वेदमूर्ति-श्रीरामकृष्णः

बाल्यकालः

कामारपुकुरस्य लघुरप्ययं ब्राह्मण परिवारो निर्धनोऽपि दुःखितो नासीत् । खुदिरामस्य राममयेन जीवनेन निरन्तरमानन्दविकासोऽजायत । सौम्यमूर्तिरस्य न केवलं निजपरिवाराय, प्रत्युत सकलेभ्योऽपि ग्रामवासिजनेभ्यो महान्तमानन्दं वितरति स्म । खुदिरामस्यासामयिकेन मृत्युना गदाधरस्य हृदयं नितरां विव्यथे । स्नेहमयस्य पितुः खुदिरामस्य देवोपमजीवनेन गदाधरस्य जीवनमपि प्रभावितं बभूव । प्रेममयो जनको गदाधरस्य ज्ञानगुरुरप्यभवत् । गदाधरः पितरमादर्शमानवं, गदाधरं च खुदिरामः शिशुरूपं भगवन्तमपश्यत् ।

श्रीभगवान् व्यासो लक्षश्लोकात्मकमहाभारते संसारस्य यावद्धटनावर्णनानन्तरं तस्य वास्तविकं स्वरूपमुद्घाटयन्नेकस्मिन् लोके उक्तवान् –

“सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्” इति ।

पितुः परलोकप्रयाणेन गदाधरस्य प्रज्ञामये मनसि सांसारिक्या अनित्यताया वास्तविकं स्वरूपमुद्घाटितमभूत् । “न धनेन न प्रजया त्यागेनैके अमृतत्वमानशुः” इत्याप्तवाक्यं गदाधर मानसमन्दिरे झङ्कृतमिवाभूत् ।

गौतमबुद्धेनापि वार्धक्यव्याधिमृत्यूनवलोक्य जीवनस्यानित्यत्वमुपलब्धम् । यत् किल दृश्यं गौतमस्य प्रौढे मनसि संसारस्य वास्तविकं स्वरूपं प्राकाशयत् यतिजीवनप्रेरणां यथा चायच्छत्, तथैव पितृमरणरूपा एकैव साधारणघटना सांसारिकविषयेभ्यस्तोत्रं वैराग्यं समुत्पादयन्ती गदाधरं विरक्तमनसमकार्षीत् ।

बालकस्य हास्यप्रियत्वं नृत्यगीतादिष्वासक्तिश्च गम्भीरभावुकतायां परिणनाम । ततः प्रभृत्येव प्रायशः बालकं भूतिनहरश्मशाने माणिकस्य राज्ञो रसालकाननादिनिर्जनस्थानेषु च एकाकिनं पर्यटन्तं लोका व्यलोकयन् । किन्तु तन्मनसि वैराग्याग्निशिखा प्रज्वलतीति न कश्चिज्जानीयादिति बाह्यव्यवहारादिषु सावधानो गदाधरो मातृसमीपे नितरां सतर्कतामध्यगच्छत् । मातृसान्निध्यमुपेयुषो गदाधरस्य देवसेवागृहकार्यादिषु च जननीसाहाय्यदानं नित्यकर्तव्यमिव संवृत्तम् ।

श्रीपुरीधामगमनमार्गस्तद्ग्रामान् सन्निधत्ते स्म । प्रत्यब्दमनेके निर्धना वैराग्यनिरताः साधवश्च तन्मार्गमाश्रयन्तः श्रीजगन्नाथदर्शनार्थं गतवन्तः । ग्रामस्य भूस्वामिनो लाहामहोदयस्यातिथिशालायां प्रतिदिनमेव यात्रिणां सम्मर्द उपतिष्ठति स्म । ग्रामीणानां प्रतिगृहं साधुसेवाया विशिष्टा व्यवस्था विहिताऽऽसीत् । मातुश्चन्द्रमणिदेव्याः सपर्यादाक्षिण्याकर्षणतो बहवः साधवः सन्तः खुदिरामस्यापि लघीयस पर्णकुटीरे समाययुः । स्वयमुपोषिता स्थित्वा चन्द्रा सर्वेभ्योऽन्नं प्रायच्छत् । सा किल स्वकीयमशनमौदरिकेभ्यः प्रयच्छन्तो नितरां प्रासीदत् । चन्द्रा न कमप्यतिथिं विमुखीकरोतीति सर्वजन-विदितचरमासीत् ।

