वेदमूर्ति-श्रीरामकृष्णः

सर्वं खल्विदं ब्रह्म, नेह नानास्ति किञ्चन

राण्या रासमणिदेव्याः कालीमन्दिरस्य कीर्तिश्चतुर्दिक्षु प्रसृता । साधुसेवायामप्यसौ मुक्तहस्ता । अनेके तीर्थयात्रिणः साधवः संन्यासिनः सिद्धपुरुषाश्च दक्षिणेश्वरे समायान्ति । तदानीं कस्यचित्साधुपुरुषस्य साहाय्यतः श्रीरामकृष्णेन प्राणायामादिहठयोगक्रियाऽभ्यस्ता । तत्फलरूपेण तस्य जडसमाधिप्राप्तेरुपक्रमो बभूव । परन्तु जगत्कल्याण साधनं तज्जीवनोद्देश्यमिति भगवत्कृपया जडसमाधौ तस्य प्रवृत्तिर्नाभूत् ।

हलधारिणश्चर्चाऽस्माभिः पूर्वमनुष्ठिता । स किल राधाकृष्णस्य पूजक आसीत् । अस्मिन्समये रहसि परकीया प्रेमसाधने प्रवृत्तः । वैष्णवमतेऽयमप्येकः साधनमार्गः । तस्य निन्दा सर्वतः प्रसृता । वाक्सिद्ध आसीदसाविति, अतस्तदभिमुखं किञ्चित् कथयितुं कस्यापि साहसं नाभवत् । सद्धर्मप्रवर्तकः श्रीरामकृष्णस्तत्कल्याणकामनयैकदा तं बोधयितुमगच्छत् । परन्तु फलं प्रतिकूलमेव जातम् । क्रुद्धेन हलधारिणा प्रत्युक्तम् – “कनिष्ठो भूत्वा त्वं मामनादृतवानसीति तव मुखाद् रुधिरं निर्गच्छतु ।”

ततः किञ्चिद्दिनानन्तरं सन्ध्यासमये श्रीठाकुरस्य तालुदेशतो निरवच्छिन्नो रक्तस्रावः प्रारब्धः । तेनोक्तम् – ‘सेमपत्ररसवत् कृष्णवर्णमिदं रुधिरम् मुखाभ्यन्तरे वस्त्रखण्डप्रदानेनापि न रक्तस्रावो निरुध्यते ।’ समाचारं प्राप्यानेके समागताः । हलधारी चापि सविस्मयं समागतः। “मयोक्तोऽसौ – ‘भ्रातः शापं दत्वा त्वया मम कीदृगपकारः कृतः । पश्य ।’ सोऽपि रुरोद । ‘तस्मिन् दिवसे एको वृद्धः साधुर्मन्दिरे समागच्छत् । कोलाहलमाकर्ण्य सोऽपि तत्र समायातः । परीक्षणानन्तरं तेनोक्तम् – ‘ज्ञायते त्वया हठयोगसाधना क्रियते स्म परं न किमपि भयकारणम् । रुधिरपातः समीचीन एवाभवत् । हठयोगस्य चरमा सिद्धिर्जडसमाधिरेव । तवापि स एव सिध्यति स्म । रुधिरं शिरसि न समागत्य मुखादेव विनिर्गतम् । एतल्लक्षणं समीचीनमेव । यतः समधिगतो जड समाधिर्न कदापि भग्नो भवति । तव शरीरेण जगन्मातुः किमपि विशिष्टं कार्यं सम्पत्स्यते । अतः प्रकारेणैतेन त्वं रक्षितः ।’ साधोर्वचनमिदमाकर्ण्य मया सन्तोषो लब्धः ।” श्रीठाकुरस्य शरीरं देवरक्षितं देवकार्यायैव वर्तते । अतः यावत्तत्कार्यसमाप्तिर्न स्यात् न तावदिदं नङ्क्ष्यति ।

❀ ❀ ❀

हलधारिणा सह श्रीठाकुरस्य रहस्यमयः सम्बन्ध आसीत् । श्रीठाकुरो वयसा लघुर्हलधारिदृष्ट्या वज्रमूर्खश्च । हलधारी वयः श्रेष्ठः शास्त्रज्ञः पण्डिताभिमानी चाविद्यत । तथापि श्रीठाकुरस्य दिव्यभावावेशं, जगन्मातृभावे तन्मयत्वं, भगवद्गुणनामगानश्रवणेऽपूर्वमुल्लासं च दर्शं दर्शं तेनेदं विज्ञायते स्म यद् रामकृष्णस्याभ्यन्तरे ध्रुवमेव ईश्वरावेशो जायते । हृदयराममुद्दिश्य हलधारी स्वयमुवाच च – “नूनमेव त्वया तस्याभ्यन्तरे किञ्चिद्दृष्टम्, अन्यथा एतावता यत्नेन तस्य सेवा सम्पादनं न सम्भवम् ।”

