श्रीसारदादेवीचरितम्

श्रीमातुः कलिकातायां गृहम्

श्रीरामकृष्णदेवस्य देहत्यागानन्तरं श्रीसारदादेव्या अपार्थिवमनसः साधारणे धरातले संस्थापनमसम्भवमभवत् । तदीयं मनः स्वरूपे विलीनतां प्राप्तुमसीमाभिमुखमधावत् । एकतः श्रीठाकुरश्च वारं वारं तां निरुन्धानो युगकार्यपरिपूर्तये श्रीसारदादेवीं नरशरीरे स्थापयितुमचेष्टत । श्रीसारदादेव्या मर्त्यधामनि स्थापनाय कस्यचित् मायापूर्णस्यावलम्बनस्य विशेषप्रयोजनमभूत् । श्रीरामकृष्णेन तस्य पूर्णा व्यवस्था कृताऽऽसीत् । एतस्याभासः श्रीमातुः कथनेन लभ्यते – “श्री ठाकुरदेहत्यागस्यानन्तरं संसारे न किमप्याकर्षणमासीत्, मनोऽवसादपरिपूर्णमभूत् । अहं प्रार्थनामकरवम – ‘सम्प्रति संसारेऽत्र मम निवासेन को लाभः ?’ एतस्मिन्नेव काले सहसैकमलौकिकदृश्यमवलोकितम् यदेका रक्तवसनं धारयन्ती दशवार्षिकी द्वादशवार्षिकी वा बालिकाऽभिमुखे भ्रमति । श्रीठाकुरस्तां दर्शयन्नाह – एनामाश्रित्य तिष्ठ । तव सन्निधानेऽत्रान्येऽपि कियन्तो मानवा आगमिष्यन्ति ।‘ इत्युक्त्वा द्वितीयक्षण एवासावन्तर्दधे । बालिकां तां पुनर्नाहं द्रष्टमशक्नवम् । ततश्चैकदाऽत्रैव स्थाने (जयरामबाट्याम्) अहमुपविष्टाऽऽसम् । कनिष्ठा बधूः (राघूमाता) तदानीमतिविकृतमस्तिष्काऽभवत् । बहुजीर्णशीर्णदुकूलकन्थाः पार्श्वे पिधाय तच समाकर्षन्ती सा सरोऽभिमुखं व्रजन्ती बभूव । तस्याः पृष्ठतश्च जानुभ्यां गच्छन्तो रुदती राधेश्चापि वव्राज । तामवलोक्य हृदये महत्कष्टमभूत् । अहं धावन्ती भूत्वा राघूमङ्केऽस्थापयम् । मनस्यभूत् सत्यमेव हीमां यद्यहं न द्रक्ष्यामि तदाऽन्यः को द्रक्ष्यति ? पिता नास्ति, माताप्युन्मादिनी । मनस्येवं विचारयन्त्या मया निजाङ्के तस्यां स्थापितायां पुरतः श्रीठाकुरो दृष्टः । तेनाभिहितम् – ‘इयमेव सा बालिका, एतस्या आश्रयं गृहीत्वा तिष्ठ, इयं ‘योगमाया’ अस्ति ।‘ १९०० ईसवीयवर्षस्य जनवरीमासस्य २६ तारिकायामेतस्या जनुरभूत् ।

ततो नरदेहत्यागतः पूर्वं यावत् श्रीमातुरिदं ‘योगमायाश्रितं’ जीवनमतिरहस्यमयमभवत् । एतस्या ‘योगमायाया’ अवलम्बनेन तदीयमसांसारिकं मानसमपि सांसारिकमिव जातम्। तदानीन्तनः संसारिणीरूपेण घोरमायाबद्धायाः श्रीमातुरभिनयो वस्तुतोऽत्यद्भुतो बभूव । अयमभिनयोऽस्या इयान् निर्दोषः सर्वाङ्गसुन्दरश्वासीत्, येन श्रीमातुस्त्यागिनः सन्ताना अपि – ये जीवितजगदम्बारूपेण तां पर्यपूजयन् – चकिताश्चक्रिरे ।