पितर्युपरते गदाधरस्य साधुसंन्यासिसङ्गप्रियताऽवर्धत । सुन्दरदेवोपमवालकस्य मधुरव्यवहारेण निष्कपटसेवया च सन्तुष्टाः सन्तः संन्यासिनः तस्मै भगवद्भजनशास्त्रादिशिक्षणं ददतो हार्दिका-नाशीर्वादान् समर्पितवन्तः । स्निह्यन्तश्च साधवः कदाचिद् विभूति-भूषितं कदापि चन्दनचर्चितं बालकं विधाय महान्तं प्रमोदमन्वभवन् । कियन्तश्च कौपीनवन्तं वटुसंन्यासिनं समनुष्ठाय नितरामाननन्दुः ।

तदानीन्तनघटनयैकया बालकजीवनस्यैको नवीनोऽध्याय आरब्धः । बालकस्यायुरष्टवार्षिकमभूत् । तस्मिन् समयेऽसावनुपनीत एवासीत् । एकस्मिन्नवसरे कामारपुकुरस्य क्रोशैकमात्रदूरे उत्तरदिशि – आनूडनामधेये ग्रामे प्रत्यक्षीभूतदेव्या विशालाक्ष्या मन्दिरे मनःसङ्कल्पित समर्चासमर्पणार्थं तद्ग्रामनिवासिन्यो बहवः स्त्रियः प्रसन्नमयीप्रभृतयो गन्तुं प्रवृत्ताः। ताभिः साकं बालको गदाधरोऽपि समगच्छत् । तासां सहगामिनीनामनुरोधेन मार्गे गदाधरो भावपूरितमानसः सुमधुरकण्ठेन देव्या महिमानं गातुं प्रावर्तत । गायन् गदाधरोऽकस्मान्निःशब्दो बभूव । तदीयनयने निरन्तरमश्रुधारां प्रावाहयताम् । अङ्गप्रत्यङ्गानि स्तब्धीभूतानि । मुखमण्डलं चालौकिकप्रभया परिपूर्णमभवत् । सूर्यसंतापपातेन बालकोऽयं शीतोष्णता वैषम्यसमाक्रांतो जात इति विचिन्त्य सर्वा अपि स्त्रियश्चिन्तां प्रपेदिरे । काश्चित् तस्य नयनयोर्मुखे च जलं प्रचिक्षिपुः । अपरा व्यजनवातं चक्रुः । बालकश्चैतन्यशून्य एवास्ति । निर्जने मार्गे क उपायोऽनुष्ठेयः ? इति विचिन्त्य सर्वो स्त्रीजनः अतीव व्याकुलितमानस आसीत् ।

अकस्मात् प्रसन्नमय्या विचारितम्, यद् गदाधरे किं देव्या आवेशो जातः ? तदुक्तिमाकर्ण्य सर्वाः स्त्रियो दीनभावेन देव्याः स्तुतिं चक्रुः । आश्चर्यम् ! कियत्कालं यावत् स्त्रीभिर्मिलित्वा कृतेन देवीस्तवेन गदाधर-मुखमण्डले दिव्यहास्यसुमधुरच्छविरदृश्यत । शनैः शनैर्बालकः सचेतनो जातः । सर्वाभिरिदमनुभूतं यद् बालकोपरि वस्तुतो देव्या आवेश एवासीत्। गदाधरे प्रकृतिस्थे जाते सर्वाः स्त्रिय आनन्दिता देवीमन्दिरमुपढौकमाना यथाविधि सपर्यादिकार्यं समनुष्टाय स्वगृहमाजग्मुः । चन्द्रादेवी समाकर्ण्य वृत्तान्तममुं पुत्रस्वास्थ्यविषये चिन्तिताऽभूत् । किन्तु गदाधरः पौनःपुन्येन नैजां जननीं प्रोवाच – “देव्याश्चिन्तनेन मदीयं मनो देवीपादपद्मम् एव व्यलीयत ।”

