आदिलीला

ब्राह्मणः सिद्धान्तः

आदिलीलायां तृतीयोऽध्यायः


अष्टाशीतितमे वर्षे शारदीय महोत्सवे ।
गतः श्रीक्षुदिरामस्तु भागिनेय गृहं शुभम् ॥१.३.१॥

पीडितः क्षुदिरामस्तु तत्र पीडा व्यवर्द्धत ।
सद्वैद्यौषधिं शुश्रुषा पथ्यादेर्न त्रुटिः कृता ॥१.३.२॥

नाम्ना श्रीरामचाँदेन भागिनेयेन केनचित् ।
मातुलस्यान्तिमा यात्रा मद्गेहे नात्र संशयः ॥१.३.३॥

भवेदेवं विनिश्चित्य कामारपुकुरात्तदा ।
आनीतोमातुलसुतो ज्येष्ठो रामकुमारकः ॥१.३.४॥

एवं कृच्छ्रगतोदेव्याः पूजनं त्रिदिनं कृतम् ।
दशम्यान्तु प्रातरेव कृतं देव्या विसर्जनम् ॥१.३.५॥

निमज्याम्भसि मध्याह्ने देव्यास्तां प्रतिमां शुभाम् ।
आगतं रामचाँदन्तु दृष्ट्वा कम्पस्वरेण च ॥१.३.६॥

उक्तं श्रीक्षुदिरामेन प्रतिमा किं विसर्जिता ।
विसर्जनं ममाप्येव शेषकृत्यं कुरुस्व भो ॥१.३.७॥

आशीर्वादं प्रयच्छामि श्रीरामे मतिरस्तु ते ।
पुत्रानां यः कनिष्ठो मे तदर्थं चिन्तितोऽधुना ॥१.३.८॥

कुरु तस्य सुकल्यानं रघुवीर दयानिधे ।
भवतः पादयोर्नस्य तं यामि भवदन्तिके ॥१.३.९॥

कृत्वा शयोत्थितं मान्तु समुत्तोल्याति यत्नतः ।
शुद्धासने स्थापयित्वा कुरु पद्मासनं मम ॥१.३.१०॥

तत्क्षणात्तत्कृतं तेन चोपविश्याति कृच्छ्रतः ।
अञ्जलिं मस्तकेबद्धा श्रीरामं ध्यातवान् द्विजः ॥१.३.११॥

भवभयहरमेकं भाणुकोटि प्रकाशं
    करधृत शरचापं कालमेघावभासम् ।
कणकरुचिरवस्त्रं रत्नवत् कुन्तलाव्यम् 
    कमलविशदनेत्रं जानकी राममीडे ॥१.३.१२॥

रामं रामनुजं सीतां भरतं भरतानुजम् ।
सुग्रीवं वायुसूनुञ्च प्रणमामि पुनः पुनः ॥१.३.१३॥

एवं ध्यात्वा गद्गदेन स्वरेण नेत्रवारिणा ।
आर्दीभूतो राम नाम रघूवीरस्य मङ्गलम् ॥१.३.१४॥

वदन् प्रारब्धजं देहं तत्याज पाञ्चभौतिकम् ।
ततः शुद्धां भागवतीं सच्चिदानन्दरूपिणीम् ॥१.३.१५॥

तनुं लब्धा गतो विप्रस्तद्विष्णोः परमं पदम् ।
वैकुण्ठाख्यं पूर्णब्रह्म श्रीरामः सीतया सह ॥१.३.१६॥

विराजितो यत्र तत्र तत्सेवां प्राप्तवान् द्विजम् ।
एवमद्भुत संयानमभूत्तस्योत्तमोत्तमम् ॥१.३.१७॥

निशीथे शवदेहन्तु सङ्कीर्तन पुरःसर ।
नीत्वानद्यास्तीरभूमिमन्त्येष्टि सुसमाप्यं च ॥१.३.१८॥

पराहे शोकसन्तप्तः पुत्रो रामकुमारक ।
स्वगेहे पुनरागम्य पितुः स्वर्गतिमुक्तवान् ॥१.३.१९॥

हाहारवैः पूर्णमसीत् कामार्पुकुरस्तदा ।
तद्ग्रामवासिन सर्वे शोकसंविग्नमानसाः ॥१.३.२०॥

बालवृद्धयुवानश्च स्नानाहार विवोर्जिताः ।
पितुः प्रेतत्वमुक्तत्वर्थं स्वर्लोकगमनाय च ॥१.३.२१॥

