श्रीसारदादेवीस्तोत्रम्
श्रीसारदामातृस्तुतिः
श्री
– रामकृष्णमयजीवन सर्वसारा, साराधनाखिलजनेषु दयाप्रसारा ।
लोकप्रसूर्विजितजैत्रमनोविकारा, श्रीसारदा विजयते जगदात्मरूपा ॥१॥
सा
– म्बां नितान्तमिह सत्त्वगुणप्रधानां, भक्त्या स्वयं भगवता
परिपूजितां च ।
दीक्षाप्रदानविमलीकृतभक्तचित्तचिन्तासहस्रपरिहारपरां नमामः ॥२॥
र
– मां केशवस्याप्युमां शूलपाणेः परां मुक्तिदां
भक्तिमार्गप्रचाराम् ।
सदाचारमूर्तिं शिवां विश्ववन्द्यां नमामीश्वरीं सारदां शारदां ताम् ॥३॥
दा
– क्षिण्यभावपरिपूरितनिर्मलान्तां, तां लोकसङ्ग्रहकृते
सगुणस्वरूपाम् ।
लोकातिगां स्वयमजातिगुणप्रकारां, सन्मातरं मुहुरहं शिरसा नतोऽस्मि ॥४॥
मा
– र्तण्डदीप्तिरथदाहकशक्तिरग्नेः, स्वाधारतो न पृथगर्हति
गन्तुमेवम् ।
एकात्मतामुपगताऽखिलकार्यजाते, मातः स्वयं भगवतोऽस्य पृथक्प्रकृत्या ॥५॥
तृ
– ष्णात्र यज्वलनशोषितमानसानां, नानाविधानकरणैरनिशं जनानाम् ।
या नित्यसान्त्वनपरा विपदो हरन्ती, तां सारदामभयदां शिरसा नमामः ॥६॥
स्तु
– वन्ति मातः “निखिलाश्रमाणामादर्शभूता त्वमिहैकवारम्” ।
स्त्रीभिस्तवांशानुकृतिः कृता चेत्तज्जीवनं स्यात् फलं रसायाम् ॥७॥
ति
– ग्मं गृहीत्वा दुरितं परेषां, कष्टान्वितान्यान्सुखिनः करोषि ।
अलौकिकं ते चरितं जगत्सु, स्वयं शिरस्त्वच्चरणे नतं नः ॥८॥
स्तुतिरियं साहित्याचार्य एम्. ए. भण्डारकरोपाह्वेन त्र्यम्बकशर्मणा विरचिता ।
❀ ❀ ❀