श्रीठाकुरकृतं समर्चनमवलोक्य हलधारी मुग्धो भवन् उवाच – “रामकृष्ण ! इदानीं मया त्वं परिज्ञातः ।” एतादृशघटनायाः परिसमाप्तिरेकया विचित्ररीत्या समभूत् । कालीमाता तमोगुणमयी, अतस्त्वया तस्या आराधना न विधेयेति श्रीरामकृष्णो हलधारिणा प्रोक्तः । एकस्मिन् दिवसे श्रीठाकुरो मन्दिरं प्रविश्य रुदन् भवतारिणी पृष्टवान् “मातः ! किं त्वं तमोगुणमयो असि ? हलधारी तु तथैव वक्ति ।” जगन्मातुर्मुखात् तद्यथार्थस्वरूपमाकर्ण्य भावाविष्टः श्रीठाकुरो हलधारिणः समीपमागत्य, तत्स्कन्धमारुह्य च प्रत्युवाच – “त्वया मम माता तामसी प्रोच्यते ? किं मम जननी तामसी ? जननी तु त्रिगुणमयी सत्यपि विशुद्ध सत्त्वगुणमयी विद्यते ।” भावाविष्ट-श्रीठाकुर-स्पर्शनेन पूजासनोपरिसमुपविष्टस्य हलधारिणोऽन्तःकरणं दिव्यालोकोद्भासितं संवृत्तम् । स च श्रीठाकुरस्याभ्यन्तरे जगन्मातुः प्रकाशमवलोक्य श्रद्धया तच्चरणयोः पुष्पाञ्जलिं समापर्यत् ।

हृदयरामो घटनामेतामद्भुतामपश्यत् । स चानन्तरं हलधारिणं पृष्टवान् – “मातुल ! भवान् कथयति – रामकृष्णोपरि भूतावेशो वर्तते, यद्येवं तर्हि भवता तस्य पूजनं कथं कृतम् ?” हलधारिणा उत्तरितम् – “किं वच्मि, हृदयराम ! कालीमन्दिरादागत्य ममोपरि कीदृशमिन्द्रजालमयमपातयदिति न वेद्मि । इदानीं मया सर्व विस्मृतम् । तदभ्यन्तरे मया साक्षाद्भगवतः प्रकाशो दृष्टः । कालीमन्दिरे यदैव श्रीरामकृष्णसमीपमुपसर्पामि तदैव मया तथैव दृश्यते । कीदृशोऽयमत्यद्भुतश्चमत्कारः, मम मतिः किमपि निर्णेतुं न प्रभवति ।”

ततः प्रभृति सङ्ख्यातीता भाग्यशालिनः पुरुषाः श्रीठाकुरस्याभ्यन्तरे जगन्मातुरन्यान्यदेवदेवीनां च प्रकाशमवलोक्य देवमानवभावनया सश्रद्धं तं पूजयन्ति ।

❀ ❀ ❀

तदानीं काले तेन ‘मृत्तिका रूप्यकम्, रूप्यकं मृत्तिका’ चेत्यभिनवं साधनमनुष्ठितम् । एतत्साधनावसरे श्रीठाकुरेण सुवर्णमृदोः समानज्ञानं प्राप्यते स्म । ‘समलोष्टाश्मकाञ्चन’ इति शास्त्रवाक्यं प्रमाणितमभवत् । ततश्च तेन समदर्शनस्य समज्ञानस्य च विविधसाधनमनुष्ठितम् । आब्रह्मस्तम्बपर्यन्तेषु सर्वेस्वपि वस्तुषु प्राणिनिवहेषु च श्रीभगवतः प्रकाशमालोकयन् असौ “शुनि चैव श्वपाके च पण्डिताः समदर्शिन” इति शास्त्रवाक्यं स्वजीवने चरितार्थयामास ।

तदानीं भावाधिक्यवशात् “सर्वं खल्विदं ब्रह्म, नेह नानास्ति किञ्चन” इत्युपनिषद्वाक्यं सङ्गतमभवत् । सामान्यजातिकुलसीमा भावप्लावनेन विनाशमगच्छत् । अज्ञातजातीनामौदरिकानामुच्छिष्टं महाप्रसादबुद्धया स्वीचकार । तदुच्छिष्टस्थानं च स्वयमेव मार्जनीभिः समशोधयच्च । भगवांस्तु सर्वत्रैव परिव्याप्नोति, हेयोपादेयताबुद्धेः कुतोऽवकाशः ? श्वपाकोऽपि भगवद्रूप एव । श्वपाककर्मापि भगवत्समर्चनमेव । अतस्तेन तदपवित्रस्थानं स्वशिरोजटाभिः मार्जयित्वा पवित्रीकृतम् । एतावदेव न हि तदनन्तरं बहूनि रोमाञ्चकारीणि अभिनवसाधनानि समनुष्ठितवान् । शास्त्रेषु तादृशसाधनानामुल्लेखो नास्ति । शास्त्रं नाम किम् ? तत्तु अवतारभूतपुरुषाणामनुशासनवाक्यं, तथा महामानवानां च वचनमेव । श्रीठाकुरस्य समबुद्धिसाधना तदानीं चरमसीमानं प्रापद् यदाऽसौ परकीयं मलमपि निर्विकारचेतसा रसनयाऽस्पृशत् । तदानीं तद्दृष्ट्या सुगन्धितचन्दने दुर्गन्धितमलेऽपि किञ्चिदन्तरं नासीत् । एतादृशसाधनायामप्यसौ सफलोऽभवत् ।

