श्रीसारदादेवीचरितम्

श्रीमातुः साधना

श्रीसारदादेवी यदा दक्षिणेश्वरे समागता, तदानीमियमूनविंशतिवर्षदेशीयाऽऽसीत् । तदानीमेकदा चरणसंवाहनपरा श्रीसारदादेवी श्रीरामकृष्णमपृच्छत् – “कीदृश्या भावनया भवान् मां पश्यति ?” इति । सहजस्वरेण श्रीरामकृष्णः प्रत्यभाषत – “या माताऽस्मिन्मदिरे विद्यते सैवास्य (मम) शरीरस्य जन्मदात्री तथा सैवेदानीं नौबतस्थाने वसति । सैव चात्र मम पादसंवाहनं करोति । सत्यमेव निरन्तरं त्वां साक्षादानन्दमयीरूपमेवावलोकयामि” इति ।

कामगन्धशून्यमानववीयदेहसम्बन्धविहीनस्यैतदपार्थिवदाम्पत्यजीवनस्यालोचनाप्रसङ्गः वयमप्यात्मसमाहिता भवितुमर्हामः । अन्यथैतादृशदिव्यप्रेममयलीलाया महत्त्वं न बोद्धुं शक्यते । ततः प्रभृत्येव तस्या दाम्पत्यजीवनं, साधनं, भजनं च सहैव प्राचलन् । सांसारिकदृष्टया श्रीठाकुरः श्रीमाता च दम्पती बभूवतुः । परमेतावानेव तत्सम्बन्धे पर्याप्तपरिचयो नास्ति । अयं तु सर्वथा बाह्यसम्बन्ध आसीत् । श्रीठाकुरं प्रति श्रीमातुर्भक्तिमाकर्षणं चावलोक्यैकदा परिहासमुखेन हृदयरामो मातुलानीमवोचत् – “सर्वे मातुलं ‘बाबा’ इति कथयन्ति । किं भवत्याऽपि ‘बाबा’ पदेनाभिधातुं शक्यते ?” अतिस्वाभाविककण्ठेन श्रीसारदादेवी उदतरत् – “तं ‘बाबा’ इति किं कथयसि हृदय, स तु मम ‘बाबा’ ‘माता’ च सर्वमास्ते ?” अनन्तरं कदाचिद् भक्तप्रश्नोत्तरे तथा प्रोक्तम् – “तमहं सन्तानभावेन पश्यामि ।“ श्रीठाकुरेणैकवारं कथितम् – “आवां द्वावपि मातुः सङ्गिनौ स्वः ।” श्रीमाता श्रीठाकुरं समस्तसम्बन्ध केन्द्ररूपममन्यत । उपर्युक्त वर्णनेन तयोः पारस्परिकरहस्यमयगोप्य सम्बन्धस्य कथमपि कश्चिदाभासो लभ्यते, परमेतावतैव तदलौकिकसम्बन्धमर्मोद्घाटनं न जायते, प्रत्युत तयोः पारस्परिक दिव्य सम्बन्धो नितरां जटिलायते ।

श्रीठाकुरस्य साधना कालजीवनेतिहासस्तु कोऽपीषद्रूपेण परिज्ञायते, किन्तु श्रीमातुर्जीवनस्य बहूनां घटनानामिव तदीयसाधनस्येतिहासोऽप्यश्रुतोऽज्ञात एव तिष्ठति । तस्याः अधिकांशसाधनानि लोकानां परोक्षे समनुष्ठितान्यभूवन् ।

मुमुक्षवः साधारणसाधकाश्च स्वविमुक्तिहेतवे साधनान्यनुतिष्ठन्ति । किन्तु परमेश्वरप्रेरितानामाधिकारिकपुरुषाणां साधना आदर्शमुपस्थापयितुं समष्टिमुक्तये च समनुष्ठीयन्ते । बाह्यदृष्ट्या विविध श्रेणीविभक्तमानवानां साधनानि समानान्येव दृश्यन्ते, किन्तु तदुद्देश्यप्रयोजनानि सर्वथा भिन्नानि भवन्ति ।

सारदादेव्या बाल्यजीवने कस्याश्चनाध्यात्मिकानुभूतेर्भाव समाधेर्वा सम्बन्धे न किमपि श्रूयते । दक्षिणेश्वरे षोडशीपूजाया रात्रौ प्रथमवारं तां समाधिस्थां पश्यामः । तद्रात्रित एव तदीयाध्यात्मिक जीवनस्य प्रारम्भोऽभवत् । ततश्चासौ पूर्णया निष्ठया भजनसाधनान्यकरोत् । बहुदिनानि यावत् तस्या एवं नियम आसीत् यत् एकलक्षजपपूर्तिमन्तरेण नासौ जलग्रहणमप्यकार्षीत् । निस्तब्धभावतो रात्रिषु निरवच्छिन्नध्याने संलग्नाऽजायत । श्रीमातुर्वर्णनेनैतस्येषदाभासो लभ्यते – “तानि सर्वाणि दिनानि कीदृगपूर्वाण्यभूवन् ! चन्द्रिका संवलितरात्रौ चन्द्रस्याभिमुखं करौ बद्ध्वाऽहमवोचम् – ‘स्वीयचन्द्रिकावन्मनो मे निर्मलोकुरुष्व’ । रात्रौ चन्द्रोदये जाते रोरुद्यमाना सा प्रार्थनामकरोत् – “चन्द्रेऽपि कलङ्कसत्ता, हे परमात्मन् ! मम मनसि ईषदपि कालिमा न भवेत्”, “अहं निजां वार्ता किं कथयेयं पुत्रि ! तदानीमहं दक्षिणेश्वरे रात्रौ त्रिवादनसमये समुत्थाय ध्यानोपविष्टा किञ्चिदपि । बाह्यपरिज्ञानं नासीत् । वारमेकं ज्योत्स्नापूर्णनिशाया माङ्गलिकवाद्यशाला-सोपानसन्निधावुपविश्य जपमकार्षम् । वातावरण नितान्तं निस्तब्धमासीत् । श्रीठाकुरस्तस्मिन् दिने कदा “झाऊवने” शौचार्थमगच्छदिति न मया परिज्ञातमभवत् । अन्यदिवसे उपानदुद्भूतशब्देन तत् परिज्ञातमभूत् । ध्यानं नितरामेकतानतामगच्छत् । तदानीं काले ममाकारोऽप्यन्यादृश एवासीत् – भूषणैः सुसज्जितः, अहं च रक्तशाटिकां पर्यधाम् । वातवशात् शरीरतो वारं वारमञ्चलमुदडीयत । परन्तु मम कोऽपि बोधो नासीत्, पुत्रो योगेन्द्रस्तस्मिन् दिने यदा श्रीठाकुर शौचजलपात्रप्रदानार्थमुपागच्छत्, तदा तेन तदवस्थायामहं दृष्टा । “दक्षिणेश्वरे रात्रौ वंशी वाद्यते स्म । श्रुत्वैव मनो व्याकुलं बभूव । ज्ञातं यत् साक्षाद्भगवानेव वेणु वादयति । मनः समाधिस्थमभूत् ।

