मध्यलीला
राज्ञ्यङ्गे गदाधरस्य चपेटाघातः
मध्यलीलायाः सप्तमोऽध्यायः
दृष्ट्वैवं राजभृत्यास्तु
परस्परमथाब्रुवन् ।
मुख्यादेशो राजगृहादागमिष्यति निश्चितम् ॥२.७.१॥
परेऽह्नि मथुरानाथस्यादेशो ह्यन्धरूपकः ।
समायातः सुप्रधान कर्मचारिजनं प्रति ॥२.७.२॥
स्वेच्छाचारं समाश्रित्य भट्टाचार्य
महोदयः ।
मातुः श्रीभवतारिण्याः पूजाकार्यं करोत्विति ॥२.७.३॥
तत्रस्थाः केच्चन जना मा विघ्नं जनयन्तु
हि ।
एवं विरुद्धमादेशं प्राप्य ते कर्मचारिणः ॥२.७.४॥
विस्मितास्ते गर्हयन्तः प्रतिवक्तुं न
सेहिरे ।
राज्ञी रासमणिश्चापि वार्ता तां पूजकस्य च ॥२.७.५॥
श्रुत्वा श्रीमथुरानाथं प्रपच्छ
कौतुकान्विताम् ।
किं तात पूजकश्रेष्ठभट्टाचार्य कनिष्ठकः ॥२.७.६॥
वायुवैषम्य दोषेणाक्रान्तो वातुलता गतः ।
श्रुत्वा वाक्यं तदा राज्ञ्या मथुरो महिमान्वितः ॥२.७.७॥
उवाच परया प्रीत्या दिव्यभाव परिप्लुतः ।
प्रतिष्ठा भवतारिण्याः शिलामय्यास्त्वया कृता ॥२.७.८॥
साम्प्रतं वातुलस्यैव पूजायाः सुव्यवस्थया
।
चैतन्यापादिता सा तु सम्पूर्णा जाग्रतो वभो ॥२.७.९॥
एतद्रूपं मया मातः कृतं साक्षात्
सुपुण्यतः ।
एतादृश्यद्भूता पूजा न कस्याप्यक्षिगोचरा ॥२.७.१०॥
धन्योऽयं पूजकश्चाद्य धन्या त्वं
पृथिवीतले ।
कैलास शिखरादापि विन्ध्याद्रेर्हिमपर्वतात् ॥२.७.११॥
आगत्याविर्भूत् साद्य दक्षिणेश्वरमन्दिरे ।
अर्चकस्य तपो योगात् भवत्याः सुकृतेन च ॥२.७.१२॥
श्रुत्वा राज्ञी माधुरीं तां मनोज्ञां
वाचं चिन्ताशून्यतां प्राप्य् सद्यः ।
द्रष्टुं पूजान्तस्य सत्पुजकस्य जातोत्कण्ठा मन्दिरं सा जगाम ॥२.७.१३॥
स्नात्वा राज्ञी जाह्नवी पुण्यतोये
देव्यास्तस्या मन्दिरं सम्प्रविष्टा ।
तस्मिन्नेव व्याहुलोके मुहुर्ते देवीमूर्तिं भूयसा कम्पमानाम् ॥२.७.१४॥
अलं चमत्कारयुता ननाम साष्टाङ्गरूपेण पुनः
पुनः सा ।
यद्दर्शनार्थं सुसमागतात्र स पूजकस्तत् परिपूरकोऽभूत् ॥२.७.१५॥
समाप्य मातुः सुखबोधरूपिकां पूजां
सुवेशादिकमप्यलौकिकम् ।
तद्भक्तिभावेन विभावितात्मना गानेन देव्याः प्रचकार तोषणम् ॥२.७.१६॥
श्रुत्वैव राज्ञी तदपूर्वगीतिं
पूजाविधातुः स्वविवेक शून्याम् ।
दृष्ट्वा च भावं तमपूर्वरूपं तदा किलाभूत् सुख सिन्धुमग्ना ॥२.७.१७॥
पूर्वं राज्ञ्या गायकैः सुप्रवीणैः गीतं
रम्यं राजगेहे विशाले ।
