श्रीसारदादेवीचरितम्

करुणासिन्धुः

जयरामबाट्यां भक्तैः सेवकैश्च साकं चतुरः पञ्च वा मासान् नवीने भवने स्थित्वा श्रीमाता पुनः कलिकातामगमत् ।

१९१६ ईसवीये मठे दुर्गोत्सवोऽभूत् । स्वामिनः प्रेमानन्दस्य विशेषप्रार्थनया श्रीमाता सप्तमीपूजादिवसे मठमागत्य पूजायाः कतिचिद्दिनानि उत्तरदिशि विद्यमाने उद्यानेऽतिष्ठत् । पूजाया आनन्दो महोत्सवानन्दे परिणतो बभूव । अनेके मानवा मातुः कृपामासाद्य धन्याः समभूवन् ।

कलिकातायां निवसन्त्या श्रीमात्रा प्रायः प्रतिदिनं दीक्षा दीयते स्म । द्विसन्ध्यमेव भक्तैर्दर्शनार्थमागम्यत । दिनपर्यन्तं भक्तिमतीनां गमागमौ प्राचलताम् । इतश्च शनैः शनैस्तदीयं स्वास्थ्यं विगुणायमानमभूत् । तस्या दिव्यं शरीरमिदानीमधिकं पापभारमुद्बोढुमसमर्थमिवाभूत् । एतर्हि जीवनेऽन्तिमे मातृभावस्य गुरुभावस्य च परिपूर्णः प्रकाशः श्रीमातुः सम्पूर्णां सत्तां पर्यंवेष्टयदिव ।

श्रीमातुरेका महती दुर्बलताऽऽसीत् । सा किल कस्यचिदपि नयनयोर्जलं द्रष्टुं नाशक्नोत् । कस्याप्यश्रूणि तन्मातृहृदयमेतावद्द्वेलयन्ति, येनासौ नितरामधीरतां प्रत्यपद्यत । अश्रुबिन्दुद्वयविनिमयस्वरूपमेव तस्याः पार्श्वतः निर्वाणमुक्तिरासाद्यत – “मातः” इति शब्दोच्चारणेनैव तदीये मनसि एतावदान्दोलनमसृज्यत, येनासौ लोकान्तरीयेव संववृते । तस्याः सन्निधौ पात्रापात्रविचारो नासीत् । देशकालसीमतोऽप्यसौ परस्तादभूत् । “मातः” शब्दमुच्चार्य तिष्ठन्तं जनमियं स्वीयेऽभयप्रदेऽङ्गे समाकर्षत् । एतदर्थं गोपालसुन्दर्या एकस्मिन् दिवसे मातुः समीपेऽभियोग इवानुष्ठितः ! श्रीमाता शान्तिपुरस्सरं सर्वमाकर्ण्य प्रोवाच – “किं करोमि गोपाल, ‘मातः’ शब्देन यदा कचिदाह्वयति तदाऽहं स्वात्मनो न प्रभवामि ।“

एका कुलीन महिलाऽऽसीत् । परकीयवञ्चनेन सा पथभ्रष्टाऽभवत् । अनन्तरं च स्वदोषे परिज्ञाते मर्माहता सत्यन्वतपत् । आश्रयं शान्तिचाधिगन्तुं श्रीमातुश्चरणशरणमुपाढौकत। मन्दिरप्रवेशे सङ्कोचमञ्चन्ती देहलीपार्श्वे स्थित्वा रोरुद्यमाना स्वीयामखिलामपि पापकथां व्याहरन्ती मातरमुवाच – “मातः, अस्ति मदर्थं कोऽप्युपायः ? अहं भवत्याः पवित्रे मन्दिरेऽत्र प्रवेष्टुं योग्या नास्मि ।“ श्रीमाता स्वयमेव पदद्वयमग्रे गत्वा महिलां तां कण्ठे समाश्लिष्य सस्नेहमुवाच – “एहि पुत्रि, गृहे समागच्छ । पापं किमस्ति त्वया ज्ञातम् । एतदर्थमनुतपसि । एहि, अहं तुभ्यं मन्त्रं दास्यामि – श्रीठाकुरस्य चरणसरसीरुहयोः सर्वं समर्पयस्व, कुतो भयम् ?” पतितोद्धारिण्या मात्रा पतितायाः कर्णे तदेव तारक ब्रह्मनामोपदिष्टम् । या धूलिः मृत्तिका च देहसंलमाऽऽसीत् तां परिष्कृत्य निजाङ्कमारोप्य सस्नेहादरेण तया सा आप्यायिता ।

