वेदमूर्ति-श्रीरामकृष्णः

विवाहः

श्रीठाकुरस्य प्रथमचतुर्वार्षिकसाधनेषु तथा च स्वकीयजीवनस्य सर्वाभ्यर्हितसाधनासु साम्प्रतमयं व्रती बभूव । केवलं तस्यैव जीवने न हि, प्रत्युत संसारस्याध्यात्मिके इतिवृत्ते दुस्तरतमेयं साधना । ‘क्षुरस्य धारा निशिता दुरत्यया’ इत्यपेक्षयापि सुदुस्तरे साधनासमुद्रे निर्भीकं न्यपतदित्यस्यापि परिचयोऽत्र प्राप्स्यते ।

गदाधर उन्माद रोगग्रस्ततया मन्दिरे सम्प्रति पूजनं नानुतिष्ठतीति चन्द्रमणिदेव्या समाकर्णितम्, रामेश्वरेणापि । मातृवक्षःस्थलं निपीड्य स्नेहमयी धारा चन्द्रमणिनेत्रयोरुद्भूता । हा रघुवीर ! मम भाग्ये इदमेवास्ति । मातुर्हृदयं चिन्ताशतैराकुलितं संवृत्तम् । पत्रपरम्परा विलिख्य माता चन्द्रमणिः स्वकीयं स्नेहनिधिमाहूतवती । तदानीं वंगीय १२६५ संवत्सरस्य (१८५८ ई०) कार्तिकमासो भवेत् ।

श्रीरामकृष्णस्योन्मादभावं विलोक्य ‘मातः मातः’ इति क्रन्दनशब्दमाकर्ण्य च चन्द्रमण्या वक्षःस्थलं विदीर्यते । तया मन्त्रतन्त्रादिभिः शान्तिकरणस्य औषधादिचिकित्सायाश्च प्रबन्धो विहितः । मान्त्रिकाः समागत्य भूतनिवृत्ति प्रयोगान् विहितवन्तः । सर्वैरुक्तम् “अयं भूतावेशो नास्ति” इति ।

श्रीठाकुरः पूर्ववत् स्वसुहृद्भिः साकं परिहासं सुमधुरव्यवहारं चाकरोत् । परन्तु तत्र किञ्चिदन्तरमप्यविद्यत । सुहृदो यथापूर्व तमालिङ्गितुं न प्राभवन् । कियद्दिवसानन्तरं भावोऽयं यथाकथञ्चित् शान्तिमवाप, परन्तु तदानीमपि यदा कदा भावावेशो जागर्ति स्म । निरन्तरमेकस्यानन्दस्य मादकतायामयं निमग्नस्तिष्ठति । बाह्योच्छ्वासो न तावानधिक आसीत् । विरहस्य तन्मर्मभेदिक्रन्दनमपि न श्रूयते । एतर्हि परिपूर्णतामहानन्दसागरे मनस्तदीयं नितरां सम्भृतमिव विलोक्यते । न तत्र तरङ्गाः, न वा स्फीतयः, तद्धि प्रशान्तसमुद्रवत् शान्तमासीत् । जगन्मातुर्विविधदर्शनेनायमात्मस्थोऽभवत् । अशनादिकमपि आंशिकरूपेण स्वाभाविकमेवासीत् ।

“श्रीठाकुरो भूतिजलप्रवाहस्थले बुधईमण्डलश्मशाने च समयमधिकं व्यत्ययति । अहोरात्रं तत्र गत्वा विविधां साधनामनुतिष्ठति । मातुर्देव्याः सङ्गिन्यो योगिन्यो डाकिन्यश्चाहूयन्ते । ताभ्यो भोगमर्पयित्वा प्रसीदति । एकदा निशीथे संवृत्तेऽपि गदाधरो न गृहं न्यवर्तत । इदमवलोक्य रामेश्वरस्तमाह्वयन् श्मशानाभिमुखं प्रतस्थे । दूरत एव परिचितं भ्रातृशब्दं समाकर्ण्य गदाधरचीच्चकार – “अहमागतोऽस्मि भ्रातः ! भवता नाग्रे सर्तव्यमन्यथा उपदेव्यो भवतो हानिं विधास्यन्ति ।“

