम बाटीमाजगाम ।

तस्मिन् समये श्रीमातुर्मनसि स्वीयां जननीं तीर्थदर्शनार्थं नेतुं बलवती समीहा प्रादुरभूत् । स्वकीयया जनन्या कैश्चिदन्यसम्बन्धिभिश्च साकमसौ कलिकातामुपतिष्ठमाना काशी-वृन्दावनादितीर्थानां दर्शनाय प्राचलत् । प्रायशो मासत्रयं तीर्थवासानन्तरं सा कलिकातामाययौ । स्वीयान् मातृप्रभृतीन् जयरामबाटी संप्रेष्य प्राय एकमासं च श्रीमाता मास्टर महाशयस्य कलूटोलास्थे वेश्मनि तस्थौ । अनन्तरं निजजनन्याः स्वीयभ्रातुश्वाह्नानेन श्रीमाता त्वरितमेव जयरामबाटीं प्रतस्थे । प्राय एकवर्षं तत्र स्थित्वा सा पुनः कलिकातां प्रत्याजगाम । तदानीं काले भक्तैः पञ्चषमासान् यावत् बागबाजारस्य गङ्गातटे भाटकगृहीते गोदामगृहेऽसौ निवासिता । शनैः शनैः भक्तसंख्यया सह दर्शनार्थिनां कृपैषिणां सम्मर्दो ववृधे ।

पुनर्जयरामवाटीमागत्य श्रीमाता सार्धैकवर्षमतिष्ठत् । तत्पश्चाद् यदाऽसौ कलिकातायाम् (१३०५ वङ्गाब्दस्य वैशाखे) आययौ, तदानीं बागबाजारस्य बोसपाडानामकवीथ्यामेकत्र भाटकगृहीते वेश्मनि वासिताऽभवत् ।

तदानीमेव स्वामी विवेकानन्दो भारतं प्रत्यावर्तत । प्रत्यावर्तमानेनैव तेन बेलुडे एकस्य स्थायिनो मठस्य निर्माणाय भूमिः क्रीता । सामयिकरूपेण नीलाम्बरबाबू गृहे भाटकगृहीते एव बेलुड़मठः समानीतः । महता वेगेन मठनिर्माणकार्यं प्रचचाल ।

१८९८ ईसवीयवर्षे दीपावली – (कालीपूजा) दिवसे स्वामिमहाशयः सङ्घजननीं श्रीमातरं बागबाजारतः नवीनमठप्राङ्गणमानिनाय । तत्रागत्य श्रीमात्रा नैजस्य सर्वदा पूजनीयस्य श्रीठाकुरस्य चित्रमभ्यर्चितम् । श्रीरामकृष्णदेवो मठेऽधिष्ठितोऽभूत् । बेलुमठो महातीर्थरूपेण परिणनाम ।

बेलुड़मठस्य स्थानविषये श्रीमाता प्रावोचत् – “अहं नित्यमेवा - पश्यम् यत् श्रीठाकुरो गङ्गाया उपरि परे पारे-यत्रायं मठः - रम्भोद्यान- मध्ये निवसति । तदानीं मठो न निर्मितोऽभूत् ।" श्रीमातुः कथनेने- दमेवावधार्यते यत् श्रीठाकुर एव बेलुड़मठस्थानमिद् मनोनीत - मकार्षीत् । तस्य विशिष्टेनेङ्गितेनैव स्थानेऽत्र मठः संस्थापितोऽभवत् ।

तदनन्तरं दिसम्बरमासस्य (१८९८ ई० ) पवित्रपुण्यतममुहूर्ते बेलुड़स्य भाटकगृहात् आत्मारामस्वरूपं श्रीरामकृष्णदेवस्य भस्मावशेषपूर्णपात्रं स्वामिमहोदयः स्वस्कन्धोपरि संस्थाप्य स्थायिनि मठेऽत्र समानीय युगसहस्राणां कृतेऽत्र स्थाने तस्य स्थापनामकरोच्च । जागतिक इतिवृत्ते एकोऽयं महास्मरणीयो दिवसः । अनन्तरं च जनवरीमासस्य द्वितीये दिने (१८९९ ई०) मठः पूर्णरूपेण नवीने मन्दिरेऽत्र समागमत् । तदनन्तरं त्रिचतुर्वर्षाणि यावत् श्रीमाता कदाचित् जयरामवाट्यां कदापि च कलिकातायां तस्थौ । कलिकातामागत्य सा बागबाजारविभागस्य कुत्रापि भाटकभवने न्यवात्सीत् ।

