मध्यलीला
गदाधरस्य भैरवी दर्शनादिः
मध्यलीलायां दशमोऽध्यायः
शान्तान्तःकरणं पुत्रं दृष्ट्वा माता
व्यचिन्तयत् ।
नोन्मत्तेनाधुना तुल्यः सुतो मामेति रोदिति ॥२.१०.१॥
नातःपरं श्मशानं स याति रत्रौ यदा तदा ।
उत्तमः सहजोभावः सारल्य प्रतिमूर्तिकः ॥२.१०.२॥
मात्रा ज्ञातं हि मत् पुत्रो रोगमुक्तो न
संशयः ।
पुत्रो मे यदि भूयोपि पीड्यते परतोरुजा ॥२.१०.३॥
इत्याशङ्क्या लोचनार्थं स्त्रियः स्निग्धा
निमन्त्रिताः ।
गदाधर विवहार्थंमूचिरे ता वराङ्गनाः ॥२.१०.४॥
सदारमतिशीघ्रं त्वं कुरु देवि गदाधरम् ।
विवाहयोग्य वयसः पुतस्य दारकर्मणि ॥२.१०.५॥
नानिष्पन्ने सांसारिकी मतिः शुद्धा
भविष्यति ।
वायुरोगेनापि पुनराक्रान्तो न भवेदिति ॥२.१०.६॥
एवमसन्मतं देवि सुदृढं शुभदायकम् ।
तासामेव मनःपूता वाचश्चन्द्रा मनस्विनी ॥२.१०.७॥
श्रुत्वा मध्यमपुत्रेण सहोद्वाहे
समुत्सुका ।
गदाधरो यदि ज्ञात्वा स्व विवाह विनिश्चयम् ॥२.१०.८॥
कृत्वा मतान्तरं वाधां पदास्यतीति शङ्कया ।
स्थिरीकृते तु सम्बन्धे न किञ्चिद्वक्तुमर्हति ॥२.१०.९॥
यस्मात् सङ्गोपनं मात्रा कृतं पुत्र
विमर्शनम् ।
एकेन दिवसेनैव तद्भूत् सुविनिश्चितम् ॥२.१०.१०॥
तदा श्रीहृदयरामो दक्षिनेश्वर मन्दिरारत् ।
प्रत्यागतो मातुलस्य वार्तां विज्ञातुमात्मना ॥२.१०.११॥
सर्वाग्रे मातुलो दृष्ट्वा हृदयं प्राह
सस्मितम् ।
अरे हृदु किं शृणोषि वार्तामतितरां शुभाम् ॥२.१०.१२॥
सर्वैर्मम विवाहार्थं महोरात्रं
विचेष्टितम् ।
एकामपि सुकन्यान्तु प्राप्नुवन्ति न ते क्वचित् ॥२.१०.१३॥
प्राप्या वा कथमेतैर्हि सा कन्या यत्र
विद्यते ।
जयरामवाटीग्राम वास्तव्याति सदाशय ॥२.१०.१४॥
रामचन्द्र देवशर्म मुखोपाध्याय पुत्रिका ।
षडवर्षिया सारदाख्या सा मे भार्या भविष्यति ॥२.१०.१५॥
मनोवचनयोर्बाह्यन्तराद्वाक्यं मातुलास्यतः
।
श्रुत्वा श्रीहृदयरामः क्षणं वाक्शून्यतां गतः ॥२.१०.१६॥
योषित् सङ्गो मातुलस्य यादृशो
दक्षिणेश्वरे ।
दृष्टो हृदयरामेण तस्यैवेदृक् सुभाषणम् ॥२.१०.१७॥
अद्यापि व्यवहारः स नेत्रयोः प्रतिभाति मे
।
अस्याद्भूत मातुलस्य क्वेदमद्भूत भाषणम् ॥२.१०.१८॥
केवलं स्वविवाहेऽस्य नानिच्छा विद्यते
ध्रुवम् ।
भाविन्या सहधर्मिण्या गदितं प्राप्तिकारणम् ॥२.१०.१९॥