क्रमशो निर्बाधं निरन्तरदर्शनं जगन्मातुर्नानाभावविलासाच श्रीरामकृष्णमानसं परिशान्तयन्ति। बाह्यतो गदाधरं किञ्चित् स्वस्थमवलोक्य चन्द्रमणिनेत्रयोरानन्दाश्रणि समुद्भूतानि । चन्द्रमणिदेव्या गदाधरस्य विवाहनिश्चयः कृतः । एकान्ते रामेश्वरेण सह परामर्शं विधाय गुप्तरूपेण योग्यकन्यामन्वेष्टुं चतुर्दिक्षु तया मानवाः प्रहिताः । गदाधरो जानीयाद् यदि नूनं न स्वीकरिष्यतोतिहेतुना सुगुप्तमनुसन्धानमक्रियत । कन्या तु समुपलब्धा, परन्तु तावन्ति रुप्यकाणि कुतः प्राप्तव्यानि ? कन्या यावती वयःस्था सुन्दरी च लब्धा, देय (देहज) रूप्यकाण्यपि न न्यूनानि । क्रमशश्चन्द्रमणिरामेश्वरयोर्मनो गम्भीर विषादपरिपूर्णमभवत् । इदानीमुपायान्तरं किमस्ति ? इमे निर्धनाः सन्ति । मातुः पुत्रस्य च परामर्शो यद्यपि सुगुप्त एव वर्तते, तथापि तं श्रीठाकुरोऽपि परिज्ञातवान् । स मनसैव सर्वं कौतुकमपश्यत् । यदा चन्द्रमणिचित्तं हताशं संवृत्तम् तदा एकस्मिन् दिवसे भावावेशेन श्रीरामकृष्णेन प्रोक्तम् – ‘अन्यत्रान्वेषणं व्यर्थम्, जयरामबाटीस्थानस्य रामचन्द्र मुखोपाध्यायस्य गृहे कन्या क्रीडति, गत्वा तां पश्यत ।”

तत्कथनानुसारमन्वेषो जातः । अन्यविषये यदस्तु परन्तु वयोविचारतः सा केवलं षड्वार्षिकी बालिका आसीत् । भवितव्यतां परिज्ञाय चन्द्रादेव्या तयैव सार्धं गदाधरस्य परिणयो निर्णीतः । १२६६ वंगीयहायनस्य (१८५६ ई०) वैशाखमासस्यान्तिमसप्ताहे शुभोऽयं विवाहः सुसम्पन्नः। शतत्रयं रूप्यकाणां प्रदत्तमभूत् । तदानीं श्रीरामकृष्णवयश्चतुर्विंशतिवर्षात्मकम्, श्रीसारदामणेस्तु केवलं षड्वर्षात्मकम् । विवाहे आडम्बरस्य लेशोऽपि नाभवत् । परन्तु साधारणी घटनेयं संसारस्येतिहासे कियद्गुरुस्थानमधिकृतवतीत्यत्राग्रे प्रदर्शयद्भिः अस्माभिः किञ्चिदालोचयिष्यते ।

निर्धनाऽपि चन्द्रादेवी वंशसम्मानरिरक्षयिषया ग्रामभूस्वामिनो लाहामहोदयस्य गृहात् भूषणानि समादाय नवबधूमलङ्कृतवती । भूषणानां प्रत्यर्पणसमयः समागतः, परन्तु चन्द्रादेवी बालिकाया वध्वा अङ्गादाभूषणान्यवतारयितुं न शेके। मानसिक कष्टाभिभूता वृद्धा अञ्चलेनाश्रूण्य पाकुर्वती सारदां निजाङ्के कृतवती । सूक्ष्मदर्शी श्रीठाकुरो मातुर्दिकीं वेदनामवागच्छत् । प्रगाढनिद्रां गतायाः वध्वा अङ्गेभ्यः शनैः शनैराभूषणान्यवतार्य स मातुः करयोः समर्पयत् । प्रबुद्धा सारदा रुदती स्वश्वश्रूमुक्तवती – ‘ममाभूषणानि क गतानि ? चन्द्रमणिः किमुत्तरं दद्यात् । तस्या अपि वक्षःस्थलं विदीर्यते स्म, स्नेहपुत्तलिकां बालिकां वधूमिमां स्वाङ्के समारोप्य सा गदगदस्वरेण तां प्रोवाच – “मा रुदिहि पुत्रि ! गदाधरस्ततोऽपि सुन्दराणि भूषणानि तवार्थं निर्मापयिष्यति ।”

परन्तु तस्मिन् एव दिने वध्वाः पितृव्यः समायातः, सर्व विदित्वाऽत्यसन्तुष्टः कन्यां स्वगृहमानयत् । पारिवारिकजनेभ्यः सांत्वनां ददत् श्रीरामकृष्णः परिहसन्नुवाच – “ते किमपि वदेयुर्विदध्युर्वा विवाहस्तु नैव विच्छेत्स्यते ।”

विवाहानन्तरं श्रीठाकुर एकवर्षाधिककालं यावत् कामारपुकुरे न्यवात्सीत् । १२६७ वर्षीये (१८६० ई०) अग्रहायणे मासे वधूः सप्तमे वर्षे प्रविवेश । कुलप्रथामनुसृत्य किञ्चित्कालकृते श्वशुरपुरमसौ जगाम । शुभे मुहूर्ते पत्नीमादाय कामारपुकुरे पुनराययौ । किञ्चिद्दिनानन्तरमसौ पूर्ण स्वास्थ्यं लब्ध्वा दक्षिणेश्वरमागत्य यथापूर्वं काली मातुः समर्चायां पुनः संलग्नः ।