गानं प्रीत्याकर्णितं भूरिरूपं नाना वाद्यध्वनितालानुवृत्तं ॥२.७.१८॥
एवम्विधं किन्तु कदापि न श्रुतं
साक्षाद्भवान्या उपलब्धिरूपम् ।
गायन्तमुच्चैस्तदपूर्वगानं विश्रुत्य राज्ञी सुविमोहिताभूत् ॥२.७.१९॥
गायकारब्ध गानस्य समाप्तेः परमेव सा ।
पुनश्चापरगानस्य श्रवणार्थं समुत्सुकाः ॥२.७.२०॥
पूजकं गायकं राज्ञी तमुपच्छन्द्य यत्नतः ।
गानस्य सुप्रसंशां सा प्रचुरामकरोत्तदा ॥२.७.२१॥
ततःपरं बाह्यदृष्टिः सञ्जाता गायकस्य तु ।
पूजार्थिनी जगन्मातुः राज्ञी मन्दिरमागता ॥२.७.२२॥
तद्धेतोश्चित्तचाञ्चल्यं न जातं पूजकस्य
हि ।
केवलं वारमेकन्तु दृष्ट्वा राज्ञीं सुपूजकः ॥२.७.२३॥
तत्क्षणात् प्रतिमायां स दृष्टिंन्यस्य
सुगायकः ।
हृदयग्राहि माधुर्यस्वरं गीतमवर्तयत् ॥२.७.२४॥
मत्पितुर्वक्षसि त्वं हि दत्वा पादं
जगन्मयि ।
दण्डायमाना वै देवि नात्र लज्जा कथञ्चन ॥२.७.२५॥
जिह्वा व्यादानरूपेण लज्जितेव प्रदृश्यते ।
ज्ञातमेवं मया देवी सम्पूर्णां ज्ञातमेव हि ॥२.७.२६॥
त्वत् पितुर्वक्षसि तव माता पदाभ्यां
कृताक्रमा ।
गलदश्रु लोचनाभ्यां गायंस्तन्मयतां गतः ॥२.७.२७॥
गा
श्रोत्रयुग्मं महादेव्या गानेषु सन्निवेशितं ।
चित्तन्तु कलिकातास्थ विषयस्यान्तरे स्थितम् ॥२.७.२८॥
धर्माधिकरणेऽस्माकं फलं किमिति चिन्तितम् ।
तेनैव तद्गायकस्य कण्ठरोधो वभूव ह ॥२.७.२९॥
परन्तु तेन तद्राज्ञ्याः कोमलाङ्गे
सुयोगिना ।
भीषनाद् भीषणतरं कराघातः कृतस्तदा ॥२.८.३०॥
उक्तञ्चात्यन्त दुःखेनात्रापि चिन्ता
महीयसी ।
राजद्वार फलस्यैव क्रियते मातृमन्दिरे ॥२.८.३१॥
मन्दिर द्वारदेशस्था राज्ञ्या या
परिचारिकाः ।
ता दृष्ट्वाशोभनं कर्म पूजकस्य तु तद्विधम् ॥२.८.३२॥
सर्वास्ता चञ्चला भूत्वा रक्षिभ्यश्च
न्यवेदयन्।
शस्त्रास्त्रधारैणो राज्ञ्या रक्षिणो ये महाबलाः ॥२.८.३३॥
पूजकं वीक्षते सर्वे क्रोध संरक्त लोचनाः ।
द्रुतवेगागतास्तत्र बन्धुं तं लौहशृङ्खले ॥२.८.३४॥
ग्रहीतुमुद्यतास्तास्ते तादृशमपराधिनम् ।
सर्वे संविग्न मनसस्तत्र ये कर्मचारिणः ॥२.८.३५॥
कर्मणा विपरितेन चक्रुर्द्दिक्षुर्महारवम्
।
हन्तुकामाः पूजकं तं नाना वादाः कृतास्तदा ॥२.८.३६॥
मारयैनं वधानैनं कुर्वेनं मन्दिराद्वहिः ।
एवं नाना जनानान्तु नाना सिद्धान्तकारिणाम् ॥२.८.३७॥
नानातर्कवितर्कवितर्केन ध्वनितं मन्दिरं
भृशम् ।
पूजकस्यापि धिक्कारमददुर्बहुला जनाः ॥२.८.३८॥