मायाबद्धजीववत् श्रीमातुराचरणमवलोक्य संन्यासिन एकस्य मनसि सन्देह उदपद्यत । तेनैकवारं वारद्वयं वा श्रीमाताऽभिहिता – “भवत्या ईदृक् ‘राधू राधू' कथं क्रियते ? राधुपरि भवत्या अतिशयासक्तिर्विद्यते ।” श्रीमात्रा प्रोक्तम् “किं कुर्यां पुत्र, अहं स्त्रीजातिरीदृश्येव ।” संन्यासिना तेनैकदा पुनरप्ययं प्रश्नः कृतः । तदानीं सहसैव मातुः स्वरे परिवर्तनमभवत् । सा किञ्चिदुत्तेजिता भूत्वा प्रोवाच – “त्वयैतत् सर्व किमिव ज्ञास्यते ? मादृशी कामप्यन्विष्य निर्दिशतु ।” इदमाकर्ण्य संन्यासिनः सन्तानस्य सन्देहो व्यपागमत् । प्राकृतिके लीलामञ्चे पटपरिवर्तनवत् श्रीसारदादेव्या जीवने सहैव निवसन्तौ अन्धकारालोकौ महतीं मनोरमां छविमेकां प्रस्तुतां चक्रतुः । नित्यस्य लीलाया कीदृक् सहज आगमो गमश्च ! एकं पदं तथा नित्ये स्थापितं, द्वितीयपदेन तु लीलानृत्याभिनयः प्रदर्शितः ।

परन्तु आत्मीयानां दौरात्म्यात्याचाराभ्यामुत्तप्तीभूय श्रीसारदामाता जयरामबाट्यामेकदा स्वस्वरूपेङ्गितं कृत्वोक्तवती – “पश्यत, यूयं मामधिकं न पीडयत । अस्मिन्नन्तरे (स्वशरीरं लक्ष्यीकृत्य) यो विद्यते स यद्येकवारं कस्यचिदप्युपरि फूत्करोति तर्हि ब्रह्मविष्णुमहेशेषु न कोऽप्यलं तस्य रक्षायै ।”

अन्यस्मिन्समये एकदा कोयालपाडायां राध्वा अत्याचारवार्तामुल्लिख्य साऽब्रवीत् – “अवलोकय वत्स, इदं शरीरं (स्वशरीरं निर्दिश्य ) देवशरीरमिति जानीहि । तदिदं कथमधिकमत्याचारं सोढुं समर्थ भवेत् ? भगवन्तं विना का मानवी तनुरेतादृशमत्याचारं सोढुं शक्नुयात् ?”

दृश्यतां पुत्रि, मयि (अस्मिन्देहे) स्थितायां न कोऽपि मां याथार्थ्येन ज्ञातुं शक्ष्यति । परन्तु प्रयातायां मयि सर्वेऽपि मम स्वरूपं ज्ञास्यन्ति ।”

कदाचित् तया स्वस्वरूपविषये इङ्गितं कृतमासीत् । जयरामबाट्यां राधूजननी उन्मत्ता सुरबाला मातरं प्रति अनेकशः कटुवचनान्युक्तवती । श्रीमाता मानपूर्वकं सर्वमसहत । अनन्तरं यदा सा कटुवचनपरम्परा मर्यादातिक्रमं कृतवती तदा श्रीमाता गम्भीरस्वरेण प्रोवाच – “त्वं मां साधारणव्यक्तिरूपेण मा भावय । त्वया मां प्रति पितृमातृनामोल्लेखपूर्वकमतिकटुवचनान्युक्तानि । किन्तु नाहं तवापराधं गणयामि । तानि कटुवचनान्यपि केवलं साधारणशब्दमात्रं मन्ये । यद्यहं त्वामपराधिनीं विचारयामि तर्हि किमस्ति तव कश्चिद् रक्षोपायः ? अहमस्मिन्नेव क्षणे सर्व मायाजालं कर्तितुमपारयम् । ज्वलत्कर्पूर इव कस्मिन्नपि दिनेऽदृश्यतां गमिष्यामि । तदा त्वया मम वार्ताऽपि न लप्स्यते ।” श्रुत्वैतदुन्मत्ता सुरवालाऽकस्मात्स्वकण्ठस्वरं मन्दीकृतवती ।