तस्या इयं समाघेरवस्था प्रयत्नं विनैवाजायत, परन्तु एतस्य समाधेरवस्थाया बाह्यप्रकाशोऽतीव स्वल्पः पर्यदृश्यत । श्रीठाकुरस्यान्यतम ईश्वरकोटिकपार्षदः स्वामी प्रेमानन्द एकदा प्रोवाच – “सा (श्रीमाता) स्वयं शक्तिस्वरूपा, तस्यां गोपनशक्तिरधिकाऽऽसीत् । किन्तु श्रीठाकुर श्रेष्ठमानोऽपि गोपयितुं न शशाक । तस्य तेजः प्रकाशो बहिः प्राकट्यमगच्छदेव । श्रीमातुरपि भावसमाधिरबोभूयत – किन्तु कस्यापि विदितो नाऽभवत् ।” अतिसहजरूपत एवं सां स्वरूपस्थिता समतिष्ठत । पुनर्नित्यलीलायामपि स्वभावत एवं गमनागमनं बोभवीति स्म ।

रात्रिषु जागरणं कुर्वाणयैतया मालाद्वारा यो हि जपः समनुष्ठीयते स्म स आश्रितसन्तानविमुक्तय एव । सा होवाच – “पुत्रकाः, बालकाः किञ्चिन् कुर्युर्नवा, तेषां कृते किञ्चित् कृत्वा संरक्षेयम्।” अनेकभक्तसन्तानप्रश्नानामुत्तरे श्रीमाता प्रावोचत् – “युष्माभिः किञ्चिन्नास्ति कर्तव्यम्, यत् करणीयं तन्मयैव क्रियते ।” सन्तानैः पृच्छयते – “किं, किमपि करणीयं नास्ति ?”

“न हि, किञ्चिदपि न हि ।“

“किमपि नास्ति कर्तव्यम् ?”

"नहि, किचिदपि न हि ।” पौनःपुन्येन माता वारत्रयमुवाच । पुनः कृपामयी माता अवोचत् – “यत्र यावन्ति सन्तानानि सन्ति, सर्वेषामेव कृते मयाऽनुष्ठीयते ।“ मातृरूपतः सा सर्वेषां विमुक्तये सहजां व्यवस्थामकरोत् ।

श्रीमाता १२७८ वर्षे (१८७२ ईसवीये मार्चमासे) प्रथमवारं दक्षिणेश्वरे श्रीठाकुरस्य समीपमागच्छत् । तत आरभ्य १२९३ वर्षीयश्रावणस्य एकत्रिंशत्तमतिथिं यावत् श्रीठाकुरस्य देहावसानसमयपर्यन्तं, लम्बायमानपञ्चदशवर्षाणि श्रीमातुः साधनकालशब्दे नाख्यातुं शक्यन्ते । एतत्समये श्रीठाकुरस्य सेवैव सर्वापेक्षया तीव्रा तस्याः साधनाऽऽसीत् । एतस्य साधनस्यानन्तरं श्रीवृन्दावनस्य बेलुडस्य च पञ्चाग्नितपस्यादिसाधना निम्न कोटिगाऽक्रियत । एतस्मिन् पतिसेवारूपसाधनाकाले श्रीमातरं विश्वमातृत्व विकासायैव जगति समागतां – वयमादर्शस्त्रीरूपेण समीक्षामहे ।

श्रीठाकुरस्य साधना तीव्रवेगधाराशालिनी पर्वतीयनदोव बभूव । किन्तु श्रीमातुः साधना अन्तःस्रोतस्विनी फल्गुसरिदिव शान्ता परिज्ञायते । श्रीठाकुरोऽनेक साधनाभ्यन्तरत एकत्वप्रतिष्ठामकरोत् । किन्तु श्रीमाता एकत्वे प्रतिष्ठिता व्रततीव बहूनां साधनानामभ्यन्तरे प्रतिष्ठिता बभूव । तदीयेष्टदेवः सर्वदेवदेवीमयः सर्वभावमयश्चाभूत् ।

श्रीसारदादेव्या जन्म ग्रामस्योन्मुक्त वातावरणे समभवत् । किन्तु दक्षिणेश्वरे समागत्य मन्दिरस्य माङ्गलिकवाद्यभवनस्यैकस्मिन् लघीयसि प्रकोष्ठे तया स्थातव्यमभवत् । तत्रैव भोजननिर्माणम्, अशनम्, निवसनम्, श्रीठाकुरस्य कृते पाकविधानम्, भक्तेभ्यो भोज्यपदार्थपाचनम्, पात्राणि, लौहचुल्ली, भाण्डसमूहश्चेति सर्व संरक्ष्यते स्म । अस्मिन् लघुप्रकोष्ठे निवसन्ती श्रीमाता श्रीठाकुरस्य सपर्य्यायां संलग्ना सती बहूनब्दान् व्यत्यगमयत् । रात्रौ त्रिवादने एव शौचादिभ्यो निवृत्ता गङ्गास्नानमनुष्ठाय यदा गृहं प्राविशत्, तदा दिवसे शौचस्य वेगे समुत्पन्नेऽपि शौचार्थ न जगाम ।