ततः साधारणजने वागियं सुप्रचारिता ।
चतुर्द्दिक्षुस्ततस्तयाः कन्याया मार्गेन कृते ॥२.१०.२०॥
गव्यूति मात्रे जयरामवाटीग्रामे हि
कामारपुरात् स्ववासात् ।
श्रीरामचन्द्रस्य सुतास्ति काचिदित्थं व्यजानीत गदाधराम्बा ॥२.१०.२१॥
वयसा षडवर्षमिता सुरूपा सत्कुलोद्भवा ।
संवादमिममश्रौषीज्जननी पुत्रवत्सला ॥२.१०.२२॥
संसारवैराग्ययुतस्य साधोः पुत्रस्य
वैवाहिक बन्धनार्थम् ।
मात्रा तथा तत् स्वजनादिभिश्च कन्या युवत्येव सुकाङ्क्षनीया ॥२.१०.२३॥
किन्त्वत्रदिवस्य सुतस्य वाक्यतस्तथा
स्वकीयानुभवाहि मात्रा ।
एकान्तमत्याल्पवयाश्च कन्या निर्द्धारिता तत्र सदैव सर्वैः ॥२.१०.२४॥
षट्षष्ठ्याधिकद्विष्टशत साले मेषं गते रवौ
।
गुरौ सारदया देव्या शरच्चन्द्रनिभस्य च ॥२.१०.२५॥
गदाधरस्य सम्पन्नो दारकर्ममहोत्सवः ।
साधारणैरसाध्येयं शुभा वैवाहिकी क्रिया ॥२.१०.२६॥
दीयतां भुज्यतां शब्दैस्तद्देशं
परिपूरितम् ।
कामारपुकुरस्थानां महामोदो ह्यभूत्तदा ॥२.१०.२७॥
भुतः पाणिग्रहश्चास्य चतुर्विंश वयःक्रमे ।
विवाहात् परतस्तत्रैकोनविंशति सङ्ख्यकान् ॥२.१०.२८॥
मासान् समवसद्योगी कामारपुकुरे महान् ।
सुसम्पन्नाभगवतः शुभा वैवाहिकी क्रिया ॥२.१०.२९॥
श्रीमती शारदादेवी सप्तवर्षवयःक्रमे ।
कुलप्रथानुसारेण श्वशुरस्य च सद्मनि ॥२.१०.३०॥
द्विरागमनरूपणागता पितृगृहाद् यदा ।
तदा स पुनरागत्य दक्षिणेश्वरमन्दिरे ॥२.१०.३१॥
ठाकुरो भवतारिण्याः पूजाकार्येऽभवद्व्रती ।
ततः कतिपयाहःसु गतेषुसाधको महान् ॥२.१०.३२॥
पुनस्तन्मयातामाप बाह्यज्ञानं विनाशिनीम् ।
न माता नाग्रजः पत्नी न देशो ग्राम एव वा ॥२.१०.३३॥
तत्सर्वं तन्मनोमध्ये न किञ्चिदवभाषते ।
सच्चिन्मय्याः साधनेयमैहिकस्मृत गोपिका ॥२.१०.३४॥
ब्रह्मादिस्तम्ब पर्यन्तं सर्वासु
जीवजातिषु ।
ब्रह्ममय्याः स्वरूपं मे कथमिन्द्रिय गोचरम् ॥२.१०.३५॥
भवेत्तत्र महाचिन्ता ठाकुरस्यैव सर्वदा ।
तदा पुण्यवती राज्ञी गङ्गायां दक्षिणेश्वरे ॥२.१०.३६॥
ध्यायन्ती भवतारिण्याः पादपद्मयुगलं मुदा ।
स्वेष्टमन्त्रं जपन्ती सा चरमश्वसितावधि ॥२.१०.३७॥
पश्यन्ती परमानन्दस्वरूपं रूपमव्ययम् ।
भीष्मान्तकालवद्राज्ञी तद्रूपं ठाकुरस्य च ॥२.१०.३८॥
साश्रुनेत्रा रासमणिर्नश्वरं तं कलेवरम् ।
