श्रीरामकृष्णस्तोत्राणि

श्रीरामकृष्णप्रशस्तिः

अभूत् त्रेतायुगे रामः कृष्णो यो द्वापरे तथा ।
        रामकृष्णतया काले कलावत्र बभूव ह ॥१॥

युगप्रवर्तकत्वेन युगाचार्याख्यया पुनः ।
        स्वामी विवेकानन्दोऽतः प्रणमन्नाह सादरम् ॥२॥

“स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे ।
        अवतारवरिष्ठाय रामकृष्णाय ते नमः” ॥३॥

मतभेदेन मार्गाणां भेदो नास्त्यत्र संशयः ।
        विभिन्नसाधनासूतानुभूतिः कल्पना न हि ॥४॥

विश्वधर्मप्रतीकोऽभूद्रामकृष्णो न संशयः ।
        सर्वेषामेव धर्माणां साधना यत्समादृताः ॥५॥

तद्रहस्यमिदं ज्ञेयं, सर्व एव हि मानवाः ।
        सन्तानभूता जगतः स्रष्टुर्हि परमात्मनः ॥६॥

इति निर्णीय विश्वस्मिन् भ्रातृत्वे सुप्रतिष्ठिते ।
        विश्वबन्धुत्वसंसिद्धिमैत्रयुत्कर्षाद्भवेदिति ॥७॥

अत्यन्तबाल्यकाले षड्वर्षावस्थस्य योगिनः ।
        भावावस्था स्वतो जाता रामकृष्णस्य भूम्न्यहो ॥८॥

कस्य साधारणस्येवं दृष्टं केनापि कर्हिचित् ।
        ततः परं समग्रे हि जीवने परमेशितुः ॥९॥

सगुणत्वागुणत्वाभ्यां ध्याननिष्ठो बभूव सः ।
        सत्यं भगवतो रूपमसत्यं यत्ततः परम् ॥१०॥

इति नूतनया भङ्ग्या ख्यापयामास दुस्तरे ।
        सन्देहानि कुतर्कोत्थनास्तिकत्वाकुले युगे ॥११॥

क एवमन्यः पुरुषो लभ्यः साधारणे जने ।
        रामकृष्णविनिश्चित्या दृढयाऽसङ्ख्यमानवे ॥१२॥

भगवल्लाभविषये दृढेच्छा जागरं गता ।
        इष्टदर्शतया श्रीमद्रामकृष्णं दधाति यः ॥१३॥

तस्यैव जन्म साधीयस्तदाश्वासनवागिति ।
        जातिधर्मविशेषार्थमागतिस्तस्य नैव हि ॥१४॥

समग्रविश्वकल्याणप्रसवार्थं तदागमः ।
        इयं विचित्रता तस्य स्पर्शमात्रेण केवलम् ॥१५॥

समाधिस्तर उन्नीतं बहु साधारणं मनः ।
        स्वीयाध्यात्मिकशक्तेर्हि कृत्वा सङ्क्रमणं परे ॥१६॥

चैतन्योद्बोधनेनासौ तं मुक्तिद्वार मानयत् ।
        अहैतुक्यां तत्कृपायां सीमा भौगोलिकी न हि ॥१७॥

ततस्तस्य कृपालाभ सर्व एवाधिकारिणः ।
        जन्मापि नाभवत्तत्र बाधकं कुत्रचित्ततः ॥१८॥

अन्त्यजाद्या अपि कृपालाभात्तस्य न वञ्चिताः ।
        नातीतभूपतेर्मुद्रा वर्तमानेऽर्थसाधिनी ॥१९॥

उपादानैक्य सत्वेऽपि चिह्नवैचित्र्ययोगतः ।
        सर्वप्रसिद्धमेवैतत् तद्वदेतत्प्रबुध्यताम् ॥२०॥

युगधर्मश्चिह्नितोऽद्य रामकृष्णचरित्रतः ।
        रामकृष्णावतारस्य वैलक्षण्यमिदं महत् ॥२१॥

सन्त्यज्य सकलैश्वर्यं दीनवेषे समागमः ।
        त्यागस्तपश्च वैराग्यमीश्वराश्रयता परा ॥२२॥

रामकृष्णावतारेऽत्र भावैश्वर्यमुदाहृतम् ।
        गार्हस्थ्यमपि संन्यासो द्वयं हि समपेक्षितम् ॥२३॥

इत्यप्यदर्शयद्रामकृष्णस्तद् द्वयमाश्रयन् ।
        जीवनाद्रामकृष्णस्य तत्तदाश्रमजीवने ॥२४॥

प्रपतन्नूतनाऽऽलोकः सङ्केतं प्राप निश्चितम् ।
        सत्ययोर्देवदेव्योस्तु मूर्तिपूजापि नानृता ॥२५॥

द्वैतं विशिष्टाद्वैतं चाद्वैतं सर्व हि शोभनम् ।
        शैवाश्शाता गाणपत्या बौद्धाःखृष्टानुयायिनः ॥२६॥

यावनाश्च समे धर्माः शाखाभूताः स्तरात्मकाः ।
        किं वा वेदान्तधर्मस्य विततामितशाखिनः ॥२७॥

तासां तासां साधनानां विधानेनोपदेशतः ।
        इत्येव ख्यापयामास रामकृष्णः प्रभुः परः ॥२८॥

पत्नीं देवीस्वरूपेण सम्पूज्यादाद् बृहत्तराम् ।
        मर्यादां मातृजात्यै हि तद्देवत्वं स्थिरीकृतम् ॥२९॥

गच्छामि शरणं श्रीमद्रामकृष्णपदाम्बुजम् ।
        तस्मात् सदैव हृदये समुदे तु स एव हि ॥३०॥

न्यायाचार्य पण्डित – ‘आनन्दझा’ इत्येतेन विरचितम् ।

❀ ❀ ❀