एतादृशसाधनप्रेरणा गुरूपदेशेन नाधिगता । स्वीयशुद्धमनसः प्रेरणयैव तथाविधसाधनायां स्वयं प्रववृते । स उवाच – “शुद्धमनो नात्मातिरिक्तम्, तदेव शुद्धं मनः गुरोः कर्म सम्पादयति ।” सद्गुरुरिव तस्य जन्मपरिशुद्धमन एव बाल्यात् तस्य कृते साधनपथं निर्दिशति । तदीयं शुद्धं मानसमेव युवसंन्यासि वेशानुरूप सूक्ष्मदेहं गृहीत्वा सर्वानपि साधनविषयान् यथाकालं तं निर्दिदेश विषयेऽत्र परवर्तिनि काले श्रीठाकुरः स्वयमेव प्रोवाच – “मादृश एव कोऽपि युवा ममाभ्यन्तरतः संन्यासिवेशं गृहीत्वा निर्गत्य सर्वस्मिन् विषये मामुपादिशत् । तन्मुखाद् यद्यदाकर्णितं तदेव सर्व ब्राह्मणीनागाप्रभृतयो ममाभ्यर्णमागत्योपदिदिशुः । एतेनैतत्प्रतीयते यत् केवलं शास्त्रविधेः सत्यतां तन्मर्यादां चाक्षुण्णां विधातुं ते गुरुरूपतो मम जीवने समुपस्थिताः समभूवन् । एतदतिरिक्तं गुरुरूपतस्तेषां ग्रहणस्य कारणान्तरं नोपलभ्यते ।”

साधनकालिकप्रथमचतुर्वर्षाणामन्तिमे भागे श्रीठाकुरस्यैकं   महत्त्वपूर्णमलौकिकं दर्शनं समपद्यत । तदानीं कालेऽसौ कामारपुकुरे ग्रामे न्यवसत् । शिविकामारुह्यैकदा शिवहर (शिहड ) ग्रामनिवासिनो हृदयरामस्य गृहं गच्छन्नासीत् । सुविस्तृतपरिसरस्य, छायाशीतलमार्गस्य, प्राकृतशोभासमृद्ध मनोहर परिवेशस्य, सुनीलाकाशमहत्तादीनां च प्राकृतिक सौन्दर्यस्यानन्दमनुभवन् गच्छन् अभूत् । सहसैव तेन दृष्टम् – स्वस्यैव शरीरात् सुन्दरौ द्वौ किशोरबालकौ अकस्मात् निर्गत्य काननोत्पन्नपुष्पान्वेषणतत्परौ कदापि परिसरे धावतः, कदापि च शिविकापार्श्वमुपस्थाय हसन्तौ वार्तालापहासपरिहासादिकं कुर्वाणौ सहैवागच्छताम् । बहुकालपर्यंतं विविधप्रकार क्रीडां कुर्वन्तौ तौ द्वापि दिव्यमूर्ती तस्यैव देहे पुनः प्रविष्टौ । सहजदशायामेव श्रीठाकुरेणैतादृशो लीलाभिनयो दृष्टः ।

❀ ❀ ❀


श्रीमद्भगवद्गीता १४.२४
श्रीमद्भगवद्गीता ५.१८
निरालम्बोपनिषद् ९
ततः प्रायशः सार्धैकवर्षे व्यतिगते दक्षिणेश्वरे चैकदा प्रसङ्गवशात् भैरवीं ब्राह्मणीमुद्दिश्य एतादृशदर्शनकथां श्रीठाकुरो जगाद । ब्राह्मणी समुत्तेजिता सावेगं बभाषे – “महात्मन् ! त्वया सत्यमेव दृष्टम् । सम्प्रति नित्यानन्ददेहे श्रीचैतन्य आविर्भूतः। नित्यानन्दः श्रीचैतन्यश्च साकमेव भवदभ्यन्तरस्थौ ।” ततो ब्राह्मण्या चैतन्यभागवतात् तदनुरूपः श्लोकः समुद्धृतः ।
   केवलं ‘श्रीगदाधरः’ रामकृष्णरूपेण समवतीर्णोऽभवदेतदेव नास्ति, तत्र गौरीशङ्करयोः, सीतारामयोः, ईसामुहम्मदयोः, नित्यानन्दचैतन्ययोरन्येषां चावताराणां समावेशो बभूवेत्यग्रे वक्ष्यते ।