प्रास्ताविकानि पृष्ठानि

(पुस्तके वङ्गलिप्या मुद्रितम्)


श्रीश्रीरामः शरणम्

परम् भागवत माननीय पण्डितवर्य श्रीमद्रामेन्द्रसुन्दर भक्तितीर्थ विरचितं श्रीश्रीरामकृष्ण चरितमंशतः समाकर्ण्य परमानन्द सन्दोहमागतोऽस्मि ग्रन्थोऽयमतीव हृआद्यः सरलतया मधुरतया स्वाभाविक गतिविशिष्टतया च शिष्ट जनसुख पाठ्यः समजनि। अस्य ग्रन्थस्य प्रकाशनेन न केवलं ग्रन्थवृतः श्रमसार्थक्यमपितु रामकृष्ण सम्प्रदायस्य महानभ्युदयो भविष्य द्रक्षाकवचमिव सम्भाब्यते। सत्स्वपि वङ्गभाषा निबन्धेषु बहुषु ग्रन्थेषु रामकृष्ण कथा सम्बलितेषु देवभाषाया गौरव विशेषेण सर्वभारतीय विद्वज्जन बोधसौकर्येण श्रीरामकृष्ण भागवत ग्रन्थस्य महान् समादरः सर्वरत्राशास्यते। पण्डितवर्याणां ग्रन्थोऽयं चिरकीर्त्तिकरस्तथा भारत गौरव भारवहो भवेदित्यत्र नास्ति सन्देह लेशो मे।

भट्टपल्ली वास्तव्य श्रीश्रीजीव न्यायतीर्थ देवशर्मणः।
सम्मतिरेषा। ४/६/५९