एतावद्दिनानि मन्दिरे स्वसन्तानमनवेक्ष्य माता व्याकुलीबभूव । माता समागतं शिशुमालिलिङ्ग । ततः श्रीठाकुरस्योन्मादभावस्ती तया ववृधे । पूर्ववत् शरीरे ज्वाला, अशान्तिश्चाविद्यत । वक्षो रक्तरञ्जितमिव जातम् । निर्निमीषे नयने । निमेषशून्यनयनाभ्यां विविधरूपेषु सर्वेषु वस्तुषु सर्वत्रैव सर्वभावैर्मातरमेव पश्यति ।

मथुरमहोदय आश्चर्यचकितोऽभूत् । विवाहानन्तरं तु मनसा शान्तेन भवितव्यम् । परन्तु वैपरीत्यं जातम् । एतेन मधुरमहोदयस्य श्रद्धा भक्तिश्च श्रीरामकृष्णोपरि सुतरामवर्धत । स च चिन्तातुरो रामकृष्णं कलिकाताया विश्रुतकविराजगङ्गाप्रसादसेनस्य चिकित्सायां संरक्षितवान् । फलाभावेऽपि चिकित्सा प्राचलत् । एकदा हृदयरामेण सह श्रीठाकुरो वैद्यमहोदयस्य गृहमागतवान् । तत्र कविराजमहोदयस्य निकटसम्बन्धी कश्चिदपरो वृद्धवैद्यो व्यराजत । रोगलक्षणान्याकर्ण्य तेनोक्तम् – “एतस्य दिव्योन्माददशा विज्ञायते, योगजोऽयं व्याधिर्नैव कदापि औषधादिना शान्तिमाप्स्यति ।” एतदेव संवृत्तम् । रोगो नोपशशाम, उन्मादावस्था च परिववृधे ।

कामारपुकुरे पुत्रस्य रुग्णतामाकर्ण्य चन्द्रादेवी रुदती चिन्ताशतैराक्रान्ता ‘वृद्धशिवमन्दिर’-शरणं शरणीचकार । वृद्धशिवोऽयं जाग्रद्देव इति लोके विश्रुतः । चन्द्रा निराहारा मन्दिरे तस्थौ । अशरीरिणी वागुदचरत् – “मुकुन्दपुरस्य शिवसन्निधाने प्रायोपवेशनेन तव मनोरथः सेत्स्यति ।” यथाऽऽदेशं वृद्धा उपवासपरा मुकुन्दपुरशिवसमीपमागत्य न्यपतत् । दिवसत्रयानन्तरं दिव्यशरीरसमाविर्भूतः शिवश्चन्द्रामवोचत् – ‘मा भैषीः, तव पुत्र उन्मत्तो नास्ति, ईश्वरीयभावावेशात्तदीयैषा दशा ।’ स्वल्पां शान्तिमासाद्य चन्द्रा स्वगृहं परावर्तत ।

इतश्चैका विचित्रा घटना मथुरमहोदयजीवने विराट्परिवर्तनमकरोत् । श्रीठाकुरस्याभ्यन्तरे मथुरमहोदयेनैकमलौकिकं दर्शनमनुष्ठितम् । एतद्घटनाविषये श्रीठाकुर एवैकदा प्राचीकथत् – “मया मथुरं प्रत्यभिहितम् त्वं किं करोषि त्वं श्रीमानसि, राणीमहोदयायाः जामाता, त्वामेवं कुर्वाणं विलोक्य लोकाः किं कथयिष्यन्ति । स्थिरो भव, उत्तिष्ठ ।” स च किं शृणुयात् ? ततः प्रशान्ताय तस्मै सर्वोऽप्युदन्तः स्पष्टतया प्रोक्तः । तेनापूर्वं दर्शनं लब्धम्, उक्तं च – “भगवन् ! भवतो भ्रमणं मया दृष्टम् यदा भवानितः समागतस्तदा मया विज्ञातम् – भवद्रूपे मम मन्दिरस्य माता वर्तते, ततश्च परिवृत्यान्यत्र गच्छता मया दृष्टम् – यदयं महादेवो वर्तते । दृष्टिभ्रमाशङ्कया चक्षुषो प्रोंछ्य पुनर्दृष्टं तदेव । बहुवारं विलोकितं भवद्रूपे माता पार्वती शिवश्च ।” इत्युक्त्वा स रुरोद । मयोक्तम् – “मया तु किमपि न ज्ञायते पुत्र !” परन्तु कः शृणुयात् । बहुबोधितः शान्तो बभूव । मथुरः किं स्वेच्छयैतत् चक्रे ? न हि, जगज्जननी तं स्वयमेव सर्वमिदमदर्शयत् ।”

एतद्दर्शनानन्तरं मथुर महोदयस्य मानसी शङ्का निरस्ता । ततः प्रभृति जीवनस्यान्तिमक्षणं यावत् स ठाकुरं महामानवं धृतमनुष्यदेहं देवं च समवधार्य तदीयां भक्तिं सेवां च विहितवान् । तद्दिनात् परिपूर्णेन मनसा श्रीठाकुरं श्रद्दधौ, तत्सपर्यां च परमपुरुषार्थं मेने ।

❀ ❀ ❀


कठोपनिषद् १.३.१४