अन्त्यलीला

ठाकुरस्य श्रुतिधरत्वादेः परिचयः

अन्त्यलीलायाः पञ्चमोऽध्यायः


वदन्ति चेवं बहवो विचक्षणाः श्रीरामकृष्णस्य न चास्ति शिक्षणम् ।
वेदे पुराणे खलु तन्त्र मन्त्रयोस्तदर्थमेतच्चरितं मयोच्यते ॥३.५.१॥

कलौ न ते वै जगतां परं गुरुं दुराशया ये बहिर्थं मानिनः ।
विदन्ति तं वेद पुराणवाग् यतः प्रकाशिता लोकहितार्थमेव सा ॥३.५.२॥

यदंशविद्धाः सुर मानवादयो यल्लब्धवुद्दया प्रचरन्ति कर्मसु ।
स एव विज्ञानघना हि संस्कृतां वाचं न विन्दन्ति वदन्ति वातुलाः ॥३.५.३॥

वैकुण्ठं ठाकुरोऽप्याहभक्तमेकान्तिनं क्वचित् ।
सिद्ध भक्त शवर्य्यायाश्चरित पठ भोऽधुना ॥३.५.४॥

भक्तेनोक्तं पठ्यते किं मूलं वानूक्तिरेव वा ।
ततः श्रीठाकुरेणोक्तं मूलमेव पठस्व भो ॥३.५.५॥

तच्छ्रुत्वा प्रवरः शिष्यमनस्येवं व्यचिन्तयत् ।
यत्किञ्चिदेव भाषायां ज्ञानं मेऽस्ति सुनिश्चितम् ॥३.५.६॥

ठाकुरस्यापितद्रूपं सस्कृते शास्त्रसागरे ।
यत्किञ्चिदेव पाण्डित्यं भाति नास्त्यत्र संशयः ॥३.५.७॥

विशुद्ध शास्त्र पठने शक्तिर्नास्ति मम ध्रुवम् ।
तथापि ठाकुरस्याज्ञालङ्घन मत्यमङ्गलम् ॥३.५.८॥

अतोऽहं पाठयामीदं मूलं संस्कृतमेवहि ।
अन्तर्यामी सुविज्ञाय च शिष्यस्य मति विक्रियाम् ॥३.५.९॥

अव्रवीत्तं शिष्यतममीषद्धास्य पुरःसरम् ।
त्वत् समीपेऽद्यमेवत्स परीक्षा समुपस्थिता ॥३.५.१०॥

तत्र रामायणे पुण्येऽरण्यकाण्डे भयङ्करे ।
सर्गचतुःसप्ततितमे श्रीवाल्मीकिमहर्षिणा ॥३.५.११॥

शवर्याश्चरितश्वोक्तं साधनं परमोत्तमम् ।
येन श्रीरामचन्द्रस्य कृपया शवरी तदा ॥३.५.१२॥

लेभेस्वर्गं पुण्यवतां स्थानमत्यन्त दुर्लभम् ।
तत्र सन्ति यथाश्लोकांस्तानाकर्णय मे मुखात् ॥३.५.१३॥

श्रुत्वा रामायणकथां शङ्करीभववक्ततः ।
श्रीरामदर्शनं प्राप्ता श्रवणस्यफलेन हि ॥३.५.१४॥

तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् ।
अपश्यततां ततस्तत्रशवर्यारम्यमाश्रमम् ॥३.५.१५॥

तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम् ।
सुरम्यमभिपश्यन्ती शवरीमभ्यपेयतुः ॥३.५.१६॥

तौ दृष्ट्वातु तदा सिद्धा समुत्थाय कृताञ्चलिः ।
पादौजग्राह रामस्य लक्षणस्य च धीमतः ॥३.५.१७॥

पाद्यमाचमनीयञ्च सर्वं प्रादाद् यथाविधि ।
तामुवाच ततो रामः श्रमणीं धर्मसंहिता ॥३.५.१८॥

क्वचित्ते निर्जिताविघ्नाः क्वचित्ते वर्द्धते तपः ।
कच्चित्ते गुरु शुश्रूषासफला चारु भाषिनि ॥३.५.१९॥

क्वचित्ते नियतः कोप आहारश्च तपोधने ।
क्वच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखं ॥३.५.२०॥