❀ ❀ ❀

श्रीमातुः राधूः वयस्का युवती बभूव । तस्या विवाहो जातः, एकः सन्तानोऽपि । योगमायया नानाविधमायाविस्तारेण श्रीसारदादेव्या मानसमाच्छादितम् । विक्षिप्तायाः पुत्री राधूश्चापि अर्धविक्षिप्तेव बभूव । एतेन श्रीमातुर्मनसि महत्यशान्तिश्विन्ता च प्रासरत् । मायापाशे समधिकवद्धव जाता । अहिफेनमन्तरेण राधूकार्यं न चलति । सा उपविष्टा तिष्ठति, खादति, ददाति, सर्वमपि विदधाति । किन्तु यदि केनापि काचित् त्रुटि: क्रियते स्म तदानीं तस्या महान् मानोऽभिमानश्च समुदपद्यत । श्रीमातुरुपरि नित्यमसौ ‘गाली’ वृष्टिमकरोदत्याचारवर्षणं चापि । राधूः निजां मातरं ‘मुण्डी मा’ इत्यभ्यधात्, श्रीमातरं ‘मा’ शब्देनाह्वयत् । ‘मा’ शब्देनाह्वानमाकर्ण्यैव तस्या मन आन्दोलितमबोभूयत । एकदा राधूः अहिफेनस्य कृते हठमकरोत् । श्रीमाता विकृतिं गत्वा जगाद – “राधु, न पुनरेवम्, उत्तिष्ठ ! इदानीं न मया सोढुं शक्यते । तव हेतोर्मम सर्व धर्मकर्म व्यत्यगच्छत् ।” एभिर्मृदुरोषवाक्यै रुष्टा राधूः पुरस्थितपेटातो महद्वृन्ताकमेकमादाय वेगेन मातुः पृष्टमताडयत् । ‘गुम’ शब्दोऽभूत् । वेदनया श्रीमातुः पृष्ठे किणमभवत् । त्वरितमेव पृष्ठे तत्र शोथो जातः । तदानीं श्रीमाता श्रीठाकुरचित्राभिमुखं पश्यन्ती करौ बद्ध्वा प्रोवाच – “ठाकुर, एतस्या अपराधो न गणनीयः, इयमबोधा विद्यते ।”

तदैव स्वीयं पादरजो राधूशिरसि प्रक्षिपन्ती श्रीमाताऽगादीत् – “राघु, मां प्रति श्रीठाकुरः कदाप्येकं कठोरवाक्यमपि न प्राह – त्वं चेयत् कष्टं ददासि ? त्वया किं परिज्ञायते, – मम स्थानं कुत्रास्ते ? यूयं किं जानीथ यदहं कथं युष्मदर्थमत्र तिष्ठामि ?” राधूः तदानीमरोदीत् । मातुर्मनो द्रवीभूतमभूत् । यतो लीलाभिनयोऽयं प्राचलत् ।

अन्यत्रापि कदा कदाचिन्माता स्वस्वरूपसम्बन्धे आभासं प्रादात् । राधूनिमित्तं कथं तदीयं मनो मायाच्छन्नमभवत् – एतस्यापि तया सङ्केतो दत्तः । अस्या घटनाया अनन्तरमेकदा मात्राभिहितम् – “पश्यत, सर्वेऽभिदधते यदहं ‘राघू राधू’ कथयन्ती व्याकुलीभवामि । अस्या उपरि मम महती आसक्तिः । इयमासक्तिर्यदि मयि नाभविष्यत् तर्हि श्रीठाकुरस्य शरोरत्यागानन्तरं शरीरमप्येतन्नास्थास्यत् । निजकार्यार्थमेव तेन “राघू राधू” व्याहृत्येदं शरीरं संरक्षितम् । यस्मिन् दिने मनस्ततश्चलिष्यति, तस्मिन् दिने पुनरिदं शरीरं न स्थास्यति ।“