दक्षिणेश्वरे देवी मन्दिरस्यैकस्मिन् पिहिते प्रकोष्ठे निवासोऽभवत् । समस्तं दिनमेव तत्र यात्रिणां समागमोऽबोभूयत । भिक्षुकाणामौदरिकाणां साधुवेषधारिणां तत्र सर्वदैव सम्मर्द इव समुपातिष्ठत । तथापि लज्जारूपिणी श्रीसारदादेवी नैजमात्मानमाच्छाद्य गच्छति स्म, यत्तस्याश्छायामपि न कश्चिदपश्यत् । बहूनां वर्षाणामनन्तरं कोषाध्यक्षः प्रोवाच – “साऽत्र वर्तते इति श्रुतम्, किन्तु सा कदापि न विलोकिता ।"

नित्यसिद्धा श्रीमाता लोकचक्षूंषि विरहय्य श्रीठाकुरस्याकुण्ठभावेन परिचर्यां कुर्वन्ती तस्थौ । अनन्तरं भक्तानामपि सानन्दमसौ सपर्य्यामन्वतिष्ठत् । सार्धत्रिसेटकपरिमित गोधूमचूर्णस्य तया करपट्टिका निरमीयन्त । तथाऽप्यसौ सदानन्दमयी बभूव । स्वसम्बन्धे तयैकवारं प्रोक्तम् – “तर्हि किं मम सर्वमलौकिकमस्ति ? अशान्तिनाम्ना तु मया कुत्रचित् किमपि न दृष्टम् । इष्टदर्शनम् तत्तु करामलकवदेव वर्तते । एकवारमुपविश्यैवेष्टदर्शनं कर्तुं शक्यते । दक्षिणेश्वरे मङ्गलवादनस्य लघुप्रकोष्ठं दृष्टम् ? तत्रैवाऽहमासम् । प्रथमं तु गृहाभ्यन्तरगमनकाले मस्तकं प्रघट्टितं जातम् । एकदा तु किञ्चित् क्षतमप्यभवत् । अनन्तरमभ्यासेो बभूव ! द्वारसमीपे समासादिते मस्तकं नम्रीभूतमभूत् । कलिकातातोऽतिहृष्टपुष्टाः स्त्रियो दर्शनार्थं तत्रायान्ति स्म, द्वारस्योभयतो हस्तौ संयोज्य तिष्ठन्त्य ऊचुः – “अहो ! कीदृशे गृहेऽस्माकं सीतालक्ष्मीर्निवसति ! वनवास इव वर्तते ।“ तत्र पिहितस्थाननिवासेन तस्याः पादयोर्वातरोगः समुत्पन्नः, येन जीवनपर्यन्तं तस्यै महत्कष्टं प्रदत्तम् ।

शरीरं तु नूनं मन्दिरस्यैकप्रकोष्ठेऽतिष्ठत्, किन्तु तदीयानि मनःप्राणेन्द्रियाणि सर्वाणि श्रीठाकुरस्याभ्यर्णमेव चङ्क्रममाणान्यभूवन् । तस्मिन् गृहे स्थिताया अपि तस्या (श्रीठाकुरस्य) निर्निमेषदर्शनं तद्बार्तालापस्याबाधश्रवणं च प्रचचाल । बालभक्तं शारदाप्रसन्नं स्वगेहमुपविष्टः श्रीठाकुरः प्रोवाच – “शकटीभाटकाय नौबतगेहात् पणचतुष्टयमानीयताम् ।” समागत्य शारदाप्रसन्नोऽपश्यत् – पूर्वत एव पणचतुष्टयं सोपानपार्श्वे संरक्षितं तिष्ठति । अनन्तरं श्रीमाता जगाद – ‘नौबतगेहे सहस्रौं कार्याणि कुर्वाणाया अपि मम मनः श्रीठाकुरस्य समीपमेव न्यवसत् । एतावदुरतोऽपि कथावार्ता निम्नस्वरेण तत्कृता समस्ताऽपि मया श्रूयते स्म ।‘ श्रीठाकुरं प्रति रात्रिन्दिवं तदीया सतर्कदृष्टिरासीत् – तथा तस्मिन् स्वस्मिंश्चाभेदं मत्वाऽऽत्मवदसौ तस्य सेवामकरोत् । एतत्सेवाभ्यन्तर एव द्वयोरन्तर्मेलनमजायत, एतत्सेवारूपसाधनभ्यन्तर एव चाभूद् द्वयोरभेदज्ञानम् । भक्तनीलकण्ठगीतस्यैकचरणं सा मनस्येव गुनगुनायमाना प्रायशोऽगायत –

"अये मानस ! प्रेमरूपं धनं
रत्नमेतत्त्वया गुप्तितो रक्षणीयम् ।”

श्रीठाकुर एव तस्याः “प्रेमरूपं धनरत्न”मासीत् । अत एव तयाऽसौ स्वस्याभ्यन्तरे एकान्तस्थाने सुगुप्तो रक्षितः । श्रीमाता परवर्तिनि काले स्वशरीरं दर्शयित्वा प्रोवाच – “एतदभ्यन्तरेऽसौ सूक्ष्मदेहेन तिष्ठति ? श्रीठाकुरेण स्वमुखादेव प्रोक्तम् – “तवाभ्यन्तरे सूक्ष्मदेहेनाहं निवत्स्यामि” इति ।