नवमो हायनः समाप्तिमेति, इत्यालोच्य चन्द्रादेवी रामकुमारश्च गदाधरस्योपनयनप्रबन्धं कर्तुं प्रवृत्तौ, निर्धनपरिवारस्य सर्वमप्यायोजनं सात्त्विकमासीत् । यज्ञोपवीतमुहूर्तो निश्चितः ।

लौहकारिणी धनी गदाधरस्य प्रसवगृहमगच्छत्, चुह्लिकाभस्मचयाच्च बालकमुत्थाप्य सर्वप्रथमं निजक्रोडे गृहीतवती इति पूर्वमेवोल्लिखितम् । बालविधवया सन्तानहीनया चानया स्वहृदयसञ्चितः सर्वोऽपि वात्सल्यरसो गदाधरस्योपरि परिप्लावितः । यावदियं गदाधरमुखेन ‘मा’ शब्द न शृणोति, किश्चिदपि तद्भक्षणार्थं न प्रयच्छति, न सा तावत्सन्तोषमधिगच्छति । एकदा साश्रुनयना धनी बालकस्याभ्यर्णमुपेत्य स्वकीयहृदयभावं प्रकटयन्ती तमुवाच – “उपनयनदिने सर्वप्रथमं मामेव मातरं मत्वा मम हस्तत एव प्रथमभिक्षामङ्गीकुरु ।” धनीप्रेमद्रवीभूतो गदाधर इदं स्वीचकार । तदाप्रभृति ‘भिक्षामाता’ भविष्यामीत्याशया धनी एकैकशः पणसङ्ग्रहपरायणा संप्रवृत्ताऽभवत् ।

उपनयनवेला समागता । गदाधरो रामकुमाराय निजप्रतिश्रुतिमुक्तवान् । (रामकुमारः सदृढ़स्वरमुवाच – “कथमिदं सम्भवम् ? धनी जन्मना नीचजातीया, मम कुले कदाचिदप्येतन्नाभूत्, इदं भवितुं नार्हति ।” खुदिरामः सदाचारी अशूद्रयाजी ब्राह्मण आसीदिति पितुर्ब्राह्मणोचित गुणवार्ता जानन्नपि गदाधरो नैजं हठं न परितत्याज । रामकुमारोऽपि स्वकुलमर्यादापरिरक्षणाय कटिबद्धो बभूव । गदाधरोऽपि स्वीयसत्यसंरक्षणे दृढ़व्रतो भवन् जगाद – “सत्यभ्रष्टो मिथ्याचारी ब्राह्मणोचितयज्ञसूत्रधारणाधिकारी भवितुं नार्हति ।” रामकुमारो व्याकरणकाव्यस्मृतिशास्त्रपारङ्गतो नववर्षदेशीयापरिपक्कबुद्धिबालकमुखादीदृशीं वाचमाकर्ण्य सहसा स्तम्भितो बभूव । अन्ततोगत्वा पितृबन्धुधर्मदासलाहामहोदयमध्यस्थतायां गदाधरेण विजयो लब्धः । ‘सत्यमेव जयते नानृतम् ।’ सत्यान्नास्ति परो धर्मः । सत्यमेव परमः पुरुषार्थः । उक्तमपि महाभारते –

“चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः ।
स्वधीता मनुजव्याघ्र ! सत्यमेकं किलैकतः ।” इति । तथा च —

“अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ।
अश्वमेधसहस्राद्धि सत्यमेवातिरिच्यते ॥” इति ।