इयमेकैत्र माया नानाभावेषु, दयाकरुणाविगलितस्नेहादिविभिन्नरूपेषु च प्रकटिताऽभूत् । अस्या मायाया अवलम्बनमन्तरा तस्या जीवोद्धाररूप महत्कार्यमपूर्णमेवास्थास्यत् । अस्या मायायाः कारणादेव तु तां सहस्रशो नरा नार्यश्च कन्या-भगिनी-भ्रातृजाया-प्रतिवेशिनी-जननी-गुरुरूपेण, दया-करुणा-सेवा-सान्त्वना-स्वरूपेण, स्नेह-ममता-भुक्ति-मुक्ति-रूपतश्च प्राप्नुवन् । एतां मायासति विना सर्वेऽपि वञ्चिता अभविष्यन् ।

श्रीरामकृष्ण जीवनमेतावदुच्चस्वरे निबद्धमासीत् यत् तेन सार्धं स्वस्वर सम्मेलनं साधारणमानवानां कृते सर्वथाऽसम्भवमेव । त्यागे, पवित्रतायां, परमोच्चाध्यात्मिकानुभूतौ किम्बहुना, सर्वस्मिन्नेव विषयेऽसौ सर्वोच्चस्तरमासादयत्, यत् किल साधारणमानवगतेः सर्वथा परतरमासीत् । निरन्तरमसौ भगवत्येवावातिष्ठत – तस्मादीषदपि नासौ नीचैरवातरत् । तस्य जीवनं एवं तीव्रप्रकाशमयमिवासीद् यो हि साधारणमानवचक्षूंषि चमत्कृतान्यकार्षीत् । वयमेवं पश्यामो यत् श्रीरामकृष्ण एतादृशमेकं जीवनमादाय समागच्छत्-यत्र (श्रीमातुर्जीवने) निखिलैरेव मानवैः – यदवधि तेषां दृष्टिर्गच्छति स्म – पूर्णतैव दरीदृश्यते । संन्यासिनः, गृहिणः, बालकाः, बालिकाः, निम्नोच्चवर्णाः, पवित्रापवित्राः, अन्धखञ्जबधिराः, सबलदुर्बलाः सर्वे मनुष्या एव तत् (मातुर्जीवनं) परमात्मीयरूपेण निजान्तरङ्ग भूतमिव प्राप्नुवन् ।

श्रीठाकुरो विषयासक्तानां सान्निध्यमपि सोढुं नाशक्नोत् । तेषां छायाऽपि यदि तदुपरि पतेत्, तदापि तेन कष्टमनुभूयते स्म । देवालयेषु देवदेवीसान्निध्ये स सदैव स्वजीवनं व्यतीयाय । एकतो यदा श्रीसारदादेवी श्रीरामकृष्णरूपदेवतामाश्रित्यातिष्ठत्, निर्विकल्पे समाधौ न्यमज्जत् – भावावेशे कदाचिदहसत्, कदाप्यरोदीत्, तदा सा स्वकीयानां बन्धुबान्धवानां विक्षिप्ताविक्षिप्तानां प्रतिवेशवासिनां च प्रयत्नपूर्वकं सानन्दं सपर्य्यामकरोत् । सा सर्वविधजनानां सम्बन्धबन्धने विद्यमानाऽपि निर्विकारा सती तस्थौ । पुनर्माता भागीरथीव सर्वानेव पावनान् धन्यांश्चाकार्षीत् । कल्याणरूपिण्याः स्पर्शेन सर्वे ऐहलौकिकं पारलौकिकं च कल्याणं प्राप्ता अभूवन् । स्वामिना प्रेमानन्देन प्रोक्तम् – यूयमपश्यत राजा राजेश्वरी भूत्वाऽपीयं स्वेच्छयाऽकिञ्चनेव गृहं लिम्पति पात्राणि मार्जयति, सूर्पेण तण्डुलान् परिशोधयति, किमन्यत् – भक्तानामुच्छिष्टमपि स्वच्छं विदधाति । श्रीमाता जयरामबाट्यां चापि गृहस्थान् गृहधर्मं शिक्षितुमेवैतावत् कष्टमसहत । अस्यामसीमधैर्य्यम्, अपरिसीमदया, सर्वोपरि च – परिपूर्णमभिमानराहित्यमासीत् ।

