श्रीसारदादेवीचरितम्

अन्तिमा लीला

कोयालपाडायां राधूः एकं तनूजं प्रासोष्ट (२४ वैशाखे १३२६) । श्रीमात्रा तदीयं नाम रक्षितं – ‘वनविहारी ।‘ प्रेम्णा सा ‘बनू’ नाम्ना समाह्वयत् । सार्धद्वयमासावस्थामधिगते शिशौ श्रीमाता राधूमपरांश्च गृहीत्वा जयरामबाटीमागमत् (४ श्रावणे) । राधूशरीरं तदानीमत्यन्तं दुर्बलमासीत् – एकप्रकारेण शय्याशयनदशाऽभूत् । राध्वाः सर्वविध सेवाव्यतिरिक्तं श्रीमातुरेकमपरं महत्त्वपूर्णं कार्यमभवत् – राधूशिशोर्लालनपालनम् । प्राय ऊनविंशतिवर्षेभ्यः पूर्वं यथाऽसौ राधूमुत्थाप्य निजमङ्कमारोपयत्, तथैवेदानीं ‘बनू’ विषयेऽपि कर्तव्यमापतत् । इयमासीद् योगमायाया लीला । श्रीमातुः शरीरं शनैः शनैः क्षीणतामापद्यत । इदानीमधिकसहनमसह्यतामगमत् । तथापि नवनवैर्भावैर्योगमायामात्मीयामकरोत् । विक्षिप्ता, (राधूमाता) राधूः, ‘बनू’श्चेति त्रयो मिलित्वा श्रीमातरं मायाजाले ग्रस्तामिवाकुर्वन् ।

❀ ❀ ❀

जयरामबाट्यामागमनानन्तरमेव मध्ये मध्ये श्रीमातुः शीतज्वर आयाति स्म । ज्वरे वृद्धिं गते साऽशेत, पुनरुत्थाय सांसारिके कार्यजाते भक्तपरिजन सेवायां च संलग्ना बभूव । दीक्षार्थिनः समागमन् – तेभ्यो दीक्षादानमपि न निरुद्धमकरोत् । श्रीमातुः स्वास्थ्यदृष्ट्या जयरामबाट्यां तस्या निवासो न हितकरो भविष्यति । परन्तु राधूश्चापि तम्मिन काले नितरां दुर्बलाऽऽसीत् । स्वीयेन पौरुषेण स्थातुमपि नाशक्नोत् । राधूनिमित्तमेव श्रीमात्रा जयरामबाट्यां निवासः कृतोऽभवत् ।

१३२६ वङ्गाब्दे स्वजन्मतिथावेव (२७ आग्रहायणे) मध्याह्नोत्तरसमये श्रीमातुरल्पो ज्वरोऽभूत् । कानिचन दिनानि एवं प्रकारेण ज्वरोऽतिष्ठत् । अन्तरेऽन्तरेऽसौ किञ्चिन्निर्ज्वराऽभवत् । किन्तु पुनर्ज्वरः प्रत्यावृते । एवमेवास्वस्थायास्तस्याः शनैः शनैः शरीरमत्यन्तं क्षीणमभूत् । किन्तु अस्मिन्नस्वस्थतासमयेऽपि तया दीक्षादानं न निरुद्धम्, यतो भक्ता महतीमाशामादाय दूरदूरतरात् समागता अभूवन् । बहुवारमियं निजामस्वस्थतां गुप्तामकार्षीत् । यतः सम्भवतो भक्तानां दर्शनादीनि निरुद्धानि स्युः, तदर्थ सेवकाश्च चिन्ताग्रस्ता भवेयुः ।