वृषोत्सर्गः कृतो रामचाँदस्य सहयोगतः ।
वेदज्ञ बहुविप्राणां दानमानादिभिस्तथा ॥१.३.२२॥

पूजनं भोजनं तत्र कारयामास सुव्रतः ।
पितृकृत्ये सुसम्पन्ने श्रीरामकुमारोपरि ॥१.३.२३॥

संसारभारः पतितः कुलधर्मानुसारतः ।
तदा तन्मध्यमभ्राता श्रीरामेश्वर नामकः ॥१.३.२४॥

अष्टादशवयःप्राप्त स्मृतिज्योतिषपारगः ।
पितुर्वियोगसन्तप्तचाष्टवर्शी गदाधरम् ॥१.३.२५॥

ज्ञातं साधारणै किन्तु विशोकऽयं गदाधरः ।
विद्याभ्यासे तदारम्य प्रायेण यत्नहीनता ॥१.३.२६॥

निर्जनप्रियता चिन्ताशीलता परिलक्षिता ।
राजोद्याने भूति खाले मोडलस्य मृतालये ॥१.३.२७॥

उपविश्योर्द्धदृष्टि स सदाचिन्तापरोऽभवत् ।
शीतवर्षादिभिर्बालो न किञ्चिदपि चालित ॥१.३.२८॥

दिवा किम्वा निशेयम्वा न जानाति गदाधरः ।
धर्मदासभूतो बालः श्रीगयाविष्णु नामकः ॥१.३.२९॥

बन्धुत्वमुभयोरासीन्नाम सादृश्यतस्तयोः ।
प्राप्तमात्रं भोज्यद्रव्यं मिष्टान्नं वा फलादिकम् ॥१.३.३०॥

अकृत्वा बन्धुसात् क्वापि न तदास्वादनं कृतम् ।
पूर्णे तु नवमे बर्षे उपोनीत्यर्थमुद्यमः ॥१.३.३१॥

कृतो रामकुमारेण भ्रातुर्गदाधरस्य हि ।
श्रुत्वैवं स्वोपनयनं प्रोक्ता माता प्रतिश्रुतिः ॥१.३.३२॥

या दत्ताप्युमात्रे च बालगदाधरेण वै ।
धनीनाम्न्युपमाता मे भिक्षामग्रे प्रदास्यति ॥१.३.३३॥

नोचेदहं न गृह्णामि यज्ञसूत्रं कदाचन ।
श्रुत्वारामकुमारस्तद्दुःखितोऽभूद्विशेषतः ॥१.३.३४॥

वेदारम्भात् परं सूर्यं शूद्रं साधारणस्त्रियम् ।
दिनत्रयं न द्रष्टव्यमिति शास्त्रस्य शासनम् ॥१.३.२५॥

शास्त्राचार परित्यागे स्वजनैर्निन्दितो भवेत् ।
तत्कर्मदिन पूर्वाह्ने धर्मदासे गृहागते ॥१.३.२६॥

राजतुल्ये पितृबन्धो मीमांसाभार आह्वितः ।
उक्तं रामकुमारेण शूद्रकन्या धनी कथम् ॥१.३.२७॥

भिक्षां दास्यति सर्वाग्रे श्रुतं मातुसमीपतः ।
अतोऽत्र सुविधेयं यत् तदुपादिश भो वुधः ॥१.३.२८॥

प्राचीनः कर्मकुशलो भवान् शुद्रोति धार्मिकः ।
श्रुत्वेवं सकलं रामकुमारमवदत्तदा ॥१.३.३९॥

यद्यप्यस्मिन्कुलेनास्ति शूद्रभिक्षा कदाचन ।
किन्तु ब्राह्मणपुत्रस्य बालकब्रह्मचारिणः ॥१.३.४०॥

बहुत्र शूद्रभिक्षाया ग्रहणं दृश्यते मया ।
प्रतिश्रुतेः पालनार्थं बालेच्छापूरणाय च ॥१.३.४१॥

अतोऽत्रशूद्रभिक्षाया न तादृग् दोष उच्यते ।
तन्मतेनैव सा साध्वी धनी श्रीब्रह्मचारिणे ॥१.३.४२॥

मेखलाजिन संयुक्त यज्ञसूत्र धराय च ।
विल्वदण्ड वंशदण्ड काष्ठ पादुका धारिणे ॥१.३.४३॥

मातर्भिक्षां प्रयच्छेति भिक्षार्थमुद्यताय च ।
दत्वा भिक्षां धनो माता प्रणम्य श्रीगदाधरम् ॥१.३.४४॥