श्रीठाकुर आसीदादर्शसंन्यासी । श्रीसारदादेव्या जीवने संन्यासस्य, सांसारिकतायाश्चापूर्व सम्मिश्रणमभवत् । श्रीठाकुरः पणानि रूप्यकाणि न स्प्रष्टुमशक्नोत् करौ भुग्नतां गतौ बभूवतुः । परं श्रीमाता रूप्यकाणि ‘मालक्ष्मी’ रित्यवधार्यं शिरसाऽस्पर्शयत् । अर्थ एव सर्वानर्थनिदानमिति तयाऽपि परिज्ञायते स्म । श्रीठाकुरेणेव तयाऽपि साधुरीत्याऽवधार्यते स्म । श्रीठाकुरस्य समीपे सर्वं मिथ्या, जगदपि मिथ्यैवासीत । स प्रोवाच – “अरे रामलाल, यद्यहं जगत् सत्यमज्ञास्यम्, तर्हि तदानीमेव कामारपुकुरं ग्रामं सुवर्णमण्डितमकरिष्यम् । मया ज्ञायते, सर्वमेतदसत्यम् – केवलमेकः परमात्मैव सत्यः ।“ किन्तु श्रीमातुर्निकटे सर्व सत्यमिवाभूत् – एतादृश एव तस्या व्यवहारः । उभयोर्जीवनमापाततः परस्परविरोधिवत् प्रतीतम्, किन्तु तदन्योन्यपरिपोषकमेव बभूव । एकं यदि वेदरूपं, तर्ह्यपरं तद्भाष्यस्वरूपमासीत् । द्वयमेवासीमगृहेऽन्योन्यसमीपे स्थितमिवाभूत् ।

‘अद्वैतज्ञानमञ्चले निवध्य’ संसारे केन भावेन स्थातुं शक्यते, एतस्यादर्शः श्री सारदादेव्या स्वचरित्रेण परिदर्शितः ।

❀ ❀ ❀

जयरामबाट्यां भक्तसम्मर्दो निरन्तरं परिववृधे । जयरामबाटी-महातीर्थमहत्त्वं यात्रिणां ‘जय मातः’ इति ध्वनिना समुदघुष्यत । महाशक्त्या दुर्वारेणैकेनाकर्षणेनाकृष्टाः संन्यासिनो गृहस्थाः, पुरुषाः, स्त्रियः, सर्वे दूरतः समाययुः । बहुदिवसेभ्यः पूर्वं सारदायाः किमपि सन्तानं नावलोक्य श्यामासुन्दरी सावसादं प्रायशोऽवोचत् – “एतादृशविक्षिप्तजामात्रा साकं सारदाया मया विवाहः कारितः, हन्त ! गार्हस्थ्यं न प्राचलत्, न कोऽपि मातृशब्दोच्चारणपरायणः सन्तानो जातः ।” एकदा श्रीठाकुरस्य वृत्तान्तोऽयं कर्णगोचरीबभूव । तदा तेन प्रोक्तम् – “जननि, एतदर्थं त्वया दुःखिन्या न भाव्यम्, भवत्पुत्र्या एतावन्ति अपत्यानि भविष्यन्ति त्वया चानन्तरं द्रक्ष्यते – यत् चतसृभ्यो दिग्भ्यो ‘मामा’ इति ध्वनिमाकर्णयन्तीयं समुद्विग्ना भविष्यति ।” श्रीरामकृष्णस्य भविष्यवाणीयमक्षरशः सत्यरूपेण परिणमन्ती बभूव । यदि साधारणजननीव सा केवलं कतिपयसन्तानानां माताऽभविष्यत् तर्हि कथं सा ‘विश्वजननी’ अभविष्यत् ? – सर्वे च किं तस्या अभयक्रोडे सुरक्षितं स्थानमध्यगमिष्यन् ? अत एव तदानीं येऽपि समायातास्ते सर्वेऽपि सारदादेवीं मातृस्वरूपं प्राप्तां भवतारिणीरूपमधिगतामपश्यन् । सा गुरुरूपेण निजान् सङ्ख्यातीतान् पङ्गुबालकान् दुस्तरभवाम्भोधेः पारं प्रापयत् । यस्या अभ्यन्तरे मातृत्वस्य देवीत्वस्य चापूर्व सम्मिश्रणमभवत् ।