❀ ❀ ❀

परवर्तिनि माघमासे श्रीमाता पुनः जयरामबाटीमागता, एकवर्षतोऽप्यधिकं तत्र तस्थौ ।

श्रीमातुर्मनसि कृपाया आपूर इव प्रावहत् । स उच्छलन् निर्विचारं सर्वमपि प्रवाहयामास । तदानीं श्रीमातुः प्रायो ज्वरो भवति स्म, शरीरमपि नितरां दुर्बलं बभूव । ‘शरत्’ महाराजेन यदैतत् परिज्ञातं तदानीं तेन किञ्चित्समयकृते भक्तसमागमदर्शनादीनां निरोधाय निर्देशः कृतः । तदानीमेव काले सुदूरतो बरिसालात् (अधुना पूर्वपाकिस्तानतः) एको भक्तो जयरामबाटीमागत्योपतस्थे । व्याकुलो भूत्वा श्रीमातुर्दर्शनाय, तत्कृपाधिगमाय च समायातोऽस्ति । किन्तु सेवकः कथमपि मातुर्दर्शनं नानुज्ञातवान् । भक्तस्य व्याकुलप्रार्थनाया अपि कोऽपि प्रभावः सेवके नापतत् । भक्तसेवकमध्ये वृत्तान्तमिममाश्रित्य वार्ता प्रचचाल । कोलाहलमाकर्ण्य अन्तर्यामिणी श्रीमाताऽस्तव्यस्तभावेन सहसा बहिर्द्वारमागता खिन्ना च भूत्वा सेवकमगादीत् – “त्वमस्यागमनं कथं निरुणत्सि ?” सेवक उत्तरमदात् – “शरत-महाराजो न्यषेधीत् । अस्वस्थशरीरतो दीक्षादानेन भवत्याः शरीरमधिकतरमस्वस्थं भविष्यति ?” श्रीमाता किञ्चिदुत्तेजिता प्रोवाच – “शरत् किं कथयिष्यति ? एतेषां कृत एव तु ममागमनम् । अहमेतस्मै दीक्षां दास्यामि ।“ अनन्तरमसौ समागतं भक्तं सम्बोध्य प्रोवाच – “आयाहि पुत्र, अद्य त्वं किञ्चिद् भुक्त्वा पीत्वा विश्रामं कुरु । श्वस्तुभ्यं दीक्षां दास्यामि ।” याचनात् प्रागेव प्राप्तिः । श्रीभगवतः समीपे किमपि याचनं न भवति । स तु, अस्त्यन्तर्यामी-हार्दिकत्वादसौ याचनमन्तरेणैव सर्वमभावं परिपूरयति ।

शीतज्वरेण श्रीमातुः शरीरं शनैः शनैरेतावदुर्बलतां गतं येन सर्वे चिन्तिता अभूवन् । विवशो भूत्वा स्वामी सारदानन्दः कलिकातात एकं डाक्टरमानयत्, यदा च मातुर्ज्वरोऽल्पतां गतस्तदानीं सां कलिकातामगमयत् । १९१८ ईसवीयमईमासस्य सप्ततारिकाया वृत्तान्तोऽयमास्ते ।

एकस्मिन् दिवसे बागबाजारमठे संन्यासिना सन्तानेनैकेन श्रीमाता प्रोक्ता – “भवती इयद्भ्यो जनेभ्यो मन्त्रं प्रयच्छति, किंतु तेषां चिन्तनं तु न कदापि करोति । गुरुः शिष्यस्य परिज्ञानं सर्वविधं परिरक्षति – सदैव पश्यति यत् शिष्यस्य साधने काऽपि समुन्नतिर्भवति न वा ? तोऽहं मन्ये भवत्येयद्भ्यो लोकेभ्यो मन्त्रदीक्षा न दातव्येति !” इदमाकर्ण्य श्रीमाता किञ्चिद् गम्भीरा भूत्वा प्रोवाच – “भारमस्याहं श्री ठाकुरस्योपरि समर्पितवती, प्रतिदिनं मयाऽसौ निवेद्यते, यद् भवता येऽपि यत्र सन्ति तेषां सर्वविधं निरीक्षणं परिरक्षणं च सर्वदैव कर्तव्यम् । इदमपि त्वयाऽवधेयं यदिमे मन्त्राः श्रीठाकुरेण प्रदत्ताः सन्ति एते सिद्धमन्त्रा मह्यं तेनैव दत्ता विद्यन्ते ।“