आह चैवं कृतार्थाहं कृपया तव हे प्रभो ।
त्वमेव जगतां त्राता भगवान् विष्णुरव्ययः ॥१.३.४५॥

अतो हे त्वां नमस्यामि भुयोभूयो नमास्यहम् ।
सावित्रीग्रहणञ्चैवं समुपन्नमलौलिकम् ॥१.३.४६॥

श्रीरामकुमार एव वेदारम्भमकारयत् ।
ततः श्रीरघुवीरस्य शीतलाया घटस्य च ॥१.३.४७॥

पूजनं सुष्टुभावेन कृतं गदाधरेण वै ।
पूजाकाले भक्तिनिष्ठाभावार्द्रहृदयेन तु ॥१.३.४८॥

साक्षात्कृत समाधिना सच्चिदानन्द विग्रहः ।
भावभावितचित्तेन यदुक्तं सत्यमेवतत् ॥१.३.४९॥

तत्क्षणात्तद्भवत्येव दृष्ट्वा सर्वे सुविधास्मिताः ।
एकदा राजतुल्यानां बहुमानयतां सताम् ॥१.३.५०॥

तेजो बल समृद्धानां विप्रदैवत मानिनाम् ।
प्रायेण गृहसंलग्न सुदीर्घमण्डपे शुभे ॥१.३.५१॥

दानसागर श्राद्धाह्ने सभा शोभा समायुते ।
स्वर्णरौप्यमयैर्द्रव्यैस्तु बहुविस्तरैः ॥१.३.५२॥

अत्युच्च कलशे रत्नपात्रैश्च परिपुरिते ।
बहवः पण्डितास्तत्र समासीना महाशयाः ॥१.३.५३॥

मीमांसान्याय स्मृत्यादि धर्मशास्त्र विशारदाः।
नाना देशागतास्ते तु सशिष्य भृत्य वाहनाः ॥१.३.५४॥

ततच्छास्त्र विचारेषु निविष्टाः शुद्धबुद्धयः ।
तत्र कश्चिद् ब्राह्मणस्तु कुलिनो यष्टिधारकः ॥१.३.५५॥

कङ्काल मात्र सारस्तु कम्पान्वित कलेवर: ।
शूलव्याधि समायुक्तः क्षीणकण्ठस्वरो युवा ॥१.३.५६॥

मूर्द्धन्यञ्जलिं समारोप्य पण्डितानवदञ्च तान् ।
भो भो ब्रह्मविदो विप्राः शृणुध्वं कृपया वचः ॥१.३.५७॥

विंशत्यधिकवर्षाणि शूलरोगप्रपीडितः ।
रोगमुक्तिर्न मे जाता सद्वैद्यौषधि सेवनात् ॥१.३.५८॥

पुत्रपत्न्युपदेशेन सर्वरोग विमुक्तिदम् ।
देवदेवं समासाद्य तारकेश्वरमीश्वरम् ॥१.३.५९॥

स्नानपूजादिकां कृत्वा मन्दिरे पतितोह्यहम् ।
मरणं रोगमुक्तिं वा देहि मे तारकेश्वर ॥१.३.६०॥

निश्चित्यैवं तदा किञ्चित् सुस्थतामुपलब्धवान् ।
निद्रावेशमनुप्राप्तो दृष्टवान् स्वप्नमुत्तमम् ॥१.३.६१॥

यथा मत्सन्निधौ कश्चिदायाति पुरुषोत्तमः ।
तत् पदुकाद्वनिं श्रुत्वा नेत्रमुन्मील्य दृष्टवान् ॥१.३.६२॥

सुवर्ण पादुका युक्ते तस्यैव चरणे शुभे ।
व्याघ्र चर्मादृत कटिस्तुन्दैलः शूलहस्तकः ॥१.३.६३॥

अर्धचन्द्रो ललाटे च त्रिनेत्रः सुविराजितः ।
सुदीर्घ विग्रह युतो भस्म लिप्तो जटन्वितः ॥१.३.६४॥

विश्वचक्षुर्दीनबन्धुर्भक्तदुःखेन दुःखितः ।
दृष्ट्वा मां समुवाचेदं गच्छ विप्र निजं गृहम् ॥१.३.६५॥

भवद्ग्राम प्रान्तभागे कश्चिद् गोमांसभक्षकः ।
युवा नाम्ना जटाधारी चर्मपादुकाकारकः ॥१.३.६६॥