नववर्षबालकस्येदृशं स्वीयसत्यरक्षणदृढत्वममानवत्वद्योतकं किं नास्ति ? मनसा कर्मणा वाचा च सत्यस्वरूपे स्वाभाविकं दृढत्वं बाल्यकालादेव श्रीरामकृष्णजीवने परिदृश्यते । बालो गदाधरो मिथ्या वचो न भाषत इति दर्शं दर्शं स्वजीवितदशायां खुदिरामोऽपि परमाननन्दः ।

धर्मस्य चतुर्ष्वपि तपस्या-शौच-दया-सत्याख्येषु पादेषु कलिकालेऽपि सत्यमेव सर्वतो विशिष्यते । परवर्तिनि काले श्रीरामकृष्णदेवो ब्रूते स्म यत् “सत्यभाषणमेव कलियुगे तपः ।“ बाल्यकालादारभ्यैव कर्ममनोवचोभिः सत्यपालनं श्रीरामकृष्णजीवनलक्ष्यभूतमभूत् ।

उपनयनानन्तरं गदाधरस्य भावप्रवणं मनः श्रीरघुवीरस्य ध्यानपूजासपर्यास्वेव निरन्तरं निमग्नमासीत् । क्रीडाक्षेत्रेषु, मार्गेषु, स्थानान्तरेषु च यो वालकः स्वकीयं समयं स्वीयैः सहचरैः साकं क्रीडनकूर्दनेष्वेव व्यत्यगमयत्, स एव गदाधरोऽङ्कुरितेन नवानुरागेण देवपूजायामेव तन्मयो जातः । आत्यन्तिक्या श्रद्धया निष्ठया च गदाधरो रघुवीरस्य, बाणेश्वरशिवस्य, शीतलामातुश्च समर्चनमकरोत् । पूजासमये तदीये नेत्रे सजले अभूताम् ; देवदर्शनार्थं च दीनभावेन तेन सकरुणप्रार्थना समक्रियत । तदीयं व्याकुलत्वमवलोक्य सर्वैराश्चर्यचकितैरभूयत । अल्पीयसैव समयेन गदाधरस्य दीनप्रार्थनया देवप्रतिमाः प्राणवत्यो बभूवुः । गदाधरस्य परमपूते सरले च स्वान्ते देवाविर्भावोऽजायत । अद्यप्रभृति प्रायशो गदाधरो भावाविष्टो दरीदृश्यते । दिव्यदर्शनपरिणामतो दिव्याभा तदीयाङ्गभ्यो निर्बभौ । बालको देवबालकस्वरूपतामधत्त ।

इदानीं गदाधरस्य ध्यानप्रवणता समैधत । शिवरात्रिः समागमत् । बालस्य वयः केवलं दशवार्षिकम् । बालोऽसौ यथाचारमुपोषितो भूत्वा शिवसमर्चया समस्तामपि निशां जागरणेन व्यतियापयितुमियेष । प्रतिवेशिनः सीतानाथस्य वेश्मनि तस्यां निशि शिवमहत्त्वसूचकस्य सङ्गीत नाटकादेः प्रबन्धो विहितः । गदाधरः प्रथमप्रहर पूजनं समाप्य शिवध्याने निमग्नः । तदानीमेव केचित् तस्य सहचारिबालकाः समागत्य तं प्रति शिवस्याभिनयार्थ महान्तमाग्रहमकार्षुः । नाट्यमण्डल्यां शिवाभिनयकर्ता सहसाऽस्वस्थोऽभवत् । अतोऽभिनय सम्पादने नान्य उपाय आसीत् ।