त्यक्त्वाप्ता भगवल्लोकं पुनःरावृत्तिवर्जितम् ॥२.१०.३९॥
परलोक गतायान्तु रासमण्यां तदाभवत् ।
मथुरः सर्वतोऽधीशस्तस्य देवालयस्य हि ॥२.१०.४०॥
ततस्तेनादित्यवर्षान् ताताङ्घ्रि
परिचर्यया ।
ऐकान्तिक्या शुद्धभक्त्यानन्तपुण्यमुपार्जितम् ॥२.१०.४१॥
तत्रैकाश्चर्य घटना राज्ञ्याः स्वर्गगमात्
परम् ।
घटिता भैरवी देव्या आविर्भावोत्सवात्मिका ॥२.१०.४२॥
यस्याः साह्येन पूर्णासीत् साधना
सिद्धयोगिनः ।
आविर्भूता महादेदवौ भैरवी भूतिदायिका ॥२.१०.४३॥
एकादाहर्मुखो पुष्प्प्द्याने योगी गदाधरः ।
पुष्पानां चयनं कुर्वन्नपश्यत्तरणीं शुभाम् ॥२.१०.४४॥
वकुलतल घट्टे सावरुद्धा नाविकेन हि ।
तत्रैका सुन्दरी ह्येका नारी भैरववेशिना ॥२.१०.४५॥
तप्तकाञ्चन वर्णाभा जटामण्डलमण्डिता ।
ललाटे दीर्घ सिन्दूर तिलकेन च दीपिता ॥२.१०.४६॥
शूलेन भूषिता सव्ये करे दक्षेऽक्षमालया ।
नौकाया अवतीर्यैव दक्षिणेश्वर मन्दिरम् ॥२.१०.४७॥
अवलोक्य तदा देवी चलिता गजगामिनी ।
चत्वारिंशद्वर्षमिता यद्यपि वयसाधिका ॥२.१०.४८॥
तथापि ब्रह्मचर्यस्य प्रभाववशतः सदा ।
युवत्याः पूर्णसौन्दर्यं शरीरे प्रतिभाति हि ॥२.१०.४९॥
तामेवमवलोक्यैव महायोगी गदाधरः ।
एषा कापि ममात्मीया मिलिता दक्षिणेस्वरे ॥२.१०.५०॥
त्यक्त्वोद्यानं विचिन्तैवं प्रविश्य
स्वालयं मुदा ।
प्रोवाचाहूय हृदयं गच्छ देवालयं द्रुतम् ॥२.१०.५१॥
तत्रैका भैरवी देवी दर्शनार्थं समागता ।
तामानय ससम्मानं मदीये क्षुद्र वेश्मनि ॥२.१०.५२॥
मातुलास्यादिमां वार्तां श्रुत्वा
श्रीहृदयस्तदा ।
परिप्लुतो विस्मयान्धौ मनस्येतदचिन्तयत् ॥२.१०.५३॥
जहाति मातुलोयो मे नारीसङ्गं भुजङ्गवत् ।
स एव भैरवीं नारीं स्वगृहं नेतुमिच्छति ॥२.१०.५४॥
एवन्तं मातुलं देवमुवाच संशयान्वितः ।
आहूता भैरवी देवी कथमत्रागमिषयति ॥२.१०.५५॥
गदाधरोऽपि हृदयमुक्तवांस्तत्क्षणादिति ।
मन्नाम श्रवणादेव त्वरयात्रागमिष्यति ॥२.१०.५६॥
एवं सा भैरवी रवनै पृष्ठतो हृदयस्य च ।
गदाधरालयं प्राप्य दृष्ट्वा तं विस्मिता सती ॥२.१०.५७॥
स्नेहप्लुतस्वरेनैव प्रोवाच सहसा सुखम् ।
त्वमत्र वर्तसे तात न जानामि कथञ्चन ॥२.१०.५८॥
कृते तवानुसन्धाने न प्राप्तमपि दर्शनम् ।
श्रुत्वा गदाधरोऽप्याहु मद्वार्ता भवसुन्दरि ॥२.१०.५९॥