श्रीमातुः सर्वदा रुग्णतासंवादमाकर्ण्य स्वामिना सारदानन्देन चिकित्सार्थं तस्याः कलिकातागमनव्यवस्थां चक्रे । १३२६ वङ्गाब्दफाल्गुनस्य पञ्चदशे दिवसे श्रीमाता कलिकातामाययौ । तस्याः कङ्कालमात्रावशिष्टं देहं दृष्ट्व भक्तिमत्यः प्रोचुः – “युष्माभिः कीदृशी माता समानीता ? एतानि तु युष्माभिः केवलं चर्मास्थीनि समानीयोपस्थापितानि । अस्माकमनुमानमप्येतन्नासीत् यन्मातुः शरीरमेतादृशमस्वस्थं सम्भवितुं शक्ष्यति ।“ स्वामिना सारदानन्देन नितरां तत्परतया श्रीमातुश्चिकित्सायाः सुप्रबन्धो विहितः । होमियोपैथिकी आयुर्वेदिकी एलोपैथिकी च चिकित्सा क्रमेण एकस्या अनन्तरमेका प्रचचाल । कलिकातायाः ख्यातनाम्नां चिकित्सकानां चिकित्सा प्राचलत् । आन्तरिकसपर्यायां पथ्यादिषु च काचित् त्रुटिरासीदेव न हि । प्रथमतः श्रीमातुः स्वास्थ्ये काञ्चिदुन्नतिमालोक्य सर्वे आशासमन्विता अभूवन् । प्रागिव साम्प्रतमपि सा शनैः शनैः स्वास्थ्यं प्राप्स्यते – इत्याशया साहसमनुष्ठाय सर्वे सेवकाः सेविकाश्च सेवायां संलग्ना बभूवुः ।

श्रीमातुः शरीरं नितरामस्वस्थमिति निर्दिश्य दर्शनादौ भक्ता निरुद्धा बभूवुः । तदानीमपि यदा श्रीमाता आत्मानं किञ्चित् स्वस्थमन्वभवत्, बहुभ्यो जनेभ्यो विशेषरूपेणाशिषं प्रायच्छत् । एकस्मै द्वाभ्यां वा दीक्षां चापि प्रादात् । तस्याः शरीरं शनैः शनैरतिदुर्बलतां क्षीणतां चागच्छदासीदिति निभाल्य साधवो भक्तसन्तानाश्च नीरवमश्रूण्यमुञ्चन् ।

चैत्रमासस्यारम्भे श्रीमातुः शरीरमतिनिर्बलमवलोक्य सन्यासिना सन्तानेनैकेन नितरां दुःखं प्रकाशितम् । श्रुत्वेदं श्रीमाता प्रोवाच – “आम् पुत्र, अति दुर्बलं त्विदं जातम् । चिन्तयामि – शरीरेणेतेन यत् श्रीठाकुरण कारयितव्यमासीत्, तत् पूर्णतां गतम् । इदानीं मनः सर्वदा तमेव समाहत । अन्यत् किञ्चिदपि मह्यं न रोचत । एतदव पश्य, राधूं प्रति मम इयता प्रीतिरासीत् । इदानीं तस्याः सम्मुखमागमनमपि मे न रोचत । सा कथं सम्मुखमागत्य मदीय मना नीचेराक्रष्टुं चेष्टते । श्रीठाकुरण स्वीयं कार्यमनुष्ठातुं शरीरमतद् दत्त्वा एतावद्दिनानि मनो नीचे राक्षतम् । अन्यथा तस्य गमनानन्तरं ममावस्थानमत्र किं सम्भवम् ?”