स्नानाद्यन्ते भक्तियुतः साष्टाङ्गं प्रणिपत्य तम् ।
पीत्वा पादोदकं तस्य भवत्या प्रव्रूहि कातरम् ॥१.३.६७॥

भिक्षां मे देहि तात त्वं मद्वाञ्छा पूरणं कुरु ।
भवदुच्छिष्ट भक्तं मे कृपया देहि जीवनम् ॥१.३.६८॥

तद्भक्त भोजनं विप्र नैर्घृन्येन कुरुष्व भो ।
एवं कृते रोगमुक्तिः शतायुश्च भविष्यति ॥१.३.६९॥

एवमुक्ता स भगवांस्तत्रैवान्तरधीयत ।
अतोऽत्र यद्विधेयं मे वेदज्ञास्तद्वदन्तु भो ॥१.३.७०॥

येन मे रोगमुक्तिस्यान्न वा जातिच्युतिर्भवेत् ।
श्रुत्वैवं पण्डितास्तत्र केचिदाहुस्तथा कुरु ॥१.३.७१॥

प्रायश्चित्तं ततः कृत्वा भक्षपापं व्यपोहतु ।
केचिदहुर्यदिपुनर्व्याधिः स्मुत्थितो भवेत् ॥१.३.७२॥

को जानाति किमुद्दिश्य भगवद्वाक्यमुत्थितम् ।
एवं बहुविधैस्तर्कैर्न सिद्धान्तः समुत्थित ॥१.३.७३॥

तदा कैशोरकवयः क्षुदिरामात्मजो द्विजः ।
नाम्ना गदाधरः ख्यातः सुविज्ञः प्रियदर्शनः ॥१.३.७४॥

बहुभिः पण्डितैर्युक्ते सभामध्ये समुत्थितः ।
प्रणम्य पण्डितान् सर्वान् कृत्वाञ्जलिपुटः सुधी ॥१.३.७५॥

उवाच तान् महाभागान् गिरा मधुरया नतः ।
भो भो पण्डित पञ्चास्या विद्यावन-विचारिणः ॥१.३.७६॥

अविद्या करिवर्गानां नाशकाः सुविचारकाः ।
मीमांसा यात्न मे सैषा श्रूयतां सुसमाहितैः ॥१.३.७७॥

विप्रोऽयं चर्मकारेण सहितः क्षेत्रमुत्तमम् ।
जगन्नाथस्य गत्वा हि प्रसादान्नं प्रगृह्य च ॥१.३.७८॥

चर्मकारं भोजयित्वा तदुच्छिष्टं स्वयं यदि ।
भुङ्क्ते वै भक्तिभावेन न तत्र दोषः उच्यते ॥१.३.७९॥

जगन्नाथ प्रसादान्नमुच्छिष्टं कुक्कुरै यदि ।
कृतं तदेव भक्ष्यं स्यादिति शास्त्र विनिर्णयः ॥१.३.८०॥

एवं कृते रोगमुक्तिर्न वा जातिच्युतिर्भवेत् ।
एतन्मम मतं पूज्या भवद्भ्यो यदि रोचते ॥१.३.८१॥

तच्छीघ्रं तत्र गत्वायं करोत्वेवं द्विजोत्तमः ।
श्रूत्वैवं बहुसाहसाः सभास्थ ब्राह्मणादयः ॥१.३.८२॥

प्रधान पण्डिताश्चापि स्वासनेभ्यः समुत्थिताः ।
बहुशो धन्यवादञ्च दत्वा गदाधराय वै ॥१.३.८३॥

आशीर्वादः कृतस्तैश्च विद्वद्भिर्ब्राह्मणोत्तमैः ।
अयं गदाधरः श्रीमान् गदाधर समोगुणैः ॥१.३.८४॥

जगद्वासिजनानान्तु गुरुतां याति निश्चितम् ।
पृथिव्यां भगवत्तुल्यः पूजितश्च भविष्यति ॥१.३.८५॥

स्वर्ण रौप्यादिभिर्दानैर्यजमानेन पूजिताः ।
भुदेवाः पण्डिताः सर्वे स्वं स्वं धामं ययुर्मुदा ॥१.३.८६॥

इति श्रीरामेन्द्र सुन्दरभक्तितीर्थ विरचिते श्रीश्री रामकृष्णभागवते पारमहंस्यां सहितायां गदाधरस्यादि लीला समाप्ति रूपः तृतीयोध्यायः ॥३॥