रामेण तापसी पृष्ठा सा सिद्धा सिद्ध सम्मता ।
शशंस शवरी वृद्धा रामाय प्रत्यवस्थिता ॥३.५.२१॥

अद्यप्राप्ता तपः सिद्धिस्तव सन्दर्शनान्मया ।
अद्य मे सफलं जन्मं गुरवश्च सुपूजिताः ॥३.५.२२॥

अद्य मे सफलं तप्तं स्वर्गश्वै व भविष्यति ।
त्वयि देववरे राम पूजिते पुरुषषर्भ ॥३.५.२३॥

तवोहं चक्षुषा सौम्य पूता सौम्येन मानद ।
गमिष्याम्यक्षया ल्लोकान् त्वत् प्रसादादरिन्दम ॥३.५.२४॥

चतुर्थ श्लोकमारभ्य यावत् स्यात्तु त्रयोदश ।
शवरी रामसंवाद श्लोकाश्चैते मयोदिताः ॥३.५.२५॥

अन्तराबहवः श्लोकाः सन्तितान्नाधुना वयम् ।
भोः पुत्र त्वां वदिष्यामः शेषं यत्तदवदाम्यहम् ॥३.५.२६॥

कर्णयैकाग्र मनसा सर्वलोकमलापहम् ।
द्वात्रिंशश्लोकादारभ्य षट्त्रिंशावधि पुत्रक ॥३.५.२७॥

तपोवलात् शवर्या हि स्वर्गारोहणमुत्तमम् ।
यस्मिन् श्रुते नराणां वै स्वर्गः सुनिकटोभवेत् ॥३.५.२८॥

तामुवाच ततोरामः शवरीं संशितव्रतां ।
अर्च्चितोऽहं त्वयाभद्रे गच्छकामं यथा सुखम् ॥३.५.२९॥

इत्येवमुक्ता जटिला चीरकृष्णा जिनाम्बरा ।
अनुज्ञाता तु रामेणहुत्वात्मानं हुताशने ॥३.५.३०॥

ज्वलत्पावक सङ्काशा स्वर्गमेवजगाम सा ।
दिव्याभरण संयुक्ता दिव्यमाल्यानुलेपना ॥३.५.३१॥

दिव्याम्बर घरातत्र बभूव प्रियदर्शना ।
विराजयन्ती तं देशं विद्युत् सौदामनी यथा ॥३.५.३२॥

यत्रते सुकृतात्मानो विचरन्ति महर्षयः ।
तत् पुण्यं शवरीस्थानं जगामात्म समाधिना ॥३.५.३३॥

ठाकुरस्य मुखात् श्रुत्वा शिष्यो वाकशून्यतां गतः ।
परन्तु कथमेतेषां सरला वृत्ति पर्वकम् ॥३.५.३४॥

श्लोकानामङ्क सङ्ख्याच ठाकुरः संवदत्यहो ।
अत्याश्वर्यमिदं मन्ये न दृष्टं केन कुत्रचित् ॥३.५.३५॥

यथा जलौकासमास्ये क्षारदानेऽभवत्तथा ।
ममास्य तादृशञ्चाद्य नाहं वक्तुं समुत्सहे ॥३.५.३६॥

एवं चिन्तापरीतं तं ठाकुरः पुनरब्रवीत् ।
इयं बेङ्गलभावानां युष्माकमागतेः पुरा ॥३.५.३७॥

स्थानेऽस्मिन्नागताः सर्वे स्थिताश्च बहुपण्डिताः ।
तेषामास्यान्मयायत्तद्वेद वेदान्त संहिता ॥३.५.३८॥

रामायण भागवत धर्मशास्त्रादिकं श्रुतम् ।
तत्सर्वमङ्कितचासीन्मम चित्तपटेध्रुवम् ॥३.५.३८॥

ततः पुनरिदं वाक्यमुवाच ठाकुरस्तदा ।
वेद पुराण शास्त्रानि शृणुयात् कर्णवर्त्मना ॥३.५.४०॥

परन्तु तन्त्रोक्तदिशा साधयेत् साधकोत्तमः ।
प्रायेणास्मिन् कलियुगे सर्वे देवाः सवासवाः ॥३.५.४१॥

निद्रिता ह भवन् किन्तु द्वावेतौ जाग्रतः सदा ।
जगदम्बा सम माता काली कैवल्यदायिनी ॥३.५.४२॥