शनैः शनैर्भक्तसमागमो ववृधे । आनन्दमयी श्रीमाता सेवारूपेण यथा श्रीठाकुरं प्रासादयत् तथैवालक्ष्यरूपतोऽवगुण्ठनाभ्यन्तरत एवं समरसस्नेहदृष्टिं भक्तवृन्देभ्योऽपि सुखं प्रायच्छत् । शनैः शनैः सा ‘भक्तजननी’ बभूव भक्ताः श्रीठाकुरस्यैवाकर्षणेन, तस्य समीपे स्थित्वा आध्यात्मिकीं चेतनामधिगन्तुमागच्छन् । किन्तु एतेन सहैव नौबतगेहात् (मन्दिरस्यासौ भागो यत्र श्रीठाकुरः श्रीमाता च न्यवसताम्) एतादृशं किञ्चिद् भक्तैरलभ्यत, येन तैनौर्बतगृहवासिनी (श्रीमाता) देवी मातृरूपेण वृता, ततः प्रभृत्येव परिदृश्यते स्म यत् श्रीसारदादेवी क्रमशः स्वीयमात्मानं देवीरूपेण प्रकाशयामास । साऽपि श्रीभगवतः सन्निधाने भगवतीरूपेणैव समागत्य स्थिता बभूव ।

दक्षिणेश्वर एव श्रीमातुरेतस्याः शक्तेर्विकासस्य प्रथमा सूचनाऽभवत् । काचन महिला कस्यचिन्महतः पारिवारिकसङ्ककटस्य निवृत्तये कस्यापि मन्त्रस्यौषधस्य वा प्राप्तिकामनया श्रीठाकुरस्याभ्यर्णमुपाविशत् । श्रीठाकुरः स्वयं न किञ्चित्समर्प्य तां स्त्रियं नौबतगेहं प्रदर्शयन्नवोचत् –

“तत्र गच्छ त्वदीयाऽसौ वासना पूर्तिमेष्यति ।
अहं तु किञ्चिज्जानामि सा तु मत्तोऽधिका मता ॥”
        (पोथीपुस्तकस्य छायानुवादः)

श्रीमाता नैव किमपि कर्तुमियेष । तां स्त्रियं पुनरसौ श्रीठाकुरस्य समीपं प्रेषयामास । श्रीठाकुरः ऐच्छत् यत् सारदादेव्येव तत्प्रतिकारं कुर्यादिति । तत्प्रतिकरणं विवशया श्रीमात्रैव विहितमभूत् –

“जननी बिल्वपत्रं च समर्थोवाच तां प्रति ।
स्वगृहे नीयतामेतत् पूर्णाः स्युस्ते मनोरथाः ॥”
        (पोथीपुस्तकंस्य छायानुवादः)

❀ ❀ ❀

शनैः शनैस्त्यागिभक्तेषु केचिन्नियमितरूपेण दक्षिणेश्वरं न्यवसन् । श्री ठाकुरोऽतिसावधानतया तांस्त्यागपथमगमयत् । तेषामाहारविहारयोः साधनभजनयोश्च सर्वत्रैव तस्य सतर्कदृष्टिरभूत् । कृच्छ्रसाधनाभ्यन्तर तोऽसौ तान् आदर्शस्य, भूमानन्दस्य चाभिमुखं नयन्नासीत् । बालकेषु केन कियत्यो रोटिकाः खादिष्यन्ते, एतदपि स नौबतगृहमुपस्थाय कथयित्वा च समागच्छत् । अधिकभोजनेन भजनसाधनयोराघातो भविष्यति । अत एव हि सतर्कतैतादृशी बभूव ।

बाबूरामाय रोटिकाचतुष्टयं निर्धारितमासीत् । राखालाय षट् । अन्येभ्यश्चैतादृशो निर्देशोऽभूत् । नौबतगृहाद् भुक्त्वा निवृत्तेः परं श्रीठाकुरः पृच्छति स्म यत् – “केन कियत्यः करपट्टिका भुक्ताः ?” एकदा पृष्टो राखालः प्रोक्तवान् – “मया सप्त रोटिका भक्षिताः ।“ श्रुत्वा श्रीठाकुरः स्तब्धो बभूव । यतः षट्करपट्टिका भोजनार्थमेव राखालः समादिष्ट आसीत् । अन्यदा भोजनानन्तरं बाबूरामो जिज्ञासितः – “अयि भोः ! कियत्यो रोटिका भक्षितास्त्वया ?” बाबूरामेण प्रोक्तम् – ‘षट्’ । श्रीठाकुरो गम्भीरभावेन प्रोवाच – “एतावदधिकाः कथं भक्षिता: ?” बाबूराम उवाच – ‘मात्रैव प्रदत्ताः ।‘ श्रुत्वेदं श्रीठाकुरो विचलितोऽभवत्, पादुके परिधाय झटिति नौबतगृहे समुपस्थितोऽभियोगस्वरेणोवाच – “त्वं बालकान् मानवान् सम्पादयितुं न समीहसे । ते साधवः सन्ति । अस्मिन् वयसि एतावदधिकभोजनेन कथं कार्य सेत्स्यति ?”

बालकानां भोजनविषये वार्तामेतादृशीमाकर्ण्य मातुर्मनस्याघातो जातः । वेदनासम्भृतकण्ठेन श्रीमाता जगाद – ‘एकस्मिन् दिने समधिकरोटिकाद्वयप्रदानेनैतादृशी वार्ता ? ‘तदाऽहमेव तेषां निरीक्षणं भरणं च करिष्यामि । बालकानां भोजनपानसम्बन्धे भवता न किमपि वक्तव्यम् ।‘ श्रुत्वेदं श्रीठाकुरः शान्तः शनैः शनैर्विहसन् स्वस्थाने परावर्तत । अन्यदिवसस्येयं वार्ता । श्रीमात्राप्रोक्तम् — “बाबूरामायैकवारं पानार्थं सितारसः प्रदत्तः । तदानीं बाबूरामस्योदरामय आसीत् । श्रीठाकुरो दृष्ट्वैकदा मामवोचत् – ‘त्वया बाबूरामाय भोजनार्थं किं प्रदत्तम् ?’ मयोक्तम् – ‘सितारसः ।‘ एतदाकर्ण्य श्रीठाकुरेणोकम् – ‘स हि साधुर्भविष्णुः । त्वं कीदृशमभ्यासं कारयसि ।‘