एवंविध एव श्रीमातुरसीमस्नेहस्य, अपारकरुणायाश्चैकोऽन्यदिन प्रसङ्गो वर्तते । पुत्री ‘योगेन्द्रा’ हसन्ती श्रीमातुरभिमुखं निरीक्ष्य जगाद – “श्रीमाताऽस्मासु स्निह्यति, परन्तु न तथा यथा श्रीठाकुरः स्नेहमकरोत् । बालकशिष्यान् प्रति तस्य मनसि कियती व्याकुलता, कियांश्व प्रेमभाव आसीदित्यहं किं ब्रवीमि ?” श्रीमाता स्मितमुखी प्रोवाच – “बाढम् । परन्तु तेन केचित् साधीयांसो बालकाः सङ्गृहीताः । स किलात्रामुत्रापि निरीक्षणं परीक्षणं च विधत्ते । परमिमामकिञ्चनभक्तपरम्परां पिपीलिकाश्रेणीमिव मत्पार्श्वेऽसौ प्रस्थापयामास ।” सत्यं ठाकुरसमीपस्थभक्ततुलनायामेते सर्वे पिपीलिकश्रेणीस्वरूपा एव ।

दीक्षादानप्रसङ्गोऽत्र श्रीमाताऽन्यदा भक्तमेकं प्राह – “मया यत् किञ्चिदनुष्ठेयमासीत्, (पापक्षयो मुक्तिश्च) तत् सर्वमेकस्मिन्नेव समये (दीक्षाकाले) शिष्याभ्यन्तरमाध्यात्मिकशक्तिसङ्क्रमणक्रमेण समनुष्ठितम् । यदि सद्यः शान्तिमधिगन्तुमिच्छसि साधनभजनमनुतिष्ठ । अन्यथा मृत्योरनन्तरमेव शान्तिर्लप्स्यते ।“

❀ ❀ ❀

गिरीशमुक्तिभारः श्रीठाकुरेण स्वशिरसि गृहीतः । अन्तिमरोगकाले काशीपुरोद्याने चैकदा कल्पतरुर्भूत्वासौ भावाविष्टः सन् स्पर्शनेन अनेकान् भक्तान् लब्धचैतन्यानकरोत् । गिरीशमुक्तिभारस्वीकारः श्रीठाकुरस्य जीवोद्धारकार्यस्यैका साधारणी घटना । श्रीठाकुरेण अन्येषामपि सङ्ख्यातीतभक्तानां भारो गृहीतः, नानाभावैश्च तेषां चैतन्यसम्पादनमनुष्ठितम् ।

स्वस्योपरि परकीयभारग्रहणभावस्य पूर्णो विकासः श्रीमातुर्जीवने परिदृश्यते । श्रीठाकुरस्य समीहया तया बहूनामाश्रितसन्तानानां भारो गृहीतः । अनेके तया प्रोक्ताः – “न युष्माभिः किमपि करणीयमास्ते, युष्माकं कृतेऽहमस्मि कर्त्री ।“ पुनश्चानेकेभ्यः श्रीमाता ‘त्रिसत्य’ रूपं शपथं कृत्वाभयदानमकरोत् । फलतः सर्वदैव तेषां मनो भयमुक्तमभूत् ।

शरणागतिः पूर्णस्यात्मनिवेदनस्य साधनमास्ते । यथा शिशुः सर्वदा सर्वथा च मातरमेव निर्बिभर्ति तथैव श्रीमात्रा पूर्णरूपेण शिशूनां सर्वविधोऽपि भारः स्वस्योपरि गृहीतः । शिशुः स्वीयां मातरं विहाय कमप्यन्यं न जानाति । एकमात्र मातुरेव तस्य चिन्ता भवति । तथैव भक्ता अपि पूर्णरूपेण भगवते सर्वं समर्प्य, सर्वथा तच्चरणयोरात्मानमर्पयन्तः प्रभोः समीहायां निर्भराः सन्तस्तिष्ठन्ति । भक्तानां सर्वा अपीच्छाश्चेष्टाश्च भगवति विलीयन्ते ।

एकदा श्रीमात्रा निजाश्रितसन्तानाः प्रोक्ताः – “सदैव युष्माभिः स्मरणीयमिदं यदेको (महापुरुषो) निरन्तरं वः पृष्ठगो वर्तते । मातुरङ्के शिशुर्निर्भयो भूत्वा तिष्ठति । अहं तु वर्त एव । पुनः कुतोभयमस्ति ?” – इयमेव श्रीमातुरभयवाणी । अन्ते च गिरीशस्य “अहम्भावः” श्रीरामकृष्णस्याभ्यन्तरे व्यलीयत । गिरीशसत्ता श्रीठाकुरे विलीनतामापद्यत । तस्य समस्तास्वपि चिन्तासु श्रीठाकुरो व्याप्नोत् । तस्य प्रत्येक श्वासप्रश्वासे श्रीठाकुरस्यैव स्मृतिर्बोभूयते स्म । स च (गिरीशः) व्याजहार – “य एष श्वासः प्रचलति । सोऽपि श्रीठाकुरस्येच्छयैव ।” गिरीशोऽन्तिमदिने निर्भररूपेण साधनामनुष्ठाय शरणागत्या सिद्धिं प्राप्नोत् ।