श्रीठाकुरस्याह्वानमिदानीं श्रीमातुः कर्णगोचरतां गतमिवाभूत् । सापि महाप्रयाणाय प्रस्तुताऽभवत् । एकदा प्रायशः सार्धैकवादन द्विवादने वा तदीयो ज्वरा वर्धितुमारेभे । सेवका नित्यमिव तस्या आस्तरणसमीपे समुपविश्य वातमकुर्वन् । श्रीमाता सेवकस्य वक्षसि पृष्ठे च हस्तं भ्रामयन्ती तस्य शुष्क मुखं निरीक्षमाणा सकरुणं प्रोवाच – “मया ज्ञायते यत् एतद्दहे गते युष्माभिमहत्कष्टमनुभूयते ।” सेवकस्य नेत्रे सजलं अभूताम् । आत्मान स्थिरीकृत्य निम्नाननेन तेन प्रोक्तम् – “मातः, किमिदं सर्व किमुच्यते भवत्या ? औषधेन यद्यनुरूपं फलं नोत्पद्यते तदा भवती श्रीठाकुरस्य सेवायाम् स्वशरीरस्य कृते किञ्चिन् निवेदयतु, तदा सर्वं निरुपद्रवं भवेत् । श्रीमात्रा मन्दं मन्दं हसन्त्या प्रोक्तम् – “कोयालपाडायाम् एतावान् ज्वर आयाति स्म यदहमबोधा सती विष्टरेऽपतम् । किन्तु बोघे जाते शरीरस्यैतस्य कृते यदैवाहं तमस्मरं तदैव तस्य दर्शनमभवत् । युष्माकमुपरि अवधानं दत्त्वा मध्ये मध्ये शरीरस्यैतस्य कृते श्रीठाकुराय मया किं न निवेदितम् ? किन्तु शरीरार्थं यदाहं तं संस्मरामि तदा कथञ्चिदपि तस्य दर्शनं न लभ्यते । बुध्यते मया यदेतत् शरीरमधिकं रक्षितुं तस्य समीहा नास्ति । शरत् स्थास्यति ।“

क्रमशः सर्वविधामपि चिकित्सां व्यर्थीकुर्वन् रोगो दिनानुदिनं ववृधे। दिने वारत्रयं वारचतुष्टयं च ज्वरोऽभवत् । ज्वरस्य पित्तप्राधान्यात् शरीरेऽसहनीया ज्वालाऽऽसीत् । सा प्रोवाच – “जलपर्णीसमाच्छन्नपुष्करशीतलजले गत्वा मज्जयेयम् ।” सेविका हिमखण्डं स्वहस्तोपरि संस्थाप्य पुनस्तमेव हस्तं तस्याः शरीरे भ्रामयचक्रुः । एतादृशकष्टप्रदरोगस्याक्रमणेऽपि सर्वैरेव तदीयस्नेहस्पर्शः प्राप्यते स्म । रोगस्य विवरणं परिज्ञातुं सेवकाः श्रीमातुरभ्यर्णमुपतस्थुः । प्रातरेव वैद्यपार्श्वे गन्तव्यं भविष्यति । श्रीमात्रा स्नेहसम्भृतस्वरेण प्रोक्तम् – “भुक्त्वा गन्तव्यम् । विलम्बो भविष्यति ।” डाक्टराः, वैद्याश्चागच्छन् । सा स्वयमेव सर्वेभ्यः फलं मिष्टान्नं च प्रादापयत् । आरामबागस्य भक्ताः समागताः सन्ति । अतिक्षीणस्वरेण, विरम्य विरम्य, शनैः शनैः श्रीमात्रा ते पृष्टाः – “स्वस्तिमन्तः स्थ पुत्राः ? किमपि भोक्तुं न शक्यते । अतिदुर्बलतां गतास्मि । वरदाप्रसन्नो (मातुर्भ्राता) ममार ।“ ग्रामस्य वृत्तान्तमपृच्छत् – “वृष्टिरभवत् किम् ? अत्र प्रसादं भोक्ष्यथ ?” कियद्दिनेभ्यः पूर्वम् आरामबागस्य भक्तैः रमणीनामन्या एकस्याः स्त्रियो हस्तेन कानिचित् आमतालफलानि प्रेषितानि । तत्सम्बन्धे श्रीमात्रा प्रोक्तम् – “रमणी कदा समायाता, किमपि न परिज्ञातम् – ज्वरे बोधो नासीत् । एतत् तस्यै वक्तव्यम्, येन सा दुःखिनी न भवेत् ।”