जागतिकमातृत्वस्याभ्यन्तरे प्रतिदानस्य गुप्तांऽऽकाङ्क्षा तिष्ठति । एतदादानप्रदानाभ्यन्तरत एव एतस्य प्रेम्णोऽभिव्यक्ति:, परिपूर्णता च सम्पद्यते । परन्तु मातृतायामैश्यां केवलं दानं – दान एव तृप्तिः – ‘समर्थप्रेम्णः’ परिपूर्णो विकासस्तिष्ठति । श्रीसारदादेव्याः सीमहीनेश्वरीयमातृत्वस्यास्य प्रचण्डशक्तिः सन्तानानामाश्रितानां प्राणानामपूर्णतां क्षुद्रत्वं दैन्यं च प्लावयन्तीव प्रतीयते । ‘जननी अस्ति’ इति ज्ञानस्वरूपो महामन्त्र एव सन्तानानां प्राणेषु दिव्यां चेतनामेकां प्रायच्छत् उच्छूसितां परिपूर्णतां प्रादात्, अमोघशक्त्वा, शिशुसुलभनिर्भरतया च तान् संयुक्तानकरोत् ।

जयरामबाटी नाम स्थानमत्यन्तदुर्गमम्, तत्र गमनागमनं बहुकष्टसाध्यं व्ययसमयसापेक्षं चासीत् । प्रबलसमीहायां सत्यामपि बहवो मानवा जयरामबाट्यामागन्तुं नाशक्नुवन् । अत एव श्रीमाता अनेकासमसुविधानां सत्त्वेऽपि बहुवारं कलिकातामेवाध्युवास । १८९८ ईसवीयवर्षतः, १९०८ ईसवीय वर्ष यावत् यदा श्रीमाता कलिकातामागमत् तदा सा बागबाजारे कस्यचन भाटकगृहीतगृहे, अथवा कदा कदापि च कस्यचन भक्तस्य गेहे न्यवात्सीत् । श्रीमातुर्जीवत्राणरूपं महाकार्यं शनैः शनैर्व्यापकत्वमवाप । युगावतारमहिम्न्नः तदीयमहोदारभावस्य देशे प्रसारेण साकमेव श्रीमातुः समीपं भक्तसन्तानानां गमागमावपि ववृधाते । सम्प्रति न केवलं वङ्गीया एव, प्रत्युत भारतस्य सर्वेऽपि जनाः श्रीमातुश्चरणदर्शनार्थं कृपाप्राप्त्यर्थं च समाजग्मुः ।

श्रीमातुः कलिकातानिवासस्यैतामसुविधां दूरयितुं श्रीसारदानन्दस्याक्लान्त परिश्रमस्य चेष्टायाश्च परिणामस्वरूपं बागबाजारे ‘श्रीमातुः’ कृते भवनमेकं निर्मितं कृतम् (वर्तमान उद्बोधन कार्यालयः) । १९०९ ईसवीयमईमासस्य २३ तारिकायां (१३१६ वङ्गाब्दज्येष्ठस्य नवमदिवसे) श्रीमाता बागबाजारस्य नवीनभवने समाजगाम, तत्र च तया स्वहस्ताभ्यामेव श्रीठाकुरः प्रतिष्ठितः । अत्र भवने समागत्यासावात्मानमतिस्वच्छन्दमबुध्यत । स्वामिनः सारदानन्दस्यैकनिष्ठमातृसेवायज्ञः पूर्णतामिवागमत् । तस्य सेवेयमनागतानां कृते सुमहानुज्ज्वलादर्शोऽभवत् । सारदानन्दस्य सेवया परितुष्टा श्रीमाता तस्य नाम ‘प्रियकारी’ इति निर्दिदेश ।