तयोर्विषयमालम्ब्य नाना जल्पन कल्पने ।
तौ तु मन्दिरमध्ये हि धैर्य गाम्भीर्य संयुतौ ॥२.८.३९॥
पूजकस्य न भीतिश्च न वा चिन्ता कथञ्चन ।
तद्वृतान्न च चाञ्चल्यं नगस्य वायुना यथा ॥२.८.४०॥
अनाचार रतं शिष्यं गुरुर्दण्डयति ध्रुवम् ।
अवशीभूत पुत्रस्य पिता हि करताडनम् ॥२.८.४१॥
करोति तन्मङ्गलार्थे निःशङ्केन यथा तथा ।
राज्ञ्यङ्गेन कराघातः कृतोऽनेन महात्मना ॥२.८.४२॥
चपेटाघाततथापि पूजकस्य मुखोदितम् ।
वाक्यं राज्ञ्या मर्मभेदमत्यन्तमकरोत्तदा ॥२.८.४३॥
विचारालय चिन्तां मे कथं जानाति पुजकः ।
दिव्यदृष्टिः प्रभावेन ज्ञातमेतन्न संशयः ॥२.८.४४॥
अतो मे भूषणं दण्डो दूषणं न कदाचन ।
निर्दोषोऽयं सदोषाहं ततो दन्ड्ः शुभावहः ॥२.८.४५॥
अनुतप्ता महाराज्ञी कठोर वचसा भृशम् ।
दूरीकृत भृत्यवर्गा पूजकं समपूजयत् ॥२.८.४६॥
एवं श्रीमथुरानाथः श्रुत्वा तद्विषयं
सुधीः ।
द्रुतं मन्दिरमागत्य श्वश्रूं संस्पृष्टवान् स्वयम् ॥२.८.४७॥
प्रत्युत्तरं तदा राज्ञ्या प्रदत्तं
मन्दिरे च या ।
घटना पूजक कृता सर्वास्ता वर्णिता स्फुटं ॥२.८.४८॥
ततोऽब्रवीत्तदा राज्ञी मथुरं गद्गदैः
स्वरैः ।
मातुः श्रीभवतारिण्या गानप्रवणमात्रतः ॥२.८.४९॥
कथं वैषयिको चिन्ता कृता तत्र तदा मया ।
अतोऽत्र मे महान् दोषः सञ्जातः सत्यमेव हि ॥२.८.५०॥
भो तात मथुर त्वन्तु पूजकं रक्ष सर्वतः ।
न पीडितो येन केन कदापि स्यात् सुपूजकः ॥२.८.५१॥
श्रुत्वेवं मथुरानाथः सिद्धान्तः
कृतवांस्तदा ।
दिव्योन्माददशेयं हि तातस्य मम सङ्गता ॥२.८.५२॥
भावराज्ये हि कस्यापि त्रुटिः स्वल्पापि
चेद्भवेत् ।
दृष्ट्वातामग्निकल्पः स ज्वलितो भवति ध्रुवम् ॥२.८.५३॥
वराहनगरे पूर्वगङ्गाघट्टेऽप्यनेन हि ।
जापक ब्राह्मणस्यान्यमनस्कस्य च कोपिना ॥२.८.५४॥
कृतश्चपेटाघातोऽपि गण्डदेशे महात्मना ।
तातस्य सुतरामेतद्विरुद्धाचरणं बहु ॥२.८.५५॥
वायुरोग पूर्वचिह्नं मत्वा श्रीमथुरो
महान् ।
कलिकातास्य विख्यात वैद्यराज् महर्षिणम् ॥२.८.५६॥
कुमारटुलि वास्तव्य वैद्यशास्त्र विशारदम्
।
गङ्गाप्रसादमाहूय चिकित्सां समकारयत् ॥२.८.५७॥
इति श्रीरामेन्द्र सुन्दर भक्तितीर्थ विरचिते श्रीश्रीरामकृष्णभागवते पारमहंस्यां संहितायां गदाधरस्य पूजानन्तरं गानं तच्छ्र्वनेन राज्ञ्या मनश्चाञ्चल्यं दृष्ट्वा राज्ञ्यङ्गे चपेटघातरुपो मध्यलॉलायां सप्तमोऽध्यायः ॥७॥