एतादृश्यां रुग्णावस्थायामपि कस्यापि सेवाग्रहणे श्रीमाता कुण्ठिताऽभूयत । स्वीयसेवायास्तया कस्मैचिदवसर एव न प्रदीयते स्म । श्रीमातुर्मध्याह्नपथ्यं सम्पन्नमासीत् । तां शाययितुमेकः सेवको वातमकरोत् । चतुःपञ्चक्षणानन्तरमेव श्रीमात्रा प्रोक्तम् – “इदानीमधिकं न, तव हस्तयोः कष्टं भविष्यति ।"

सेवकः प्रोवाच – “नहि मातः, एतत्तु साधारणं व्यजनम्, मम हस्ते किञ्चिदपि कष्टं न भवति ।” नेत्रे निमील्य मात्रा पुनः प्रोक्तम् – “अधुना पुत्र, तव करयोः कष्टमापतिष्यति । त्यज, स्वयमहं शये ।“ कियत्कालं शान्ता भूत्वा पुनरसौ प्रोवाच – “पुत्र, त्वदीयकरयोः कष्टं जायते, इदमवधार्य मम निद्रा नायाति । त्वया व्यजनं निरुध्यतां, तदाहं निश्चिन्ता शयिष्ये ।” विवशतया व्यजनमवरुद्धमक्रियत ।

कस्या अपि चिकित्सायाः किमपि फलं नावलोक्य सर्वे म्रियमाणा इवाभवन् । आहारे श्रीमातुर्विशेषाऽरुचिरुदपद्यत । शरीरं नितरां क्षीणतामगच्छत् । गृहस्य काष्ठचतुष्कीमपसार्य भूमावेव तस्या अस्तरणमास्तीर्णम् अक्रियत । इतश्च श्रीमाता शनैः शनैः सातिशयमन्तर्मुखत्वं प्रपन्नाऽभूत् । प्रायशश्चक्षुषी निमील्य शयाना तस्थौ । उपायान्तरमनवलोक्य स्वामी सारदानन्दो दैवप्रतिकारस्य चेष्टामकरोत् । अनेक दिनानि बहुविधानां शान्तिस्वस्त्ययनादीनामनुष्ठानमभूत् । किन्तु श्रीमातुः स्वास्थ्ये न काचिदुन्नतिरदृश्यत ।

शनैः शनै रक्तहीनतया हस्तपादेषु शोथो व्यलोक्यत । दुर्बलताधिक्यात् उत्थातुमपि शक्तिर्नासीत् । विष्टर एव शौचादीनि कारितान्यभूवन् । प्रतिदिनं द्विवारं त्रिवारं च ज्वरोऽभवत् । हस्तपादेषु ज्वलनमसह्यमबोभूयत । प्रायशो माता प्रावोचत् – “गङ्गातटं मां नयत । गङ्गायाः समीप एवाहं शीतला भविष्यामि ।” किन्तु डाक्टरैरस्यामवस्थायां तस्याः शरीरस्य दोलनहिण्डनं निवारितम् ।

नरलीलासंवरणस्य केभ्यश्चित् दिनेभ्यः पूर्वं श्रीमात्रा सेवक एकः प्रोक्तः – “त्वं राघूप्रभृतीन् सर्वान् जयरामबाटीं प्रापय ।“ तदीयमादेशमिममाकर्ण्य सर्वे नितरां चिन्तामापेदिरे । शरत्-महाराजः श्रुत्वेदं श्रीमातरं नानाभावैः प्रत्यबोधयत् – “भवत्याः शरीरमिदमस्वस्थमवलोक्य ताः प्रस्थाने कष्टमनुभविष्यन्ति । भवत्यां किञ्चित्स्वस्थायां सत्याभिमाः सर्वा गमिष्यन्ति ।“ श्रीमाता किञ्चिन्मौनमवलम्ब्य पुनर्जगाद – “तासां प्रेषणमेव समीचीनमासात् । अस्तु, ता मम समीपे नागच्छन्तु । इदानीं तु तासां छायामपि द्रष्टुमाहा नास्ति ।“ श्रीमातुर्भवने सर्वत्र विषादस्य घनान्धकार इव परिव्याप्तोऽबोभूयत ।