एवंविधा प्रचलति स्म त्यागिनां शिक्षा दीक्षा च । एकतः श्रीठाकुरस्य कठोरा व्यवस्था, अपरतश्च श्रीमातुः स्नेहपूरितः कोमलो व्यवहारः । द्वाभ्यां शक्तिशालि चुम्बकाभ्यामुभयतः समाकृष्यमाणं तेषामाध्यात्मिकं जीवनं स्वस्थाने संहतं तीव्रया गत्याऽग्रे प्रावर्धत ।

श्रीरामकृष्णसान्निध्येन तदीयान्तरङ्गशिष्यैर्बहु शिक्षितम् – भावः, समाधिः, निर्विकल्पस्थितिः, अन्यच्चापि बहु । यस्य यादृशी आध्यात्मिक-प्रयोजनीयता, तस्मै तदेव वस्तु श्रीठाकुर उदारहस्ताभ्यां प्रायच्छत् । किन्तु श्रीमातुः पार्श्वतस्तैः एतादृशं किं वस्त्वधिगतम्, येन तैस्तस्याः सन्नि धावप्यात्मा समर्पितः ? श्रीमातुरभ्यन्तरे तत् कीदृशमाकर्षणमासीत् ? सा तु सम्प्रति स्वरूपं सङ्गोप्य समागमत् । लेखनं पठनं च तया साधारणमेव ज्ञायते स्म । एकं द्वौ वा त्यागिनौ भक्तौ विहाय न कस्यापि सम्मुखे सा वार्तामकरोत् । तथापि तैः श्रीमातरि किमालोकितम्, येन ते सर्वे तां जगन्मातुर्जीवन्तीं मूर्तिमवागच्छन् ? श्रीमाता यस्य मस्तके हस्तं दत्वा आशिषं प्रायच्छदसावात्मानमतिशयधन्यममन्यत ।

त्यागिभिः शिष्यैः श्रीठाकुरो बहुशः सुपरीक्ष्य स्वीकृतः । किन्तु श्रीमातुश्चरणयोस्तैः किं विवेकमन्तरेण शिरांसि नम्रीकृतानि ?

राखालः श्रीठाकुरस्य मानसपुत्र आसीत् । स एव राखालमहाराज: परवर्तिनि काले श्रीमातुः सम्मुखे समागत एवैतावान् भावाविष्टोऽजायत यत् तदीयानि सर्वाण्यप्यङ्गानि रोमाञ्चपुलकितानि बभूवुः, भावतः सम्पूर्णमपि शरीरमकम्पत, चक्षुर्भ्यामानन्दाश्रुधारा कपोलावुभौ प्लावयन्ती प्रावद्दत् । विश्वविजयी स्वामी विवेकानन्दो यदा मातुः समीपमागच्छत्, ज्ञायते कश्चित् शिशुरेषः । पाश्चात्यदेशानां विजययात्रातः पूर्व मातुराशीर्भिर्बलवान् स समुद्रमपि लङ्घयामास । श्रीमाता आशिषो दत्वा व्याजहार – “पुत्र ! त्वं विश्वविजयी भूत्वा प्रत्यागमिष्यसि । तव मुखे सरस्वती निवत्स्यति ।“

नरेन्द्रनाथप्रभृतिशिष्यवत् श्रीसारदा देव्याऽपि विशेषसाधनाय, आध्यात्मिकानुभूत्यै वा श्रीठाकुरो विशिष्टरूपेणानुरुद्धः – इत्यस्य न किमपि प्रमाणमुपलभ्यते । प्रारम्भिकदिवसेष्वेकदा तया योगेन्द्रमोहिनी विज्ञापिता – “तस्मै कथनीयम्, यन्ममाऽपि कोऽपि भावसमाधिर्भवेत् । बहूनां जनानामुपस्थितिकारणात् वृत्तान्तमिमं तस्मै विज्ञापयितुमवसरो मया नोपलभ्यते ।“

आगामिदिने प्रत्युषसि एव योगेन्द्रमोहिनी प्रणामपूर्वकं श्रीमातुर्वृत्तान्तं श्रीठाकुराय न्यवेदयत् । तेन श्रुतम्, किन्तु स किञ्चिदुत्तरमदत्त्वान्तरेणैव गम्भीरो भूत्वाऽतिष्ठत् । एतद्विलोक्य तया भक्तया स्त्रिया नौबतगृहं प्रत्यावृत्याऽदृश्यत यत श्रीमाता पूजां विधत्ते । भावावेशे कदापि सा विहसति, पुनः किञ्चिदनन्तरं रोदनं प्रारभते, तस्याश्चक्षुर्भ्यामश्रुधारा प्रवहति च । शनैः शनैः श्रीमाता गम्भीरे समाधौ न्यमज्जत् । बहोः कालादनन्तरं यदा समाधिर्भग्नस्तदा तया स्त्रिया भक्तया जिज्ञासो कृता – “अस्तु मा तः, त्वया तु प्रोक्तं तव भावो न जायते, परमेतत् किमासीत् ?” श्रीमातुर्लज्जावनतमुखे कोमलो हास्यभावो विजृम्भितो- ऽभवत् । श्रीठाकुरस्य दिव्यसङ्गेन दिव्यशक्त्या च श्रीमाता अनायासेनैव देवोपदे प्रतिष्ठिताऽक्रियत ।