ज्ञात्वा त्वया कथं मातः कथ्यतां
भक्तवत्सले ।
भैरव्युवाच भोः पुत्र भवद्भिः साधकैस्त्रिभिः ॥२.१०.६०॥
सम्मेलनार्थमादिष्ट्य प्रागेव जगदम्बया ।
पूर्ववङ्गेषु द्वभ्यां हि पूर्वं सम्मिलितं मया ॥२.१०.६१॥
अद्याहं त्वां प्रपश्यामि
दक्षिणेश्वरमन्दिरे ।
जगदम्बेच्छया मेऽद्य फलितं चिरकांक्षितम् ॥२.१०.६२॥
ततो गदाधरो भक्त्या भैरव्याः सविधेवसन् ।
जनन्याः स्नेहमय्यास्तु सविधे वालको यथा ॥२.१०.६३॥
सानन्दं मनसो वार्त्तामवदद्वहुरूपतः ।
यद्रूपां स्वस्यमनसो ये भावाः साघनोत्थिताः ॥२.१०.६४॥
ऐश्वरीय प्रसङ्गेन वाह्यज्ञानविलुप्तता ।
गात्रदाहो विनिद्रा च दर्शनाञ्चाप्यलौकिकम् ॥२.१०.६५॥
विक्रियाश्च शरीरस्यानुभूताः प्रत्यहञ्च
याः ।
सर्वेमेतत्तत्समीपे प्रकटोकृतवांश्च सः ॥२.१०.६६॥
परन्तु साग्रहं साधुः पृष्टवांस्तां पुनः
पुनः ।
भो मातः किमयं भाव उन्मादस्यैवलक्षणम् ॥२.१०.६७॥
कालिकाराधनात् किं मे महाव्याधिरुपस्थितः ।
स्वरूपमस्य देवि त्वं प्रकटी कुरु पावने ॥२.१०.६८॥
गदाधरस्य कुर्वत्यास्तत्तद्भाव श्रवं यदा ।
नानाभावस्याविर्भावो भैरव्या सम्बभूवह ॥२.१०.६९॥
कदा वोत्तेजनाभावः कदा वोल्लासम्भवः ।
स्नेहमय्या जनन्या वा कदापि चेष्टितमिव ॥२.१०.७०॥
गदाधरं समाश्वास्य प्रोवाच भैरवी ततः ।
त्वा ते वदन्ति प्रोन्मत्तं तात त्वां न विदन्ति ये ॥२.१०.७१॥
उन्मत्तस्य दृशा नेयं महाभावस्य लक्षणम् ।
सोऽयं शुद्ध महाभावस्तयैव वर्त्ततेऽधुना ॥
७२
ग्राम्याः साधनहीना ये दारोदारपरायणाः ।
कथं जानन्ति ते मूढाः संसार वशवर्तिनः ॥२.१०.७३॥
वृन्दावने राधिकायास्तवतुल्याभवद्दशा ।
श्रीकृष्णचैतन्यप्रभोदर्शेयं घटिता तथा ॥२.१०.७४॥
भक्तिशास्त्रे विलिखिता तच्छास्त्रं
विद्यते मम।
त्वामहं दर्शयिष्यामि दृष्ट्वा त्वं शान्तिमेष्यसि ॥२.१०.७५॥
ये चोत्तमा भक्तिमन्तो नारद प्रसुखाः
श्रुताः ।
सर्वेषामेव तेषां वै दशेयं सुविनिश्चिताः ॥२.१०.७६॥
तयोः संवदतोरेवं प्रायेनार्द्ध दिनं गतम् ।
समीपे भैरवी देव्याः क्षुद्र पेटिका सन्निभः ॥२.१०.७७॥
वस्त्रबन्धन मध्येतु धर्मग्रन्थ समुच्चयः ।
विद्यते साधकवरैरीप्सितो बहु यत्नतः ॥२.१०.७८॥
कण्ठे शालग्रामशिला वस्त्रवद्धाति शोभना ।