निजसङ्गिनामनुरोधहेलनां कर्तुमसमर्थेन तेन तदर्थं स्वीकृतिः प्रदत्ता । शिववेशविभूषितो गदाधरो यदाभिनयमण्डप प्रविष्टो दर्शकैर्नरदेहेऽवतीर्णः साक्षात् शङ्कर इवानुभूतः । जनतायामेकमतुलनीयमानन्दस्रोतः प्रवाहितम् । तदानीं केचित् “हरि-हरि”-शब्दमुच्चार यामासुः । महिलासमाजश्च उलू उलू इति शब्दमुच्चारयन् शङ्खं दध्मौ । दर्शकसमुदायं शान्तं कर्तुं स्वयं प्रबन्धकः समागत्य शिवस्तवमकार्षीत् । गदाधरः शिवध्याने तन्मयत्वादचेतनो जातः, स हि भावाविष्टश्चित्रार्पित इव निश्चलोऽतिष्ठत् । तदीयकपोलावश्रुधाराभिः संसिक्तौ । बहुकालानन्तरमपि सचेतनो नाऽभूत् । तदानीं गदाधरस्योपरि शिवस्यावेश इति सर्वैरवगतम् । अभिनयो निरुद्धः । स्कन्धे संस्थाप्य स्वभवनं नीतोऽपि स गदाधरः समस्तामपि निशां भावसमाहितो व्यत्यगमयत् । तं तथाविधं दृष्ट्वा गृहजना रुरुदुः । प्रत्यूषे गदाधरस्य सहजदशा पुनः समायाता ।

श्रीरामकृष्णे बाल्यकालादेव सर्वविधसमुन्नतभावानां समुन्मेषः, समावेशो, विकासः, भूम्नः चरमप्रकाशश्च समवालोक्यत, विश्वरूपस्य, भगवत्याः, शिवस्य च ध्यानसमये तस्य भावावेशोऽजायत । क्रमशो रामकृष्णशरीरं सर्वेषां देवानां देवीनामाविर्भावस्थानमभवत् । जागतिके आध्यात्मिकेतिवृत्ते कस्मिन्नपि युगे कुत्राप्यवतारे वा एतादृशं नैव दृष्टचरमास्ते ।

❀ ❀ ❀

गदाधरेण कियदधीतमिति न विशिष्य वक्तुं शक्यते । तथाप्येतन्निश्चितमेव यत् तदध्ययनमतीव स्वल्पमासीत् । अपराविद्यार्जने सुखोपलब्धौ च बाल्यसमयादेव तस्य वैतृष्ण्यमासीत् । एतावतैव वयसा “विद्यां चाविद्यां च यस्तद्वेदोभयं स ह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ।” इत्युपनिषद्वचनानुसारं पराऽपराविद्याभेदस्तेनाज्ञायत, तेनेदमवहितं यद् भूमैव परमसुखस्वरूपः । ज्ञानोपलब्धेरनन्तरं विश्वात्मस्वरूपपरिज्ञाने तस्य दृढसङ्कल्पो बभूव । तद्ब्रह्मोपलब्ध्यनुकूले सर्वत्रैव गदाधरोऽरमत । समीचीनया विधया तेन पठ्यमानं रामायणं महाभारतं च श्रोतुं जनसम्मर्द उपातिष्ठत् । श्रुतिधरत्वगुणेन रामकृष्णायनो प्रन्थः, योगाद्या, सुबाहुनाटकं चेत्यादि सर्व तस्य कण्ठस्थमासीत् ।

शनैः शनैर्गदाधरस्त्रयोदशे चतुर्दशे वाऽब्दे प्रवेशमलभत । तदीय स्वल्परिवारस्य विशिष्टघटनेयमासीत् यत् तस्य कनिष्ठभगिन्याः सर्व- मङ्गलायाः, सोदरस्य रामेश्वरस्य च विवाहो जातः, एवं रामकुमारस्य प्रथमपुत्रस्य रामाक्षयस्य जन्मकाले सूतिकागृह एव रामकुमारपत्नी द्युनिवासभूयमगच्छत् । विद्वानपि रामेश्वरः परिवारस्यार्थिकसाहाय्यदानेऽसमर्थोऽविद्यत । अथ च ज्येष्ठस्य रामकुमारस्य यजनयाजनेन, शान्तिस्वस्त्ययनेन, स्मार्तव्यवस्थादानेन च समुपलब्धेनार्थेन पारिवारिकः सर्वोऽपि व्ययो न पूर्यते स्म, ऋणग्रस्तो रामकुमारो धनागममार्गान्वेषणप्रवृत्तः कलिकातामागत्य झामापुकुर स्थाने पाठशालां संस्थाप्य छात्रानपाठयत् ।