एकदा मध्याह्ने राधूः पार्श्वस्थिते प्रकोष्ठे शयानाऽभवत् । तस्याः पुत्रः श्रीमातुः प्रियो ‘बनू’ जानुबलेन रिङ्गमाणः श्रीमातुविष्टरसमीपमागत्य तस्या वक्षसि समारोढुमचेष्टत । इदमवलोक्य तं च लक्ष्यीकृत्य श्रीमाता प्रोवाच – “युष्माकं माया मया पूर्णरूपेण कर्तिता । गच्छ गच्छ, नेदानीमधिकम् ।“ पार्श्वे समुपविष्टं सेवकमगादीत् ‌– “एनमुत्थाप्य बहिः स्थापय । सर्वमेतन्न रोचते मह्यम् ।“ सेवको बालकं नीत्वा तस्य मातामहीपार्श्वे पर्यत्यजत् ।

❀ ❀ ❀

श्रीमात्रा न कदापि काचिदिच्छा प्रकाशिता । साऽपि तु यन्त्रवत् श्रीठाकुरस्य समीहानुसारं प्रचलति स्म । श्रीठाकुरस्यैवेच्छया नरदेहे निवासः नरलीलानुष्ठानं च तस्या अभवत् । अन्तसमयेऽपि “यदा श्रीठाकुरो नेष्यति तदैवाहं गमिष्यामि” – इति भावे निमग्ना बभूव । एकदा श्रीमात्रा प्रोक्तम् – “स्वकीय कार्यार्थमेव ‘राघू राधू’ ब्रुवन्तं तदाश्रितं मदीयं देहमसावरक्षीत् । यदा तत्तो मनः पराङ्मुखं भविष्यति तदाऽयं देहो न स्थास्यति ।“ अस्मिन् समये प्रायशः श्रीमातुः सा वार्ता जनानां स्मृतिपथमगच्छत् ।

श्रीमातुः स्वधामप्रस्थाने षट् सप्त वा दिनान्यशिष्यन्त । शुष्कमाकारं विधाय ‘राधूः’ समागत्य तत्समीपे तस्थौ । श्रीमाता नितान्तोपेक्षास्वरेण प्रोवाच – “पश्य, त्वं जयरामबाटीं प्रयाहि । इदानीमधिकमत्र न तिष्ठ ।” निकटवर्तिनीं सेविकां लक्ष्यीकृत्य जगाद – “शरदं ब्रूहि, स सर्वानेतान् जयरामबाटीं प्रापयेत् ।” सेविकामुखान्मातुरिममादेशमाकर्ण्य शरत्-महाराजः, अन्ये च सर्वे सातिशयं विचेलुः । पुत्री योगेन्द्रा श्रीमातुः पार्श्वमागत्य करुणस्वरेण जिज्ञासामकरोत् – “किं, मातः, तान् सर्वान् प्रहातुं भवती कथमादिशति ?” श्रीमात्रा सुस्पष्टस्वरेणोत्तरितम् – “योगेन्द्र इतः परं ते सर्वे तत्रैव स्थास्यन्ति । मनो मया पृथक् कृतम् । इदानीं तैः सह न किमपि मम प्रयोजनम् ।“ भक्तिमत्यैकया कातरस्वरेण प्रोक्तम् – “एतादृशीं वार्तां न कथय, मातः ! भवत्या मनसि पृथक् कृते कथं वयं स्थास्यामः ?” श्रीमाता दृढतयोत्तरं ददे – “योगेन्द्रे, माया विच्छेदिता । इदानीमधिकमस्मिन् चङ्क्रमणे स्थातुं नैव समीहे ।“ भक्तिमत्या तया किञ्चिदधिकं नोच्चार्य शरत्-महाराजाय सर्वं तन्निवेदितम् । श्रुत्वा हताशो भवन् स उक्तवान् – ‘तदानीं माताधिकं स्थापयितुं न शक्यते । यदा राधूतोऽपि तदीयं मनः पृथग्भूतं, तदाऽधिका आशा नास्ति ।“