१६०१ ईसवीयवर्षे महता समाराहेण बेलुड़मठे श्रीस्वामिमहाशयः प्रतिमायां दुर्गापूजामकरोत् । ‘जीवितदुर्गास्वरूपा’ श्रीसारदादेवी तेन मठस्य पार्श्वस्थिते नीलाम्बर मुखर्जीमहोदयस्योद्याने संरक्षिता । यथावसरं श्रीमाता मठमागच्छत् – देव्याः प्रबोधनमभूत् । आनन्दमय्या आगमनेन पूजाया दिनचतुष्टयं महानानन्दोत्सवोऽभूत् । बहवो जनाः श्रीमातुर्दर्शनमासाद्य धन्या बभूवुः । एकतो ‘दीयतां भुज्यताम्’ अपरतच ‘जय दुर्गे, जय मातः’ इति ध्वनिभिर्गङ्गाया वक्षःस्थलं प्रतिध्वनितमभवत् ।

❀ ❀ ❀


श्रीमाता बेलुड़ग्रामे विभिन्नस्थानेषु तेषु तेषु कालेषु १८८८, ९०, ९३, ९५ ईसवीयवर्षेषु सर्वं मिलित्वा साधैकवर्षादधिकसमयं यावन्निवासमकरोत् । वर्तमानबेलुड़मठस्य भूमिः १८९८ ईसवीये वर्षे क्रीता बभूव । तदनन्तरं मठभवन-निर्माण-ठाकुरप्रतिष्ठा मठस्थापनाः समभूवन् ।
एकदा श्रीमातुर्जयरामबाट्यां ज्वरः समायातः । पादयोर्वातोऽपि प्रवृद्धः । एतद्दशायामपि श्रीमात्रा प्रोक्तम् – “अद्य न कोऽपि कृपाप्रार्थी समागमत् । श्रीठाकुरेण प्रोक्तमासीत् – “त्वया कियन्ति कार्याणि कर्तव्यानि सन्ति ! एको वासरो व्यर्थमतीतः।” तत ईषदनन्तरं रात्रौ स्वामिनो ब्रह्मानन्दस्य पत्रमादाय त्रयो भक्ता आजग्मुः । पठित्वा पत्रे श्राविते; माता कातरस्वरेण प्रोवाच – “विदेशाद् बालकाः स्वमात्रे कियन्ति रमणीयानि वस्तूनि प्रेषयन्ति ! राखालोऽन्ते मह्यमिदं (पापिवृन्दं) प्रैषयत् ? अनन्तरं श्रीमात्रा भक्तेभ्यस्तेभ्योऽपि मन्त्रदीक्षा प्रदत्ता ।
श्रीरामकृष्णसङ्घस्थितिप्रसारहेतवे श्रीमातुर्मनस आकुलता एकया तदानीन्तनवार्तया परिज्ञायते । कोयालपाडास्थानस्यैकस्मै संन्यासिने श्रीमाता प्रोवाच – “अहो ! एतदर्थमहं श्रीठाकुरस्य समीपे कियद् रोदितवती प्रार्थनां च कृतवती । तदैव तु तस्य कृपयाऽद्य कथमपि मठो निर्भितः । श्रीठाकुरस्य देहत्यागानन्तरमिदमभिधाय प्रार्थनामकरणम् – ये भवदीयं नाम गृहीत्वा गेहादभिसरिष्यन्ति तेषां भोजनपरिधानन्यूनता कदापि न भवेत्, सर्वे भवन्तं, भवतो भावोपदेशञ्च गृहन्त एकत्र तिष्ठेयुः । संसारतापसन्तप्ता जनास्तेषां त्यागिशिष्याणामभ्यर्णमागत्य भवत्कथामाकर्णयन्तः शान्तिमधिगच्छेयुः । सर्वकल्याणार्थमेव तु भवत आगमनमभवत् । तेषां त्यागिसन्तानानामाश्रयाभावात् पथभ्रंशनमवलोक्य मम मनो व्याकुलीभवति । तदनन्तरं नरेन्द्रेणैतत् (मठस्थापनादिकं) सर्वं शनैः शनैः सम्पादितम् ।
१३१२ बङ्गाब्दे (सन् १९०६ ई०) श्यामासुन्दरी देवीलोकं प्रतस्थे । वृद्धाया मनसि एकमात्रकामना त्वियमेवासीद् यत् जन्मजन्मन्यहं सारदां कन्यारूपेण प्राप्नुयाम् ।
स्वनित्योपासनीयश्रीठाकुरचित्रसम्बन्धे श्रीमाता प्रोवाच “इदमतिसदृशम् । अहमन्यान्यदेवताश्वित्रैः साकं स्थापयित्वा एनदप्यपूजयम् । तदानीमहं नौबतवेश्मनो निम्नस्थे प्रकोष्ठे न्यवसम् । एकदा श्रीठाकुरः समागतः । चित्रमवलोक्यावोचत् – ‘अरे, त्वयैतत्सर्वं किमनुष्ठितमास्ते ?’ अनन्तरं दृष्टम् यत् तेन बिल्वपत्राणि पूजासम्भारं च वारमेकं वारद्वयं वा चित्रे समर्प्य पूजनं कृतम् । तदेवैतच्चित्रमस्ति ।” श्रीरामकृष्णदेव ईश्वरबुद्धया स्वचित्रपूजनं विधायात्मानं जगत्पूजनीयं कृतवान् ।