तदानीन्तनं गदाधरजीवनं भगवद्भावमयमासीत् । स्वेष्टदेवसमर्चनानन्तरं तस्य सर्वोऽपि समयो ध्यानादिष्वेव व्यत्यगच्छत् । तन्मुखादीश्वरीयप्रसङ्गमाकर्णयितुं खुदिरामस्याङ्गणे प्रतिदिनं प्रातः सायं च बहवो मानवाः समुपातिष्ठन् । गदाधरेण रामायणमहाभारतपुराणादिपाठेन सुमधुरभजनकीर्तनेन च सर्वेभ्यो दिव्यानन्दः प्रादीयत । सन्ध्यासमये च बाला युवानो वर्षीयांसश्च समागत्य गदाधरसुमधुरकण्ठनिर्गतभावपूर्णमनोहरभजनावलीमाकर्णयन्तोऽश्रुसिक्ता अबोभूयन्त । तदा प्रभृत्येव तदीयजीवनसम्बन्धिन्येका निरवच्छिन्ना भगवद्भावधारा प्रावहत्, यस्याः सुशीतलस्पर्शो बहूनामेव मनुतनुजनुषां प्राणमनःशान्तिलाभायालमभूत् । ईश्वरीयविषयेऽनुरक्तो गदाधरः सांसारिके विषये नितरां विरक्त आसीत् ।

पारिवारिककार्यकलापनिरीक्षणार्थं रामकुमारो वर्षे एकवारं स्वगृहमायाति स्म । गदाधरस्य सर्वेषामाचाराणां साधीयस्त्वेऽपि पठने रुचिर्नासीत् इति रामकुमारेण अवलोकितम् । पितृहीनस्वलधीयसो भ्रातुर्भाविजीवनसम्बन्धे रामकुमारो मनसि निरन्तरमतप्यत् । किन्तु प्रियगदाधरस्नेहात् किमपि वक्तुमसौ न प्रावर्तत ।

रामकुमारः कियद्भ्यो हायनेभ्यः कलिकातायां स्वीयं संस्कृतविद्यालयं चालयति । चतुर्द्दिक्षु तद्विद्यालयप्रशंसा प्रसृता । पाठशालायामध्यापनातिरिक्तमपि सन्निहितविशिष्टगृहेषु यजनयाजनादिना रामकुमारेण धनमुपार्जितम् । एकाकिना तेन निखिलमपि कार्यभारमुबोढुं काठिन्यमनुभूतम् । तदानीं तस्य गदाधरः स्मृतिपथमारूढः । आलोचितम् – “कलिकातायां गदाधरस्यानयनं समीचीनं स्यात् । पाठशालायां पठिष्यति, पूजनमर्चनमनुष्ठास्यति, याजनादिकर्मणि साहाय्यं च दास्यति, एवं तदीयभाविजीवनस्य व्यवस्थापि सम्पत्स्यते” इति ।

रामकुमारः स्वगेहमागत्य मात्रा भ्रात्रा च सह परामर्शं विधाय कलिकातायां गमनवार्तां गदाधरं श्रावितवान् । ज्येष्ठस्य भ्रातुरादेशः पित्रादेशतो नातिरिच्यत इति विचार्य गदाधरः कलिकातागमनं स्वीचकार । शुभेऽहनि श्रीरघुवीरं प्रणम्य चन्द्रमणिचरणधूलिं शिरसि निधाय मातुः स्नेहचुम्बनमादाय च स्वीयज्येष्ठभ्रात्रा साकं गदाधरः कलिकातां प्रतस्थे ।

❀ ❀ ❀


वाल्मीकिरामायणम् २.१०५.१६
कैवल्योपनिषद् ३
महाभारतः ३.६१.१६
महाभारतः शान्तिपर्वम् १६२.२६
माङ्गलिकावसरेषु जिह्वान्दोलनपूर्वकं स्त्री-ध्वनिम् ।
ईशोपनिषद् ११