श्रीरामकृष्णो भगवानिति मे निश्चितं मतम् ।
साधकाः समनुध्यानात् पश्येयुर्नात्र संशयः ॥३.५.४३॥

पुनरप्येवमुक्तोऽहं ठाकुरेण महात्मना ।
पितुः करं प्रगृह्यैव बालको यदि गच्छति ॥३.५.४४॥

न तस्य पतनाद्भीतिरस्ति तेन स रक्षितः ।
दृष्ट्वैवं श्रीठाकुरस्य साक्षात् श्रुतिधरस्य च ॥३.५.४५॥

अलौकिकीं महाशक्तिं शिष्यो विस्मयमाप्तवान् ।
एतेनास्य ठाकुरस्य शास्त्रज्ञानं कीदृग्विधम् ॥३.५.४६॥

ये जानन्ति ठाकुरस्य ज्ञानविज्ञानवैभवम् ।
तैरेव तस्य भक्तैर्हि सहजेनानुमीयते ॥३.५.४७॥

साक्षाद्भगवतो यस्य शौचाशौचातिगा स्थितिः ।
आचार पालनन्तस्य लोकशिक्षण हेतवे ॥३.५.४८॥

शौचात् पर ठाकुरस्तु युवकं कश्चिदब्रवीत् ।
अधुना जलमानीय मत् पादक्षालनं कुरु ॥३.५.४९॥

तेनाप्युक्तं कथञ्च तत् शुद्दस्य नास्ति शोधनम् ।
श्रुत्वैवन्तद् युवकस्य भाषणं हास्यपूर्वम् ॥३.५.५०॥

उवाच यद्यहं घृष्ट मूत्रयामि समुत्थितः ।
तर्हि भो श्यालका यूयं मूत्रयन्ति प्रदक्षिणं ॥३.५.५१॥

यतो वो मङ्गलार्थं मे आचार प्रतिपालनम् ।
नह्याचार विहीनस्य सुखमत्र परत्र च ॥३.५.५२॥

अथान्यस्मिन्दिने भक्तो बलराम वसुः शुचिः ।
शौचशेषे सदाचारी देहाशुद्धिं प्रकल्पयन् ॥३.५.५३॥

दूरे दण्डायमानन्तं दृष्टान्तर्यामी ठाकुरः ।
तत्करं स्वकरेणैव विधृत्य सहसा प्रभुः ॥३.५.५४॥

समानीय स्व सान्निध्यमुवाच त्वं सदा शुचिः ।
ये काम्य कर्मिणा लोकाः संसार वशवर्त्तिनः ॥३.५.५५॥

तेषामेवसदाचार पालनं शास्त्रसम्मतम् ।
सत्सङ्गेन विशुद्धा ये भगवन्तं समाश्रिताः ॥३.५.५६॥

तेषां शुद्ध शरीराणां शौचाशौचेन तिष्ठतः ।
भगच्छरणाच्छुद्धिः सर्वास्थासु सर्वदा ॥३.५.५७॥

श्रीकृष्ण स्वयमेवाह भक्तप्रवरमुद्धवम् ।
शुकदेवास्य गलित श्रीमद्भागवतान्तरे ॥३.५.५८॥

ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वा नपेक्ष कः ।
सलिङ्गानाश्रमांस्त्याक्त्वाचरेदविधि गोचरः ॥३.५.५९॥

तावत् कर्माणि कुर्वीत न निविदेत यावता ।
मत् कथा श्रवनादौ वा श्रद्धा यावन्न जायते ॥३.५.६०॥

अतोऽठाकुरेणैवं कृतः सिद्धान्त उत्तमः ।
अधिकारि विभेदेन शस्त्राचारः प्रदर्शितः ॥३.५.६१॥

युवकस्य सदाचारं समान्ये नोक्तवान् प्रभुः ।
बलराम सदाचारी विशेषेण प्रदर्शितः ॥३.५.६२॥

इति श्रीरामेन्द्रसुन्दर भक्तितीर्थ विरचते श्रीश्रीरामकृष्णभागवते पारमहंस्यां संहितायां भगवतः श्रीरामकृष्ण देवपत्नी सारदाया स्वतत्व विज्ञानं पण्डितवर्याणां कृतार्थी करणं श्रुतिधरत्वादि विज्ञापनं शौचाशौच स्वरूप कथनादिरूपोऽन्त्यलीलायाः पञ्चमोऽध्यायः ॥५॥