ततः सा भैरवी देवी दक्षिणेश्वरमन्दिरे ॥२.१०.७९॥
अवस्थिता योगयुता पूजायान्तु मनोदधे ।
तदा हृदयमाहूय प्रोवाच श्रीगदाधरः ॥२.१०.८०॥
भोजार्थं भैरवी देव्या सधृतं तण्डुलादिकम्
।
भाण्डागारात् समानीय तत्र प्रेरय सत्त्वरम् ॥२.१०.८१॥
एवं गदाधरादिष्टो हृदयस्तत्तथाकरोत् ।
तत्सर्वं प्राप्य सा देवी पाकं सम्पाद्य यत्नतः ॥२.१०.८२॥
भोगद्रव्यं सव्यञ्जनं रघुवीराय भक्तितः ।
सानन्दं सन्निवेद्याथ निमील्य नयनद्वयम् ॥२.१०.८३॥
सहसा हृत्पद्ममध्ये स्फुरित भाव गोचरम् ।
गदाधरं समालोक्य तद्दर्शन महोत्सवे ॥२.१०.८४॥
निर्विकल्प समाधिं सा प्राप योगेश्वरो तदा
।
प्रेमाश्रुधारया पूर्णा तस्या स्थाणूरिवाचला ॥२.१०.८५॥
एतस्मिन्नन्तरे तत्र महायोगी गदाधरः ।
द्रुतं मत्त इवागत्य भोगद्रव्यस्य सम्मुखे ॥२.१०.८६॥
उपविश्य सुखं भुङ्क्ते तद्द्रव्यं
निर्विकारतः ।
भग्ने समाधी ददृशे चक्षुरुन्मील्य भैरवी ॥२.१०.८७॥
स्वेष्ठदेवप्रदत्तान्नमत्ति देवो गदाधरः ।
भावाविष्टो वाह्य ज्ञानरहितो बहुभक्तितः ॥२.१०.८८॥
उवाच प्रकृतिस्थ: स स्वैराचारविलज्जितः ।
न जानामि कुतोऽयं मे भावः स्वज्ञानवाधकः ॥२.१०.८९॥
समायातः कृतन्तेन विपरीतं मयाखिलम् ।
एवं विक्षुब्धभावेन सन्तप्तं तं गदाधरः ॥२.१०.९०॥
भैरवी सा समाश्वास्य सानन्दं प्रत्युवाच
तम् ।
इदं साधुकृतं वत्स नानुष्ठितमिदं त्वया ॥२.१०.९१॥
तदन्तरे वर्तते यस्तेनैवेदङ्कृतं ध्रुवम् ।
ध्यानदृष्टं मया यन्तु तेन ज्ञातं विशेषतः ॥२.१०.९२॥
बाह्य पूजा समाप्ताद्य न
पुनस्तत्प्रयोजनम् ।
कालेनैतावतायुष्मन् या पूजा चरिता मया ॥२.१०.९३॥
परिपूर्ण फलं तस्याः प्राप्तं
भवदनुग्रहात् ।
एवमुक्ता तदा देवी भैरवी हृष्टमानसा ॥२.१०.९४॥
गदाधर भुक्तशेषमन्नं सम्भुज्य यत्नतः ।
आचमनादिकं कृत्वा शुद्ध भावेन भामिनी ॥२.१०.९५॥
साधनाधाररूपां श्रीरघुवीर शिलां तदा ।
पूजास्थानात् समुत्तोल्य धृत्वा तां करपद्मयोः ॥२.१०.९६॥
आकण्ठ जलमग्ना सा गङ्गागर्भे न्यपातयत् ।
तद्दिनावधि सा देवो वाह्य पूजां समत्यजत् ॥२.१०.९७॥
इति श्रीरामेन्द्रसुन्दर भक्तितोर्थ विरचिते श्रीश्रीरामकृष्णभागवते पारमहंसां संहितायां दक्षिणेश्वरे भैरवी देव्याः समागमानन्तरं श्रीरामकृष्ण भैरवी संवादरूपो मध्यलोलाया दशमोऽध्यायः ॥१०॥