श्रीरामकृष्णस्य जीवनं जाज्वल्यमानाग्निपरीक्षया परिशुद्धमासीत् । “त्याग” एव तदीयजीवनमुख्योपदेशोऽभूत् । त्यागनिकषे धर्मजीवनं परीक्ष्यते । सन्देशवाहकेभ्यस्तेन त्यागमन्त्रस्यैव दीक्षा प्रादायि । ते च त्यागधर्म एवाभिषिक्ता अक्रियन्त | शिक्षयैतया तस्य लीलासङ्गिनी परिमुक्ता नासीत् । मरुस्थलीयो भक्तो लक्ष्मीनारायणः श्रीठाकुरस्यसेवायै दशसहस्रं मुद्राः प्रदातुमैच्छत् । श्रीठाकुरोऽतिदृढभावेन रूप्यकाणां ग्रहणं नैव स्वीचकार । ततो लक्ष्मीनारायणः श्रीमातुर्नाम्ना रूप्यकाणामेतेषां प्रदानस्याभिलाषं प्रकाशयाञ्चके । श्रीठाकुरो नौबतभवनात् श्रीसारदादेवीमाहूय एतद्विषये तस्याः सम्मतिं ग्रहीतुमुक्तवान् – “किं भोः, अयं रूप्यकाणि प्रदातुमीहते, त्वयैतानि कथं न गृह्यन्ते ? कथय ।“ श्रुत्वैतत् श्रीमाता प्रत्युवाच – “एतत् कथं भवितुमर्हति । रूप्यकाणि न ग्रहीतुं शक्यन्ते । अहं यदि रूप्यकग्रहणं करोमि, तर्हि तद्ग्रहणं भवत एव भविष्यति । यतो यद्यहं स्वीकरोमि, तदानीं भवतः सपर्यायां, बहुविधान्यावश्यकतायां च व्ययीकरणमन्तरा न स्थातुं शक्यते । फलतो भवतो ग्रहणमेवैतद् भविष्यति । त्यागकारणादेव जना भवन्तं प्रति श्रद्धां भक्तिं च विदधते । अतः केनापि प्रकारेणैतेषां रूप्यकाणां ग्रहणं न समीचीनम् ।” तस्या वचनमिदमाकर्ण्य श्रीठाकुरो निश्चिन्तोऽभवत् ।

कश्चिद्भतो जहास, कश्चन रुरोद, कोऽपि च ननर्त, जगौ च – तत्स्थानं वैकुण्ठधामवत् प्रतीयते स्म । श्रीमाता नौबतगृहस्य उपप्रकोष्ठे दण्डायमाना जवनिकाछिद्राभ्यन्तरतोऽतृप्तनयनाभ्यां प्रेमलीलामिमामपश्यत् । तदानीं साऽपि आनन्दमग्ना समुल्ललास । दिवसा रात्रयश्च दिव्यतन्मयतायामेव व्यत्यगुः । सर्वदेवासौ देहातीतसत्तायां विराजमानेवातिष्ठत् ।

श्रीठाकुरस्य प्रायश उदररोगोऽभवत् । भोज्यवस्तूनि सर्वाणि न परिपाकं यान्ति स्म । यद्वस्तु परिपाकमेति, तदेव तस्य कृते श्रीसारदादेवी पाचयति, सम्मुखमुपविश्य विविधाभिर्वार्ताभिस्तस्य मनो विनोदयन्ती तं भोजयति च । श्रीठाकुरस्य मनसो सहजगतिरपि ऊर्ध्वस्थाऽभवत् ; कस्मिंश्चिदीश्वरीयप्रसङ्ग परिचाल्यमाने सहसैव भावस्थोऽसौ बभूव । तदानीं स भोजनपानादिकं सम्पूर्णतया विस्मृतवान् । श्रीमाता बलादिव तदीयं मनः साधारणभूमौ समाकृष्य स्थापयन्ती तमभोजयत् ।

नौबतभवननिवासेन पत्न्याः कष्टं जायते, इदमवलोक्य श्रीठाकुरः श्रीमातरं मध्ये मध्ये कामारपुकुरं, जयरामबाटीं वा प्राहिणोत् । दक्षिणेश्वरनिवास काले श्रीमाता षट्सप्तवारं पित्रालयं श्वशुरायं चाऽगच्छत् । इतश्च तस्याः प्रयाणेन श्रीठाकुरस्य भोजनपाने कष्टमजायत । श्रीठाकुरस्तदोद्विग्नः सन् सन्देशं प्रेषयत् – “त्वं त्वरितमागच्छ” इति ।

नौबतगृहस्य पिहितस्थाने निवासेन श्रीमातुः स्वास्थ्यमतिशयविगुणितं जातम् । दृष्ट्वेदं श्रीरामकृष्णदेवस्यान्यतमः सेवकः शम्भुबाबूमहोदयो मन्दिराद् बहिर्ग्रामसन्निधाने ईषद्भूमिं क्रीत्वा मातुः कृते गृहमेकमन्यन्निरमापयत् । एतद्गृहार्थं काष्ठानि एकेनान्यभक्तेन विश्वनाथोपाध्यायेन प्रदत्तानि । एकं स्थूलं काष्ठं जलप्रवाहे प्रावहत् । तदानीं काले हृदयरामो श्रीमातरं “भवद्भाग्यमेव निकृष्टम्” इति प्रोच्य कठोरवचनमवोचत् । श्रुत्वेदं सर्वं हृदयं सावधानीकृत्य श्रीठाकुरोऽवदत् – “पश्य हृदय ! अत्र (मम पुरतः) यस्त्वयाऽपराधः कियते स क्षम्यते; परमेतदभ्यन्तरे (सारदा देव्या) य आस्ते, स यदि फूत्कुर्यात्, तदा ब्रह्मा, विष्णुर्वा न तव रक्षां कर्तुं शक्ष्यति ।”

श्रीमातुर्हृदयमत्युदारमासीत् । जनानां भोजनदानसम्मानादीनि तस्यै बहु रोचन्ते स्म । एकदा दक्षिणेश्वरे बहूनि फलानि प्रचुर-मिष्टान्नानि च समायातानि । तया सर्वाणि परेभ्यो दत्तानि । इदमाकर्ण्य नेजमसन्तोषं व्यञ्जयन् श्रीठाकुरः प्रोवाच – “एवम्प्रकारेण वस्तूनां अपरिमितव्ययेन कथं कार्य चलिष्यति ?” श्रुत्वेतत् श्रीमाता न किञ्चिद् वदन्ती तस्याभिमुखतः सगर्वमपससार । श्रीमातरं मुखं परावृत्य व्रजन्तीं विलोक्य श्रीठाकुराऽतिविचचाल, रामलालमाहूयासौ जगाद – “अरे रामलाल ! शीघ्रं गत्वा निजां पितृव्यपत्नीं परिशान्तय, यदि साऽप्रसन्नाऽभवत् तर्हि कुशलं नास्ति ।“