एकदा श्रीमाता कोयालपाडामागच्छत् । एक आश्रितः सन्तानो मनसो दारुणामशान्तिं निवेद्य कल्याणरूपिणीं प्रोवाच – “मातः, साधनं भजनं च न किमपि सम्पद्यते ।“ तया आश्वासनं ददत्या प्रोक्तम् – “न त्वया किमपि कर्तव्यम्, विधेयं मयैव विधास्यते ।” एतादृशस्याश्वासनस्य नासीदाशा भक्तस्य । सन्तानेन प्रश्ने कृते श्रीमात्रा पुनरपि तदेवाभयवचनं द्विरुक्तम् – “न, त्वया किं करिष्यते ? यत् किमपि कर्तव्यमहमेव करिष्यामि ।” अपरस्य कस्यचन सन्तानस्य कष्टमाकर्ण्य श्रीमाता अभयदानं ददती प्रोवाच – “यद्यहं श्रीठाकुरस्य समीपं यास्यामि तदा निश्चयमवधारयत, यद् यूयमपि नूनं यास्यथ ।“ तया समस्ताश्रितसन्तानानां भारः स्वस्योपरि संस्थापितः । येनापि श्रीरामकृष्णचरणौ शरणीकृतौ, तेन श्रीमातुरभयप्रदस्याङ्कस्याश्रयो नूनमेवाधिगतः ।

❀ ❀ ❀

१९१८ ईसवीये बागबाजारस्थितभवने महता समारोहेण श्रीमातुर्जन्मोत्सवः सम्मानितः । अतीतसङ्ख्यैर्भक्तैः श्रीमातुर्दर्शनं स्पर्शनं च समनुष्ठितम् । अनेके च तदीयचरणसमर्चनं कृत्वा तस्या आशीर्वचनं च सम्प्राप्य स्वीयमात्मानं धन्यतां नीतवन्तः । सर्वेषां पुष्पाञ्जलिसमर्पणानन्तरं श्रीमात्रैकः सेवकः प्रोक्त: – “पुष्पपात्रेऽत्र यत् कुसुमचन्दनाद्यवशिष्यते, तत्सर्वं हस्तयोर्गृहीत्वा ये बालकाः शिशवोऽत्र न समागताः, तेषां नामभिः पुष्पाञ्जलिं समर्पयत ।” सेवकाः श्रीमातुश्चरणयोः पुष्पाञ्जलिमर्पयितुं प्रावर्तन्त, श्रीमात्रा च राखाल-तारक-खोका-प्रभृतीनां नामानि स्मारितानि । अवशिष्टा ये बालका यत्र यत्र आसन् तेषां सर्वेषां कल्याणकामनया तया स्वचरणयोः पुष्पाञ्जलयो दापिताः । चरणयोर्जवाकुसुमानि, बिल्वपत्राणि चार्पितान्यभूवन् । श्रीमाता नेत्रे निमील्य उपविष्टाऽऽसीत्, सर्वेषां बालकानां कृते आशीर्वादान् प्रायच्छत् प्रार्थनां चाकार्षीत । श्रीमातुः सैव दक्षिणामूर्तिश्चिराय भक्तहृदयानां ध्यानवस्तु बभूव ।

श्रीमातुर्जन्मतिथौ बहवो भक्ता बहुविधपूजासामग्रीमानीतवन्त आसन् । अनेकैर्भक्तैस्तञ्चरणयो रूप्यकाणि समर्प्य प्रणामः कृतः । नूतनवस्त्राणां फलमिष्टान्नादीनां बहूनां वस्तूनां राशिरेकत्राभवत् । जीर्णशीर्णवस्त्रं धारयन्न को भक्तः समागत्य हरीतकीमेकामर्पयित्वा श्रीमातुश्वरणौ ववन्दे । श्रीमात्रा तस्मै पुष्पकला आशीर्वादाः प्रदत्ताः, भक्तानां गमनानन्तरं तया सेवक एकः प्रोक्तः – ‘हरीतकीमेतामुत्थाप्य रक्ष । कर्तयित्वा किञ्चिन्मह्यमपि देयम् । अहो ! कियत्या भक्त्या समर्पितेयम् ।‘ सा भक्तेरेव रसास्वादनमकरोत् ।