शरत्-महाराजस्यादेशेन सेवकाः सेविकाश्च राधूपरि श्रीमातुर्मनः समानेतुं बहुशश्चेष्टाः समारभन्त, परन्तु चेष्टासहस्त्रैरपि किमपि फलं नाभूत् । एकदा श्रीमात्रा तीब्रस्वरेण व्याहृतमेव – “पृथग्भूतं मनो नेदानीं पुनर्नीचैरागमिष्यति – इदं समीचीनरीत्यावधारयत ।“

रोगवृद्धि फलस्वरूपं श्रीमाता रुग्णशय्याया उत्थातुमसमर्थाऽऽसीत् । देहत्यागाद्दिनपञ्चकपूर्वं भक्तान्नपूर्णाजननी श्रीमातुदर्शनार्थमागता । किन्त्वन्तः प्रवेशनिषेधं निशम्य देवालयप्रवेशद्वार एव स्थिताऽविद्यत । अकस्मात् श्रीमाता पार्श्वपरिवर्तनं कुर्वन्ती स्त्रीभक्तामवलोक्य समीपमागन्तुमिङ्गितमकरोत् । सापि समीपमागत्य प्रणामपूर्वकं क्रन्दन्ती अब्रवीत् – “मातः ! मम जीवनस्य कीदृशः परिणामः भवेत् ?” करुणाविगलितचित्ता श्रीमाता क्षीणकण्ठेनाभयदानपूर्वकं शनैरुवाच – “भयं किम् ? त्वं श्रीठाकुरं दृष्टवती । अतस्तव न किमपि भयकारणम् ।“ क्षणानन्तरं पुनर्मृदुस्वरेणाब्रवीत् – “तथापि किञ्चिन्मया वक्तव्यं विद्यते, यदि शान्तिमभिलषसि तर्हि पुत्रि, न कस्यापि दोषस्त्वया चिन्तनीयः । केवलं स्वदोष एव द्रष्टव्यः । अखिलं जगत् स्वीयमिवावधारयितुं शिक्षस्व । न कोऽपि तव परः, वत्से तवैवेदं जगत् ।” येषां कृते विगलितचित्तीभूयाभयरूपिणी श्रीमाता देहस्वीकारपूर्वकमशेषयन्त्रणाभोगं स्वयं कृतवती तान् आर्तान् प्रत्ययमेव श्रीमातुरन्तिमोपदेशः ।

देहत्यागस्य दिनत्रयात्पूर्वं शरत्-महाराजं स्वपार्श्वमाहूय श्रीमाता जगाद – “शरत् ! साम्प्रतमहं गच्छामि । योगेन्द्रगोपालप्रभृतयः स्थास्यन्ति, एतेषां निरीक्षणमामरणं कर्तव्यम् ।”

अन्तिमं दिवसद्वयं सा गम्भीरे समाधाविवातिष्ठत्, प्रशान्ता स्थिरा च । प्रशान्तिमिमां भग्नां कर्तुं कस्याऽपि साहसं समीहा वा न बभूव ।

श्रीठाकुरेण साकं चतुस्त्रिंशद्वर्षाणां लौकिको वियोगोऽवसानं गतः । १३२७ वङ्गाब्दश्रावणस्य चतुर्थे दिवसे रात्रौ सार्धैकवादने शिवयोगे सप्तमासाधिकषट्षष्टिवर्षावस्थायां श्रीमाता चिरकालाय परमशिवस्वरूपे श्रीरामकृष्णे सायुज्यमवाप ।

❀ ❀ ❀