मुखबन्धः
चतुर्थोऽङ्गकः
श्रीरामकृष्णस्य कथा प्रजल्पिनः
स्वामी प्रधाना जन दुःखमोचकाः ।
तदीय पादाम्बुज धूलिधूसरम्
कदाभवेदस्य शिरोऽधमस्य मे ॥४.१॥
व्योमग्रहाधिक द्विषटशत बङ्गाब्द माधवे ।
पितासहागमस्तस्मिन्दक्षिणेश्वरधामनि ॥४.२॥
तत्र दृष्ट्वा जगन्नाथं रामकृष्णं पिता मम
।
दण्डवत्तत् पादतले पतित्वा प्रणिपत्य तम् ॥४.३॥
पुनः पुनः पादधुलिं पाणिभ्यां प्रतिग्रह्य
नः ।
स्वमस्तके सुतिन्धन्य धन्योऽहमिति चोक्तवान् ॥४.४॥
ततस्तयोः पूर्ववृत्त संवादानन्तरं पिता ।
पुनर्भगवतस्तस्य पादधूलिं प्रगृह्य सः ॥४.५॥
मम मुण्डि ददौ भक्त्या वसुवर्ष वयःक्रमे ।
पाणिभ्यामपि तत्पादौ विधृत्य जगतो पतेः ॥४.६॥
तत्र स्वमस्तकं न्यस्तं पुण्यपुञ्ज बलेन
हि ।
तदा न क्षालनेशक्तस्तत् पादपद्ममश्रुभिः ॥४.७॥
ततः स्वहस्तं मम मुण्डि दत्वा
प्रोवाच यत्तन्न मया विबोद्धुम् ।
श्क्यं मुहूर्तं गत चेतनं हि
कृपाकणा तेन विसर्जिता मे ॥४.८॥
तथा गतं मया किन्तु ह्यस्याशीर्वाद शक्तितः ।
पण्डितोऽहं भविष्यामि दीर्घायुश न संशयः ॥४.९॥
सप्ताशीति वयोवर्ष गतः प्रायोऽधुना मम ।
पण्डितैरादृतत्वाय प्रत्यक्षाशीः प्रदर्शिता ॥४.१०॥
ततः प्रसादीय सुमिष्ट मिष्ट द्रव्याणि पित्रे मम देवदेवः ।
दत्वा महाहर्ष युतो महात्मा विसर्जयामास सुदुःखचित्तः ॥४.११॥
ततः पिता तत्र सरिद्वराया घट्टे समानीय हि तत् प्रदत्तम् ।
भोज्यं मया सार्धं महापवित्रं संभोजयामास जलञ्च गाङ्गम् ॥४.१२॥
ततस्तस्या रासमणेः मन्दिराद्वहिरागतः ।
बाल्यचापलतथाहं पितरं स्पृष्टवान्तदा ॥४.१३॥
नमामदण्डवद्भक्त्या भवान् यं मन्दिरान्तरे ।
कोऽयं जनः पितृव्यः किं भवतः कथ्यतां मम ॥४.१४॥
श्रुत्वैवमुक्तं भो पुत्र सर्वेषां नः पिताद्ययम् ।
यथाकाशम्वियतचन्द्रः सर्वेषां मातुलो भवेत् ॥४.१५॥
तथा श्रीरामकृष्णोऽयं भगवान् जगतः पिता ।
वैकुण्ठादवतीर्णोऽत्र जनमङ्गल हेतये ॥४.१६॥
यश्च देवं न पश्येत्तु यञ्चदेवो न पश्यति ।
निन्दितस्त्रिषु लोकेषु स्वात्माप्येनं विगर्हयेत् ॥४.१७॥
एवं शेषवतस्तस्य भगवद्भाव चिन्तनात् ।
नान्य देवे दृढा भक्तिर्भवेन्मेऽत्र कदाचन ॥४.१८॥
सचल प्राण संयुक्त दिव्यमूर्तेः समीक्षणात् ।
परन्तु स्वापकाले मां प्रायशो निजमूर्ति धृक् ॥४.१९॥
पुरुषः सुसमायात्ः सहास्यमवदच्च सः ।
कुशलं तव भो पुत्र गमिष्यामि यथाऽगतम् ॥४.२०॥
पूर्ववन्निद्रितावस्थां गतं प्रत्यक्षतां गतः ।
एवं बहु तिथे वर्षे गते देवोऽवदच्च माम् ॥४.२१॥
मल्लीलां विलिख त्वं भो देवभाषायुतां सुधीः ।
त्वामहं संवदिष्यामि माभैषीः पण्डितो भवान् ॥४.२२॥
तदादेशमिमं प्राप्य ममायं परमोद्यमः ।
धन्योऽहमिति मत्वा तच्चरितं रचितं मया ॥४.२३॥
अतोऽत्र यः प्रमादो मे त्रुटिर्वा या भविष्यति ।
ते क्षन्तव्ये महाभागैस्तद्भक्तैः करुणापरैः ॥४.२४॥
अधुना ग्रन्थरूपस्य रूपस्य परमात्मनः ।
तत् पादमश्रुभिः सिंक्त्वा धन्योञऽस्मि तत् कृपाश्रितः ॥४.२५॥
प्राक् प्रत्यक्षो कृतं यद्धि भगवत् पादपङ्कजम् ।
तच्चिन्तया यातु कालं वासनेयं सदा मम ॥४.२६॥
इति श्रीग्रन्थकर्तुर्भगवद्दर्शनपरिचय रूपा चतुर्थ वल्ली ॥४॥