जयरामबाट्यां श्रीमात्रा जगद्धात्रीपूजनमायोजितम् । सन्ध्यायाः किञ्चित्कालात्पूर्वमेव पूजा समाप्ताऽभवत् । बहवो जनाः श्रीमातुश्चरणयोर्विकसितकमलपुष्पाणि समर्प्य भक्त्यञ्जलिमर्पयां चक्रुः । श्रीमाता भावस्था भूत्वा सर्वेषां समर्चामग्रहीत् । अनेकेषां हनुस्थानं स्पृष्ट्वा स्नेहचुम्बनमकरोत् । बहूनां शिरसि हस्तं भ्रामयित्वा आशिषः प्रायच्छत् । ततश्च श्रीमाता सेवकमेकं प्राह – “कानिचिदन्यानि पुष्पाणि समानय । राखाल-तारक-शरत्-खोका‌-योगेन्द्रगोपालादीनां नामभिः पुष्पाणि समर्पय । मम ज्ञाताज्ञातानां सर्वेषां बालकानां कृते पुष्पाणि समर्पय ।“ सेवकैः पुष्पाञ्जलयः समर्पिता अभूवन् । पुण्यमयी श्रीमाता च करौ बद्ध्वा श्रीदेव्या मूर्तेरभिमुखं निरीक्षमाणा समुपविष्टा । एतेनैव स्थिरभावेनोपविष्टायास्तस्याश्चिरकालो व्यत्यगच्छत् । अनन्तरं च तया प्रोक्तम् – सर्वेषामैहलौकिकं पारलौकिकं च मङ्गलं भूयात् ।”

श्रीमातुर्जन्मतिथिसम्बन्धिन्याः पूजायाः कतिचिद्दिनानन्तरं (२७ जनवरी १९१६) सा राधूमादाय स्वग्रामाभिमुखं प्रतस्थे । राधूः अस्वस्था आसीत् । पत्तनस्य कोलाहलस्तया न सोढुं शक्यते स्म । अतः श्रीमाता राधूमादाय सेवकैः सह षण्मासान् निर्जने विशुद्ध च ग्रामीणवातावरणे कोयालपाडास्थे जगदम्बाश्रमेऽतिष्ठत् ।

श्रीमातुरस्मिन् विजननिवाससमयेऽपि दूरदूरादनेके भक्तास्तस्याः कृपाधिगतये समायान्ति स्म । तया न कश्चिदपि विमुखीक्रियते स्म । तस्या अयाचितकृपावितरणमवलोक्य जनानां मनस्येतदेव समुदियाय यदियं नरलीलामुपसंहर्तुं समीहते । बहुवारमसौ गम्भीरभावस्था बभूव । एकेन करेण राधूसेवापरिचर्यायोगमायामहाजालम्, द्वितीयकरेण निरन्तरं कृपावितरणं च प्राचलत् । कदाचिदस्माभिर्दृश्यते यदियमस्तव्यस्तभावेनान्यमनस्का सती असीमाभिमुखं निरीक्षमाणा समुपविष्टा वर्तते ।

एकदा सन्ध्यानन्तरं श्रीमात्रे भक्ताप्रेषितदनिकपत्राणि पठित्वा श्राव्यन्ते स्म । नयने मीलयित्वाऽसौ स्थिरभावतः पत्राण्यशृणोत् । मध्ये मध्ये प्रार्थनामप्यकरोत् – “ठाकुर, एतेषां लौकिकं पारलौकिकं च कल्याणं क्रियताम् ।” श्रीमातुः कण्ठस्वरे कियती व्याकुलताऽऽसीत् ! पत्रपठनसमाप्तेरनन्तरं तया प्रोक्तम् – “केवलं संसारिक-दुःख-कष्ट-शोक-सन्तापाभावादीनामेव चर्चां कुर्वन्ति, एतेभ्यः परित्राणं वाञ्छन्ति, भगवन्तं न कोऽपि समीहते । श्रीठाकुरं प्रार्थयामि – ‘ठाकुर, एतेषामिह लोके परलोके च भवानेव रक्षां करोतु ।‘ माता भूत्वा अहं किं कथयामि ? कियन्तो जनाः साधुरीत्या तत्समीहां कुर्वन्ति ? तादृशी व्याकुलता कुत्र ? इयन्तो भक्तिबहुला आग्रहमहिलाश्च सन्ति, परमेकं सामान्यभोगवस्तु प्राप्यैव ते सन्तुष्टा जायन्ते । व्याहरन्ति – ‘अहो ! कियती दयास्त्येतदीया ।“

❀ ❀ ❀