श्रीमातुः श्रीठाकुरस्य च सम्बन्धोऽतिरहस्यमयोऽभवत् । तयोः प्राणेषु एकः स्वर इवासीत् । एकस्य स्पर्शनेन समुद्भूता झंकृतिरन्यस्मिन्नपि समुदभूत् । प्राणानां गभीरतामुपगतौ द्वौ न स्तः, अपितु एकतां प्राप्ताविव बभूवतुः । स्वरूपयोरभिन्नतयैव तौ परस्परं प्रियतमावास्ताम् । भाग्यवन्तं कमप्येकदा सारदा देवी प्रोवाच – “पुत्र ! श्रीठाकुरं मां च त्वमभेदभावेन पश्य । आवामभिन्नौ ।” करुणामयी सा कदाचिदन्यस्मिन् समये स्वसन्तानसमक्षं स्वसम्बन्धे प्रणिजगाद – “पश्यत, शरीरमिदं (निजशरीरं दर्शयित्वा) दैवदेहमवगच्छत । मम विद्यमानतायां न कोऽपि मां ज्ञातुं शक्ष्यति । अनन्तरं सर्वेऽवधारयितुं पारयिष्यन्ति ।“

श्रीरामकृष्णः छद्मवेशे समागतः । श्रीसारदादेवी गुप्तरूपेण – स्वीयं वास्तविकं स्वरूपं प्रच्छाद्य समाजगाम । श्रीठाकुरस्य जीवनकाले तदीयान्तरङ्गभक्तेष्वप्यनेके श्रीसारदादेवीं “देवी” रूपेण ग्रहीतुं नाशक्नुवन् । श्रीठाकुरस्य त्यागिभक्तानां कथा तु नूनमेव भिन्ना वर्तते । श्रीमाता तेषां सर्वेषां गुरुपत्नी बभूव । अयमेव तदीय: सर्वाभ्यर्हितः परिचयः । (स्थानाभावतस्तासां सर्वासां घटनानामुल्लेखोऽत्र न सम्भवः) । श्रीठाकुरस्य देहावसानानन्तरं श्रीसारदादेव्या स्वस्वरूपं यावद् गोपितम्, तावदनेके भक्तास्तां साधारणनारीमेवामन्यन्त ।

स्रीषु श्रीठाकुरस्यान्तरङ्गभक्तिमती योगेन्द्रमोहिनी समभूत् । सा किल श्रीमात्रा सहातिघनिष्ठभावतो मेलनसौभाग्यं प्राप्तवती तदीयभावसमाधिदर्शनावसरं लब्धवती, श्रीमातुरजस्त्रस्नेहं ममत्वादिकं चाधिगतवती बभूव । श्रीमाता तां “योगेन्द्रपुत्री”ति नाम्ना, समाह्वयत् । तथापि भक्तिमत्यास्तस्या मनसि कश्चित् संशयः समुदपद्यतैव । असावेवमालोचयामास यत् श्रीठाकुरस्त्वेतावान् त्यागी विद्यते, किन्तु माता परमसंसारिणीव परिदृश्यते । भ्रातृवर्गस्य भ्रातृजानां च कृते एवेयमुद्विग्ना तिष्ठति ! एकदा योगेन्द्रमोहिनी गङ्गाघट्टे समुपविश्य ध्यानरता बभूव । श्रीठाकुरस्तत्राविर्भूय प्रोवाच – “पश्य गङ्गायां किं वहति ?” भक्तिमत्या दृष्टम्, यदेकः शिशुः सद्यो जातो भागीरथ्यां प्रवहति यस्योदरस्य नालोऽपि कर्तितो नास्ति । श्रीठाकुरस्तं दर्शयन्नुवाच – “किमेतेन भागीरथी अपवित्रतां गता ? एतत्स्पर्शेन गङ्गायां कोऽपि विकारो नोत्पद्यते । तामपि तथैवावधारय । तस्या उपरि त्वया कीदृग्विधोऽपि सन्देहो न विधातव्यः । ताम् एतत् (स्वशरीरं दर्शयित्वा) चान्योन्यमभिन्नमवगच्छ ।” भागीरथ्याः परावृत्य भक्तिमती स्त्री मातरं प्रणम्योवाच – “मातः, मां क्षमस्व ।” श्रीमाता प्रेमपूर्वकं पप्रच्छ – “किम्, किमभूत् पुत्रि ?” योगेन्द्रमोहिनी तदा विश्लिष्य सम्पूर्णामपि घटनां श्रावयित्वाऽवादीत् – “तवोपरि मम सन्देह आविरासीत्, अद्य मदीयं सन्देहममुं श्रीठाकुरो निरस्तमकरोत् ।“ श्रीमातुर्वदनोपरि बाल्यकालीन इव हासः परिजजृम्भे । स्नेहपूर्वकं तया प्रोक्तम् – “एतेन किमभवत् ? सन्देहस्तु भविष्यत्येव । संशयः, पुनश्च विश्वासः समुत्पत्स्यते । एवम्प्रकारेणैव पूर्णो विश्वासो जायते । अन्ते च विश्वासः सुदृढायते ।” श्रीठाकुरो यदि नावाबोधयिष्यत्, तदा श्रीमातुर्विषये संसारो न किमपि पर्यज्ञास्यदबोधिष्यद् वा ।