बागबाजारस्थिते श्रीमातुर्निवासस्थाने सङ्ख्यातीता ध्यान-जप-भाव-समाधयो बभूवुः। कियन्तो मानवाः श्रीमातुर्मुक्तिमन्त्रमधिगत्य धन्या अभूवन् । श्रीमातुरन्तिमलीलायाः स्थानं-महातीर्थं-श्रीमातुर्भवनमेवासीत् । तदानीं बागबाजारस्य नवीने भवने श्रीमाता प्रायशो मासषट्कं स्थित्वा शीतकालस्य प्रारम्भे जयरामबाटीमगच्छत् ।

एकदा श्रीमाता आश्रितसन्तानानां समक्ष प्रावोचत् – “इदानीं काले श्रीठाकुरो निर्धनधनिकानां पण्डितमूर्खाणां समेषामप्युद्धाराय समागमत् । मलयानिलोऽतिप्रावहत् । यः कोऽपि ‘पाल’ प्रसारयति साग्रहं शरणागतो भवति च स एव धन्यतामागच्छति । एतर्हि वंशघासानपहाय अभ्यन्तरस्थितकिञ्चित्साराः सर्वेऽपि चन्दनायिता बभूवुः । युष्माकं का चिन्ता ?” श्रीठाकुरः स्वजीवोद्धाररूपकार्यभारं सम्प्रति श्रीमात्रे समर्पितवान् । अत एव हि सा निर्विचारं जीवोद्धारे परिव्यापृता । योऽपि ‘मा’ इति ब्रुवन् समाययौ, तस्योपरि कृपां विधाय सा श्रीठाकुरस्याभयचरणयोस्तं समर्पयाञ्चक्रे ।

एकदा कश्चिद्दीक्षितसन्तानः ध्यानजपाद्यनुष्ठाने आत्मनोऽसमर्थतां प्रकटय्य दुःखं प्राकाशयत् । निरर्गलस्नेहा श्रीमाता तस्मै अभयदानं प्रयच्छन्ती प्राह – “इदानीं यत्किमपि भवेत् तस्य तदर्थं न दुःखं कर्तव्यम्, अन्ते श्रीठाकुरेण समागन्तव्यमेव – युष्मान् नेतुम् । तेन स्वयमेवैतदुक्तम्, तस्य वचनं किं मृषा भवितुमर्हति ? सदैव युष्माभिरिदं स्मर्त्तव्यम् यदेकव्यक्तिः (श्रीठाकुरः) सदैव युष्माकं पृष्ठतो वर्तते ।“

❀ ❀ ❀


इतः पूर्वमपि यथास्थानं मया श्रीमातुः स्वरूपलीनताचेष्टाया उल्लेखः कृतः। बेलुड़निवाससमये निर्विकल्पसमाधिरभूत् – स च सङ्गिनीभिर्दृष्टः सूचितश्च । किन्त्वेतस्य समाधेः श्रीमातुर्जीवनेन सह कः सम्बन्ध इति श्रीमातुमुखादेव परिज्ञातमासीत् । श्रीमात्रा परवर्तिनि काले एकस्मै संन्यासिने शिष्याय वार्ताप्रसङ्गेनैवं प्रोक्तम् – “तस्मिन् काले (बेलुड़मठ-निवासकाले) रक्तज्योतिर्निलज्योतिः प्रभृतिषु ज्योतिष्षु मनो लीनमभवत् । द्विचतुर्दिनानि एवं स्थितौ सत्यां शरीरं स्थातुं नाशकत् ।”