शनैः शनैः श्रीठाकुरस्य कन्सररोगसूत्रपातोऽजायत । सहैव दक्षिणेश्वरस्यानन्दमयो निवासकालोऽपि समाप्तिमगात् । देवायतनानि, देवीदेवविग्रहाः, यात्रिसमागमः, ‘द्वादशमासेषु त्रयोदश महोत्सवाः’, – सर्वाण्यपि यथापूर्वमासन् । तथापि सर्वाण्यप्येतानि, प्राणहीनानीव प्रतीयन्ते स्म । सर्वत्रैव शून्यताया मर्मरध्वनिरश्रूयत ।

श्यामपुकुराख्यविभागस्यैकस्मिन् साधारणे द्वितलभवने भाटकगृहीते भक्ता अस्वस्थं श्रीठाकुरमानिन्युः । सुचिकित्सा प्राचलत् । किन्तु समुचितपथ्याभावात् चिकित्सायाः किमप्याशानुरूपं फलं नादृश्यत भक्ता दक्षिणेश्वरतः श्रीमातरं श्यामपुकुरमानेतुं व्यचारयन् । किन्तु गृहेऽत्र स्त्रीनिवासस्त्वासीदेव न हि – सापि च चिरलज्जाशीला । अनेकेषामपरिचितपुरुषाणां गमागमा अबोभूयन्त, सदैव च यात्रिणां समागमः सम्बभूव । एतेषां मध्ये कथं सा स्थास्यति ? किन्तु श्रीमातुः समीपे प्रस्तावोपस्थापनमात्रेणैव सर्वामप्यसुविधां परिहृत्यासौ श्यामपुकुरभवनं समाजगाम ।

श्रीमातुस्तदानीन्तनकृच्छ्रसाघनामालोच्यास्माभिः विस्मितैर्भूयते । स्त्रीनिवासविरहिते साधारणभवनेऽत्र सर्वसाधारणानां कृते स्नानस्थानमेकमेवासीत् । रात्रौ त्रिवादनात् पूर्व शय्यां परित्यज्य स्नानादितो विनिवृत्ता कदाऽसौ भवनस्य त्रितलोपरि गच्छति स्मेति न केनापि पर्यबुध्यत । दिनं यावत् सा उन्मुक्ते प्रकोष्ठे निवसन्ती तत्रैव च श्रीठाकुरस्य कृते पथ्यादिकं निर्माय यथाकालं जनेष्वपसारितेषु श्रीठाकुरं पथ्यादिकं भोजयित्वा जगाम । प्रगाढनिशायां सर्वेषु सुप्तेषु माता नीचैर्द्वितले समागत्य स्वनिर्दिष्टप्रकोष्ठे प्रविशति । महता काठिन्येन तया घण्टाश्रयं विश्रामाय लभ्यते स्म । एवं प्रकारतस्तया कियन्त्यपि दिनानि श्रीठाकुरस्य सपर्यायां भजनसाधने च शान्तिपूर्वकं व्यतीतान्यभूवन् ।

तदनन्तरं काशीपुरस्योद्याने श्रीमात्राऽन्तिमाः केचिन्मासा महत्योत्कण्ठया व्यतियापिताः । श्रीठाकुरस्य दुःसाध्यरोगेणासह्यकष्टमासीत् । तस्य वेदनामवलोक्य पाषाणहृदयमपि व्यदीर्यत । जलस्य बिन्दुमपि नासौ निगिलितुं शक्नोति । श्रीमाता जगाद – “कदा कदापि कण्ठात् नासिकातश्च सूजी (तरलपथ्यं) निःससार, तदानीं समये महती भयङ्कर वेदनाऽन्वभूयत । अनन्योपाया माताऽन्ते तारकेश्वरशिवमन्दिरे शिवप्रपन्नतायै प्रायोपवेशनकृते जगाम । द्विनद्वयं यावत् सा विनाऽन्नपानं शिवमन्दिरे निपतिता बभूव । किन्तु न किञ्चित्फलमभवत् । परावृत्य समागता श्रीठाकुरेण पृष्टा – “किं, किमपि जातम् ? न किञ्चिन्तु ?”

अस्य दारुणरोगस्य समयेऽपि श्रीठाकुरस्य कदा कदाचित् समाधिर्महाभावो वा समजायत । इतश्च भक्तानां तीव्राः साधनभजनतपस्या अपि प्राचलन् । श्रीठाकुरेण स्वरोगं द्वारीकृत्य काशीपुरेऽनेके जना अनुकम्पिताः । एकस्मिन् दिनेऽसौ कल्पतरुर्भूत्वा बहून् भक्तान् समधिगतचैतन्यानकार्षीत् । काशीपुरे श्रीठाकुरस्य रोगशय्यासमीप एव जगति महोदारधर्मभावप्रचाराय “श्रीरामकृष्णत्यागिसङ्घस्य” सङ्घटनमप्यभवत् । परवर्तिनि काल एकदा श्रीमात्रा प्रोक्तम् – “काशीपुरोद्यानं तस्यान्तिमलीलास्थानम् । कृच्छ्रं तपः गम्भीरध्यानसमाधी चाबोभूयन्त । तत् तदीयमहासमाधिस्थलम् । अत्र ध्यानानुष्ठानेन मनुष्यैः सिद्धिरासाद्यते ।“

❀ ❀ ❀


श्रीसारदादेव्यैव प्रोक्तम् — “जगति मातृभावविकासायैव श्रीठाकुरोऽधुना मां संरक्ष्यागच्छत् ।”
१८६४ ईसवीये वर्षे अमेरिकातो गुरुभ्रात्रे श्रीस्वामी विवेकानन्दः पत्रमलिखत् – “… भ्रातः ! अनुचितं न मन्तव्यम्, युष्मासु कोऽपि साम्प्रतमपि मातरं नावागच्छत् । मातुः कृपा मयि पितुः कृपातो लक्षगुणाधिका वर्तते । … मातरं प्रति मम महान् पक्षपातः । भ्रातः ! मातुर्वार्तायां स्मृतिपथं गतायां कदा कदापि (हनूमत्सदृशं ) ब्रवीमि – को रामः ! भ्रातः ईदृशं यदा कथयामि, मातुरभिमुखमेव तु मम पक्षपातः । … इत्यादि ।